१० धर्मिप्रतियोगि भेदप्रत्ययानां यौगपद्यसमर्थनम्

परमात्मतदितरभेदोऽपि तत्तत्स्वरूपग्राहक-प्रमाणावसेय इति नोक्तदोषावकाशः

धर्मिप्रतियोगि भेदप्रत्ययानां यौगपद्यसमर्थनम्

परमात्मतदितरभेदोऽपि तत्तत्स्वरूपग्राहक-प्रमाणावसेय इति नोक्तदोषावकाशः

वादावली

परमात्मतदितरभेदोऽपि तत्तत्स्वरूपग्राहक-प्रमाणावसेय इति नोक्तदोषावकाशः । न हि धर्मिप्रतियोगि-भेदप्रत्ययानां क्रमभावे मानं पश्यामः । जीवब्रह्मैक्यवदेव स्वरूपयोः सापेक्षनिरपेक्षत्वे क्वचित्प्रतीताप्रतीतत्वे अस्येदमिति सम्बन्धितयाऽवभासोऽपर्यायशब्दवाच्यत्वमित्यादिवैचित्र्यं द्रष्टव्यम् । व्यपदेशमात्रमत्रेति चेत्कोऽर्थः । किं परमार्थेन स्वरूपं नाम बाधितमैक्यं वा तत्सम्बन्धो वा व्यवहारो वा तन्निमित्तं वा । नाद्यः । निराश्रयस्यैक्यस्यानिर्वाहात् । निर्वाहे वा ब्रह्मैक्यवादस्तुच्छाद्वैते पर्यवस्येत् । न द्वितीयः । भेदो-न्मज्जनप्रसङ्गात् । न ह्युभयोदासीनतत्त्वसिद्धिः । उभयात्मक-वस्तुवत्तस्यापि व्याहतत्वात् । न तृतीयः । ऐक्यस्यान्य-सम्बन्धितापातात् । मेरुमन्दरादिवत्स्वातन्त्र्येण प्रतीति-प्रसङ्गाच्च । नापि तुरीयः । अर्थबाधमन्तरेण व्यवहारबाधस्या-सिद्धेः । आत्मैक्यस्य बाधितत्वे तत्त्वमसीति वाक्यस्यातत्त्वा-वेदकत्वापातात् । न च पञ्चमः । नैमित्तिकदर्शनादेव निमित्तकल्पनासौलभ्यात् । अन्यथाऽऽत्मैक्यपदयोः पर्यायता-प्रसङ्गः ॥ धर्मिप्रतियोगिभेदप्रत्ययानां यौगपद्यसमर्थनम् ॥

