०७ प्रमाण्यस्य स्वतस्त्वसमर्थनम्

स च ज्ञानं गृह्णन्न दोषं चेत्प्रमाणं..

प्रमाण्यस्य स्वतस्त्वसमर्थनम्

स च ज्ञानं गृह्णन्न दोषं चेत्प्रमाणं..

वादावली

स च ज्ञानं गृह्णन्न दोषं चेत्प्रमाणं न चेद-न्यथेत्येव व्यवस्थया गृह्णाति । तथा च नारोपितज्ञान-प्रामाण्य-ग्रहणप्रसङ्गः । यदा त्वर्थित्वेन प्रामाण्यं निश्चिचीषति तदा सजातीयविजातीयसंवादविसंवादभावाभावलक्षणया परीक्षया दोषाभावं निश्चित्य प्रामाण्यमवधारयति । दोषदर्शने त्वप्रामाण्यम् ।

वादावलीभावदीपिका

ननु यदि साक्षिणैव तत्प्रामाण्याध्यवसायस्तर्हि बौद्धागम-ज्ञानप्रामाण्यस्यापि ग्रहणप्रसङ्ग इत्युक्तदोषापत्त्या ‘न ज्ञानदृष्टिमात्रेण प्रामाण्यं तस्य दृश्यत’ इत्युक्तव्याहतिः । तदर्थं परीक्षापेक्षायां ज्ञानग्राहकमात्र-ग्राह्यत्वभङ्ग इत्यतो–

ज्ञानस्य ग्राहकेणैव साक्षिणा मानता मितेः ।

दोषाभावे प्रामाणत्वं दोषाभावस्य साक्षिणा ।

निश्चितत्वं क्वचिच्चैव स्वतःप्रामाण्यमिष्यते ।

इति ज्ञानपादीयानुव्याख्यानमेव हृदि कृत्वाऽऽह ॥ स चेति । साक्षीत्यर्थः । अन्यथाऽप्रमाणमित्येव न तु प्रमाणमेवेदमित्यर्थः ॥ तथा चेति । एवं सत्यारोपितार्थविषयज्ञानप्रामाण्यस्य न ग्रहणप्रसङ्ग इत्यर्थः । एवं हि प्रामाण्यनिर्णयो न स्यादित्यत आह ॥ यदा त्विति । अर्थित्वेन प्रामाण्यनिश्चयजन्यफलकामनया । तद्धेतुप्रामाण्यनिश्चयमिच्छति पुरुष इत्यर्थः। सजातीयसंवादभावस्तद्विषयविषयकप्रमाणभूतज्ञानान्तरमिति भावः । तदुचितार्थक्रियाकारित्वाभावाद्यभावो विजातीयसंवादभावस्ताभ्यां प्रामाण्य-मवधारयति साक्षीत्युक्ते ज्ञानग्रहणं निरपेक्षेण साक्षिणा प्रामाण्यग्रहणं तु सापेक्षेणेति स्वतस्त्वभङ्गनिरासाय दोषाभावनिश्चये तयोरुपयोगं वक्तृं दोषाभावं निश्चित्येत्युक्तम् । नन्वप्रामाण्यमपि यदि साक्षिग्राह्यं तर्हि तस्यापि स्वतस्त्वं स्याद्यदि परतस्तर्हि किमदुष्टकरणजन्यत्वेनेत्यादिप्रागुक्तहेतुविपरीतहेतुभिश्चे-त्तद्वदेव दोषाः प्रसरन्तीत्याह ॥ दोषदर्शने त्वप्रामाण्यमिति । पूर्वोक्त-परीक्षासहकृतः साक्षी अप्रामाण्यं निर्धारयतीत्यर्थः । तथा च न कोऽपि दोष इति भावः ।

