तच्च निमित्तं भेदोऽत्र बाधित इति चेत्तर्हि..
विशेषसमर्थनम्
तच्च निमित्तं भेदोऽत्र बाधित इति चेत्तर्हि..
वादावली
तच्च निमित्तं भेदोऽत्र बाधित इति चेत्तर्हि तत्प्रतिनिधिः स्वनिर्वाहको विशेषो नाम पदार्थशक्तिरभिषिच्य-ताम् । न चैवमतिप्रसङ्गः । मुख्यनिमित्तस्यान्यत्र सम्भवेऽ-न्यस्य कल्पनायोगात् । निर्भेदे वस्तुनि भेदवन्निर्विशेषे तस्मि-न्विशेषोऽपि व्याहत इति चेन्न । निर्विशेषत्वविशेषवदुपपपत्तेः। स च यदि विरोधात्त्यज्येत तर्हि सुतरां सविशेषतासिद्धिः । तदुक्तमाचार्यैः–
भेदहीने त्वपर्यायशब्दान्तरनियामकः ।
विशेषो नाम कथितः सोऽस्ति वस्तुष्वशेषतः ॥ इति ।
स्वरूपव्यतिरिक्तं भेदमभ्युपगच्छतामपि स्वरूपभेदयोर्भेदस्य स्वनिर्वाहकता सिद्धा । तैरपि निर्वाह्यनिर्वाहकनिर्वहणादिरूप-वैचित्र्यमेकस्यैव भेदस्याङ्गीकृतं भवेत् । अन्यथाऽनवस्थानात् । ततो वरं पदार्थस्यैव विचित्रशक्तिस्वीकार इति ॥ छ ॥ विशेषसमर्थनम् ॥ छ ॥
वादावलीभावदीपिका
तत्प्रतिनिधिर्भेदप्रतिनिधिः । तत्रापि विशेषान्तरकल्पनायामनव-स्थेत्यत उक्तं स्वनिर्वाहक इति । कल्पनागौरवमित्यत उक्तं पदार्थशक्तिरिति । न तु वस्त्वन्तरमित्यर्थः । नन्वेवं घटपटादीनां तेनैव व्यवहारोपपत्तौ भेदवार्ता लुप्येतेत्याशङ्क्य निराह ॥ न चैवमित्यादिना । अन्यत्र घटादौ ॥ स चेति । निर्विशेषत्वरूपविशेष इत्यर्थः । सुतरां निःसन्देहमित्यर्थः । ननु तादृशविशेषे किं मानं किं च लक्षणमित्यतो जन्माधिकरणानुव्याख्यानेन द्रढयति ॥ तदुक्तमिति । निर्भेदेऽपि भेदकार्यनिर्वाहकत्वलक्षण-विशेषस्वरूपमुक्तमित्यर्थः ॥ भेदहीने त्विति । तुरवधारणे । अपर्याय-शब्दान्तरनियामक इत्यशेषभेदकार्यनिर्वाहकत्वोपलक्षणम् ।
अयं भावः । जीवात्मैक्यस्यैकधैवेत्यादिश्रुत्यादिना चैतन्यस्वरूपत्वाच्चैतन्ये स्वप्रकाशत्वेन सिद्धेऽपि तस्यासिद्धत्वं चैतन्यस्य निरपेक्षत्वादौ सत्यप्यैक्यस्य सापेक्षत्वादिकं चैतन्यप्रकाशस्याज्ञानानिवर्तकत्वेऽप्यैक्यज्ञानस्य तन्निवर्तकत्व-मित्यादिभेदकार्याणां दर्शनाच्च । तदुभयान्यथाऽनुपपत्त्या भेदहीनेऽपि जीवात्मैक्ये भेदप्रतिनिधिस्तत्कार्यकारी कश्चिदतिशयोऽस्तीत्यकामेनापि त्वया वाच्यम् । एवमिहापि भेदधर्मपक्षस्य त्वयैव दूषितत्वेन घटः पटात्मको नेति प्रतीत्या पटतादात्म्यनिषेधरूपभेदस्य मृद्घट इतिवद्घटसामानाधिकरण्येनाभेदस्यैव प्रतीतत्वेन च ‘‘सत्यं भेदस्तु वस्तूनां स्वरूपं नात्र संशय’’ इति तैत्तिरीय-भाष्योक्तवचनेन नान्योन्याभावता पृथगिति तत्त्वविवेकवाक्येन च भेदस्य धर्मिस्वरूपत्वात्सापेक्षत्वनिरपेक्षत्वादिप्रागुक्तभेदकार्यदर्शनाच्च तदुभयान्यथाऽनु-पपत्त्या कश्चन वस्तुस्वरूपशक्तिपर्यायो विशेषोऽस्तीति कल्प्यत इति न कोऽपि दोष इति । अयं च विशेषो वैशेषिकादिभिरभ्युपेय इत्याह ॥ स्वरूपेति । धर्मिस्वरूपस्य तन्निष्ठभेदस्य चेत्यर्थः ।
