०४ भेदमिथ्यात्वानुमानस्य व्यभिचारादिकथनम्

किञ्च भेदत्वहेतोरविद्यानिवृत्तिरूपमोक्षात्मभेदे व्यभिचारश्च

भेदमिथ्यात्वानुमानस्य व्यभिचारादिकथनम्

किञ्च भेदत्वहेतोरविद्यानिवृत्तिरूपमोक्षात्मभेदे व्यभिचारश्च

वादावली

किञ्च भेदत्वहेतोरविद्यानिवृत्तिरूपमोक्षात्मभेदे व्यभिचारश्च । न च तयोर्भेद इति चेत्तर्ह्यात्मनोऽनादि-नित्यतया तदभिन्नमोक्षस्य ज्ञानसाध्याविद्यानिवृत्तिरूपत्वानु-पपत्तिः । अन्यतरचन्द्रस्यैवारोपितत्वेनारोपितानारोपितभेदे व्यभिचारश्च । मुक्तामुक्तभेदेऽनैकान्त्यं च । मुक्तामुक्तयो-र्भेदोऽसिद्ध इति चेन्न । विमतो भिन्नो मुक्तत्वादिति तत्सिद्धेः । शुक्ताविव रजतमाविद्यको भेदो मुक्तेऽप्यङ्गीक्रियत इति चेन्न । मुक्तस्याविद्येति व्याहतेः ।

वादावलीभावदीपिका

एवं भेदो मिथ्या भेदत्वादित्यस्योपजीव्यप्रबलप्रत्यक्षादिप्रमाण विरोधस्य व्यवहारनिर्वाहकत्वादिसमबलप्रमाणविरोधस्य चोक्त्या प्रतिज्ञाविरोधरूपदोष उक्तः । हेतुदोषयोरसिद्ध्यव्याप्त्योर्मध्येऽसिद्धिरूपदोषो भेदत्वहेतुः सत्यश्चेत्परमतेऽसिद्धिरसत्यश्चेदस्मन्मतेऽसिद्धिरित्युक्तप्राय इति व्याप्त्यभावरूपं हेतुदोषं चाह ॥ किञ्चेति । अविद्यानिवृत्तिरूपो यो मोक्ष-स्तस्यात्मनश्च यो भेदस्तत्र भेदत्वमस्ति मिथ्यात्वं नेति व्यभिचारः । मोक्षात्मनोरनिवर्त्यत्वेन तद्भेदस्यापि तथात्वादिति भावः । हेतोरेवाभावान्न व्यभिचार इति शङ्कते ॥ न च तयोर्भेद इति चेदिति । तयोर्मोक्षात्मनोः । भेदो न च नैवेति चेदित्यर्थः ॥ ज्ञानेति । ज्ञानसाध्या याऽविद्या-निवृत्तिस्तद्रूपत्वानुपपत्तिरित्यर्थः ।

ननु मोक्षस्य ज्ञानसाध्याविद्यानिवृत्तिरूपत्वेऽप्यात्मनोऽनादित्वेऽपि ज्ञानोपलक्षितात्मनो ज्ञानसाध्याविद्यानिवृत्तिरूपत्वं युक्तम् । ‘‘निवृत्ति-रात्ममोहस्य ज्ञातत्वेनोपलक्षितः । उपलक्षणहानेऽपि स्यान्मुक्तिः पाचकादिवदि’’त्युक्तेरिति चेन्न । ‘‘वृत्त्योपलक्षितचितः पश्चादिव पुराऽपि च । सद्भावान्मोहकालेऽपि मोहहानिः प्रसज्यत’’ इत्यादिना न्यायामृतेऽस्य निरासात् । स्थलान्तरेऽपि व्यभिचारमाह ॥ अन्यतरेति । एवकारेण भेदस्यारोपितत्वं व्यवच्छिनत्ति । भेदत्वहेतोः स्थलान्तरेऽपि व्यभिचारमाह ॥ मुक्तेति । तत्र हेतुरेव नेति भावेन शङ्कते ॥ मुक्तेति । तत्त्वोद्योते भगवत्पादोक्तानुमानोक्त्या तं भेदं साधयति ॥ विमत इति । भिन्नाभिन्नत्वेन विवादविषयः संसारान्मुक्तः पक्ष इति भावः । तथैवानुक्त्वा विमत इत्येवोक्तौ बीजं तु तत्रैव टीकायां व्यक्तम् । अस्य हेतोर्वक्ष्यमाणदिशा केवलान्वयित्वेन निगडादिरिव यः कश्चन पदार्थो दृष्टान्तः सुलभ इति भावेन तदुक्तमनुमाने सिद्धसाधनमाशङ्क्य निराह ॥ शुक्ताविवेति ।

