प्रमाणानां प्रामाण्यनिर्वाहकत्वेन चापेक्षणीयः साक्षी
साक्षिसमर्थनम्
प्रमाणानां प्रामाण्यनिर्वाहकत्वेन चापेक्षणीयः साक्षी
वादावली
प्रमाणानां प्रामाण्यनिर्वाहकत्वेन चापेक्षणीयः साक्षी । तद्धि याथार्थ्यलक्षणं किमदुष्टकरणजन्यत्वेनावसेयं दुष्टकरणाजन्यत्वेन वाऽथ प्रवृत्तिसामर्थ्येन यद्वा ज्ञानान्तर-संवादेन किं वा विसंवादाभावेनाहोस्वित्स्वतः । नाद्यः । तस्यैव दुरवधारणत्वात् । ज्ञानयाथार्थ्येन तन्निश्चये परस्परा-श्रयापातः । अत एव न द्वितीयः । नापि तृतीयः । सर्वत्र ज्ञाने तदभावात् । चतुर्थस्तु सुखादिज्ञानेष्वसम्भावितः । ज्ञानमात्रसंवादेन च प्रामाण्याभ्युपगमे धारावाहिकविभ्रमो नाम न स्यात् । यथार्थज्ञानसंवादाभ्युपगमे च तस्यापि याथार्थ्याव-धारणायामनवस्था स्यात् ।
वादावलीभावदीपिका
स्यादेतद्यदि साक्षिरूपं किञ्चित्प्रमाणं स्यात् । तदेव नभो-नलिनायतमिति चेन्न । कालाकाशादीनां मानान्तरावेद्यत्वस्योक्ततया तत्साधकतया साक्षिणोऽपेक्षणीयत्वात् । यदि साक्षी स्वयम्भातो न मानं केन गम्यते । अक्षजादेश्च मानत्वमनवस्थाऽन्यथा भवेदिति वैशेषिक-नयानुव्याख्यानोक्तरीत्या प्रामाण्यग्राहकत्वेनापि साक्षिसिद्धिरिति भावेनाह ॥ प्रमाणानामिति । प्रत्यक्षानुमानागमजन्यानां प्रमितीनामित्यर्थः । प्रामाण्यनिर्वाहकत्वेन प्रामाण्यनिश्चायकत्वेन ।
ननु प्रामाण्यस्यान्यतोऽपि ग्रहसम्भवात्कुतस्तन्निर्वाहकत्वेन साक्षिसिद्धि-रित्यतः परिशेषादित्याशयेन तत्र प्रसक्तानि प्रत्याचिख्यासुः प्रमाकरणत्वा-नधिगतार्थगन्तृत्वादिप्रामाण्यानां परोदीरितानामव्याप्त्यादिदुष्टत्वस्यान्यत्र व्युत्पादितत्वात् । गुरुतया साक्ष्ययोग्यत्वाच्च स्वाभिमतं प्रामाण्यमाह ॥ तद्धीति । यन्निर्वाहकत्वेन साक्ष्यपेक्षणीय इत्युक्तं तदित्यर्थः । ‘‘याथार्थ्यमेव प्रामाण्यं तन्मुख्यं ज्ञानशब्दयोः’’ इति ब्रह्मतर्कादिप्रसिद्धिं हिशब्देनाह । अर्थशब्दोऽर्यत इति व्युत्पत्त्या ज्ञेयवाची ऋ गतावित्यस्य कर्मणि थप्रत्यये गत्यर्थस्य ज्ञानार्थत्वाज्ज्ञेयलाभः । यथाशब्दश्च ‘‘योग्यतावीप्सापदार्था-नतिवृत्तिसादृश्यानि यथार्था’’ इत्यर्थचतुष्टयवाचित्वेऽपीह योग्यतया पदार्थानतिवृत्तिवाची । तथा च ज्ञेयमनतिक्रम्य वर्तमानं यथार्थम् । अव्ययं विभक्तीत्यादिनाऽव्ययीभावसमासः । यथावस्थितज्ञेयविषयीकारीति यावत् । यथार्थं भावः याथार्थ्यम् । तच्च ज्ञाने साक्षात् करणेषु परम्परया । न चैवं वैरूप्यम् । ज्ञानवत्करणानामपि सविषयकत्वेन विषयीकारित्वस्य ज्ञानकरणयोरुभयत्र साम्यम् । ज्ञेयत्वांशस्य ज्ञाने स्वोपाधिकतया करणे चान्योपाधिकतयेत्येतावन्मात्रेण ज्ञानकरणयोः साक्षात्पारम्पर्यव्यवहारात् । शिष्टं सुधायां स्पष्टम् । भीषयत्यस्मांस्तु विस्तरः । इह च ज्ञाननिष्ठं साक्षाज्ज्ञेयविषयीकारित्वं साक्षिग्राहित्वेनाभिमतम् । नान्यदिति ध्येयम् । तत्र प्रसक्तान्युट्टङ्कयति ॥ किमदुष्टेति । अदुष्टं यत्करणं प्रत्यक्षादि तज्जन्यत्वेन लिङ्गेनावसेयं निश्चेयं तत्प्रामाण्यमित्यर्थः ।
इदमुक्तं भवति । इदं ज्ञानं प्रमाणमदुष्टकरणजन्यत्वाद्व्यतिरेकेणाप्रमा-वदिति । एवमग्रेऽपि । करणजन्यत्वमात्रस्य भ्रमे व्यभिचाराददुष्टेत्युक्तम् । नित्यज्ञाने प्रामाण्यानिश्चयप्रसङ्गादाह ॥ दुष्टेति । गगने घटादौ च व्यभिचारवारणाय दुष्टकरणाजन्यज्ञानत्वेनेति ज्ञानपदं योज्यम् । इदं च जन्येऽजन्ये च ज्ञानेऽस्तीति भावः । अस्य प्रथमतो दुर्ज्ञानत्वात्पक्षान्तरमाह ॥ अथेति । प्रवृत्तेर्यत्सामर्थ्यं सप्रयोजनत्वं तेनेत्यर्थः । समर्थप्रवृत्तिजनकत्वे-नेति यावत् । तेन न व्यधिकरणासिद्धिशङ्का । अस्य सर्वत्राभावेन भागासिद्धिप्रसङ्गादाह ॥ यद्वेति । भ्रमरूपधारावाहिकज्ञाने व्यभिचारादाह ॥ किं वा विसंवादेति । मीमांसकमतमाह ॥ स्वत इति । स्वशब्दः पक्षीभूतप्रामाण्याश्रयज्ञानपरः । तथा च स्वेनैव च स्वप्रामाण्यं गृह्यत इत्यर्थः । प्राभाकरैर्मनोवृत्तिरूपज्ञानस्य स्वप्रकाशत्वाङ्गीकारात् । तथा स्वशब्दः स्वीयवाची । स्वजन्यज्ञाततारूपलिङ्गादित्यर्थः । भट्टमते ज्ञानस्यातीन्द्रियत्वेन ज्ञाततारूपलिङ्गाज्ज्ञानं तत्प्रामाण्येन सहैव गृह्यत इत्यङ्गीकारात् । एवमनूदितान्कल्पान्क्रमेण निरस्यति ॥ नाद्य इति । तस्यादुष्टकरणजन्यत्वस्येत्यर्थः । निश्चायकाभावादिति भावः । ननु विमत-मदुष्टकरणजन्यं यथार्थज्ञानत्वात् । व्यतिरेकेण भ्रमवदिति तदवधारणं सुशक-मित्यत आह ॥ ज्ञानेति । तन्निश्चयेऽदुष्टकरणजन्यत्वनिश्चये । अङ्गीक्रिय-माणे सति ज्ञानयाथार्थ्यनिश्चये तन्निश्चयस्तन्निश्चये च तन्निश्चय इत्यन्योन्या-श्रयादित्यर्थः ॥ अत एवेति । हेतोर्दुरवधारणत्वात्परस्पराश्रयत्वापाताच्चेत्यर्थः ॥ सर्वत्र ज्ञान इति । सर्वेषु ज्ञानेष्वित्यर्थः । उदासीनादिज्ञाने प्रवृत्तेरभावेन भागासिद्धेरित्यर्थः । न च तद्भिन्नमेव पक्ष इति वाच्यम् । तत्र प्रामाण्या-निश्चयप्रसङ्गात् । न च तत्र लिङ्गान्तरात्तन्निश्चयः । तस्याप्युक्तवक्ष्यमाणरीत्या दुष्टत्वादिति भावः ।
