०३ भेदमिथ्यात्वानुमानस्य प्रतिज्ञाविरोधः

शरीरत्वहेतुरपि परस्पराननुसंहितभोगायतन-त्वेन विवक्षित इति न तत्रापि दोषः

भेदमिथ्यात्वानुमानस्य प्रतिज्ञाविरोधः

शरीरत्वहेतुरपि परस्पराननुसंहितभोगायतन-त्वेन विवक्षित इति न तत्रापि दोषः

वादावली

शरीरत्वहेतुरपि परस्पराननुसंहितभोगायतन-त्वेन विवक्षित इति न तत्रापि दोषः । नापि दृष्टान्तालाभः । योगिशरीराणां व्यतिरेकदृष्टान्ततासम्भवात् । अत एव न व्यवस्थानिरुक्तिदौर्घट््यम् । सुखदुःखाद्यनुसन्धानभावाभावरूप-व्यवस्थाया अङ्गीकृतत्वात् । अतो भेदत्वहेतुरुपजीव्यविरोधान्न भेदमिथ्यात्वं साधयितुं प्रभवेदिति । किञ्च व्यवहारनिर्वाहक-तया सत्यता च भेदस्य कुतो न स्यात् । ननु भेदस्य प्रत्यक्षादिविषयत्वेऽपि न तत्त्वावेदकप्रमाणविषयत्वम् । मैवम् । तत एव तत्साधनसम्भवात् ।

किञ्च धर्मित्वहेतुना तत्त्वावेदकप्रमाणवेद्यता च कुतो न भेदस्य स्यात् । न चात्मनि धर्माभावः । आनन्दो विषयानु-भवो नित्यत्वं चेति सन्ति धर्मा इत्यभ्युपगमात् । न परमार्थतो धर्मा इति चेन्न । नित्यत्वाद्यभावेऽनित्यत्वाद्या-पातात् । तत्पक्षे पारमार्थिकस्यैव साधनाङ्गतानियमाभावाच्च । चन्द्रभेदे धर्मित्वहेतोर्व्यभिचार इति चेत्कोऽर्थः । चन्द्रभेद-मात्राभाव इति वा चन्द्राच्चन्द्राभाव इति वा । आद्ये न व्यभिचारः । पक्षसमत्वात् । द्वितीये तस्यैवाभावेन धर्मित्व-हेतोर्व्यभिचारस्य दूरतः परास्तत्वात् ॥ छ ॥ भेदमिथ्या-त्वानुमानस्य प्रतिज्ञाविरोधः ॥ छ ॥

वादावलीभावदीपिका

यत्तु विप्रतिपन्नानि शरीराणि स्वसङ्ख्यासङ्ख्येयात्मवन्ति शरीरत्वा-दित्यात्मभेदानुमानेऽतीतानागतशरीरादिषु व्यभिचारचोदनं तत्राह ॥ शरीरत्वेति । भोगो नाम सुखदुःखादि । चैत्रगतं सुखादि मैत्रो नानु-सन्धत्ते । मैत्रगतं चैत्र इत्येवं परस्पराननुसंहितसुखदुःखाद्याश्रयत्वं विवक्षितम् । एतच्चातीतादिशरीरेषु योगिशरीरेषु च नास्तीति न व्यभिचार इति भावः ॥ व्यतिरेकदृष्टान्ततेति । हेतुसाध्याभावयोस्तत्र सत्त्वादिति भावः । व्यवस्थानुपपत्तेश्च दुर्निरूपत्वेनेत्यादिनोक्तदोषमुद्धरति ॥ अत एवेति । तमेव हेतुं व्यनक्ति ॥ सुखेति । तर्ह्यत्र प्रत्यक्षादिप्रमाणसिद्धतां किन्न पश्यसीत्युक्तम् । भेदो मिथ्या भेदत्वादित्यनुमानस्य प्रत्यक्षादि-बाधमुपसंहरति ॥ अत इति । भेदस्य प्रत्यक्षादिप्रमाणसिद्धत्वादित्यर्थः । ननु प्रत्यक्षादिप्रमाणं भेदमेव गोचरयेन्न पुनस्तत्सत्यत्वमपि येन तद्विरोधो भेदमिथ्यात्वानुमानस्येत्यत आह ॥ किञ्चेति । यद्वा प्रत्यक्षविरोधमुक्त्वा भेदत्वहेतोरनुमानविरोधमाह ॥ किञ्चेति ॥ सत्यता चेति । न केवलं भेद एवोपेय इति चार्थः । भेदः सत्यो भवितुमर्हति व्यवहारनिर्वाहकत्वात् । स्वप्रकाशत्वाज्ज्ञानसुखदुःखादिव्यवहारनिर्वाहकचैतन्यवद्व्यतिरेकेणासत्यवद्वेति भावः ।

