कथञ्चित्सापेक्षत्वेन परतस्त्वे साक्षिणः..
कालस्य साक्षिवेद्यत्वसमर्थनोपसंहारः
कथञ्चित्सापेक्षत्वेन परतस्त्वे साक्षिणः..
वादावली
कथञ्चित्सापेक्षत्वेन परतस्त्वे साक्षिणः साक्षा-त्स्वतःप्रामाण्यं तदन्यस्यासाक्षादिति व्यवस्था स्यात् । तस्मा-त्सुषुप्तावपि सुखानुभवादिविशेषणतया प्रतीयमानः कालः साक्षिणैवेक्षणीयः । तथा चात्र प्रयोगः । कालो बाह्यप्रत्यक्षा-द्यतिरिक्तप्रमाणविषयः । यथाऽसति चक्षुषि प्रतीयमानो गन्ध इति ॥ छ ॥ कालस्य साक्षिवेद्यत्वसमर्थनोपसंहारः ॥ छ ॥
वादावलीभावदीपिका
ननु दोषाभावस्य कारणत्वाभावेऽपि प्रयोजकत्वेनापेक्षाऽस्त्येव । अन्यथाऽदुष्टमिन्द्रियं त्वक्षं तर्कोऽदुष्टस्तथाऽनुमा । आगमोऽदुष्टवाक्यं च स्वदृक् चानुभवः स्मृत इत्यादावदुष्टत्वविशेषणं न स्यादित्यत आह ॥ कथञ्चिदिति । प्रतिबन्धकत्वाभावत्वादिनेत्यर्थः ॥ साक्षादिति । तस्य नित्यनिर्दोषत्वेनान्यापेक्षाभावात् । अत एव स्वदृक् चानुभव इत्येवोक्तम् । न निर्दोषेत्यपीति भावः । तदन्यस्य प्रत्यक्षादिजन्यमनोवृत्तिज्ञानस्येत्यर्थः ॥ इति व्यवस्थेति । तावताऽपि प्रामाण्यग्राहकतया साक्षिणोऽत्यावश्यकतया साक्षिसत्त्वरूपप्रकृतप्रमेयसिद्धेरिति भावः । नन्वस्तु प्रामाण्यस्य साक्ष्यन्यावेद्यत्वेन तद्ग्राहकतया साक्षिसत्वम् । तथापि न तद्ग्राह्यत्वं कालादे-र्युक्तम् । तस्यानुमानिकत्वायोगेऽपि प्रत्यक्षादिवेद्यत्वसम्भवादित्याशङ्कां परिहरन्साक्षिणैवानुभूयते काल इत्यनुक्रान्तावान्तरप्रमेयमुसंहरति ॥ तस्मादिति । प्रामाण्यग्राहकत्वेन साक्षिणोऽवश्यापेक्षणीयत्वादित्यर्थः ॥ सुखेति । एतावन्तं कालं सुखमहमस्वाप्समित्युत्थितस्य परामर्शदर्शना-त्पूर्वमननुभूतस्य पश्चात्परामर्शायोगात्तदा च बाह्येन्द्रियाणां मनसश्चोपरतत्वेन प्रत्यक्षानुमानयोरप्रवृत्त्या परिशेषात्साक्ष्यनुभव एवैष्टव्यः । उक्तं चानु-व्याख्याने । ‘‘कालो हि साक्षिप्रत्यक्षः सुषुप्तौ च प्रतीतित’’ इतीति भावः । एतेन षडिन्द्रियवेद्यः काल इत्यादिपक्षोऽपि प्रत्युक्तः । आदिपदेनाज्ञानदुःखा-भावादिग्रहपरिग्रहः । उक्तमर्थं प्रयोगारूढतया दर्शयति ॥ तथा चेति । सुषुप्तावपि कालप्रतीतौ सत्यां हेतोरसिद्ध्यभावेनानुमानप्रयोगो निर्व्यूढ इत्यर्थः ॥ गन्ध इतीति । चक्षुर्व्यतिरिक्तघ्राणविषय इति शेषः ॥ छ ॥
वादावलीप्रकाशः