वादावलीभावदीपिका

एवं जगति भेदं समर्थ्य यदुक्तं पूर्वं पूर्वपक्षिणाऽऽत्मभेदस्तु न प्रमाणगन्धमनुभवतीत्यादि तं दोषमुद्धरति ॥ परमात्मेति । ‘‘शास्त्रगम्य (धर्म)परेशानाद्भेदः स्वात्मन ईयत’’ इत्याद्युक्तदिशेति भावः । नन्वस्त्वेवं यदि युगपदेव धर्मिप्रतियोगिभेदप्रत्ययः स एव नास्तीत्यतः क्रमे मानाभावेनाबाधितयौगपद्यानुभवबलादेवैतत्सिध्यतीति भावेनाह ॥ न हीति । भेदमभ्युपेत्य बहुवचनोक्तिः । ननु भेदस्य धर्म्यादिसापेक्षत्वात्क्वचित्संशयादि-स्थले धर्मिप्रतीतावप्यप्रतीयमानत्वादन्यसम्बन्धित्वादिना च प्रतीय-मानत्वादेतादृशधर्म्यादिस्वरूपत्वमयुक्तमित्यत आह ॥ जीवेति । स्वरूपयोर्धर्मिस्वरूपतदभिन्नभेदयोरित्यर्थः । जीवब्रह्मचैतन्यस्य निरपेक्षत्वेऽपि तदभिन्नजीवब्रह्मैक्यस्य सापेक्षत्ववच्चैतन्ये स्वयम्भातेऽपि तदभिन्नस्यैक्यस्या-प्रतीतत्ववद्धर्मिस्वरूपस्य निरपेक्षत्वेऽपि तदभिन्नभेदस्य सापेक्षत्वं धर्मिणः प्रतीतावपि क्वचित्संशयविपर्ययस्थले भेदस्याप्रतीतत्वं च युक्तम् । तथा चैतन्यस्यान्यसम्बन्धितयाऽनवभासेऽपि जीवस्य ब्रह्मैक्यं ब्रह्मणो जीवैक्यमित्यैक्यस्य तदभिन्नस्यान्य सम्बन्धितयाऽवभासवदन्या-सम्बन्धितयाऽवभासमानधर्मिस्वरूपस्य भेदस्यास्यायं भेद इत्यन्यसम्बन्धि-तयाऽवभासो युक्तः । तथा । ऐक्यब्रह्मणोरभेदेऽप्यैक्यब्रह्मशब्दयोरपर्यायत्व-वद्घटभेदशब्दयोरपर्यायत्वमैक्यं ब्रह्मेत्यप्रतीतिवच्च घटो भेद इत्यप्रतीतत्वं ब्रह्मैक्ययोरन्यतरापरिशेषवद्घटभेदयोरन्यतरमात्रपरिशेषाभाव इत्यादिवैचित्र्यं युक्तमित्यर्थः । न चैक्यं न चैतन्यस्वरूपमिति युक्तम् । अतिरिक्तत्वे सत्यत्वेऽद्वैतहानेः । मिथ्यात्वे तत्त्वमस्यादिवाक्यानामतत्त्वावेदकत्वाद्यापत्तेः। न च चैतन्ये प्रतीतेऽपि तदभिन्नमैक्यमपि प्रतीयत इति युक्तम् । तथात्वे तत्र विप्रतिपत्त्यभावप्रसङ्गात् । उपदेशानर्थक्यप्रसङ्गाच्च । न चैक्यस्य स्वतो भानेऽप्यज्ञानविरोधिन्या वृत्तेरभावाद्विप्रतिपत्त्यादीति वाच्यम् । प्रत्यगर्थवदेव वृत्त्यभावेऽपि स्वतो भानेनैक्येऽपि विप्रतिपत्त्याद्ययोगात् । यदि चैक्यस्याविद्यावरणादप्रकाशस्तर्हि भेदस्यापि सादृश्यदोषादप्रतीतिरिति समम् । उक्तं च तत्त्वनिर्णये । न च धर्मिप्रतियोग्यपेक्षया भेदस्यास्वरूपत्वम् । ऐक्यवत्स्वरूपस्यैव तथात्वात् । स्वरूपसिद्धावपि तदसिद्धिश्च जीवेश्वरैक्यं वदतः सिद्धैवेतीति भावः । वैषम्यमाशङ्कते ॥ व्यपदेशमात्रमिति । अत्रैक्यविषय इत्यर्थः ।

मात्रपदेन किन्निषिध्यते व्यपदेशस्यार्थो वा व्यपदेशस्याबाधितत्वं वा व्यवहारस्य निमित्तं वा । आद्येऽपि किं ब्रह्मस्वरूपं निषिध्यते ऐक्यं वा तत्सम्बन्धो वेति भावेन विकल्पयति ॥ परमार्थेनेति । स्वरूपं ब्रह्मस्वरूपमित्यर्थः । क्रमेण निराह ॥ नाद्य इत्यादिना ॥ भेदोन्मज्ज-नेति । परस्परविरुद्धयोरेकस्याभावेऽन्यतरस्य सत्त्वनियमादिति भावः । अस्तु भेदाभेदोभयौदासीन्येन तत्त्वसिद्धिरित्यत आह ॥ न हीति । तस्याप्युभयो-दासीनवस्तुनोऽपीत्यर्थः । तृतीयेऽप्यैक्यस्यान्यसम्बन्धित्वं वा मेरुमन्दरादि-वत्स्वातन्त्र्यं वेति हृदि निधायाद्य आह ॥ ऐक्यस्येति । अन्त्य आह ॥ मेर्विति । उभयथाऽपि प्रत्यग्ब्रह्मैक्यस्यासिद्धिरैक्यमात्रस्य मन्मतेऽपि भावेन सिद्धसाधनादिकं च स्यादिति भावः ॥ अर्थेति । ब्रह्मतदैक्य-तत्सम्बन्धरूपार्थबाधमन्तरेणेत्यर्थः । अस्त्वित्यतः प्रागुक्तदोषे सत्यपि दोषान्तरमाह ॥ आत्मैक्यस्येति ॥ नैमित्तिकेति । ब्रह्मैक्यमिति व्यपदेश-रूपकार्यदर्शनादेवेत्यर्थः ॥ अन्यथेति । आत्मैक्यमिति व्यपदेशनिमित्तस्य कस्यचिदभाव इत्यर्थः ॥ छ ॥

