अत एव विमतानि शरीराणि देवदत्तस्यैव भोगायतनानि..
अनुमानाभाससमानयोगक्षेमतयाऽपहास्यम्
अत एव विमतानि शरीराणि देवदत्तस्यैव भोगायतनानि..
वादावली
अत एव विमतानि शरीराणि देवदत्तस्यैव भोगायतनानि शरीरत्वात्सम्प्रतिपन्नवदित्याद्यनुमानं प्रत्यक्ष-बाधितं परस्परसुखदुःखाद्यनुसन्धानप्रसङ्गपराहतं चेति । विमतानि कलत्राणि देवदत्तस्यैव भोगायतनानि कलत्रत्वा-त्सम्प्रतिपन्नवदित्याद्यनुमानाभाससमानयोगक्षेमतयाऽपहास्यम्
॥ छ ॥
वादावलीभावदीपिका
यदप्यात्मनामभेदे परकीयानुमानमुक्तं तदपि निराह ॥ अत एवेति । उक्तानुमानबाधादेवेत्यर्थः ॥ प्रत्यक्षेति । सर्वशरीराणां तदीय-भोगायतनत्वा भावस्य प्रत्यक्षसिद्धत्वादिति भावः । अपहास्यमपहसितुं योग्यम् । परकीयात्माभेदानुमानमित्यर्थः । तस्माद्भेदादिप्रपञ्चस्य सत्यत्वा-त्सत्याशेषजगज्जन्मादिकर्ताऽनन्तकल्याणगुणो भगवान्नारायण इति सिद्धमिति तादृशगुणविशिष्टाय मुरद्विषे नमनमाद्यपद्ये युक्तमिति भावः ॥ छ ॥
वादावलीविवरणम्
॥ अत एवेति । बाधितत्वादेवेत्यर्थः । एतदेव दर्शयति ॥ प्रत्यक्षेत्यादिना । इत्याद्यनुमानमिति । आदिपदेनेन्द्रियपक्षकमुक्तानुमानं ग्राह्यम् । आदिपदात् त्वज्जननी देवदत्तस्यैव भोगायतनं जननीत्वाद्देवदत्तसुत-जननीवदित्यादि ग्राह्यम् ॥ अपहास्यमिति । अनुमानमिति सम्बन्धः ।
अनुमानाभाससमानयोगक्षेमतयाऽपहास्यम्