०२ नारायणस्यैव नम्यत्वोपपादनम्

नारायणस्यैव नमस्कारे को हेतुरित्यत उक्तम् ॥ अशेष-गुरुमिति

नारायणस्यैव नम्यत्वोपपादनम्

प्रमाणलक्षणटीका

नारायणस्यैव नमस्कारे को हेतुरित्यत उक्तम् ॥ अशेष-गुरुमिति ॥ सर्वज्ञं गुरुमिति पाठे सार्वज्ञ्यं गुरूत्वस्योपपादकम्। किं च नारायणस्यैव अतिसमर्थत्वेनेष्टप्रदानसम्भवात् तन्नतिरिति भावेनोक्तम् ॥ ईशेशमिति ॥ अपि च रागादिदोष रहिता हि लोके वन्द्या भवन्ति । नारायणश्चाशेषदोषदूर इति सूचयितुम् अनामयमिति । आमयपदं दोषान्तरोपलक्षणम् । प्रवक्ष्यामीति उद्देशविभागपरीक्षाद्युपयोगिसंग्रहायोपसर्गः । न हि तद्विना प्रकृष्टा लक्षणोक्तिः स्यात् ।

श्रीराघवेन्द्रतीर्थयतिकृतः

प्रमाणलक्षणटीकाभावदीपः ।

कल्याणगुणपूर्णाय दोषदूराय विष्णवे ।

नमः श्रीप्राणनाथाय भक्ताभीष्टप्रदायिने ॥ १ ॥

प्रणम्य श्रीमदानन्दतीर्थादिगुरुशेखरान् ।

व्यारव्यास्यामि यथाबोधं मानलक्षणपञ्चिकाम् ॥ २ ॥

ग्रन्थादौ मङ्गलमाचरंश्चिकीर्षितं श्रोतुर्मनःसमाधानाय प्रतिजानीते ॥ प्रणम्येति ॥ मूले अनामयपदोक्तनिर्दोषत्वमुपलक्षणमिति भावेनोक्तमगण्येत्यादि। श्रुत्यादिषु सत्त्वादौ मतान्तरे दुःखादौ च गुणत्वस्य प्रसिद्धेस् तद्व्युदासाय कल्याणेत्युक्तिः । तथा च गणयितुमशक्यानां कल्याणानां ज्ञानानन्दबलैश्वर्यादिभावधर्माणाम् अज्ञानदुःखाल्पशक्तिपारतन्त्र्याद्यभावरूपाभावधर्माणां चाब्धिरिव अब्धिराश्रय इत्यर्थः । एतद्घटनायोक्तम् ॥ पुरुषोत्तममिति ॥ क्षराक्षरशब्दितश्रीब्रह्मादिसर्व-चेतनरूपपुरुषोत्तमस्य तेष्वदृष्टमप्येतद् घटत एवेति भावः । गुरून् पूर्णबोधानपीति सामानाधिकरण्येन वा पूर्णबोधान् तदितरगुरूनपीति वैयधिकरण्येन वा योजना । व्याकुर्व इत्यात्मनेपदप्रयोगेण ग्रन्थकर्तुः प्रीतेरात्मगामित्वं सूचयति । ‘स्वरितञितः कर्त्रभिप्राये क्रियाफले’ इति स्मरणात् ।

प्रकरणस्य परम्परया मोक्षप्रयोजनकत्वम् आदौ प्रणामप्रतिज्ञाकरणयोः साफल्यं चोपपादयन्नवतारयति ॥ इहेत्यादिना ॥ इह लोके इत्यर्थः । निखिलापे-क्षितेत्यनेनान्वयः । सर्वानुभवसिद्धिद्योतकः खलुशब्दः । इह एतत्प्रकरण इति वार्थः । तथात्वे तत्स्वरूपं यथावद्दर्शयितुकाम इत्यनेनान्वयः । वाद्यन्तरोक्तमोक्षस्यहेयतया तत्साधनोपादित्सासम्भवात् तद्धटनायोक्तं सुखमेवेत्यादि । मनागितीषदर्थेऽव्ययम्।