वादावलीप्रकाशः

ननु कथं प्रत्यक्षस्य भेदग्राहकत्वं तत्किं भेदमेव गोचरयेदुत वस्त्वपि । द्वितीयेऽपि किं भेदपूर्वं वस्तु गोचरयेदुत वस्तुपूर्वं भेदमित्यादि-नोक्तदोषावकाशोऽपि नास्ति । परमात्मधर्मिकस्तदितरजीवजडधर्मिकश्च यो भेदः स परमात्मतदितरस्वरूपग्राहकप्रमाणेनैव निश्चितस्तस्य तदभिन्नत्वादतः प्रतीतिद्वयाभावाद्भेदपूर्वं वस्तु गोचरयेदुत वस्तुपूर्वं भेदमिति विकल्पावकाश एव नास्तीत्याह ॥ परमात्मेति । ननु कथं परमात्मादिभेदस्तत्तत्स्वरूप-ग्राहकप्रमाणेनैव सिद्धो धर्मिप्रतियोगिभेदज्ञानानां कार्यकारणभावसद्भावेन क्रमभावित्वादिति चेत्तत्राह ॥ न हीति । धर्मिप्रतियोगिनोः पुरोऽवस्थितत्वे युगपदिन्द्रियसन्निकर्षे च सति युगपदेव समूहालम्बनैकज्ञानोत्पत्तेरनुभवसिद्धत्वेन धर्म्यादिप्रतीतीनां कार्यकारणभावानङ्गीकारेण क्रमभावे मानाभावादिति भावः ।

ननु भवेदयमन्योन्याश्रयपरिहारो यदि भेदस्य धर्मिस्वरूपत्वं स्यात् । न च तद्युक्तम् । धर्मिस्वरूपं हि परनिरपेक्षमेव प्रतीयते । न हि कस्यचिदस्त्य-स्मादयं पट इति वाऽस्मादस्य पट इति वा प्रतीतिः । किन्नाम पट इत्येव । भेदस्तु घटात्पटो भिन्न इति वा घटात्पटस्य भेद इति वा धर्मिप्रतियोगि-प्रतीत्यपेक्षयैव प्रतीयते न तु कदाऽपि भेद इत्येव । तथा च सापेक्ष-निरपेक्षतालक्षणविरुद्धधर्माधिकरणयोर्भेदधर्मिस्वरूपयोः कथमैक्यं स्यात् । किञ्च भेदो न धर्मिस्वरूपं तत्प्रतीतावपि कदाचिदप्रतीतेः । यो यत्प्रतीतावपि कदाचिन्न प्रतीयते नासौ तत्स्वरूपं यथा घटप्रतीतावप्यप्रतीयमानः पटो न घटस्वरूपम् । न चायमसिद्धो हेतुः । स्थाणुशुक्तिकाप्रतीतावपि पुरुष-रजतभेदस्याप्रतीतेः । प्रतीतौ वा संशयविपर्ययानुत्पत्तिप्रसङ्गात् । किञ्च भेदस्य न धर्मिस्वरूपत्वं पटस्य भेद इति तत्सम्बन्धितया प्रतीयमानत्वात् । यो यत्सम्बन्धितया प्रतीयते नासौ तत्स्वरूपम् । यथा कम्बलो ब्राह्मणस्य । किञ्च भेदस्य धर्मिभूतपटस्वरूपत्वे पटभेदशब्दयोः पर्यायत्वं स्यात् । किञ्च भेदस्य धर्मिभूतपटस्वरूपत्वे पट एवास्ति न भेद इति वा भेद एवास्ति न पट इति वाऽन्यतरमात्रावशेषः स्यादिति चेत्तत्राह ॥ जीवब्रह्मैक्य-वदेवेति । स्वरूपयोर्भेदस्वरूपधर्मिस्वरूपयोः । इदं भेदाख्यं वस्तु । इत्यादीत्यादिपदेनान्यतरमात्रावशेषाभावग्रहणम् । वैचित्र्यं प्रतीतिव्यवहारयो-र्वैचित्र्यम् ।

