अन्यैरपि समवायस्याश्रितत्वादिव्यवहारे..
भेदप्रतीत्याक्षेपनिरासोपसंहारः
अन्यैरपि समवायस्याश्रितत्वादिव्यवहारे..
वादावली
अन्यैरपि समवायस्याश्रितत्वादिव्यवहारे गतिरियमेवानुसरणीया । तस्माद्ब्रह्मस्वरूपावगाहिविज्ञानमानन्दं ब्रह्मेत्यादिवाक्यसमानयोगक्षेमतया भेदप्रपञ्चमध्यक्षयतः प्रत्यक्षस्य दुराक्षेपैर्नाधिक्षेपः ॥ छ ॥ भेदप्रतीत्याक्षेपनिरासोप-संहारः ॥ छ ॥
वादावलीभावदीपिका
तथा च गुणशक्तिक्रियादीनामपि न धर्मितो भेदाश्रयणं युक्तमिति भावः । एवं भेदस्य धर्मिणा सविशेषाभिन्नत्वं जीवात्मैक्यप्रतिबन्द्योपपाद्य ननु कथं प्रत्यक्षस्य भेदग्राहकत्वमित्यादिना ग्रन्थेन कृतं भेदप्रतीत्याक्षेपं प्रत्यक्षरं प्रत्याक्षिप्योपसंहरति ॥ तस्मादिति । भेदस्य धर्मिणा सविशेषाभिन्नतयाऽन्योन्याश्रयानवस्थादिदोषाभावादित्यर्थः ॥ इत्यादि-वाक्येति । यथा विज्ञानमानन्दं ब्रह्मेत्यादिवाक्यबोध्यविज्ञानानन्दादीनां न परमते भेदः । अखण्डार्थत्वहानेः । एकधेत्यादिश्रुतिविरोधाच्च । नाप्यभेदः । तथात्वे तच्छब्दानां पर्यायत्वं पदान्तरवैय्यर्थ्यं विज्ञानानन्दयोरेकतरपरिशेषो भ्रमाधिष्ठानत्वेन चैतन्यभानेऽपि मोक्ष इवेदानीमानन्दाप्रकाशो ज्ञानस्यार्थ-प्रकाशरूपत्वेऽप्यानन्दस्य तदभाव आनन्दस्य निरुपाधिकेष्टरूपत्वेऽपि ज्ञानस्य तदभावो ज्ञानस्यान्यसापेक्षरूपत्वेऽपि ब्रह्मणस्तदभाव इत्यादिभेदकार्योप-लम्भविरोधादित्याद्याक्षेपैर्विज्ञानादिवाक्यानां यथा नाक्षेपस्तेषां परमार्थब्रह्म-स्वरूपावगाहित्वेन तत्त्वावेदकत्वात् । किन्तूक्तरीत्या सविशेषाभेदा-भ्युपगमादिना कथञ्चित्समाधानं वाच्यम् । तथा सविशेषाभिन्नभेदयुक्त-प्रपञ्चावगाहि प्रत्यक्षस्यापि स्वव्याघातदुष्टैस्तत्किं भेदमेव गोचरयेदुत वस्त्वपीत्यादिना पूर्वोक्तैराक्षेपैर्न प्रत्याख्यानं युक्तमित्यर्थः । न च प्रत्यक्षं सदोषवाक्यं निर्दोषमिति युक्तम् । लोके क्लृप्तदोषाणामभावनिश्चयस्योभयत्र साम्यात् । कल्प्यस्याविद्यकत्वादुभयत्र साम्यादिति भावः । तस्मादस्ति भेदे प्रत्यक्षं प्रमाणमिति स्थितम् ॥ छ ॥
वादावलीप्रकाशः
विशेषस्तद्गतत्वादिर्यद्यभिन्नेऽवसीयते ।
षट्पदार्थातिरेकः स्यात्पदार्थनियमेऽपि हि ।
धर्मस्य धर्मसन्तानादनवस्थाकरो भवेत् ॥