वादावलीप्रकाशः

नन्वेवं प्रामाण्यस्य ज्ञानग्राहकसाक्षिवेद्यत्वेन स्वतस्त्वाङ्गीकारे इदं रजतमित्याद्यारोपितार्थस्यापि साक्षिवेद्यत्वात्तत्प्रामाण्यस्यापि ग्रहणप्रसङ्ग इत्याशङ्कां परिहरन् सिद्धान्तं निरूपयति ॥ स चेत्यादिना । स साक्षी ॥ अन्यथेति । अप्रमाणमित्यर्थः ॥ व्यवस्थयेति । एतदभिप्रायः सुधाटिप्पण्यां द्रष्टव्यः ॥ नारोपितेति । तस्य सदोषत्वेन तत्राप्रामाण्यमेव गृह्णातीति भावः ॥ अर्थित्वेनेति । निःशङ्कमर्थनिश्चयार्थित्वेनेत्यर्थः । निश्चिचीषति निश्चेतुमिच्छति ॥ सजातीयेत्यादि । साक्षात्स्वविषय-विषयकमानान्तरसंवादः सजातीयसंवादः । यथेदं जलमिति ज्ञानस्येदं जलमिति ज्ञानान्तरसंवादः सजातीयसंवादः । स्वनिष्ठप्रामाण्यव्यवस्थापनद्वारा स्वविषयविषयकमानान्तरसंवादो हि विजातीयसंवादः । यथेदं जलमिति ज्ञानस्येदं जलज्ञानं प्रमाणं समर्थप्रवृत्तिजनकत्वादित्यनुमानं विजातीयसंवादः । प्रामाण्यास्यार्थसत्ताघटितत्वेन तन्निश्चयद्वारेदं जलं भवत्येवेत्यर्थसत्ता-निश्चायकत्वादिति द्रष्टव्यम् । सजातीयविजातीयसंवादभावविसंवादाभाव-लक्षणयेत्यन्वयः ।

वादावलीविवरणं

ननु यदि ज्ञानस्वरूपग्राहकः साक्षी तत्प्रामाण्यमपि गृह्णीयात्तर्हि शुक्तिरजतादिज्ञानग्राहकोऽपि स एवेति तत्प्रामाण्यमपि गृह्णीयात् । ततश्च याथार्थ्यनियमात्तज्ज्ञाने प्रामाण्यं सिध्येदित्यत आह ॥ स चेति । तेन तथा चेत्युत्तरवाक्यसङ्गतिः ॥ व्यवस्थयेति । ननु सुदृढो निर्णयो यत्र ज्ञेयं तत्साक्षिदर्शनमित्यनुव्याख्यानविरोधात्कथं साक्षिणः संशयरूपत्वमत्रोच्यत इति चेन्मैवम् । व्यवसायोत्पत्त्यनन्तरं करणदोषविषयके मानसे संशये सति साक्ष्युक्तसंशयद्वयोपनीतकोटीरनूद्य पूर्वसंशयोपस्थितादोषत्वादिव्यवस्थाप्यत्व-मेवोत्तरसंशयोपस्थितप्रामाण्याप्रामाण्ययोरवधारयति । अतस्तत्र स निश्चयरूप एव । सदोषत्वादिकोटिचतुष्टयं तु संशयद्वयोपनीतमनुवदत्येव न विधत्तेऽ-तस्तदवधारणे उदासीन इति न कुत्रापि तस्य संशयरूपत्वप्रसङ्ग इति न विरोधः । विस्तरस्त्वस्मत्परमगुरुकृतसुधाटिप्पण्यां द्रष्टव्यः ॥ नारोपितेति । ननु शुक्तिरजतादिज्ञानस्यापि प्रामाण्यं निर्धार्यत एव । अन्यथा निःशङ्क-प्रवृत्तिर्न स्यात्तत्कथमेतदिति चेत् । नासौ साक्षिरूपोऽवधारणोऽपि तु मानसः । मनसश्च दोषसंसर्गसम्भवेन न तावता प्रामाण्यसिद्धिरिति । तदुक्तम् । ‘‘अमानस्य तु मानत्वं मानसत्वाच्चलं भवेत्’’ इति । ननु व्यवस्थया प्रामाण्यग्रहे निःशङ्का प्रवृत्तिर्न स्यात् । तस्यास्तन्निश्चय-साध्यत्वादित्यत आह ॥ यदा त्विति । अर्थित्वेन प्रयोजनार्थित्वेन प्रयोजने सतीति यावत् । साक्षात्स्वविषयविषयकमानान्तरसंवादः सजातीयसंवादः । स्वप्रमाण्यव्यवस्थापनद्वारा स्वविषयविषयकमानान्तरसंवादो विजातीयः ॥ दोषदर्शने त्विति । परीक्षयेति शेषः ।