अयमर्थः । यथाऽनपेक्षप्रतीतिकप्रत्यक्चैतन्यस्वरूपस्यापि जीवब्रह्मैक्यं जीवस्य ब्रह्मणैक्यमिति धर्मिप्रतियोगिप्रतीत्यपेक्षया प्रतीयमानत्वं परेणाङ्गीक्रियते तथा निरपेक्षप्रतीतिकधर्मिस्वरूपस्यैव भेदस्य धर्मिप्रतीत्यपेक्षया प्रतीयमानत्वो-पपत्तेः । तथा च भेदपटौ नाभिन्नौ सापेक्षनिरपेक्षप्रतीतिकत्वरूपविरुद्ध-धर्माधिकरणत्वादित्यस्यान्यतरानैकान्त्यम् । तथा च प्रत्यक्चैतन्ये स्वप्रकाश-तया सिद्धेऽपि जीवब्रह्मणोरैक्यं न सिद्धम् । अन्यथोपदेशानर्थक्यप्रसङ्गात् । विप्रतिपत्त्यभावप्रसक्तेश्च । तथाऽपि स्वरूपतया परेणाङ्गीक्रियते । तस्मादय-मपि हेतुरन्यतरानैकान्तिक एव । तथा जीवब्रह्मस्वरूपयोरैक्यमिति जीवब्रह्मसम्बन्धितया प्रतीयमानमप्यैक्यं न जीवब्रह्मणोरन्यतरत् । तथा च भेदोऽपीत्ययमपि हेतुरनैकान्तिक एव । तथैक्यस्य जीवब्रह्मस्वरूपत्वेऽपि जीवब्रह्मणोरैक्यमित्यपर्यायशब्दवाच्यत्वमन्यतरमात्रावशेषाभावश्च तथा पटभेदयोः सविशेषभेदस्वीकारेणापर्यायशब्दवाच्यत्वमन्यतरमात्रावशेषश्च भविष्यतीति न कोऽपि दोष इति ॥ व्यपदेशमात्रमिति । जीवब्रह्मणोरैक्य-मिति व्यवहारमात्रं न प्रतीतिरित्यर्थः । तथा च सापेक्षनिरपेक्षप्रतीतिकत्वस्य सम्बन्धितया प्रतीयमानत्वहेतोश्चाभावान्नान्यतरानैकान्त्यमिति भावः ।