॥ यथावद् विदितानामेवेति ॥ वाद्यन्तररीत्या अनुमानाद्यप्रामाण्यबुद्धौ श्रवण-मननादेरयोगादिति भावः । नतेरावश्यकत्वे प्रयोजनेत्यन्तेन फलोक्तिः प्राप्तेत्यन्तेन प्रमाणोक्तिः । परिसमाप्त्यादीत्यादिपदेन प्रचयपरिग्रहः । श्रोतृबुद्धेरा-नुकूल्याचरणं नाम, किं वा वक्ष्यति? इत्यव्याकुलतैव । मनःसमाधानमिति यावत् ॥ परीक्षाद्युप-योगीति ॥ परीक्षादिरूपं यद् लक्षणोक्तेरुपयोगि तस्य सङ्ग्रहायेत्यर्थः । आदिपदेन विशेषोद्देशविशेषलक्षणसङ्ग्रहः ॥

श्रीनिवासतीर्थकृता

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

व्यासं सर्वगुणावासं वासवीनन्दनं प्रभुम् ।

गुर्वाराधितपादाब्जं वन्देऽहं मध्ववल्लभम् ॥ १ ॥

श्रीमदानन्दतीर्थार्यचरणावाश्रयेऽनिशम् ।

रुद्रादिसर्वविबुधैः संसेव्याविष्टदौ सताम् ॥ २ ॥

श्रीमदानन्दतीर्थीयशास्त्रदुग्धाब्धिमन्थनात् ।

प्राप्ता ज्ञानसुधा येन तं जयेन्द्रमहं भजे ॥ ३ ॥

यैरहं शुकवत् सम्यक् शिक्षितोऽस्मि दयालुभिः ।

तान्वन्दे यादवाचार्यान् वेदेशमुनिसेवकान् ॥ ४ ॥

अथैतत्कृपया श्रीनिवासाख्यायुतसूरिणा ।

व्याख्यायते बुद्धिशुद्ध्यै मानलक्षणपञ्चिका ॥ ५ ॥

सर्वज्ञकल्पाष्टीकाकारा जयतीर्थश्रीमच्चरणाः श्रीमदाचार्यकृतप्रमाण-लक्षणाख्यग्रन्थस्य टीकां कर्तुकामाः स्वचिकीर्षितस्य ग्रन्थस्य निर्विघे्नन परिसमाप्त्यर्थं स्वेष्टदेवतादिनतिपूर्वकं स्वचिकीर्षितं प्रतिज्ञानते ॥ प्रणम्येति ॥ अत्र परुषोत्तममिति पदं योगरूढं सद् विशेषवाच्यपि भवतीति द्रष्टव्यम् । नमनस्य भक्तिश्रद्धाद्यतिशय-पूर्वकत्वद्योतनाय प्रशब्दः । अन्यत्रादृष्टं क्षराक्षरपुरुषाभ्यामुत्तमत्वं परमा-त्मनोऽसम्भावितम् इत्याशङ्कापरिहाराय तस्य सम्भावकमाह ॥ अगण्येति ॥

यद्वा, ननु सतीष्वन्यासु देवतासु अस्यैव नम्यत्वे को हेतुः? इत्याशङ्कापरिहाराय क्षराक्षरातीतत्वार्थकेन परुषोत्तममित्यनेनैव नम्यत्वप्रयोजकं विशिष्टत्वमभिधाय तदुपपादनमनेन क्रियते । अगण्या गणनां कर्तुमशक्याः कल्याणा मङ्गलरूपा ये आनन्दाद्या गुणास् तैरब्धिरिव तम् । तार्किकमते दुःखादीनामपि गुणत्वेन व्यवहारात् तत्प्रसक्तिपरिहाराय गुणानां कल्याणत्वविशेषणमुक्तम् । तदीयाष्टगुणत्वादि-प्रक्रियानिराकरणाय अगण्येत्युक्तमिति द्रष्टव्यम् । तथा च युक्तमितरपरित्यागेनास्यैव नम्यत्वमिति भावः ।

देवतानतिसमनन्तरं व्याचिख्यासितमूलकर्तृत्वेनोपाधिना श्रीमदाचार्यान् नमति ॥ पूर्णबोधानिति ॥ ‘यथा देवे तथा गुरौ’ इति वचनेन गुरुप्रणामस्य अप्यभिमतसिद्ध्यङ्गतया कार्यारभ्भेवश्यमनुष्ठेयत्वावगमादाह ॥ गुरूनिति ॥ परमगुरवः पद्मनाभतीर्थश्रीमच्चरणा विद्यागुरवो ऽक्षोभ्यतीर्थश्रीमच्चरणाश्च गुरुशब्देन सङ्गृहीता इति द्रष्टव्यम् । प्रणम्येति सम्बन्धः । मानलक्षणं तदाख्यं प्रकरणम् ।

