तेन च कालेन सर्वं विशिष्टमेवानुभूयत इति सर्वाधारतया स्थेयम्
भेदप्रत्यक्षस्यान्योन्याश्रयाद्युद्धारः
तेन च कालेन सर्वं विशिष्टमेवानुभूयत इति सर्वाधारतया स्थेयम्
वादावली
तेन च कालेन सर्वं विशिष्टमेवानुभूयत इति सर्वाधारतया स्थेयम् । अस्त्यासीद्भविष्यतीति वा प्रतीति-मपहाय पदार्थप्रतीतेरौदासीन्येनाननुभवात् । तद्वदेव युगप-त्प्रतीतयोर्धर्मिप्रतियोगिभावेन भेदप्रतीत्युपपत्तेरपि नान्योन्या-श्रयाद्यापातः । अत एव परस्परभेदप्रतीतेरपि तत्तत्प्रत्यया-पृथग्भावान्नान्योन्यापेक्षा ॥ छ ॥ भेदप्रत्यक्षस्यान्योन्याश्रया-द्युद्धारः ॥ छ ॥
वादावलीभावदीपिका
अस्त्वेवं साक्षिवेद्यः काल इति । ततश्च किमित्यतोऽस्ति तावदस्तीदमित्यत्र वर्तमानकालो वस्तुना सहैवानुभूयत इति प्रागुक्तमर्थमाह ॥ तेन चेति । साक्षिसिद्धेन चेत्यर्थः । सर्वं वर्तमानमतीतानागतं च वस्त्वित्यर्थः । विशिष्टं सम्बद्धमेवानुभूयत इत्युक्तं व्यनक्ति ॥ अस्तीति । अस्त्वेवं साक्षिसिद्धकालेन विशिष्टतयैव सर्ववस्तुनः प्रतीतिः । ततोऽपि किमित्यतो भेदप्रतीतौ धर्मिप्रतियोगिप्रतीतिसापेक्षत्वकृतमन्योन्याश्रयदोषमुद्धरति ॥ तद्वदेवेति । साक्ष्युपनीतकालविशेषणकवस्तुप्रतीतिवदेवेत्यर्थः । प्रतीतयोः साक्षिणेत्यर्थः । एतच्च द्वयोर्व्यवधान एवैकस्यैव धर्म्यादेः सन्निधिरन्यस्या-सन्निधिस्तदा साक्षिप्रतीतेन प्रतियोगिना सहैव तद्भिन्नतया धर्मी ज्ञायत इति ज्ञेयम् । अत एवेत्युक्तं व्यनक्ति ॥ परस्परेत्यादिना । धर्मिस्वरूप-प्रतियोगिभेदस्य प्रतियोगिस्वरूपधर्मिभेदस्य च प्रतीतेरपि धर्मिप्रतियोगिप्रत्ययतः पृथक्त्वाभावादित्यर्थः ॥ छ ॥
वादावलीप्रकाशः
अस्तीदमित्यत्र वर्तमानकालो वस्तुना सहैवानुभूयते साक्षिणेत्युक्तम् । तेन कालसम्बद्धमेव वस्त्वनुभूयत इत्यर्थाल्लब्धम् । तदुप-पादयितुमाह ॥ तेन चेति । साक्षिसिद्धेनेत्यर्थः । काले तु विशिष्टमेव सर्वमित्यन्वयः । सर्ववस्त्वास्थेयमिति । यथोक्तम्–
तदेतदिति सर्वं च दृश्यं वा स्मृतिगोचरम् ।
साक्षिसिद्धेन कालेन खचितं ह्येव वर्तते ॥ इति ।
कुत इत्यत आह ॥ अस्तीत्यादिना ॥ अपहायेति । तथा च घटादिपदार्थो वर्तमानादिकालादिसम्बद्धत्वेनैवानुभूयत इति भावः ॥ तद्वदेवेति । यथा कालेन सहैव वस्तु प्रतीयते न तु प्रतीतिद्वयं तद्वदेवेत्यर्थः ॥ युगपदिति । धर्मिप्रतियोगिनोः पुरोऽवस्थितत्वे युगपदिन्द्रियसन्निकर्षे च सत्येकप्रतियोगिकमपरधर्मिकं भेदज्ञानं समुदायालम्बनमेकमेव भवति । धर्मिप्रतियोगिनोरन्यतरस्यैव सन्निधाने तु संस्कारसहकृतेन्द्रियसन्निकर्षेणैकमेव ज्ञानमुत्पद्यत इति प्रतीतिद्वयाभावान्न धर्मिप्रतियोगिभावापेक्षायामन्योन्याश्रय इत्यर्थः ।
तथाऽपि प्रत्येतव्यभेदाधिकरणप्रतियोगिकभेदवत्त्वेन ज्ञातस्य प्रतियोगि-त्वात्स्तम्भात्कुम्भस्य भेदसिद्धौ कुम्भात्स्तम्भेदसिद्धिरित्यन्योन्याश्रयोऽप्यत एव परिहृत इत्याह ॥ अत एवेति । अस्यैव विवरणं तत्तत्प्रत्ययेति । तत्तद्भेदविषयकप्रत्ययानामपृथग्भावात्पृथग्ज्ञातव्यत्वाभावादिति यावत् । तथा च प्रत्येतव्यभेदाधिकरणप्रतियोगिकभेदवत्त्वेन ज्ञातस्य न प्रतियोगित्वं येनान्योन्याश्रयः स्यात् । वस्तुतो विद्यामानभेदस्य स्तम्भस्य स्तम्भत्व-प्रतीतिमात्रेण प्रतियोगित्वोपपत्तेः । यथा गवयप्रतियोगिकभेदवत्त्वेनाज्ञाताया अपि गोर्गोत्वप्रतीतिमात्रेण गवयगतसादृश्यप्रतियोगिकत्ववदिति नान्योन्याश्रय इति भावः ॥ छ ॥
वादावलीविवरणम्
एवमस्ति तावदिति वाक्ये प्रतिज्ञातं कालस्य साक्षिवेद्यत्वं समर्थ्येदानीं तत्रैव प्रतिज्ञातं वस्तुना सहैव साक्षिवेद्यत्वं समर्थयते ॥ तेन चेति । एतावता कालस्य वस्तुना सहैव साक्षिवेद्युत्वमुपपाद्य प्रकृत-मनुसरन्प्रतियोगिज्ञानापेक्षयाऽन्योन्याश्रयो नास्तीत्याह ॥ तद्वदेवेति । न चात्र धर्मिग्रहणं व्यर्थम् । यथा प्रतीतिद्वयाभावान्न धर्मिज्ञानाभावापेक्षयाऽ-न्योन्याश्रयस्तथा प्रतीतिद्वयाभावादेव ज्ञानापेक्षयाऽपि नान्योन्याश्रय इति दृष्टान्तार्थत्वात् । यद्वा भेदस्य धर्मिभेदत्वाभावमुपपत्त्योक्तरीत्या धर्मिज्ञानापेक्षयाऽन्योन्याश्रयं परिहर्तुं धर्मिग्रहणम् । विशेष्यभेदप्रतीतावप्य-न्योन्याश्रयादिकमतिदेशेन परिहरति ॥ अत एवेति । अत एवेत्युक्तं विवृणोति ॥ तत्तत्प्रत्ययेति ॥ छ ॥ भेदप्रत्यक्षस्यान्योन्याश्रयाद्युद्धारः
॥ छ ॥