यथा लिखितसिंहेऽयं सिंह इति व्यपदेशमात्रं न प्रतीतिः । कुतः । तत्र सिंहत्वस्य बाधितत्वात् । एवं जीवब्रह्मस्वरूपयोरैक्यमिति व्यपदेशमात्रं न प्रतीतिः । कुतः । पारमार्थ्येन तयोरैक्यस्य बाधितत्वादिति प्राप्तम् । तत्र पृच्छति ॥ किमिति । जीवब्रह्मस्वरूपयोरैक्यं बाधितमित्यत्र जीवब्रह्म-स्वरूपमेव बाधितमित्यभिप्राय उत जीवब्रह्मस्वरूपमस्ति तयोरैक्यं बाधितमिति वेत्यर्थः । जीवब्रह्मस्वरूपैक्यं चास्ति । ऐक्यस्य जीवब्रह्मनिरूपितो यः सम्बन्धः स व्यपदेशमात्रं न तु तत्प्रतीतिरस्ति । तथा च जीवब्रह्मणोरैक्यस्य च यः सम्बन्धः स बाधित इत्यर्थः ॥ व्यवहार इति । जीवब्रह्मणो-रैक्यमिति व्यपदेशमात्रमित्यस्य व्यवहारो बाधित इत्यर्थः ॥ तन्निमित्त-मिति । जीवब्रह्मणोरैक्यमिति भेदव्यवहारे यन्निमित्तं भेदः स बाधित इत्यर्थः ॥ निराश्रयस्येति । जीवब्रह्मस्वरूपस्य बाधितत्वे आश्रयाभाव-प्राप्त्यैक्यरूपधर्मस्यानिर्वाहान्निर्वहितुं समर्थयितुं प्रतिपादयितुमिति यावत् । अशक्यत्वादित्यर्थः ॥ निर्वाहे वेति । जीवब्रह्मस्वरूपस्य बाधितत्वेना-सत्त्वमङ्गीकृत्य निराश्रयस्यैवैक्यस्य प्रतिपादन इत्यर्थः ॥ तुच्छेति । जीवस्वरूपस्य बाधितत्वेऽसत्त्वेन शून्यापरपर्यायतुच्छत्वप्राप्त्या शून्याद्वैत एव पर्यवसानापत्त्या शून्यवादिवैलक्षण्यं तव न स्यादिति भावः ॥ भेदेति । जीवब्रह्मणोरैक्यस्य बाधितत्वे भेदोन्मज्जनस्य भेदोत्थानस्य प्रसङ्गः । कुतः । परस्परविरुद्धयोरन्यतरनिषेधस्यान्यतरविधिनान्तरीयकत्वादिति भावः । नन्वैक्यस्य बाधितत्वेऽपि भेदोन्मज्जनमिति नाङ्गीक्रियते । भेदाभेदौदासीन्येनैव ब्रह्मस्वरूपत्वसिद्ध्यङ्गीकारादित्याशङ्क्य निराकरोति ॥ न हीति । भेदाभेदानवगाहीत्यर्थः । कुतो नेत्यत आह ॥ उभयात्मकेति । भेदाभेदात्मकत्वं यथा वस्तुनोर्विरुद्धं तथा तस्यापि भेदाभेदशून्यस्यापि वस्तुनोर्विरुद्धत्वादित्यर्थः ॥ ऐक्यस्येति । जीवब्रह्मणोरैक्यस्य सम्बन्धस्य बाधितत्वे ऐक्यस्य जीवब्रह्मसम्बन्धित्वाभावप्राप्त्या जडसम्बन्धित्वं स्यात् । तस्य ससम्बन्धिकपदार्थत्वेन सम्बन्धिसापेक्षत्वादिति भावः । दूषणान्तर-माह ॥ मेरुमन्दरादिवदिति । ऐक्ये जीवब्रह्मसम्बन्धित्वस्य बाधितत्वे मेरुमन्दरयोर्यथा स्वातन्त्र्येणान्योन्याविशेषणतयेति यावत् । यथा प्रतीतिरस्ति तथा प्रतीतिप्रसङ्गः । न चेष्टापत्तिरिति वाच्यम् । ऐक्यमित्येव प्रतीतेरभावादिति भावः ॥ अर्थेति । व्यवह्रियमाणेत्यर्थः । जीवब्रह्मैक्यव्यवहारस्य बाधितत्वं तदा स्याद्यदि व्यवहारविषयीभूतं जीवब्रह्मैक्यं बाधितं स्यान्न चैतत्तव सम्मतमिति भावः । अस्तु ब्रह्मैक्यमिति बाधितमिति चेत्तत्राह ॥ आत्मैक्यस्येति । ब्रह्मैक्यस्येत्यर्थः । वाक्यस्य ब्रह्मैक्यबोधकस्य ॥ नैमित्तिकेति । ब्रह्मणैक्यमिति भेदव्यवहाररूपनैमित्तिकेत्यर्थः । तथा च ब्रह्मणैक्यमिति भेदव्यवहारदर्शनेन तदन्यथाऽनुपपत्त्या तन्निमित्त- भेदकल्पनाया अपि सौलभ्येन तस्य बाधितत्वकल्पनमयुक्तमिति भावः ॥ अन्यथेति । जीवब्रह्मणोरैक्यमिति भेदव्यवहारे निमित्तभूतभेदानङ्गीकारे आत्मैक्यपदयोः पर्यायत्वं स्यादित्यर्थः ॥ छ ॥