न च परीक्षायां परीक्षान्तरापेक्षायामनवस्था

न च परीक्षायां परीक्षान्तरापेक्षायामनवस्था

वादावली

न च परीक्षायां परीक्षान्तरापेक्षायामनवस्था । नापि स्वपरीक्षापेक्षा साक्षिरूपस्यानुभवस्य स्वप्रकाशात्म-स्वरूपत्वाभ्युपगमान्न तत्र परीक्षापेक्षा । मामहं जाना-मीत्यनुभवाद्विशेषबलाच्च न कर्तृकर्मभावविरोधः । नापि स्वानुभूतेषु परीक्षाकाङ्क्षा । तस्यादोषतया संशयानवकाशात् । तदुक्तं –

सुदृढो निर्णयो यत्र ज्ञेयं तत्साक्षिदर्शनम् ।

न परीक्षाऽनवस्था स्यात्साक्षिसिद्धे त्वसंशयात् ॥ इति ।

यत्क्वचिद्व्यभिचारि स्यादृर्शनं मानसं हि तत् । इति च ।

वादावलीभावदीपिका

ननु परीक्षामपेक्ष्य साक्षिणा प्रामाण्यग्रहणे तत्रापि प्रामाण्यावधारणार्थं दोषाभावनिश्चयाय परीक्षान्तरापेक्षायामनवस्था स्यात्तथा साक्षिणोऽप्यनवधृतप्रमाणभावस्य स्वयं दुष्टस्य न परप्रामाण्याव-धारणसामर्थ्यमिति स्वप्रामाण्यावधारणाय दोषाभावनिश्चायकपरीक्षान्तरापेक्षायां साक्षिप्रामाण्यग्राहकान्तरापेक्षाया आवश्यकत्वादित्याशङ्क्य निषेधति ॥ न चेति ॥ नापि स्वपरीक्षापेक्षेति च । स्वेति साक्षी गृह्यते । उपलक्षणमेतत् । ग्राहकान्तरापेक्षेति च ग्राह्यम् । यदि साक्षी स्वयम्भातो न मानमिति वैशेषिकनयानुव्याख्याने स्वयम्भात इत्युक्तहेतुना परीक्षानवस्थां ग्राहकानवस्थां च तावन्निराह ॥ साक्षिरूपस्येति । आत्मस्वरूपत्वेत्युक्त्या प्रागुक्ता-नात्मत्वकार्यत्वादिहेतुविरोधः प्रत्युक्तः । स्वप्रकाशात्मस्वरूपत्व-घटनायानुभवस्येत्युक्तम् । तावता स्वयम्प्रकाशत्वेन स्वप्रामाण्यस्यापि स्वेनैव ग्रहणे ग्राहकानवस्थाभावेऽपि कथं न परीक्षाऽनवस्थेत्यत आह ॥ न तत्रेति । स्वेनैव स्वप्रामाण्यग्रहण इत्यर्थः । तस्यादोषत्वनिर्णयादिति भावः । आत्मनः स्वप्रकाशत्वमेवासिद्धमित्यत आह ॥ मामिति । नन्वेकस्यां क्रियायां कर्तृत्वं कर्मत्वमेकस्य विरुद्धमित्यत आह ॥ विशेषेति । वस्तुसामर्थ्यापरपर्यायरूपविशेषबलादित्यर्थः । समर्थितश्च विशेषोऽनु-व्यख्यानादौ तत्र तत्र मूलग्रन्थेषु तद्विवरणरूपोपाधिखण्डनटीका-भावप्रकाशिकायां च ।

नन्वथाऽपि वृत्तिज्ञानप्रामाण्यग्रहणे परीक्षानवस्थेति दोषं निराह ॥ नापीति । स्यादियमनवस्था यदि सर्वत्र परीक्षापेक्षा स्यात् । न चैवम् । किन्तु सन्दिग्ध एव । सन्देहश्च मनोवृत्तिविषये पानीयादावेव । न तु साक्षिसिद्धसुखादाविति । तावदेव परीक्षा यावत्साक्षिगृहीतेषु सुखादिष्ववतार इति कुतोऽनवस्थेति भावेनाह ॥ तस्यादोषतया संशयानवकाशादिति । क्वचिदप्यर्थव्यभिचारित्वाभाववत्तयेत्यर्थः । साक्षिसिद्धे संशयो नेत्येतदनुव्याख्यानेन संवादयति ॥ तदुक्तमिति । ज्ञानपादीयानुव्याख्याने उक्तमित्यर्थः । सुदृढः कदाऽपि बाधरहितः । निर्णयोऽवधारणात्मकः प्रत्ययः । यत्रेति निपातो य इत्यर्थः । तत्रैव पूर्वत्र पठितमर्धश्लोकमाह ॥ न परीक्षेति । एवं हि तत्र क्रमः ।