तत्त्वावेदकप्रमाणविषयत्वमुपाधिरिति भावेन साधनाव्यपकत्वाय पक्षे तस्योपाधेरभावं शङ्कते ॥ नन्विति ॥ न तत्त्वावेदकेति । तथा च पक्षादुपाधिव्यावृत्त्या तद्व्याप्यसाध्यस्याप्यभाव इति भावः । साधना-व्यापकत्वमुपाधेर्नेति वक्तृं साधनवति तत्त्वावेदकप्रमाणवेद्यत्वरूपमुपाधिं साधयति ॥ तत एवेति । व्यवहारनिर्वाहकत्वादेवात्मवत्तत्त्वावेदक-प्रमाणवेद्यत्वसाधनसम्भवादित्यर्थः । आत्मनि व्यवहारनिर्वाहकत्वे विप्रतिपन्नं प्रत्याह ॥ किञ्चेति । धर्मित्वहेतुना धर्मवत्त्वहेतुनेत्यर्थः । भेदेऽपि भेदत्वज्ञेयत्ववाच्यत्वादयो धर्माः सन्तीत्यात्मदृष्टान्तेन धर्मित्वहेतुनोक्तरूप-साध्यसिद्धिः किन्न स्यात्तथा च साधनव्यापकत्वमुपाधेरिति भावः । दृष्टान्ते साधनवैकल्यमाशङ्क्य तदीयवचनेन साधनभावं साधयति ॥ न चेति । पारमार्थिकधर्मवत्त्वं हेतुरिति मत्वा पुनः साधनवैकल्यमाशङ्कते ॥ नेति । धर्मवत्त्वमात्रं हेतुर्न तु परमार्थधर्मवत्त्वम् । तच्चात्मन्यस्त्येव । न चैतादृश-मसाधकम् । त्वन्मते मिथ्यात्वानुमानागमयोरपरमार्थसतोरेव परमार्थसदर्थ-साधकत्वादिति भावेनाह ॥ तत्पक्ष इति । भेदादिसर्वमिथ्यात्वपक्ष इत्यर्थः ॥ चन्द्रभेदमात्राभाव इति । यथा सति चन्द्रेऽनारोपितचन्द्रभेदो नास्ति तथाऽऽरोपितचन्द्रान्तरभेदोऽपि नास्तीति चन्द्रभेदमात्रस्याभावः किमित्यर्थः । चन्द्रभेदारोपमात्रेण द्वित्वप्रतीत्युपपत्तौ चन्द्रान्तरारोपाङ्गीकारे गौरवेणा-रोपितचन्द्रान्तरभेदे सत्यत्वरहिते धर्मित्वहेतुरस्तीति व्यभिचार इति तवाभि-प्रायः किमिति भावः ॥ चन्द्रादिति । सत्यचन्द्रे आरोपितचन्द्रान्तरभेदे सत्यप्यनारोपितचन्द्राद्भेदो नास्तीति तत्र धर्मित्वहेतुसत्त्वेऽपि सत्यत्वादि-रूपसाध्यं नेति व्यभिचार इत्यभिप्रायः किमित्यर्थः ।