नन्विदं प्रकरणमनारम्भणीयं विषयाद्यनुबन्धचतुष्टयशून्यत्वात् । अस्तु वाऽऽरम्भणीयत्वं, तथापि आद्यपद्ये अशेषगुरुमीशेशं नारायणमनामयम् । सम्प्रणम्य इत्यंशो व्यर्थः । न च ईश्वरनमनरूपमङ्गलकरणार्थत्वेन सार्थक इति वाच्यं फलप्रमा-णयोरभावेन तस्याकर्तव्यत्वात् । अस्तु वा कर्तव्यत्वं , तथापि प्रवक्ष्यामि प्रमाणानां स्वलक्षणम् इत्यंशो व्यर्थः ।

न च प्रमाणलक्षणकथनप्रतिज्ञाकरणार्थत्वेन सार्थक इति वाच्यं प्रयोजना-भावेन तस्याकर्तव्यत्वाद् इति शङ्कात्रयं परिहरन् आद्यपद्यमवतारयति ॥ इहेत्यादिना ॥ इह अधिकार्यनधिकारिवर्ग इत्यर्थः । इह जगति इत्यन्ये । खलु इति वाक्यालङ्कारे । अधिकारिणं प्रतीति शेषः । तत्स्वरूपं यथावज् ज्ञापयितुकाम इति सम्बन्धः ।

अत्र सुखमेवेत्यारभ्य भगवानाचार्य इत्यन्तेन प्रथमशङ्कापरिहारः । ननु मोक्षस्य कथं निखिलापेक्षितत्वं ? तत्तद्वादिभिरुत्प्रेक्षितस्य अशेषविशेषगुणोच्छेदात्महानि-स्ततोर्ध्वगत्यादिरूपस्य मोक्षस्य तदयोगात् । इत्यतः स्वमते मोक्षस्वरूपनिरूपण-व्याजेन तस्य निखिलापेक्षितत्वोपपादनायोक्तम् ॥ सुखमेवेत्यादि ॥ सदा इति शेषः ।

एवकारव्यावर्त्यं दर्शयति ॥ दुःखमिति ॥ मनागपि ईषदपि कदाचिदपि इति वा ।‘मनागीषत् कदापि च’ इत्यभिधानात् । इति इत्येवम् । तथा च आत्यन्तिका-निष्टनिवृत्तीष्टप्राप्तिरूपत्वान्मोक्षस्य युक्तं निखिलापेक्षितत्वमिति भावः ।

॥ तस्य चेति ॥ ईश्वरसाक्षात्कारस्य चेत्यर्थः ॥ यथावद् विदितानामेवेति ॥ आभासविविक्तत्वेन ज्ञातानामेवेत्यर्थः ॥ तद्धेतुत्वोपपत्तेरिति ॥ ईश्वरसाक्षात्कार-हेतुत्वोपपत्तेरित्यर्थः । तत्खरूपं तेषां प्रमाणानां स्वरूपम् । यथावद् आभास-विविक्तत्वेन । अत्र प्रमाणानाम् ईश्वरसाक्षात्कारहेतुत्वं न साक्षात् । किं तु नित्यानित्य-वस्तुविवेकवैराग्यादिद्वारेणैव । अन्यथा अनुमानागमयोः प्रत्यक्षलक्षणाक्रान्तत्वेन प्रत्यक्षत्वापत्तेर् इति मन्तव्यम् । यथोक्तं पद्धत्यन्ते ‘तदेवम्भूतैः प्रमाणैः पदार्थानां नित्यानित्यत्वादिकं निश्चित्य विषयेषु विरक्तस्य, शमदमादिसम्पत्तिमतो वासुदेवैकशरणस्य तद्विषयाणि श्रवणमनननिदिध्यासनान्यादरनैरन्तर्याभ्यां बहुकालमनुष्ठितवतो भगवत्साक्षात्कारे सति’ इति ।