सिद्धेत्युक्तं व्यनक्ति ॥ तैरपीति । अयं घटो भेदीति भेदभेदिनोर्विशेषण-विशेष्यभावरूपभेदकार्यनिर्वाहकोऽपि स्वयं भेदभेदिनोर्भेदः स्वनिर्वाहकश्च भवति । कथम् । भेदभेदिनौ भिन्नाविति प्रतीतौ स्वस्य भेदभेदिनोश्च विशेषण-विशेष्यभावादिभेदकार्यनिर्वाहकस्यान्यस्याभावात् । तथा च निर्वाह्यनिर्वाहक-निर्वाहरूपं वैचित्र्यमेकस्य प्राप्तम् । तथा भेदभेदिसम्बन्धित्वं स्वसम्बन्धित्वं चेत्यादिवैचित्र्यमुपेयमित्यर्थः । कुत एवं भेदपरम्परैवास्त्वित्यत आह ॥ अन्यथेति ॥ तत इति । भेदभेदिनोर्भेदमुपेत्य तस्य स्वनिर्वाहकत्वकल्पना-दित्यर्थः ॥ अन्यैरपीति । समवायवादिभिरपीत्यर्थः । समवायः समवाय्या-श्रितो गुणादीनां सम्बन्ध इत्यादौ समवायस्य समवायान्तराभावेन तस्य गुणगुण्यादिविशिष्टव्यवहारनिर्वाहकस्यापि स्वनिर्वाहकत्वमङ्गीकार्यम् । ततो वरमप्रामाणिकसमवायप्रहाणेन गुणगुण्यादिपदार्थशक्तिस्वीकारेण सर्वभेदस्य व्यवहारकल्पनम् ॥ छ ॥
वादावलीप्रकाशः
शङ्कते ॥ तच्चेति । ब्रह्मण ऐक्यमिति भेदव्यवहारे यन्निमित्तं कल्प्यते भेदरूपं तच्च बाधितम् । कुतः । निमित्तभेदान् निमित्तविशेषात् । निमित्तविशेष उपचरितत्वरूपः । तथा च ब्रह्मणैक्यमिति भेदव्यवहारे उपचारस्यैव निमित्तत्वेन भेदस्य निमित्तत्वाभावात्तस्य निमित्तत्वकल्पनं बाधितमिति भावः ॥ तर्हीति । किमनया ब्रह्मणैक्यमिति व्यवहारस्योप-चरितत्वकल्पनया किन्तु व्यवहारस्यानुपचरितत्वमङ्गीकृत्यानुपचरितत्वभेदे व्यवहारहेतुर्भेदप्रतिनिधिर्विशेष एव भेदस्थानेऽभिषिच्यतामित्यर्थः । यथोक्तं तत्त्वनिर्णयटीकायाम् । यदि तत्र भेदातिरिक्तं किमपि सम्बद्धं प्रतीति-निमित्तमुच्यते तर्ह्यत्रापि विशेषं वक्ष्याम इति । ननु स विशेषोऽपि विशेषितो भिन्नोऽभिन्नो वा । आद्ये भेदपरम्परयाऽनवस्था । द्वितीये विशेषविशेषि-भावानुपपत्तिरिति चेन्न । विशेषस्यापि विशेषितोऽभिन्नत्वाङ्गीकारात् । विशेषशक्त्यैव विशेषविशेषिभावोपपत्तिः । तर्हि विशेषपरम्परयाऽनवस्था स्यादिति चेन्न । तस्य स्वनिर्वाहकत्वाङ्गीकारादित्याशयेनोक्तं स्वनिर्वाहक इति । पदार्थशक्तिः पदार्थनिष्ठो धर्मविशेषः ।
ननु यदि भेदव्यवहारे विशेष एव निमित्तमिति स्वीक्रियते तर्हि घटपटयोरप्यभेदमङ्गीकृत्य तत्रापि भेदव्यवहारो विशेषबलादेव भवती-त्यङ्गीक्रियताम् । तथा च जगति भेदवार्तैवोच्छिद्येतेत्यतिप्रसङ्ग इत्याशङ्क्य निराकरोति ॥ न चैवमिति । कुतो नेत्यत आह ॥ मुख्यनिमित्त-स्येति । भेदव्यवहारे मुख्यनिमित्तस्य भेदस्येत्यर्थः । अन्यत्र घटपटादौ जगति ॥ अन्यस्येति । विशेषरूपस्येत्यर्थः । अयं भावः । अङ्गीकुर्मो घटपटयोर्भेदव्यवहारे निमित्तं विशेषम् । यदि तयोरभेदः प्रमितः स्यात् । न चैवम् । तस्य निर्भेदे वस्तुनि भेदव्यवहारनिर्वाहकत्वाद्घटपटयोश्च भेदस्यैव प्रमितत्वादतो न तद्व्यवहारे हेतुर्विशेषः किन्तु भेद एवेति नातिप्रसङ्ग इति । ननु ब्रह्मणैक्यमिति व्यवहारे हेतुर्विशेषो ब्रह्मणि विशेषरूपधर्मं नाङ्गीकर्तुं शक्यते ब्रह्मणो निर्विशेषत्वात् । निर्भेदवस्तुनि भेदाङ्गीकारो यथा विरुद्ध एवं निर्विशेषे निर्धर्मके ब्रह्मणि विशेषरूपधर्माङ्गीकारो विरुद्ध इत्याशङ्कते ॥ निर्भेद इति ॥ निर्विशेषत्वविशेषवदिति । निर्विशेषत्वरूपो विशेषधर्मो यथाऽङ्गीकृतस्तद्वदेव विशेषरूपधर्माङ्गीकारस्याप्युपपत्तेरित्यर्थः । तथा च निर्विशेषत्ववचनं स्वक्रियाविरुद्धमिति भावः । ननु निर्विशेषत्वं ब्रह्मणि त्यज्यते तथात्वे निर्विशेषत्वरूपविशेषस्यैवापत्त्या निर्विशेषत्वोक्तिव्याघातापत्ते-रित्याशङ्क्याह ॥ स चेति । निर्विशेषत्वरूपो विशेष इत्यर्थः ।
तर्हीति । निर्विशेषत्वाभावे सुतरां सविशेषत्वं सिध्यति अभावाभावे भावनियमादित्यर्थः । विशेषलक्षणमाचार्यवाक्येन प्रमाणयति ॥ तदुक्तमिति । शब्दान्तरेत्यत्रानुपचरितेति पूरणीयम् । अन्यथा देवदत्तो देवदत्तो नेति भेदव्यवहारेऽपि निमित्ततया विशेषोऽङ्गीकार्यः स्यान्न चैवम् । तस्य व्यवहारस्योपचरितत्वादिति द्रष्टव्यम् । भेदस्य धर्मिस्वरूपत्वमनङ्गीकुर्वद्भिरप्ययं विशेषोऽङ्गीकार्य इत्याह ॥ स्वरूपव्यतिरिक्तमिति । धर्मिभिन्नमित्यर्थः । अभ्युपगच्छतां तार्किकाणां मते ॥ स्वरूपभेदयोरिति । घटपटयोर्भेद इत्येक एव भेदो द्विष्ठतया प्रतीयते । स च भेदो धर्मिस्वरूपघटपटस्वरूपाभ्यां भिन्नः । तथा च घटपटयोर्भेदस्य च पुनर्भेदान्तरमनङ्गीकृत्य घटपटयोर्भेद इति स्वस्मिन् भेदव्यवहारनिर्वाहकता तस्यैव भेदस्याङ्गीकृतेत्यर्थः ।
तदेवोपपादयति ॥ तैरपीति । घटपटयोर्भेद इति भेदव्यवहार-निर्वाहकरूपक्रियायां स्वस्यैकस्यैव भेदस्य तत्क्रियानिर्वाहकत्वं निर्वाह्यत्व-मित्येवंरूपं वैचित्र्यमङ्गीकृतमित्यर्थः । ननु घटपटयोर्भेदस्य च पुनर्भेदान्त-राङ्गीकारान्नैकस्यैव भेदस्य स्वनिर्वाहकत्वमित्यत आह ॥ अन्यथेति । भेदपरम्परयाऽनवस्था स्यादित्यर्थः ॥ ततो वरमिति । भेदस्य स्वनिर्वाहकत्वाङ्गीकारादपि वरमित्यर्थः ॥ विचित्रशक्तिस्वीकार इति । भेदस्य धर्मिणा भेदमङ्गीकृत्य भेदव्यवहारनिर्वाहाय स्वनिर्वाहकत्वादिरूप-विचित्रशक्त्युपेतविशेषवत्त्वस्वीकार इत्यर्थः । इत्थमप्रयोजने पदार्थस्वरूपस्यैव विशेषवत्त्वप्राप्त्या गुणगुणिनोर्भेदव्यवहारनिर्वाहकविशेषरूपतृतीयपदार्थस्य गीतातात्पर्यादौ प्रतिपादितत्वेन तद्विरोधापत्तेरिति ज्ञातव्यम् ॥ छ ॥
वादावलीविवरणम्