कुतो न व्यभिचार इत्यत आह ॥ पक्षेति । अन्यतरचन्द्रस्यैव तत्रारोपितत्वेनारोपितानारोपितचन्द्रयोर्भेदस्य सत्यत्वादिति भावेन तत्र हेतुसत्त्वेऽपि साध्याभावसत्त्वस्य विप्रतिपन्नत्वेन पक्षसमत्वात् । पक्षे पक्षसमे च व्यभिचारोद्भावनायोगादिति भावः । ननु निश्चितसाध्याभाववति हेतुसन्देह इव पक्षादन्यत्र निश्चितहेतुमति साध्याभावसन्देहेऽपि सन्दिग्धानैकान्त्यमेवेति चेन्न । हेतूच्छित्तिरूपविपक्षबाधकतर्केण व्यभिचारसन्देहस्याप्यसम्भवादिति भावः ॥ तस्यैवेति । चन्द्रे चन्द्रप्रतियोगिकभेदस्यैवाभावेन निःस्वरूप-त्वेनेत्यर्थः । सत्यपि तत्र साध्याभावे हेतोरप्यभावेन व्यभिचाराभावादित्यर्थः । ननु तादृशस्यापि शशिशृृङ्गादेरत्यन्ताभावप्रतियोगित्वरूपो धर्म उपेयत इति तत्र व्यभिचार एवेति चेन्न । धर्मवत्त्वरूपधर्मित्वस्य तत्राभावात् । अभाव-प्रतियोगित्वस्य धर्मिसत्तानिरपेक्षत्वात् । धर्मित्वादित्यस्य सत्त्वरूपत्वा-दित्यर्थस्याभिप्रेतत्वादिति तात्पर्यत् ॥ छ ॥

वादावलीप्रकाशः

विप्रतिपन्नानि शरीराणि स्वसङ्ख्यासङ्ख्येयात्मवन्ति शरीरत्वादित्यनुमानं तत्रोक्तदोषपरिहारेण समर्थयते ॥ शरीरत्वहेतुरपीति । भोगायतनेति शरीरशब्दार्थः । भोगायतनं शरीरमिति तल्लक्षणात् । यदवच्छिन्ने आत्मनि भोगो जायते तद्भोगायतनं तत्र शरीरत्वहेतोरतीतानागतशरीरेषु न व्यभिचारः । तत्र हेतोरेवाभावात् । यदवच्छिन्ने आत्मनि भोगो जायते तद्भोगायतनमतीतानागतशरीरावच्छिन्नस्यात्मन एवाभावेन तेषां तद्भोगाय-तनत्वाभावात् । यदपि योगिशरीरेषु व्यभिचार इत्युक्तं तत्परिहाराय विवक्षा-माह ॥ परस्पराननुसंहितानामिति । परस्परानुसन्धानरहितानामित्यर्थः । तथा च योगिशरीराणां परस्परानुसन्धानवतामेवांशानां भोगायतनत्वेन हेतोरभावान्न व्यभिचार इति भावः ।