ननु प्रमाणेष्वनुमानागमयोरेव ज्ञातकरणत्वात् प्रत्यक्षस्यचाज्ञातस्यैव करणत्वात् ‘यथावद् विदितानां’ इति कथं बहुवचनमिति चेन्न । ज्ञातकरणा-नुमानागमसाहचर्यात्छत्रिन्यायेन प्रत्यक्षस्यापि तथात्वोक्तिरौपचारिकी इति वा ‘अन्तेषु रेमिरे धीरा न ते मध्येषु रेमिरे’ इतिवद् अनुमानागमव्यक्तिभेदाद् वा बहुवचनोपपत्तिरित्यवधेयम् । लौकिकसाक्षात्कारे प्रत्यक्षस्याज्ञातकरणत्वेपि ईश्वरसाक्षात्कारे ज्ञातस्यैव तस्य करणत्वमित्याशयेनेदमुक्तमित्यप्याहुः ।

तथा च ईश्वरस्य मुख्यविषयत्वात् तदवगतिसाधनानां प्रमाणानाममुख्य-विषयत्वात् , तदुभयज्ञानस्यावान्तर प्रयोजनत्वान् मोक्षस्य च परमप्रयोजनत्वात्, यथायोग्यं सम्बन्धसद्भावान् निरुक्तमोक्षेच्छोरधिकारित्वाद् इदं प्रकरणमारम्भणीय-मेवेति भावः ।

प्रारिप्सितेत्यादिना द्वितीयशङ्कापरिहारः । आदिपदेन प्रचयसंग्रहः । द्वितीया-दिपदेनागमो ग्राह्यः । देवतावन्दनं खलु भक्त्याद्युपेतमेव सफलम् । तच्च इष्टायामेव देवतायामुपपद्यत इत्यभिप्रेत्योक्तम् ॥ इष्टेति ॥ परिसमाप्त्यादिप्रयोजना च सा इष्टदेवतानतिश्व इति विग्रहः ।

श्रोत्रित्यादिना तृतीयशङ्कापरिहारः । श्रोतॄणां शेमुषी बुद्धिस् ताम् अनुकूलयिष्यन् करिष्यमाणग्रन्थार्थविषयिणीं कर्तुमिच्छन् इत्यर्थः । अन्यथा उत्तरत्र किं प्रमेयमुच्यते? इति श्रोतॄणां बुद्धिर्व्याकुला स्याद् इति भावः ॥ वक्ष्यमाणमेवेति ॥ प्रमेयमिति शेषः । अग्रे आद्यपद्ये ॥ अतिसमर्थत्वेनेति ॥ ईशानां समर्थानामपि ईशत्वोक्त्या अतिसमर्थत्वम् उक्तं भवति इति द्रष्टव्यम् । ननु रोगराहित्यवाचिना अनामयपदेन अशेषदोषरहितत्वं कथं सूचितमित्यत आह ॥ आमयपदमिति ॥ एकदेशेन समुदायलक्षणा च ‘दशामात्रं दत्तं’ इत्यादौ दृष्टेति भावः ।

प्रेत्युपसर्गस्य कृत्यमाह ॥ प्रवक्ष्यामीतीति ॥ इत्यत्रेत्यर्थः । आदिपदेन परोक्तप्रमाणलक्षणदूषणसंग्रहः । तस्यापि स्वोक्तलक्षणदार्ढ्यार्थत्वेन लक्षणोप-योगित्वात् । अत एव प्रमासाधनं प्रमाणम् इत्यादिना क्रियमाणं परकीयप्रमाण-लक्षणनिराकरणमपि सङ्गच्छत इत्यवगन्तव्यम् । तथा च उद्देशविभागपरीक्षा एव आदयो यस्य परोक्तलक्षणनिरसनस्य तद् उद्देशविभागपरीक्षादि तच्च तदुपयोगि चेति कर्मधारयः ।

॥ उपयोगीति ॥ लक्षणोपयोगीत्यर्थः । ननु प्रेत्युपसर्गस्य कथम् उद्देशादिरूप लक्षणोपयोगिसंग्राहकत्वं ? तस्य धात्वर्थातिशयमात्रद्योतकत्वेन उद्देशादिरूप-लक्षणोपयोगिवाचकत्वाभावाद् इत्यत आह ॥ न हीति ॥ अनेननायमुपसर्गस्य वाचनिकोर्थः किं तु आर्थिक इत्युक्तं भवति इत्याहुः ।

