०६ वादावली समाप्ता

वादावली–जयतीर्थमुनीन्द्रेण बालबोधाय निर्मितम्

वादावली समाप्ता

वादावली–जयतीर्थमुनीन्द्रेण बालबोधाय निर्मितम्

वादावली–जयतीर्थमुनीन्द्रेण बालबोधाय निर्मितम् ।

वाङ्मुखाद्वाङ्मुखं भूयात्प्रीत्यै माधवमध्वयोः ॥छ॥

इति श्रीमज्जयतीर्थमुनिविरचिता वादावली समाप्ता ॥ छ ॥

वादावलीभावदीपिका

एवं समापितग्रन्थो भगवाञ्जयतीर्थमुनिः स्वकृतग्रन्थस्य समूलत्वं दर्शयन् भगवति गुरौ चार्पणं करोति ॥ जयतीर्थेति । वाङ्मुखमुपन्यासः । उपन्यासस्तु वाङ्मुखमित्यभिधानात् । वाङ्मुखात्खण्डनत्रयतत्त्वोद्योतादिभगव-त्पादकृतोपान्यासात् । तत उद्धृत्येति यावत् । बालबोधाय मूलग्रन्थेषु विक्षिप्योक्तानां बोधायासमर्थानां सतां बोधाय विनिर्मितं वाङ्मुखं माधवमध्वयोः पीत्यै भूयादित्यर्थः । अभ्यर्हितत्वान्माधवस्य पूर्वमुक्तिः ॥ छ ॥

सुधीन्द्रगुरुपादानां शिष्येण श्रीशतुष्टये ।

राघवेन्द्रेण यतिना कृतेयं वादावलीभावदीपिका ॥ छ ॥

इति श्रीवादावलीवादावलीभावदीपिका राघवेन्द्रयतिकृता समाप्ता ॥ छ ॥

वादावलीप्रकाशः

वाङ्मुखाद्वागिन्द्रियाधिकरणभूतात् । आस्यादित्यर्थ इति केचित् । वस्तुतस्तु मणिर्मुखं प्रधानं चोत्तमस्य वचो भवेदिति वचनान्मुखशब्द उत्तमवाची । तथा च वाचो वाणीदेव्या मुखादुत्तमात् श्रीमुख्यप्राणात्तदनु-ग्रहादिति यावत् । निर्मितं वाङ्मुखम् । उपन्यासस्तु वाङ्मुखमित्यभिधानात् । उपन्यास इत्यर्थः । हरिमध्वेशप्रीतये भूयादित्यशेषमतिमङ्गलम् ॥ छ ॥

वादावलीप्रकाशोऽयं श्रीनिवासाभिधायुजा ॥

प्रणीतस्तेन मध्वेशः प्रीयतां बादरायणः ॥

॥ इति श्रीवादावलीप्रकाशो यदुपत्याचार्यपूज्यपादाराधकेन

श्रीनिवासेन विरचितः समाप्तः ॥

वादावलीविवरणम्

एवं समापितप्रकरणो जयतीर्थमुनिः स्वग्रन्थप्रचयफलिकां हरिमध्वप्रीतिमाशास्ते ॥ जयतीर्थेति । तदिदं न यादृशतादृशं मन्तव्यं परमाप्ततमेनोक्तत्वादिति भावेनोक्तं जयतीर्थमुनीन्द्रेणेति । यस्तु स्वभावा-नभिज्ञस्तं प्रत्याह ॥ वाङ्मुखादिति । तत्त्वनिर्णयाद्युपन्यासानुसारादित्यर्थः । वाङ्मुखमुपन्यासः । उपन्यासस्तु वाङ्मुखमित्यभिधानात् । मुग्धबोधोऽ-वान्तरप्रयोजनं, प्रीत्याशासनमेव मुख्यप्रयोजनमित्यशेषमतिमङ्गलम् ॥छ॥

जयतीर्थमुनेर्भावः कथितः कृष्णशर्मणा ।

गुरुश्रीतिर्मलाचार्यकरुणाबलतो ह्ययम् ॥

॥ इति श्रीजयतीर्थमुनीन्द्रकृतस्य वाङ्मुखस्य टिप्पणं

श्रीतिर्मलाचार्यसुतकृष्णेन विरचितं समाप्तम् ॥ छ ॥