वादावलीप्रकाशः

व्याप्त्यभावरूपं हेतुदोषं चाह ॥ किञ्चेति । अविद्यानिवृत्तिरूपो यो मोक्षस्तस्यात्मनश्च यो भेदस्तत्र भेदत्वमस्ति मिथ्यात्वं नेति व्यभिचारः । मोक्षात्मनोरनिवर्त्यत्वेन तद्भेदस्यापि तथात्वादिति भावः । हेतोरेवाभावान्न व्यभिचार इति शङ्कते ॥ न च तयोरिति । तयोर्मोक्षात्मनोर्भेदो न च नैवेति चेदित्यर्थः ॥ ज्ञानेति । ज्ञानसाध्या याऽविद्यानिवृत्तिस्तद्रूपत्वानु-पपत्तिरित्यर्थः । न च मोक्षस्य ज्ञानसाध्याविद्यानिवृत्तिरूपत्वेनात्मनोऽ- नादित्वेऽपि ज्ञानोपलक्षितात्मनो ज्ञानसाध्याविद्यानिवृत्तिरूपत्वं युक्तम् ।

निवृत्तिरात्ममोहस्य ज्ञातत्वेनोपलक्षितः ।

उपलक्षणहानेऽपि स्यान्मुक्तिः पाचकादिवत् ॥ इति चेन्न ।

वृत्त्योपलक्षितचितः पश्चादिव पुराऽपि च ।

सद्भावान्मोहकालेऽपि मोहहानिः प्रसज्यते ॥

इत्यादिना न्यायामृतेऽस्य निरासात् । स्थलान्तरेऽपि व्यभिचारमाह ॥ अन्यतरेति । एवकारो भेदस्यारोपितत्वं व्यवच्छिनत्ति । भेदत्वहेतोः स्थलान्तरेऽपि व्यभिचारमाह ॥ मुक्तेति ॥ अविद्येति । अविद्यास्तमयो मोक्ष इत्युक्तत्वेनाविद्यानिवृत्तिरूपो यो मोक्षस्तस्यात्मना ब्रह्मणा यो भेदस्तस्मिन् ज्ञेयत्वादिरूपे धर्मवत्त्वे सत्यपि तत्त्वावेदकप्रमाणवेद्यत्वाभावा-द्व्यभिचार इत्यर्थः । नन्वविद्यानिवृत्तिरूपमोक्षात्मनोर्भेद एव नास्ति । व्यवहारे भाट्टनय इत्यङ्गीकारेणातिरिक्ताभावानङ्गीकारात् । तथा च कुत्र व्यभिचारः स्यादित्या शङ्कते ॥ न चेति । तयोर्भेद न च न हीत्यर्थः ॥ तर्हीति । अविद्यानिवृत्तिरूपमोक्षात्मनोर्भेदाभावे तयोरभेद एव प्राप्तः । तथा चात्मनोऽनादिनित्यत्वेन तदभिन्नस्य मोक्षस्याप्यनादिनित्यत्वप्राप्त्या ज्ञानसाध्याविद्यानिवृत्तित्वानुपपत्तिः । अविद्यानिवृत्तिरूपमोक्षस्य ज्ञानसाध्य-त्वानुपपत्तिरिति यावत् । तथा च तरति शोकमात्मविदिति श्रुतिविरोधः स्यात् । तथात्वे आत्मनोऽपि ज्ञानसाध्यत्वापातात् । एवं तयोर्भेदेऽङ्गीकार्ये सुस्थस्तत्र धर्मित्वहेतोर्व्यभिचार इति भावः । स्थलान्तरे व्यभिचारं चाह ॥ अन्यतरेति । साध्याभावोपपादनायेदमुक्तम् । अन्यतरचन्द्रस्यारोपितत्वेन तद्धर्मिकानारोपितचन्द्रप्रतियोगिकभेदे ज्ञेयत्वरूपधर्मवत्त्वे सत्यपि तस्यारोपिततया मिथ्यात्वेन तत्त्वावेदकप्रमाणवेद्यत्वाभावाद्व्यभिचार इत्यर्थः ।