वस्तुतस्तु ननूद्देशादिकमेव किमर्थं ? येन तत्सङ्ग्राहकतया प्रेत्युपसर्गो व्याख्यायते । तदभावेऽपि प्रकृष्टलक्षणोक्तिसम्भवाद् इत्यत आह ॥ न हीति ॥ तद् विनेति ॥ उद्देशादिकं विना इत्यर्थः ।

श्री पाण्डुरङ्गि केशवाचार्यविरचितम् प्रमाणलक्षणटीकाविवरणम्

प्रमाणलक्षणटीकाविवरणं

श्री गुरुराजो विजयते ।

वेदव्यासं श्रीमदाचार्यवर्यगुरुं जयार्यं व्यासतीर्थाभिधं च ।

विद्याधीशं पदवाक्यप्रमाणज्ञान्युत्तमं सर्वदाऽहं प्रपद्ये ॥ १ ॥

श्रीमदानन्दपदोपपदाचार्यसद्गुणशालिनः ।

सर्वशास्त्रप्रवक्तॄंश्च वन्देऽहं धीविशुद्धये ॥ २ ॥

श्रीनिवासाभिधाचार्यान् सर्वशास्त्रविशारदान् ।

ज्ञानभक्त्यादिसम्पन्नान् सर्वदा प्रणतोऽस्म्यहम् ॥ ३ ॥

विद्याधीशयत्युक्तमार्गेण तदनुग्रहात् ।

यथाबोधं व्याकरिष्ये मानलक्षणपञ्चिकाम् ॥ ४ ॥

मानलक्षणपञ्चिकां व्याचिख्यासुर्जयतीर्थपूज्यचरणः ग्रन्थादौ समुचितेष्ट-देवताप्रणाममाचरन्नेव चिकीर्षितं निर्दिशति ॥ प्रणम्येति ॥ व्याकुर्व इत्युत्तमपुरुष-प्रयोगबलादहमिति लभ्यते ।

ननु मङ्गलादीनीति श्रवणेन मङ्गलस्यावश्यकर्तव्यत्वादाचार्येणात्र तदकरणान् न्यूनत्वमित्यत आह ॥ पुरुषोत्तमं प्रणम्येति ॥ यद्यपि मङ्गलं नानुष्ठेयम्, फलाभावात् । समाप्त्यादेश्च तत्फलत्वे अन्वयव्यतिरेकव्यभिचारः । कृतेेऽपि मङ्गले समाप्त्यादे-रभावात् । अकृतेऽपि तस्मिन् मङ्गले नास्तिकानुष्ठितसमाप्तेरिति ॥ तथाऽपि भक्तिश्रद्धातिशयपूर्वकस्य तस्य समाप्तिफलकत्वं सम्भवत्येव । कादम्बर्यादौ तादृशमङ्गलाभावेनैव समाप्त्यभावोपपत्तेः । नच मत्तनास्तिकानुष्ठितकर्मणि इह जन्मनि मङ्गलाकरणेऽपि जन्मान्तरकृतमङ्गलस्यैव तद्धेतुत्वोपपत्तेरिति भावेन प्रेत्युपसर्गः ।

ननु सतीष्वन्यासु देवतासु पुरुषोत्तमस्यैव नमने को हेतुरित्याशङ्क्याह ॥ अगण्येति ॥ यद्वा पुरुषोत्तममित्यनेन क्षराक्षरपुरुषोत्तमत्वं परमात्मन उक्तम् । तदयुक्तम् । तस्यान्यत्रादृष्टत्वेनासम्भावितत्वादित्यतस्तत्सम्भावकमाह ॥ अगण्येति ॥ यद्यपि सकलगुणपूर्णत्वोक्तौ तार्किकादिभिर्गुणत्वेन गणित-दुःखादिपूर्णत्वमपि शङ्क्येत, तथाऽपि कल्याणगुणपूर्णत्वस्यैवात्रोच्यमानत्वान्न दुःखादिपरिपूर्णत्वम् । तेषां कल्याणत्वाभावादिति ध्येयम् ।