वादावलीविवरणम्

आत्मभेदस्तु न प्रमाणगन्धमनुभवतीत्यनेनोक्तं दोषं परिहरति ॥ परमात्मेति । इदं च भेदप्रत्यक्षेऽन्योन्याश्रयत्वादिदोषोद्धारप्रसङ्गादत्रोक्तमिति न कश्चित्क्षुद्रोपद्रवः ॥ तत्तत्स्वरूपेति । जीवस्येश्वरभेदो जीवस्वरूप-ग्राहकप्रत्यक्षसिद्धः । ईश्वरस्य जीवाद्भेदस्तु ‘‘तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप । उत्तमः पुरुषस्त्वन्य’’ इत्यादितद्वचनानुमितेश्वरप्रत्यक्षसिद्ध इत्यर्थः ॥ नोक्तदोषेति । जीवस्येश्वरभेदो न प्रत्यक्षः प्रत्यक्षाप्रत्यक्षभेदस्या-प्रत्यक्षत्वादित्युक्तदोषावकाशो नेत्यर्थः । अधिकरणे प्रतियोग्यनुपलब्धेर-भावप्रत्यक्षहेतोः प्रत्यक्षेऽपि सत्त्वादिति भावः । ननु प्रतियोग्यनुपलब्धिः किं तदुपलम्भसामान्याभावः प्रत्यक्षाभावो वा । नाद्यः । तथा सति दोष-वशात्प्रत्यक्षेण पीतत्वेन गृह्यमाणे शङ्खेऽनुमानेन श्वैत्यसंसर्गे श्वैत्यतादात्म्ये चोपलभ्यमाने श्वैत्यसंसर्गाभावः श्वैत्यतादात्म्याभावश्च प्रत्यक्षतो न प्रतीयेत ।

न द्वितीयः । स्तम्भे पिशाचतादात्म्याभावे प्रत्यक्षानुपपत्तेः क्वापि पिशाचात्मतया प्रत्यक्षरूपोपलम्भस्याप्रसिद्ध्या स्तम्भे तदभावात् । न च प्रतियोग्यधिकरणसंसर्गप्रत्यक्षविषयत्वाभावरूपप्रतियोग्यनुपलब्धिशब्दवाच्यो हेतुः स च संसर्गः क्वचित्तादात्म्यं क्वचिदन्य एवेति वाच्यम् । एवं हि वायौ रूपाभावप्रत्यक्षो न स्यात् । अधिकरणसंसर्गप्रत्यक्षस्याप्रसिद्धेः । न चाधिकरणे प्रतियोगिसंसर्गप्रत्यक्षविषयत्वाभावो हेतुः । तथा सति पिशाचतादात्म्याभावप्रत्यक्षं न स्यात् । प्रतियोगिसंसर्गप्रत्यक्षाप्रसिद्धेः । अथ प्रत्यक्षेऽधिकरणप्रतियोगिसंसर्गविषयकत्वाभावो हेतुरिति चेन्मैवम् । मण्डूकवसाक्तनेत्रस्य वंशे उरगप्रत्यक्षत्वे सति त्वचा तदभावप्रत्यक्षं न स्यात् । न चाभावग्राहकेन्द्रियप्रत्यक्षे तद्विषयत्वाभावस्तथेति वाच्यम् । एवं हि कुत्राप्यभावप्रत्यक्षं न स्यात् । तादृशाहार्यारोपे सत्येवाभावप्रत्यक्षोदयात् । आरोप्यं निषिध्यत इत्यभ्युपगमादिति चेत् । उच्यते । तदिन्द्रियजन्यानाहार्य-प्रत्यक्षे प्रतियोग्यधिकरणसंसर्गविषयकत्वाभावः प्रतियोग्यनुपलब्धिशब्दवाच्यः संसर्गा भावप्रत्यक्षे हेतुः । एवञ्च जीवेश्वरभेदप्रत्यक्षं युक्तमिति । नन्वी-दृश्यनुपलब्धिर्यद्यभावग्राहिका तदा जलपरमाणौ पृथिवीत्वाभावप्रत्यक्षं स्यादिति चेन्मैवम् । योग्यानुपलब्धेर्हेतुत्वात् । योग्यता च तर्कितप्रतियोगिसत्वं प्रसञ्जितप्रतियोगिकत्वम् । एवञ्च नोक्तदोष इत्यलम् । स्यादेतद्यदि भेदस्य धर्मिस्वरूपत्वं स्यात्तदैवान्योन्याश्रयपरिहारः स्यात् । न चैवम् । तथात्वे घटस्य धर्म्यादिनिरपेक्षप्रतीतिकत्वेन तद्वदेव तदभिन्नभेदस्यापि निरपेक्षत्वं स्यात् ।