अस्मद्रीत्याऽयं व्यभिचारो दीयते । अस्माकं मतेऽसतोऽपि ज्ञेयत्वाङ्गीकारान्न हेत्वभावः शङ्कनीयः । केचित्वारोपितप्रतियोगिकेऽ-नारोपिततद्धर्मिके भेदे व्यभिचार इत्याहुः । तत्तुच्छम् । तस्य भेदस्य सत्यत्वेन तत्र साध्यस्यापि सत्त्वेन व्यभिचारदानायोगात् । अन्यतर-चन्द्रभेदस्यारोपितत्वेनेत्यस्य वैय्यर्थ्याच्चेति द्रष्टव्यम् । भेदो मिथ्या भेदत्वादित्यस्य व्यभिचारमप्याह ॥ मुक्तामुक्तभेद इति । तत्र भेदत्वे सत्यपि मिथ्यात्वाभावादिति भावः ॥ असिद्ध इति । तथा च कुत्र व्यभिचारः स्यादिति भावः । मुक्तामुक्तयोर्भेदसाधनाय तत्त्वोद्योतोक्तमनुमानमाह ॥ विमत इति । अत्र विमत इति संसारान्मुक्तो विवक्ष्यते । मुक्तत्वा-दित्यनन्तरं यथा सम्प्रतिपन्न इति शेषः । नन्वद्वैतवादिना मया शुक्तिकायां रजतं यथाऽऽविद्यकमविद्याकल्पितमङ्गीक्रियते । एवं मुक्तेऽपि संसारिभ्य आविद्यको भेदोऽङ्गीक्रियत एव । तथा च विमतो भिन्न इति प्रतिज्ञा सिद्धार्था स्यात् । न च त्वदनिष्टस्य पारमार्थिकभेदस्य भास्करानिष्टस्यानौपाधिकभेदस्य वा साध्यत्वान्न सिद्धसाधनतेति चेन्न । भेदस्य पारमार्थिकत्वानौपाधिक-त्वाभ्यामविशेषितत्वादित्याशङ्कते ॥ शुक्ताविवेति ॥ व्याहतेरिति । निवृत्ताविद्यस्य मुक्तस्य पुनराविद्यकभेदाङ्गीकारे व्याहतिरित्यर्थः ।

वादावलीविवरणम्

भेदो मिथ्या भेदत्वादित्यत्रानैकान्त्यमप्याह ॥ किञ्चेति । आत्माविद्यानिवृत्त्योर्भेदस्यैवाभावात्कथं तत्र व्यभिचार इति शङ्कते ॥ न च तयोर्भेद इति । आत्मैवाज्ञानहानिरिति ब्रह्मसिद्धिकारोक्तेरिति भावः ॥ व्यभिचारश्चेति । भेदत्वहेतोरिति शेषः । इदं च परमतेन । परैः साध्यवैकल्यस्य साधारणानैकान्त्यरूपत्वाङ्गीकारात् । यथाऽऽहुः । ‘‘साधारणो विरुद्धो वा दृष्टान्ते साध्यवर्जित’’ इति । स्वमते तु दृष्टान्ते साध्यवैकल्यमित्यवधेयम् ॥ विमत इति । संसारान्मुक्त इत्यर्थः । तस्य विमतपदेन ग्रहणं त्वप्रसिद्धविशेष्यत्वादिपरिहारार्थमिति तत्त्वोद्योतटीकायां स्पष्टम् । ननु मुक्तामुक्तभेदे मिथ्यात्वरूपसाध्यस्य सत्त्वान्न व्यभिचार इति शङ्कते ॥ शुक्ताविवेति । यद्वा मुक्ते आविद्यकभेदसत्त्वात्सिद्धसाधनमिति शङ्कते ॥ शुक्ताविवेति ।


ननु किं भेदः परमात्मप्रतियोगिकः साध्य उत..

ननु किं भेदः परमात्मप्रतियोगिकः साध्य उत..