इत्यनुव्याख्यानं मनसि निधायाह ॥ अन्यैरपीति । वैशेषिकैरपीत्यर्थः । आश्रितत्वादौ तद्गतत्वादिधर्मसमुदाये ॥ गतिरियमेवेति । निर्वाहकत्व-विशेषमङ्गीकृत्य तेनैव तद्गतत्वादिनिर्वाहरूपा गतिरित्यर्थः । अत्र सुधैव लेख्या । उपसंहरति ॥ तस्मादिति । भेदस्य सत्त्वाङ्गीकारे बाधकाभावा-दित्यर्थः । भेदप्रपञ्चमध्यक्षयतः साक्षात्कुर्वतो विषयीकुर्वतः । प्रत्यक्षस्य दुराक्षेपैरन्योन्याश्रयादिरूपैर्दुष्टतर्कैरधिक्षेपस्तिरस्कारो न युक्त इत्यर्थः । कुत इत्यतस्तत्रातिप्रसङ्गं सूचयितुमाह ॥ ब्रह्मेति । विज्ञानमानन्दं ब्रह्मेत्यादि-वाक्येन ब्रह्मस्वरूपमवगम्यत इत्यङ्गीकृतं तत्र प्रष्टव्यम् । एतद्वाक्यस्वरूपमेव केन प्रमाणेन सिद्धं येनैतद्वाक्येन ब्रह्मस्वरूपं सिध्येदिति । श्रोत्रप्रत्यक्षेणेति वदाम इति चेन्न । तस्यापि प्रत्यक्षत्वाविशेषेण भेदग्राहिप्रत्यक्षसमानयोगक्षेम-वत्त्वेनाप्रामाण्यान्न तेन तद्वाक्यस्वरूपं सिध्यतीति ब्रह्मस्वरूपमपि तद्वाक्येन न सिध्येदतस्तद्वाक्यसमानयोगक्षेमत्वेन तद्वाक्यस्वरूपमिव भेदप्रपञ्चस्वरूपमपि विषयीकुर्वतः प्रत्यक्षमात्रस्य दुराक्षेपैर्नाधिक्षेपो युक्त इत्यर्थः ॥ छ ॥
वादावलीविवरणम्
एवं रामानुजीयैर्विशेषमङ्गीकारयित्वा तार्किकानप्यङ्गीकारयति ॥ अन्यैरपीति । अयमभिसन्धिः । समवाये तावदवयवावयव्यादिगतत्वमङ्गीकृत माश्रितत्वं चान्यत्र नित्यद्रव्येभ्य इति वचनात् । न चानित्यद्रव्यगुण-कर्मसामान्यविशेषाणामिव समवायस्य तद्गतत्वं नाम समवायलक्षणवृत्तिः सम्भवति । तस्याभिन्नत्वात् । अतस्तद्गतत्वं समवायस्वरूपमेवेत्यङ्गीकार्यः । एवमभिधेयत्वज्ञेयत्वसम्बन्धत्वादयोऽपि समवायेऽभ्युपगता न समवायस्वरूपा-द्भिद्यन्ते । भेदो हि तेषां समवायसम्बन्धो वाच्यः । अन्यथा कथमेते तत्र स्युः । न च सम्बन्धो युक्तः । संयोगस्य गुणत्वेन द्रव्यमात्रवृत्तेः । समवायस्य चाभिन्नत्वात् । एवं तद्गतत्वादीनां समवायभेदे सिद्धे सति पृच्छामः । समवायस्य तद्गतत्वादिधर्मिणां चाभेदे कथमपर्यायशब्दवाच्यत्वं धर्मधर्मिभावः षष्ठीप्रयोग इत्यादि युज्यत इति । तस्मात्तद्गतत्वादिके न समवायतन्मात्रं येनानुपपत्तिः स्यात् । किन्तु समवायाभिन्नमपि तद्विशेषा-त्मकम् । अतो व्यपदेशादि युज्यते । विशेषस्य भेदप्रतिनिधित्वादित्येवा-गतिकतया तत्र समाधिर्वाच्या । एवञ्च तार्किकैरपि विशेषोऽङ्गीकार्य इति सिद्धम् ॥ आश्रितत्वादाविति । विषयसप्तमीयम् । तथा चाश्रितत्वादिविषये यो व्यवहारस्तस्मिन्नित्यर्थः । आश्रित्वादिव्यवहार इति पाठस्तु सुगमः । ननु कथं प्रत्यक्षस्य भेदग्राहकत्वमित्यादिनाऽऽक्षिप्य समीहितमर्थमुपसंहरति ॥ तस्मादिति ॥ छ ॥ भेदप्रतीत्याक्षेपोपसंहारः ॥ छ ॥
भेदप्रतीत्याक्षेपनिरासोपसंहारः