प्रौढिवादेन तुष्यतु दुर्जन इति न्यायेनाह ॥ कथञ्चिदिति । जलादिज्ञानेषु साक्षिणा प्रामाण्यग्रहणे यथा कथञ्चित्प्रतिबन्धकीभूताप्रामाण्य शङ्कारूपबुद्धिदोषनिरासार्थत्वेन परीक्षासापेक्षत्वेन परतस्त्वाङ्गीकार इत्यर्थः ॥ साक्षिण इति । सुखादिविषय इति शेषः ॥ तदन्यस्येति । साक्षिभिन्नस्य मनोवृत्तिरूपजलादिज्ञानस्येत्यर्थः ॥ असाक्षादिति । अप्रामाण्यं परत इति व्यवस्था स्यादस्त्वित्यर्थः । एवं प्रमाणानां प्रामाण्य-निर्वाहकत्वेनापेक्षणीयः साक्षीत्येतदुपपाद्य यदुक्तं कालः साक्षिणाऽनुभूयत इति तदुपसंहरति ॥ तस्मादिति । अनुभवादीत्यादिपदेन सुषुप्त्यवस्था ग्राह्या ॥ विशेषणतयेति । एतावन्तं कालं सुखमहमस्वाप्समित्युत्तरकाले स्मृति-रूपः परामर्शो भवति । एतावन्तं कालं सुखमनुभवन्नेव स्वापमकार्षमिति तदर्थः । तथा च सुषुप्त्यवस्थायां सुखानुभवं सुषुप्त्यवस्थां च प्रत्यधिकरणत्वेन विशेषणतया प्रतीयमानः कालः साक्षिणैवेक्षणीयो ज्ञातव्य इत्यर्थः । बाह्यप्रत्यक्षादीत्यादिपदेन मनसोऽनुमानस्य च ग्रहणम् ॥ प्रमाणेति । तच्च प्रमाणं साक्षिरूपमेवेति हृदयम् । तेषु प्रत्यक्षादिषु । गन्ध इत्यनन्तरं तद्व्यतिरिक्तघ्राणेन्द्रियरूपप्रमाणविषय इति शेषः ॥ छ ॥
वादावलीविवरणम्
एवं प्रामाण्यस्य ज्ञप्तावुत्पत्तौ च स्वतस्त्वं न तु परीक्षाधीनत्वं दोषाभावाधीनत्वं वा व्यभिचारादित्युक्तम् । एवमपि परतस्त्वमुच्येत तदा बाधकमाह ॥ कथञ्चिदिति । पराभिमतानुव्यवसाय एव साक्षीति तर्कताण्डव उक्तत्वात्साक्षिशब्दो न व्यवसायपरः साक्षिणः पराभिमतानुव्यवसायस्य तस्य परेण स्वतःप्रामाण्याङ्गीकारात् । असाक्षात्परतो व्यवस्था न स्यादिति । अप्रमाऽपि प्रमेत्येव गृह्यत इति दर्शनादनुव्यवसायप्रामाण्येऽपि विगाना-त्तन्निरासाय तत्रापि परीक्षापेक्षायास्त्वयाऽङ्गीकार्यत्वादिति भावः । एवं गगनादिसिद्ध्यन्यथाऽनुपपत्त्या साक्ष्यङ्गीकार्य इत्युक्त्वा प्रकृतमनुपपन्ना ह्यानुमानिकेत्यादिनोक्तमुपसंहरति ॥ तस्मादिति । उक्तरीत्या मानान्तरवेद्य-त्वस्यानुपपन्नत्वादित्यर्थः । नन्वस्तु कालस्य साक्षिवेद्यत्वमनङ्गीकुर्वाणं प्रतीदं बाधकं तत्साधकं तु किमित्यत उक्तम् ॥ सुषुप्तावपीति । अयमाशयः । सुषुप्तौ हीन्द्रियाणामुपरतत्वान्न बाह्यप्रत्यक्षानुमानागमप्रवृत्तिः । अस्ति च तदाऽपि कालप्रतिभासः । एतावन्तं कालं सुखमहमस्वाप्समिति सुप्तोत्थितस्य परामर्शदर्शनात् । न ह्यननुभूतस्य परामर्शो युज्यते । अतः परिशेषात्साक्षि-सिद्ध एवेति गम्यत इति । एतदेवाभिप्रेत्य परिशेषानुमानं दर्शयति ॥ तथा चेति ॥ छ ॥ कालस्य साक्षिवेद्यत्वसमर्थनोपसंहारः ॥ छ ॥
कालस्य साक्षिवेद्यत्वसमर्थनोपसंहारः