वादावली

ननु किं भेदः परमात्मप्रतियोगिकः साध्य उत जीवप्रतियोगिकोऽथवा जडप्रतियोगिक आहोस्वित्सकल-प्रतियोगिकः । नाद्यः । परमात्मनि हेतोरनैकान्त्यात् । संसाराभावलक्षणमुक्तत्वस्य तत्र सम्भवात् । द्वितीयेऽपि सकलजीवप्रतियोगिको वा स्वव्यतिरिक्तजीवप्रतियोगिको वा । नाद्यः । मुक्तस्यापि जीवत्वेनांशे बाधात् । नोत्तरः । मुक्तस्य तद्भेदसिद्ध्या विना तेषामेतद्व्यतिरिक्तत्वासिद्ध्याऽप्रसिद्ध-विशेषणत्वात् । सिद्धौ च सिद्धसाधनत्वात् । सकलजीव-प्रतियोगिकभेदसाधनस्य प्रकृतानुपयुक्तत्वेनार्थान्तरत्वाच्च । अत एव न तृतीयः । नापि चतुर्थः । पूर्ववदंशे बाधादप्रसिद्ध-विशेषणत्वाच्चेति । मैवम् । अविवक्षितप्रतियोगिविशेषस्य भेदस्य साध्यत्वात् । न चैवमर्थान्तरता । मुक्तस्य भेदमात्र-माक्षिपन्तं प्रति तत्साधनस्य सङ्गतत्वात् ।

वादावलीभावदीपिका

साध्यं परिष्कर्तुं विकल्पेनाक्षिपति ॥ नन्विति ॥ सकलेति । जीवजडपरमात्मेत्यर्थः ॥ जीवत्वेनेति । सिद्धान्तिभिर्मुक्तस्यापि जीवभावाङ्गीकारादिति भावः ॥ तद्भेदसिद्ध्येति । स्वव्यतिरिक्तत्वेनाभिमत-जीवप्रतियोगिकभेदसिद्ध्येत्यर्थः ॥ अप्रसिद्धेति । विमतो भिन्न इत्यनुमानात्पूर्वं मुक्ते संसारिभेदस्येव संसारिषु मुक्तभेदस्याप्यसिद्ध्या मुक्तोऽमुक्तभिन्नजीवप्रतियोगिकभेदवानिति विशिष्टसाध्यस्याप्रसिद्धेर्मुक्तपदेन संसारमुक्तस्यैव ग्राह्यत्वादिति भावः ॥ सिद्धौ चेति । संसारिषु मुक्तव्यतिरिक्तत्वज्ञानोपायतया मुक्ते संसारिभेदस्य तदनुमानात्प्रागेव सिद्धौ चेत्यर्थः ॥ सकलेति । स्वातिरिक्तेति विशेषणेऽविशेषणे चोभयथाऽपीति भावः ॥ प्रकृतानुपयुक्तत्वेनेति । यत्किञ्चिदमुक्तभेदसाधनाद्भेद-मिथ्यात्वसाधकभेदत्वहे तोर्व्यभिचारसम्भवेनैवंरूपसाध्यसाधनस्य प्रकृतप्रमेयानुपयुक्तत्वेन प्रकृतानुपयुक्तोक्तिरूपार्थान्तरनिग्रहस्थानदोषादित्यर्थः ॥ अत एवेति । प्रकृतानुपयुक्तत्वेनार्थान्तरत्वादेवेत्यर्थः ॥ पूर्ववदिति । मुक्तांश इत्यर्थः ॥ अप्रसिद्धेति । परमात्मजीवजडप्रतियोगिकभेदस्या-प्रसिद्धेरिति भावः । एतच्चासत्प्रतीतिरेव नेति मते बोध्यम् । अन्यथाऽसत्येव प्रसिद्धिसम्भवात् ॥ न चैवमिति । यत्किञ्चिदमुक्तभेदसाधनमात्रेण प्रकृतोपयोगेऽप्येवं साधन इत्यर्थः ॥ भेदमात्रमिति । यत्किञ्चि-न्निरूपितभेदमपीत्यर्थः । स्वस्मिन्स्वनिरूपितभेदस्य बाधेन स्वातिरिक्त-सर्वप्रतियोगिक एव सिध्यतीति भावः । सङ्गतत्वात्तेनैव व्यभिचारोद्भावन-सम्भवादिति भावः ।