‘‘यस्य देवे’’ इत्यादिश्रुत्या देवतावन्दनवद् गुरुवन्दनस्याभीष्टफलसाधनत्वेन उक्तत्वात् तमपि प्रणमति ॥ गुरूनिति ॥ ‘‘युष्मदि गुरावेकेषाम्’’ इत्युक्तेर् गुरूनिति बहुवचनम् । भावत्वेन गुरुत्वस्य धटादिसाधारण्याद् अस्यापि किं तथा गुरुत्वं नेत्याह ॥ पूर्णेति ॥

शिष्यावधानायाऽचार्यीऽयं प्रमाणानां स्वलक्षणं प्रवक्ष्यामीति प्रतिज्ञानं सार्थकमिति भावेन तद्वाक्यमवतारयति ॥ इहेति ॥ इह जगति ॥ खल्विति वाक्यालङ्कारे । मनाक् ईषत् । कदाचित् ॥ मोक्षस्येति ॥ अशेषानिष्टनिवृत्ति-विशिष्टस्वरूपानन्दाविर्भावलक्षणस्येत्यर्थः । साक्षात्कारस्य मोक्षसाधनत्वं च तत्साधननारायणात्यर्थप्रसादसाधनीभूतभगवद्भक्तिसाधनत्वेन द्रष्टव्यम् ।

॥ तस्य चेति ॥ साक्षात्कारस्येत्यर्थः । प्रमाणानां साक्षात्कारसाधनत्वं च नित्यानित्यवस्तुविवेकादिद्वारेण परम्परयैवाभिप्रेतम् । अत एव ‘‘तदेवम्भूतैः प्रमाणैः पदार्थानां नित्यत्वानित्यत्वादिकं निश्चित्य विषयेषु विरक्तस्य शमदमादिसम्पत्तिमतो वासुदेवैकशरणस्य तद्विषयाणि श्रवणमनननिदिध्यासनान्यादरनैतरन्तर्याभ्यां बहुकालमनुष्ठितवतो भगवत्साक्षात्कारे सति’’ इत्यादिना पद्धत्यन्ते तथैव विभावयत्याचार्यः ।

॥ प्रमाणानां चेति ॥ प्रमाणत्वाभासविविक्तत्वप्राबल्यादिना ज्ञातानामेव नित्यत्वानित्यत्वावधारणहेतुत्वोपपत्तेरित्यर्थः । अत एव यदत्र केषांचिद् अनुमानागमयोरेव ज्ञातकरणत्वात्, प्रत्यक्षस्य चाज्ञातकरणत्वाद् यथावद्विदितयोरेव भगवत्साक्षात्कारहेतुत्वोपपत्तेरिति वक्तव्यम् । बहुवचनं त्वनुपपन्नमित्याशंक्य अनुमानागमयोर्ज्ञातकरणत्वात् तत्सहकृतत्वेन प्रत्यक्षस्याज्ञातकरणत्वेऽपि छत्रिन्यायेन यथावद्विदितानामिति बहुवचनं युक्तमिति ॥

अत्र हि केवलप्रत्यक्षस्येश्चरसाक्षात्कारकारणत्वाभावादागममूलकस्यैव त्ववधारणान् मूलीकृतागमस्यैवेश्चरसाक्षात्कारणत्वान्मूलिनः प्रत्यक्षस्यापि यथावद्भातस्यैवेश्चरापरोक्षकारणत्वमित्यभिप्रेत्यैवमुक्तमिति वा समाधानं तदज्ञानमूलत्वादुपेक्ष्यम् । नहि प्रत्यक्षादीनां यथावद्भातस्यापि साक्षात्कार-साधनत्वाभिप्रायमेतद्वचनम् । किंनाम साक्षात्कारार्थं प्रत्यक्षादीनां यथावद्भानमित्येव । अपेक्षाप्रकारस्त्वित्थम् । भगवत्साक्षात्कारो हि तद्विषयकश्रवणाद्यावृत्तिसाध्यः । तद्व्यतिरेकप्रयुक्तव्यतिरेकप्रतियोगित्वात् । श्रवणादेश्च वैराग्याद्यधिकारविरहे अनुदयात्तस्य च नित्यानित्यवस्तुविवेकमन्तराऽसंभवात्तद्विवेकस्य च प्रमाण-साध्यत्वात् प्रमाणत्वाभासविविक्तत्वप्राबल्यादिनाज्ञातानामेवार्थावधारणहेतुत्व-मित्यनेन प्रकारेणेति न कश्चिद्दोषः ।