ननु विप्रतिपन्नानि देवदत्तयज्ञदत्तशरीराणि स्वसङ्ख्यासङ्ख्येयात्मवन्ति परस्पराननुसंहितानां भोगायतनत्वादित्यनुमानमयुक्तं दृष्टान्ताभावादित्याशङ्क्य परिहरति ॥ नापीति ॥ व्यतिरेकेति । यत्र स्वसङ्ख्यासङ्ख्येयात्म-वत्त्वाभावस्तत्र परस्पराननुसंहितानां भोगायतनत्वाभाव इति व्यतिरेकव्याप्तौ योगिशरीराणां दृष्टान्तत्वात् । अनेकशरीरस्थितानां सौभर्यादियोगीश्वरांशा-नामत्यन्ताभिन्नत्वेन तच्छरीरेषु साध्याभावसद्भावात् । नानादेहगभोगानुसन्धानं योगिनो यथेत्युक्तत्वेन तच्छरीराणां परस्परानुसन्धनवतामेवांशानां भोगायतनत्वेन हेत्वभावस्यापि सत्त्वादित्यर्थः । यच्चोक्तं व्यवस्थोपपत्तेश्च दुर्निरूपत्वेन भेदासाधकत्वमित्यादि तदाशङ्क्य परिहरति ॥ अत एवेति ॥ व्यवस्थेति । व्यवस्थाशब्दस्य या निरुक्तिस्तस्या दौर्घट््यं दुर्घटत्वं वक्तृमशक्यत्वं यदुक्तम् ‘तथा हि । किं व्यवस्थापदेन धर्मिभेद’ इत्यादि तदप्यत एव नेत्यर्थः । अत एवेत्युक्तं विशदयति ॥ सुखदुःखादीति ॥ अङ्गीकृतत्वादिति । तथा च धर्मिभेदादिरूपाया अविवक्षितत्वान्नोक्तदोष इति भावः । भेदो मिथ्या भेदत्वाच्चन्द्रभेदवदित्यनुमानदूषणमुपसंहरति ॥ अत इति ॥ उपजीव्यविरोधादिति । धर्म्यादिग्राहकतयोपजीव्यप्रत्यक्षादिना भेदस्यैव गृहीतत्वात्तस्य च सत्यत्वादुपजीव्यप्रमाणविरोध इत्यर्थः ॥ प्रभवेदितीति । समर्थो भवेदित्यर्थः । भेदो मिथ्या भेदत्वाच्चन्द्रभेद-वदित्यनुमानस्य सत्प्रतिपक्षत्वं चाह ॥ किञ्चेति ॥ व्यवहारेति । भेदः सत्यो व्यावहारिकत्वाद्व्यतिरेकेण शुक्तिरजतवदित्यनुमानमुक्तं भवति । व्यावहारिकत्वरूपहेतुनिर्वचनाय व्यवहारनिर्वाहकतयेत्युक्तम् । अर्थक्रिया-कारित्वादिति यावत् । जलानलयोर्भेदसद्भावादेव तापापनोददहनाद्यर्थ-क्रियाकारित्वं दृष्टमिति न हेतोः स्वरूपासिद्धिरिति द्रष्टव्यम् ।

यदुक्तमुपजीव्यविरोधाद्भेदत्वहेतुर्न भेदमिथ्यात्वसाधनसमर्थ इति तदयुक्तमित्याशङ्कते ॥ ननु भेदस्येति ॥ न तत्त्वावेदकेति । तथा च प्रत्यक्षादीनामतत्त्वावेदकप्रमाणत्वेन तत्सिद्धभेदस्य सत्यत्वाभावान्नोपजीव्य-प्रमाणविरोध इति भावः ॥ तत एवेति । भेदस्तत्त्वावेदकप्रमाणविषयो व्यावहारनिर्वाहकत्वाद्व्यतिरेकेण शुक्तिरूप्यवदित्येवं व्यवहारनिर्वाहकत्वहेतुत एव तत्त्वावेदकप्रमाणविषयत्वसाधनसम्भवादित्यर्थः । हेत्वन्तरेण भेदस्य तत्त्वावेदकप्रमाणवेद्यत्वं साधयति ॥ किञ्चेति ॥ धर्मित्वेति । धर्मवत्त्वहेतुनेत्यर्थः । तथा च भेदस्तत्त्वावेदकप्रमाणवेद्यो धर्मित्वादात्म-वदित्यनुमानेन भेदस्य तत्त्वावेदकप्रमाणवेद्यता च कुतः कस्मान्न स्यादपि तु स्यादेवेत्यर्थः । दृष्टान्ते साधनवैकल्यमाशङ्क्य निराकरोति ॥ न चेति । कुतो नेत्यत आह ॥ आनन्द इति ॥ विषयानुभव इति । प्रपञ्चविषयकं ज्ञानं सर्वज्ञत्वमित्यर्थः ॥ सन्ति धर्मा इति । ‘‘आनन्दं ब्रह्मणो विद्वान्’’ ‘‘यः सर्वज्ञः सर्ववित्’’ ‘‘अजो नित्यः शाश्वत’’ इति श्रुतिसिद्धत्वा-दित्यर्थः । तथा च साधनवैकल्यमिति भावः । पुनः शङ्कते ॥ परमार्थत इति । धर्माः सन्तीति शेषः । श्रुतिसिद्धा अप्यानन्दादयो धर्मा व्यावहारिकभूता एव न परमार्थतः सन्तीत्यर्थः । अतः पुनः साधनवैकल्य-मिति भावः ॥ नित्यत्वादीति । नित्यत्वादिधर्माणां परमार्थतोऽभावेऽ-सत्त्वप्राप्तेस्तथा च नित्यत्वाभावेऽनित्यत्वस्य सर्वज्ञत्वाभावेऽसर्वज्ञत्वस्यानन्दा-भावे दुःखित्वस्यापातादित्यर्थः । तथा च परमार्थतो धर्मसद्भावेऽङ्गीकार्ये न साधनवैकल्यमिति भावः ।