न परीक्षानवस्था स्यात्साक्षिसिद्धे त्वसंशयात् ।

मानसे दर्शने दोषाः स्युर्न वै साक्षिदर्शने ।

सुदृढो निर्णय इत्यादिः । ननु साक्षिदर्शनं बाधरहितमित्ययुक्तम् । शुक्तिरूप्यज्ञानप्रामाण्ये बाधदृष्टेरित्यत आह ॥ यत्क्वचिद्व्यभिचारि स्यादिति । क्वचिच्छुक्तिरूप्यज्ञानप्रामाण्य इत्यर्थः । तज्ज्ञानमप्रमाणमपि मनस्येव प्रमाणमिति गृह्यते । न साक्षिणा । साक्षी तु ज्ञानमात्रमेव गृहीत्वोदास्त इति भावः । यद्वा मायावादिमते शुक्तिरूप्यादिज्ञानं साक्षिरूपमेव बाधितं चातः साक्षी बाधशून्य इत्ययुक्तमित्यत आह ॥ यदिति । क्वचिच्छक्तिरूप्यादौ । यद्दर्शनं व्यभिचारि बाधितं स्यात् । तच्चक्षुरादिकरणकमनःपरिणतिरूपमेव न साक्षिरूपमित्यर्थः । इति च तत्रैवोक्तमनुव्याख्यान इत्यर्थः ।

वादावलीप्रकाशः

ननु परीक्षया दोषाभावनिश्चय इत्युक्तमसत् । तत्रापि पुनः परीक्षान्तरापेक्षायामनवस्था स्यादित्याशङ्क्य निराकरोति ॥ न चेति । कुतो न चेत्साक्षिणि पर्यवसानसम्भवादिति भावः । ननु तर्हि साक्षिरूपज्ञाने प्रामाण्यनिश्चयाय परीक्षापेक्षायां पुनरनवस्था स्यादेवेत्याशङ्क्य निराकरोति ॥ नापि स्वेति । स्वस्मिन्साक्षिरूपज्ञान इत्यर्थः । कुतो नेत्यत आह ॥ साक्षिरूपस्येति । तथा च स्वप्रकाशत्वात्साक्षी स्वात्मानं स्वप्रामाण्यं च गोचरयतीत्यभ्युपगमान्न तत्र साक्षिणि परीक्षापेक्षेत्यर्थः । नन्वात्मरूप-साक्षिणः कथं स्वप्रकाशत्वं स्वकर्मकस्वप्रकाशकत्वस्यैकस्मिन्कर्तृकर्मभाव विरोधादित्यतोऽनुभवसिद्धत्वादभेदे भेदकार्यकारिणो विशेषस्य सद्भावाच्च न विरोध इत्याह ॥ मामहमिति । ननु साक्षिसिद्धे सुखादौ सन्देहाभावेन तत्र परीक्षापेक्षयाऽनवस्थाभावेऽपि स्वानुभूतेषु बाह्येषु जलादिषु निःशङ्कप्रवृत्त्यर्थं तज्ज्ञानेऽप्रामाण्यशङ्कापरिहाराय परीक्षापेक्षायामनवस्था स्यादेव । न हि तेऽपि साक्षिसिद्धा येन तदभावः स्यादित्याशङ्कां निराकरोति ॥ नापि स्वेति । नन्वथाऽपि साक्षिसिद्धेषु सुखादिषु परीक्षापेक्षायामनवस्था स्यादित्याशङ्क्य निराकरोति ॥ नापि स्वेति । स्वेन साक्षिणाऽनुभूतेषु सुखादिष्वित्यर्थः । कुतो नेत्यत आह ॥ तस्येति । सुखादिज्ञानरूपस्य साक्षिण इत्यर्थः ॥ अदोषतयेति । आत्मस्वरूपत्वादित्यर्थः । तथा च साक्षिसिद्धे सुखादौ संशयाभावेन परीक्षाकाङ्क्षाया अभावान्नानवस्थेति भावः । साक्षिसिद्धे संशयो नेत्यत्रानुव्याख्यानसम्मतिमाह ॥ तदुक्तमिति । ज्ञान-पादीयानुव्याख्यान इति । साक्षिसिद्धे सुखादौ । नन्विदं रजतामिति ज्ञानं साक्षिवेद्यं तत्प्रामाण्यं केन गृह्यते । तदग्रहणे प्रवृत्तिरेव न स्यादिति चेन्न । तत्र साक्षी ज्ञानमात्रं गृहीत्वा दोषदर्शनेन प्रामाण्यग्रहणस्य नेष्टे । तदा दुर्जन इव मनः स्वयमागत्य प्रमाण्यं गृह्णातीति वदामः । तत्र सम्मतिमाह ॥ यत्क्वचिदिति ।

