०१ लक्षणलक्षणप्रयोजने

लक्ष्यमात्रव्यापको धर्मो लक्षणम्

लक्षणलक्षणप्रयोजने

प्रमाणलक्षणटीका

लक्ष्यमात्रव्यापको धर्मो लक्षणम् । तदुक्तिः शब्दव्यवहारार्था । सास्न्नादिमान् गौर् इति ज्ञातलक्षणो हि यं पिण्डं सास्नादिमन्तं पश्यति तं गोशब्दवाच्यं प्रत्येति । यदा तु अयं गौरित्युपदेशादिना व्युत्पत्तिस् तदापि व्यक्तिविशेष एव न सर्वत्र । तत्रोपदेशाद्यभावात् । अतस्तत्र व्यक्तिविशेषे व्युत्पन्नस् तदन्यत्रापि व्युत्पित्सुस् तद्धर्मेषु व्यवहारानालोच्य, व्यभि-चारिणोऽव्यापकांश्च परिहृत्य, लक्षणभूतमेकं गृहीत्वा, तद्वत्सु गोशब्दसम्बन्धं गृह्णाति । प्राचीनपक्षे केवल व्यतिरेकिणा, अत्र अन्वयव्यतिरेकिणेति विशेषः ।

प्रमाणलक्षणटीकाभावदीपः

कण्ठोक्तलक्षणस्य उपसर्गसंगृहीतोद्देशादेश्च स्वरूपाणि कृत्यानि चाह ॥ लक्ष्यमात्रेत्यादिना तत्सौष्ठवसिद्ध्यर्थेत्यन्तेन ॥ यावति एकः शब्दो व्युत्पादनीयस् तल्लक्ष्यम् इति लक्ष्यस्वरूपमग्रे लक्षणोक्तिकृत्यव्युत्पादनेन सुज्ञानमिति भावः । व्यापको व्याप्त्या वर्तमान इत्यर्थः । वर्तमान इत्यनेनासम्भवस्य व्याप्त्येत्यनेनाव्याप्तेर् मात्रेत्यनेनालक्ष्यवृत्तिव्यावत्त्यातिव्याप्तेश्च निरासः ।

॥ शब्दव्यवहारेति ॥ व्यवह्नियते अनेन इति व्युत्पत्त्या व्यवहारशब्दोत्राभि-लपनरूपव्यवहारहेतुभूतवाच्यवाचकसम्बन्ध-ज्ञानरूपव्युत्पत्तिपरः ।

व्यवहारार्थेत्युक्तं व्यनक्ति ॥ सास्नादिमानिति ॥ प्रत्येतीति ॥ अयं पिण्डः गोशब्दवाच्यः सास्नादिमत्वाद् य एवं न , स एवं न यथाश्वादिरिति व्यतिरेक्यनुमानेन जानातीत्यर्थः । व्युत्पत्तौ पक्षान्तरमाह ॥ यदेति ॥ आदिपदेन वृद्धव्यवहारग्रहः । व्युत्पत्तिरिति वाच्यवाचकसम्बन्धज्ञानम्

॥ तत्रेति ॥ अनुपदिष्टव्यक्तिविशेषइत्यर्थः ॥ व्युत्पन्न इति ॥ ज्ञातसंकेत इत्यर्थः । व्युित्पत्सुर् वाच्यवाचकसम्बन्धज्ञानेच्छुः । तद्धर्मेषु गोधर्मेषु । व्यभिचारिणः गोव्यवहारानिमित्तभूतान् । अव्यापकान् सार्वत्रिकगोव्यवहाराहेतुभूतान् । परिहृत्येत्यन्वयः । तत्र हेतुर् व्यवहारानालोच्येति । सास्नादिमत्स्वेव वृद्धैः क्रियमाणगोशब्दव्यवहारान् पशुत्वादिमत्सु अक्रियमाणानित्यर्थः । लक्षणभूतं गोमात्रव्यापकभूतम् ।

॥ एकमिति ॥ धर्ममित्यनुषङ्गः । सम्बन्धं वाच्यत्वरूपम् । अयं पिण्डः गोपदवाच्यः सास्नादिमत्वात् प्रागुपदेशेन ज्ञातगोपिण्डवद् यन्नैवं तन्नैवं यथाश्वादिकमित्यन्वयव्यतिरेकिणा जानातीत्यर्थः । को भेदः पक्षयोरित्यत आह ॥ प्राचीनेति ॥ लक्षणज्ञानाधीनसङ्केतग्रहपक्ष इत्यर्थः ॥ अत्रेति ॥ क्वचिदुपदेशाद्यधीनसङ्केतग्रहपक्ष इत्यर्थः ।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