॥ तर्हीति । अत्र तत्प्रतिनिधिः पदार्थशक्तिरित्याभ्यां विशेषे प्रमाणमुक्तम् । तथा हि । जीवब्रह्मैक्यस्यैकधैवेत्यादिश्रुत्या चैतन्यमात्रत्वं प्रतीयते । अपर्यायशब्दवेद्यत्वरूपं भेदकार्यं चावगम्यते । एतदुभयान्यथाऽनु-पपत्त्या भेदरहितेऽपि चैतन्ये भेदप्रतिनिधिस्तत्कार्यकारी कश्चिद्व्यक्ति-विशेषोऽस्तीति गम्यते । गत्यन्तराभावात् । तथा चार्थापत्त्याऽर्थविशेष-सिद्धिरिति । स च पदार्थशक्तिविशेषो भिन्नेष्वपि पदार्थेषु विशेषकत्वाद्विशेष इति गीयत इत्यभिप्रेत्योक्तं विशेषो नामेति । नन्वङ्गीकृतेऽपि विशेषे न तवानुपपत्तिशान्तिः । सोऽपि हि विशेषो वस्तुनो भिन्नस्तदाऽनवस्था । यद्यभिन्नस्तदा विशेषविशेषिभावानुपपत्तिः । न चाभिन्नत्वेऽपि विशेषबला-त्तद्वद्भावः । तथाऽपि विशेषपरम्परयाऽनवस्थाऽपरिहारादित्यत उक्तं स्वनिर्वाहक इति । तथा च स एव विशेषो विशेषान्तरं विना विशेषतद्भावं घटयतीति नानवस्थादोष इति भावः । न चैकस्यैव विशेषस्य निर्वाह्यत्वं निर्वाहकत्वं च युक्तं विरोधादिति वाच्यम् । तद्बलादेव तस्याप्युपपत्ते-रित्याशयात् ॥ अतिप्रसङ्ग इति । सर्वत्र विशेषेणैव भेदकार्योपपत्तौ भेदमात्रोच्छेदः स्यादित्यर्थः । निर्विशेष इत्येतद्धेतुगर्भः । तस्मिन्नित्यस्य ब्रह्मणीत्यर्थः । तथा च ब्रह्मणो निर्धर्मिकत्वात्तत्र विशेषाख्यधर्माङ्गीकारो व्याहत इत्यर्थः ॥ निर्विशेषत्व इति । इदं च दृष्टान्तार्थम् । तथा च निर्विशेषत्ववदेव सविशेषत्वेऽङ्गीकृतेऽपि दोषाभावादित्यर्थः । क्वचित्तु विशेषस्य निर्विशेषत्ववदेवोपपत्तिरिति पाठः । स च स्पष्ट एव ॥ स चेति । निर्विशेषत्वरूपो धर्म इत्यर्थः । विशेषस्योक्तार्थापत्तिसिद्धत्वेऽनु-व्याख्यानसम्मतिमाह ॥ तदुक्तमिति । एवमद्वैतवादिना विशेषमङ्गीकारयित्वा रामानुजीयानप्यङ्गीकारयति ॥ स्वरूपेति । ततः किमित्यत आह ॥ तैरपीति । निर्वाह्येति भावप्रधानो निर्देशः । आदिपदेन निर्वाहकत्वं ग्राह्यम् ।
इदमत्राकूतम् । स्वस्य निर्वाहकं हि स्वनिर्वाहकम् । तथा चैकस्यामेव स्वनिर्वाहक्रियायां कर्तृत्वकर्मत्वलक्षणं निर्वाह्यत्वं निर्वाहकत्वमित्युक्तं स्यात् । तन्निर्वाह्यत्वं निर्वाहकत्वं च परस्परं धर्मिणा क्रियया च भिन्नमभिन्नं वा । नाद्यः । अनवस्थाद्यापत्तेः । नान्त्यः । निर्वाह्यनिर्वाहकनिर्वहणशब्दानां पर्यायतापातात् । अतो भिन्नमपि निर्वाह्यत्वादिकं स्वभाववैचित्र्या-देवोपपन्नमित्यङ्गीकर्तव्यमिति । ननु यदि स्वरूपभेदयोर्भेदस्य स्वरूपत्वं स्यात्तदा स्वनिर्वाहकताऽङ्गीकार्या स्यात् । तदेव कुत इत्यत आह ॥ अन्यथेति । स्वरूपभेदयोर्भेदस्य स्वरूपत्वाङ्गीकार इत्यर्थः । अस्तु स्वभाववैचित्र्यं स्वरूपभेदस्य ततोऽपि किमित्यत आह ॥ तत इति ॥ छ ॥ विशेषसमर्थनम् ॥
विशेषसमर्थनम्