वादावलीविवरणं

ननु यदि परीक्षासहकृतः साक्षी ज्ञानप्रामाण्यं गृह्वीयात्तदाऽ-नवस्थात्रयं स्यात् । परीक्षाऽपि हि स्वयं प्रमाणत्वेनावधृता परप्रामाण्यावधारणायालं नान्यथा । तथा च तत्रापि परीक्षान्तर-मवतरणीयमित्येका । किञ्च साक्षिणोऽप्यनवधृतप्रमाणभावस्य स्वयंदुःस्थस्य न परप्रामाण्यावधारणसामर्थ्यमिति तत्प्रामाण्यावधारणाय ग्राहकान्तरापेक्षायां द्वितीया । तत्रैव परीक्षापेक्षायां तृतीयेत्याशङ्क्याद्यं तावन्निषेधति ॥ न चेति । अत्र हेतुस्तृतीयानवस्थापरिहार एव वक्ष्यते । द्वितीयमपि निषेधति ॥ नापीति । स्वप्रामाण्यग्राहकान्तरापेक्षायामनवस्था साऽपि नास्तीत्यर्थः। एवं न तत्र परीक्षेत्यत्र साक्षिप्रामाण्यग्राहकान्तरापेक्षा नास्तीत्यर्थः। उभयत्रापि परीक्षाशब्देन ग्राहकान्तरस्य विवक्षितत्वात् । तेन स्वपरीक्षानवस्थाभावे साक्षिणः स्वप्रकाशत्वं कथं हेतुः । तेन तदनुपपादनादिति शङ्कानवकाशः । अत एव सुधायां ग्राहकानवस्थापरिहारे साक्षिणः स्वप्रकाशत्वयुक्त्युपन्यास इति बोध्यम् ।

ननु स्वप्रकाशत्वमात्मनो न युक्तम् । कर्तृकर्मभावविरोधादित्यत आह ॥ मामहमिति । तृतीयामनवस्थामपि दूषयति ॥ नापीति । कुतो नेत्यत आह ॥ तस्येति । साक्षिणा इत्यर्थः । साक्षिसिद्धेऽर्थे शङ्कानवकाश इत्यत्रोपष्टम्भकमाह ॥ सुदृढ इति । यद्वा साक्षिणोऽदोषत्वं कुत इत्याशङ्क्य तत्साधकमनुव्याख्यानं पठति ॥ सुदृढ इति । यत्रेति निपातो यदित्यर्थे । न च परीक्षापेक्षायामनवस्थेत्यत्र सम्मतिमाह ॥ न परीक्षेति । ननु तस्या-दोषतयेत्यनेनोक्तं साक्षिणोऽबाधितत्वमयुक्तम् । शुक्तिरजतादौ बाधदर्शनात् । न हि प्रतीतिसमयमात्रवर्तिनि तत्रान्यज्ञानं सम्भवतीत्याशङ्का-निरासार्थमनुव्याख्यानमेव पठति ॥ यदिति । यद्दर्शनं क्वचिच्छुक्तिरजतादौ व्यभिचारबाधितं तच्चक्षुरादिकरणकं मनःपरिणतिरूपमेव न साक्षिरूपम् । कुत एतन्मानसदर्शनस्य बाध्यत्वाङ्गीकारेऽनिष्टाभावात् । साक्षिणस्तु तथात्वे सर्वव्यवहारविलोपप्रसङ्गादिति ।