ननु वक्ष्यमाणार्थप्रदर्शनं न कार्यं, निष्प्रयोजनत्वादित्यत आह ॥ श्रोत्रिति ॥ शेमुषी बुद्धिः । ननु मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि शास्त्राणि प्रथन्ते आयुष्मत्पुरुषकाणि वीरपुरुषकाणि भवन्तीति न्यायेन मङ्गलमवश्यं कर्तव्यम् । आचार्येण तत्कुतो न कृतमित्यत आह ॥ देवतेति ॥ वंदनं खलु भक्त्याद्युपेतमेव सफलम् । तच्चेष्टायामेव देवतायामुपपद्यत इति भावेन ग्रंथारंभकालीनदेवता-वंदनप्रयोजकीभूतस्वाभिलषितफलदानेनेष्टत्वलक्षणं गुणमाह ॥ इष्टेति ॥

ननु देवतावंदनं यथाऽरंभकालीनं तथा ग्रंथप्रतिपाद्याया देवताया एव भवेत्। अधिकृताया एव स्वविषयग्रंथप्रबोधदिसंपादकत्वात् । अत्र नारायणस्य अप्रतिपाद्य-त्वेन कथमधिकृतत्वमिति चेत्, न । प्रमाणादिस्वरूपस्य तदर्थत्वेन प्रतिपाद्यत्वेन मुख्यतः प्रतिपाद्यत्वात् । अत एवास्य नारायणप्रतिपादकत्वेन नारायणलक्षणत्वं स्यात्, न प्रमाणलक्षणत्वमित्यपि निरस्तम् । अमुख्यत्वेन प्रमाणादीनामपि प्रतिपाद्यत्वाङ्गीकारादिति दिक् ।

ननु तथाऽपि मङ्गलं नानुष्ठेयं प्रयोजनाभावादित्यत आह ॥ शिष्टाचारेति ॥ प्रमाणप्राप्तमपि निष्फलत्वेन नानुष्ठेयम् । प्रयोजनाभावे मंदस्यापि प्रवृत्य-स्•भवादित्यत आह ॥ अविघ्नेनेति ॥ आदिशब्देन प्रचयसंग्रहः । स्यादिदं यदि ग्रन्थ एवायमारंभणीयः स्यात् । प्रयोजनाभावेन तस्यैवासम्भवादित्यत आह ॥ तत्स्वरूपमिति ॥ तदपि किमर्थमित्यत आह ॥ यथावदिति ॥ तच्छब्देनात्रेश्चर-साक्षात्कारपरामर्शः ।

नन्वीश्चरसाक्षात्कारस्य प्रमाणादन्येनापि सम्भवात् तदर्थं प्रमाणादीनां यथावत्स्वरूपानिरूपणं व्यर्थमित्यत आह ॥ तस्य चेति ॥ ननु मास्तु ईश्चर-साक्षात्कारोऽपीत्यत आह ॥ निखिलापेक्षितमोक्षस्येति ॥ निखिलापेक्षित-मोक्षस्येत्युक्तमेवोपपादयति ॥ सुखमेवेति ॥

ननु आमयपदस्य रोगवाचकत्वेनानामयपदेन तद्राहित्यमात्रोक्तावपि सर्वदोषदूरत्वं तस्य कथं लभ्यते । तत्प्रतिपादकशब्दाभावादित्यत आह ॥ आमयेति ॥ ननु वक्ष्यामीत्येतावन्मात्रेण प्रतिज्ञायाः संभवात् प्रेत्युपसर्गो व्यर्थ इत्यत आह ॥ प्रवक्ष्यामीति ॥ उद्देशविभागपरीक्षादि च तद् उपयोगी चेति कर्मधारयः ।

ननु उद्देशादिकमेव किमर्थं तदभावेऽपि प्रकृष्टलक्षणोक्तिसंभवादित्यत आह ॥ नहीति ॥ ननु प्रशब्देन लक्षणोक्तौ प्रकर्षमात्रमुच्यते नतूद्देशादिसाहित्यमित्यतो वाऽऽह ॥ नहीति ॥