किं च भेदस्य धर्मिस्वरूपत्वे तत्प्रतीतावपि कदाचिदप्रतीतिर्न स्यात् । न हि घटाभिन्नः कलशो घटप्रतीतावपि कदाचिन्न प्रतीयते । किंचास्य भेद इदं भिन्नमिति सम्बन्धितया धीर्न स्यात् प्रत्युत घटो भेद इति धीः स्यात् । किञ्च घटभेदयोः पर्यायत्वं स्यात् । घटकलशशब्दवत् । अपि च घटभेदयो-रेकतरपरिशेषः स्यादित्यत आह ॥ जीवब्रह्मैक्यवदिति । यदुक्तं निरपेक्ष-घटाभिन्नत्वे तद्वदेव भेदस्यापि निरपेक्षत्वं स्यादिति । तन्न । त्वन्मते ऐक्यस्य निरपेक्षब्रह्मस्वरूपत्वेन तद्वदेव निरपेक्षत्वं स्यादिति साम्यात् । अधिकश्चात्र सविशेषाभेदाङ्गीकारेण परिहारः । यच्चोक्तं भेदस्य धर्मिस्वरूपत्वे तदप्रतीतावपि कदाचिदप्रतीतिर्न स्यादिति । ऐक्यस्य ब्रह्मस्वरूपत्वे ब्रह्मणः स्वप्रकाशत्वेन ब्रह्मप्रतीतौ तदप्रतीतिर्न स्यादिति साम्यात् । यत्त्वस्य भेद इति धीर्न स्यादिति । तत्तुच्छम् । जीवब्रह्मणोरैक्यमित्यपि धीर्न स्यादिति तौल्यात् । यदपि पर्यायत्वापादनं तदपि तुच्छम् । ऐक्यब्रह्मशब्दयोः पर्यायत्वापादनतौल्यात् । यच्चैकतरपरिशेषः स्यादिति । तच्चिन्त्यम् । ऐक्यस्य ब्रह्मस्वरूपत्वेऽप्येकतरपरिशेषः स्यादिति साम्यात् । तदेतदभिप्रेत्योक्तं जीवब्रह्मैक्यवदिति ॥ व्यपदेशमात्रमिति । जीवब्रह्मणोरैक्यमिति व्यपदेश-मात्रमित्यर्थः ॥ बाधितमिति । निषिद्धमित्यर्थः । मात्रशब्देनेति शेषः । तथा च मात्रशब्देन किं परमार्थतो ब्रह्मस्वरूपं निषिद्धमैक्यं वेत्यादि-विकल्पार्थः ॥ तत्सम्बन्ध इति । ऐक्यस्य ब्रह्मसम्बन्ध इत्यर्थः । शून्याद्वैतं पर्यवस्येदित्येव पाठो न्यायामृतानुसारी चेति बोध्यम् ॥ भेदो-न्मज्जनेति । परस्परविरुद्धयोरन्यतरनिषेधेऽन्यतरविधिनियमादिति भावः । ऐक्यभेदयोर्द्वयोरप्यभावे को दोष इत्यत आह ॥ न हीति ॥ ऐक्यस्येति । अत्र वाक्यद्वये । तथा च प्रत्यग्ब्रह्मैक्यसिद्धिरिति भावो बोध्यः । न चैक्यरूपार्थस्य बाधोऽप्यङ्गीक्रियत इत्यत आह ॥ आत्मैक्यस्येति ॥ अन्यथेति । निमित्तकल्पनाभाव इत्यर्थः ॥ छ ॥ धर्मिप्रतियोगिभेदप्रत्ययानां यौगपद्यसमर्थनम् ॥ छ ॥

धर्मिप्रतियोगि भेदप्रत्ययानां यौगपद्यसमर्थनम्