अस्तु वाऽऽत्मनि धर्माभावस्ततः किम् । ननु तर्ह्यनुमानस्य साधनवैकल्येन दुष्टस्य कथं साधकत्वमिति चेन्न । त्वत्पक्षेऽसतोऽपि सवितृसुषिरादेर्मरणादिसाधनत्वाङ्गीकारेण पारमार्थिकस्यैव साधनाङ्गत्वनियमा-नङ्गीकाराद्धर्मित्वानुमानस्य साधनवैकल्यरूपदोषदुष्टत्वेन मिथ्यात्वेऽपि भेदस्य तत्त्वावेदकप्रमाणावेद्यत्वसाधनाङ्गत्वं भविष्यतीत्याह ॥ तत्पक्ष इत्यादिना । मायिपक्ष इत्यर्थः ॥ चन्द्रभेद इति । अङ्गुल्यवष्टम्भेन भेदे प्रतीयमाने चन्द्रभेदे ज्ञेयत्वादिधर्मवत्त्वे सत्यपि तत्त्वावेदकप्रमाणवेद्यत्वाभावाद्व्यभिचार इत्यर्थः ॥ कोऽर्थ इति । चन्द्रभेदे प्रमाणवेद्यत्वं नास्तीत्यस्य कोऽर्थ इत्यर्थः ॥ चन्द्रभेदमात्राभाव इत्यादि । चन्द्रभेदे प्रमाणवेद्यत्वं नास्तीत्युक्ते तस्या-प्रामाणिकत्वप्राप्त्या भेदो नास्तीत्येवं भेदाभाव उक्तः स्यात् । तत्र पृच्छामः । चन्द्रे भेदमात्राभाव इत्यर्थो विवक्षित उत चन्द्राच्चन्द्रस्य भेदाभाव इति वेत्यर्थः । वाशब्दो विकल्पयोः परस्परसमुच्चये । कुत इत्यत आह ॥ पक्षसमत्वादिति । चन्द्रेऽपि घटादिप्रतियोगिकभेदसद्भावेन साध्यपर्यवसि-तार्थस्य भेदमात्राभावस्य सन्दिग्धत्वादित्यर्थः । न हि पक्षे पक्षतुल्ये वा व्यभिचार इति भावः ॥ द्वितीय इति । धर्मित्वहेतोश्चन्द्रभेदे व्यभिचारो दातव्यः । तत्र चन्द्राच्चन्द्रभेदाभावस्य साध्यपर्यवसितार्थत्वाङ्गीकारे चन्द्रा-च्चन्द्रभेदरूपपदार्थस्यैवाभावेन व्यभिचारस्थलस्यैवाभावाद्धर्मित्वहेतोर्व्यभिचारस्य दूरेऽपास्तत्वादित्यर्थः । एवं भेदो मिथ्या भेदत्वादित्यस्योपजीव्यप्रबल-प्रत्यक्षादिप्रमाणविरोधस्य व्यवहारनिर्वाहकत्वादिसमबलप्रमाणविरोधस्य चोक्त्या प्रतिज्ञाविरोधरूपदोष उक्तः । हेतुदोषयोरसिद्ध्यव्याप्त्योर्मध्येऽसिद्धिरूपो दोषो भेदत्वहेतुः सत्यश्चेत्परमतेऽसिद्धिः । असत्यश्चेदस्मन्मतेऽसिद्धिरित्युक्तप्रायेति