वादावलीविवरणं

ननु संसारविध्वंसाधिकरणत्वं मुक्तत्वं तेन हेत्वभावादेव न परमात्मनि व्यभिचार इत्यत आह ॥ संसाराभावेति । संसारसंसर्गा-भावेत्यर्थः । नन्वेवं निगडमुक्तदृष्टान्तः साधनविकलः । संसारसंसर्गस्यैव तत्र सत्त्वादिति चेत् । तथात्वे घटो दृष्टान्त इति वक्ष्यमाणत्वात् ॥ मुक्तस्यापीति । विमतो मुक्तः सकलजीवप्रतियोगिकभेदवानित्यत्र मुक्तस्यापि सकलजीवप्रविष्टत्वान्मुक्तेऽमुक्तजीवप्रतियोगिकभेदस्याबाधितत्वेऽपि मुक्तप्रतियोगि कभेदस्य बाधितत्वादंशे बाध इत्यर्थः । यद्यपि समानप्रकारकविरहज्ञानस्यैव सिद्धिप्रतिबन्धकतया नांशे बाधस्य प्रतिबन्धकत्वम् । तथाऽपि पक्षतावच्छेदकावच्छिन्ने सर्वत्र जायमानाया अनुमितेस्तदंशे प्रमात्वबाध इत्यत्र तात्पर्यमित्याहुः ।

॥ सिद्धौ चेति । मुक्तस्य स्वव्यतिरिक्तसर्वजीवप्रतियोगिकभेदसिद्धौ चेत्यर्थः ॥ प्रकृतानुपयुक्तत्वेनेति । मुक्तामुक्तभेदस्याप्रकृतत्वादित्यर्थः ॥ अत एवेति । जडप्रतियोगिकभेदस्य प्रकृतानुपयोगित्वेनार्थान्तरत्वादेवेत्यर्थः ॥ पूर्ववदिति । मुक्तस्यापि सकलमध्यप्रविष्टत्वादित्यर्थः ॥ अप्रसिद्ध-विशेषणत्वादिति । सर्वत्रापि स्वभिन्नप्रतियोगिकभेदस्यैव सत्त्वेन सकलप्रतियोगिकभेदाधिकरणाप्रसिद्धेरित्यर्थः । नन्वसति प्रसिद्धमिदं साध्यम् । न च तदपि सकलपदेन गृहीतमिति स्वेतरभेद एव तत्र स्यान्न सकलभेद इति वाच्यम् । सकलपदस्य वस्तुमात्रपरत्वादिति चेत् । सर्वं मिथ्येत्युक्ते ब्रह्मणि प्रमाणबाधः शुक्तिरजतादौ सिद्धार्थता च स्यादित्याद्यर्थवचन-बलेनासतोऽपि सर्वपदपर्यायसकलपदसङ्ग्राह्यत्वात् । एवञ्चासन्न प्रतीयत इति मतेनेदमिति परिहारोऽत्र मनोरम इति ध्येयम् । यद्वा सकलप्रतियोगिको वा स्वव्यतिरिक्तसकलप्रतियोगिको वा । नाद्यः । अंशे बाधात् । नान्त्यः । अप्रसिद्धविशेषणत्वादिति भावः । अत एव पूर्ववदित्युक्तम् ॥ अविवक्षित-प्रतियोगिविशेषस्येति । अत एव विमतो भिन्न इत्येव सामान्योक्तिः । अन्यथाऽस्माद्भिन्नमिति विशेषनिर्देशः स्यादिति भावः । ननु मुक्तस्यामुक्तभेद एव साध्यः । तस्यैव विप्रतिपन्नत्वात् । भेदमात्रसाधने त्वर्थान्तरता । विनिगमनाविरहेण मुक्तामुक्तभेदसिद्धावपि भेदान्तरस्याप्यनुपयुक्तस्य सिद्धेरित्याशङ्क्य निषेधति ॥ न चैवमिति । यद्वा विमतो भिन्न इत्यस्यामुक्तभेदं विना जडादिभेदेनापि पर्यवसानेनार्थान्तरमाशङ्क्य निराकरोति ॥ न चैवमिति ।