लक्षणस्वरूपाज्ञाने प्रमाणलक्षणस्य ज्ञातुमशक्यत्वाद् लक्षणस्य लक्षणमाह ॥ लक्ष्यमात्रेति ॥ स्वेन लक्षयितुं योग्यं लक्ष्यं तन्मात्रेत्यर्थः । स्वशब्देन सास्नादिमत्वं ग्राह्यम् । मात्रशब्दोऽवधारणे लक्ष्य एव न त्वलक्ष्य इति । तथाच लक्ष्येतरावृत्तित्वे सति लक्ष्ये व्याप्त्या वर्तमानत्वं लक्षणस्य लक्षणमित्यर्थः ।

अत्र लक्ष्यशब्देन स्वाधारो ग्राह्यः । तथाच सास्नादिमत्वरूपलक्षणे कथमिदं लक्षणमस्ति सास्नादिमत्वरूपलक्षण स्यैवात्र लक्ष्यत्वेन गवादिकस्यालक्ष्यत्वात् तदादाय लक्षणायोगाद् इति चोद्यानवकाशः । स्वाधारेतरावृत्तित्वे सति स्वाधार एव व्याप्त्या वर्तमानत्वस्य सास्नादिमत्वरूपलक्षणे सत्त्वाद् इति ध्येयम् ।

असम्भविनि एकशफत्वादौ अतिव्याप्तिपरिहाराय लक्ष्ये वर्तमानत्वम् इत्युक्तम्। शबलत्वाद्यव्यापकव्यावृत्यर्थं व्याप्त्येति । पशुत्वाद्यतिव्याप्तिव्यावृत्तये सत्यन्तमिति बोध्यम् । ननु लक्षणोक्तिर्व्यर्था प्रयोजनाभावाद् इत्यत आह ॥ तदुक्तिरिति ॥ शब्दव्यवहारार्थेति । व्यवह्रियतेऽनेनेति व्यवहारो वाच्यत्वज्ञानं व्युत्पत्तिरिति यावत् । स एवार्थः प्रयोजनं यस्याः सा तथोक्ता । एतच्च साक्षात्फलमित्यवगन्तव्यं, परम्पराफलं तु मोक्ष इत्युक्तत्वात् ।

तदेवोपपादयति ॥ सास्नादिमानित्यादिना ॥ प्रत्येति अनुमिनोति । व्युत्पत्तिर् वाच्यवाचकभावसम्बन्धज्ञानम् । ननु अयं गोशब्दवाच्य इत्याप्तवाक्येनापि व्युत्पत्तेः सम्भवात् कथं तस्या लक्षणफलत्वम् ? इत्यत आह ॥ यदा त्विति ॥ आदिपदेन प्रयोज्यप्रयोजकवृद्धव्यवहाररूपप्रमाणसङ्ग्रहः । व्यक्तिविशेष एव व्युत्पत्तिरिति वर्तते । सर्वत्र समुदाये । तद्धर्मेषु गोधर्मभूतेषु पशुत्वशबलत्व-सास्नादिमत्त्वेषु । व्यवहारान् लोकैः क्रियमाणान् । व्यभिचारिणो ऽतिव्यापकान्। तद्वत्सु लक्षणभूतैकधर्मवत्सु । गोशब्दसम्बन्धं गोशब्दवाच्यत्वम् । गृह्णाति अनुमिनोति ।

ननु पक्षद्वयस्यापि को भेदः ? इत्यत आह ॥ प्राचीनपक्ष इति ॥ यदा स्वयमेव सास्नादिमत्त्वरूपलक्षणं ज्ञात्वा तद्वत्सु गोशब्दव्युत्पत्तिस् तदा विमताः सर्वे गोशब्दवाच्याः सास्नादिमत्वाद् व्यतिरेकेण घटवद् इति केवलव्यतिरेक्यनुमानेन भवति । दृष्टान्ताभावेनान्वयव्याप्त्ययोगात् । यदा तु आप्तोपदेशोन एकत्र व्युत्पन्नः पश्चाल्लक्षणादिना सर्वत्र व्युत्पत्तिमेति तदा उक्तानुमाने आप्तोपदिष्टगोव्यक्तेरेव अन्वयदृष्टान्तत्वोपपत्तेर् व्यतिरेकस्यापि सम्भवेन अन्वयव्यतिरेक्यनुमानेनेति पक्षद्वयस्यापि भेद इत्यर्थः ।