॥ छ ॥

वादावलीविवरणम्

॥ न तत्रापि दोष इति । योगिशरीरे व्यभिचारदोषो नास्ति हेतोरेवाभावादित्यर्थः । अत एवेत्युक्तं विवृणोति ॥ सुखदुःखादीति । भेदत्वहेतोर्बाधितत्वमुपसंरति ॥ अत इति । भेदत्वहेतोः प्रतिपक्षमप्याह ॥ किञ्चेति ॥ नन्विति । तथा च प्रत्यक्षस्य बाधकत्वमनुमानस्य प्रतिरोधकत्वं च नास्ति दुर्बलत्वादिति भावः । तत एव प्रत्यक्षादि-विषयत्वादेव ॥ तत्साधनेति । तत्त्वावेदकप्रमाणवेद्यत्वसाधनेत्यर्थः । किञ्च धर्मित्वेत्यनेन भेदस्तत्त्वावेदकप्रमाणवेद्यो धर्मित्वादात्मवदित्यनुमानमुक्तम् । तत्र दृष्टान्ते साधनवैकल्यमाशङ्क्य परिहरति ॥ न चात्मनीति । अनित्यतादीत्यादिपदेनानन्दत्वाननुभवत्वयोर्ग्रहणम् । अस्तु वाऽऽत्म-धर्माणामपरमार्थत्वं तथापि न साधनवैकल्यम् । अपरमार्थधर्मेणैवात्मनः साधनत्वात् । त्वया परमार्थकसाधनाङ्गत्वाभ्युपगमादित्यत आह ॥ तत्पक्ष इति । चन्द्रभेदमात्रेऽभावश्चन्द्रमात्राभावो गृहेऽभावो गृहाभाव इतिवत् । एवञ्च चन्द्रनिष्ठभेदमात्रे धर्मित्वहेतोः सत्त्वेऽपि तत्त्वावेदकप्रमाणवेद्यत्वस्याभावात्तत्र व्यभिचारः किम्वित्यर्थः ॥ चन्द्राच्चन्द्रेति । इहापि प्राग्वदेव समासः । चन्द्राच्चन्द्रभेदे उक्तसाध्यस्याभावः । ततो व्यभिचार इत्यभिप्रायः किम्वित्यर्थः ॥ पक्षसमत्वादिति । चन्द्रनिष्ठभेदमात्रे मया तत्त्वावेदकप्रमाण-वेद्यत्वाङ्गीकारेण त्वया च तद्विपर्ययस्याङ्गीकारेण साध्यस्य तत्र विप्रतिपन्नतया पक्षसमत्वादित्यर्थः । पक्षे पक्षतुल्ये वा व्यभिचारचोदनं चानुमानमात्रभङ्ग-प्रसङ्गेनानुचितमिति भावः ।

तस्यैव चन्द्रप्रतियोगिकचन्द्रभेदस्यैवाभावेनात्यन्तासत्त्वेन दूरापास्तत्वादिति । अत्यन्तासति चन्द्रप्रतियोगिकचन्द्रभेदे धर्मित्वरूपहेतोरेवाभावादिति भावः । नन्वत्यन्तासतोऽपि शशशृृङ्गादेरत्यन्ताभावप्रतियोगित्वरूपो धर्म उपेयत इति तत्र व्यभिचार एवेति चेन्न । धर्मिसत्तासापेक्षधर्मवत्वरूपधर्मित्वस्य तत्राभावात् । अभावप्रतियोगित्वस्य धर्मिसत्तानिरपेक्षत्वात् । धर्मित्वशब्देन तत्स्वरूपत्वस्य विवक्षितत्वान्नोक्तदोषावकाशः ॥ छ ॥ भेदमिथ्यात्वानुमानस्य प्रतिज्ञाविरोधः

॥ छ ॥

भेदमिथ्यात्वानुमानस्य प्रतिज्ञाविरोधः