प्रमाणलक्षणटीकाविवरणं

लक्षणस्वरूपाज्ञाने प्रमाणलक्षणस्य ज्ञातुमशक्यत्वाल्लक्षणमाह ॥ लक्ष्यमात्रेति ॥ लक्ष्यमात्रव्यापकत्वं नाम लक्ष्येतरावृत्तित्वे सति लक्षे व्याप्य वृत्तित्वमित्यर्थः । तत्र चासम्भवपरिहाराय लक्ष्यवृत्तीति ॥ अव्यापकव्यावृत्त्ये व्याप्त्येति ॥ अतिव्यापकव्यावृत्तये लक्ष्येतरावृत्तित्वे सतीत्यादि ।

ननु व्यापकपदकृत्यं यदि नास्ति तर्ह्यत्र व्यापकपदं न कर्तव्यम् । यद्यस्ति तर्हि अन्यत्रापि लक्ष्यासाधारणधर्मो लक्षणमित्यादावपि तत्कर्तव्यत्वप्रसङ्ग इति चेन्न। लिलक्षयिषितव्यापकमात्रस्यैव लक्ष्यव्यापकत्वशब्दार्थतया विवक्षितत्वेन तस्य च लक्ष्यासाधारणधर्म इत्यनेनापि लाभेन अविरोधादिति भावः ।

ननु लक्षणोक्तिर् व्यर्था प्रयोजनाभावादित्यत आह ॥ तदुक्तिरिति ॥ लक्षणस्य यथायथं प्रत्यक्षानुमानागमवेद्यत्वेन तज्ज्ञानस्य लक्ष्यणोक्त्यसाध्यत्वेन तज्ज्ञानार्थत्वासम्भवात् । नचास्येदं लक्षणमिति ज्ञानार्थं लक्षणोक्तिः । तादृशज्ञानं प्रत्यक्षादिना सम्भवतीति वाच्यम् । तस्य ज्ञानस्य निष्प्रयोजनतया तदुक्तेर्वैय्यर्थ्याद् इत्यत आह ॥ तदुक्तिरिति ॥ शब्दव्यवहारः । शब्दव्युत्पत्तिः । न तु व्यवहारमात्रम्। तथासति गोशब्दवाच्यं प्रत्येतीत्युत्तरग्रंथविरोधात् । अत एव तथैवोपपादयति ॥ सास्नादीति ॥ ज्ञातलक्षणो हि ज्ञातैतल्लक्षणवाक्यार्थ इत्यर्थः ।

ननु न लक्षणज्ञानस्य व्यवहारफलकत्वं संभवति ॥ इयं गैरित्याद्युपदेशादिनापि व्यवहारसंभवादित्यत आह ॥ यदा त्विति ॥

नन्विदं पक्षद्वयमयुक्तम् । भेदाभावादित्यत आह ॥ प्राचीनेति ॥ यदा स्वयमेव सास्नादिमत्वादिलक्षणं ज्ञात्वा तद्वत्सु गोशब्दव्युत्पत्तिः । तदा विमता गोशब्दवाच्याः सास्नादिमत्वादित्यत्र साध्यनिश्चयस्य कुत्राप्यभावेन दृष्टान्ताभावेन या गौरिति न व्यवह्रीयते न सा सास्नादिमान् यथा घट इति व्यतिरेकिणा अनुमानेन पूर्वं व्युत्पत्तिः । यदा चोपदेशादिना एकत्र व्युत्पन्नः पश्चाल्लक्षणादिना सर्वत्र व्युत्पत्ति मेति तदा उपदिष्टगोव्यक्तेरेव अन्वयदृष्टान्तत्वसम्भवेन व्यतिरेकस्य च सम्भवेन अन्वयव्यतिरेकिणा सर्वस्यापि गोशब्दवाच्यताज्ञानमिति पक्षद्वयस्य भेद इति भावः।