ज्ञानान्तरसंवाद इत्यत्र विजातीयसंवादः सजातीयसंवादो वा । आद्य आह ॥ सुखादीति । सुखदुःखादीनां साक्ष्येकगोचरत्वे मानसत्त्वे वोभयथाऽपि न प्रमाणान्तरसंवादोऽस्ति । न चाहं सुखी प्रसादवत्त्वादिति प्रमाणान्तरसंवादोऽस्तीति वाच्यम् । समाने विषयेऽनुमितिसामग्रीतः प्रत्यक्षसामग््य्राः प्रबलत्वात् । तदाऽपि तस्य मनसा साक्षिणा वा ग्रहा-दित्याहुः । द्वितीयेऽपि भ्रमप्रमासाधारणसजातीयज्ञानमात्रसंवादो वा यथार्थज्ञानसंवादो वा । आद्य आह ॥ ज्ञानमात्रेति । तत्राप्युत्तरोत्तरसंवादेन पूर्वपूर्वस्य पूर्वपूर्वसंवादेनोत्तरोत्तरस्य च प्रामाण्यसम्भवादिति भावः । अन्त्य आह ॥ यथार्थेति । पूवपूर्वज्ञानेनैव तद्याथार्थ्यनिर्णयेऽन्योन्याश्रयापातेन परम्पराश्रयणा वश्यम्भावेनानवस्था स्यादित्यर्थः । न चावश्यवेद्यत्वाभावा-न्नानवस्थेति वाच्यम् । निष्कम्पप्रवृत्त्यर्थतयाऽवश्यवेद्यत्वात् । अन्यथाऽ-प्रामाण्यशङ्काशून्यार्थनिश्चयादेव प्रवृत्त्युपपत्तौ प्रामाण्यं नावधार्यमेव स्यात् । अप्रामाण्यशङ्काभावार्थमपि प्रामाण्यनिश्चयस्यावश्यकत्वात् । बह्वायाससाध्ये जिज्ञासाया आवश्यकत्वेन कोटिस्मरणादेरवर्जनीयत्वादिति भावः ।
वादावलीप्रकाशः
ननु साक्षिगोचरा इत्युक्तमसत् । तत्साधकाभावेन तस्या-प्रामाणिकत्वादित्याशङ्कापरिहाराय साक्षिणं साधयितुमुपक्रमते ॥ प्रमाणाना-मित्यादिना ग्रन्थेन । प्रमाणानां प्रमाणभूतज्ञानानां साक्षी चेत्यन्वयः । प्रकृतत्वानुसन्धानार्थश्चशब्दः । यद्गोचरत्वेनाकाशादयः पदार्था उक्ताः स साक्षी चेत्यर्थः । निर्वाहकत्वेन निश्चायकत्वेन । ननु प्रमाणानां प्रामाण्यं नाम याथार्थ्यम् । तन्निश्चयः प्रकारान्तरेण सम्भवति किं साक्षिणेत्याशङ्क्य प्रकारान्तराणि विकल्प्य दूषयति ॥ तद्धीत्यादिना । याथार्थ्यलक्षणं तत्प्रामाण्यमित्यन्वयः । यद्वा तत्प्रामाण्यं याथार्थ्यलक्षणमेव हि प्रसिद्धं नान्यदित्यर्थः । ततः किमित्यत आह ॥ किमिति । किमित्यतः पूर्वं तदित्यनुवर्तनीयम् ॥ अवसेयमिति । इदं ज्ञानं यथार्थमदुष्टकरण-जन्यत्वाद्व्यतिरेकेण शुक्तिरजतज्ञानवदित्यनुमानेन निश्चेयमित्यर्थः । एवमुत्तरत्राप्यनुमानानि द्रष्टव्यानि ॥ संवादेनेति । साक्षात्स्वविषयविषयक-मानान्तरः संवादः सजातीयसंवादस्तेनेत्यर्थः ॥ स्वत इति । स्वप्रकाश-त्वेनेत्यर्थः ॥ दुरवधारणत्वादिति । तथा च हेत्वज्ञानासिद्धिरिति भावः । नन्विदं ज्ञानमदुष्टकरणजन्यं यथार्थत्वादित्यनुमानेनादुष्टकरणजन्यत्वावधारणं सम्भवतीति नासिद्धिरित्याशङ्क्याह ॥ ज्ञानेति ॥ परस्परेति । ज्ञान-याथार्थ्यनिश्चयेऽदुष्टकरणजन्यत्वनिश्चयोऽदुष्टकरणजन्यत्वनिश्चये याथार्थ्यनिश्चय इत्यन्योन्याश्रय इत्यर्थः ॥ अत एवेति ॥ दुरवधारणत्वादेव ज्ञानयाथार्थ्येन तन्निश्चये परस्पराश्रयापातादेव चेत्यर्थः ॥ तदभावादिति । तथा च स्वरूपासिद्ध्यापत्त्या प्रवृत्तिसामर्थ्येन याथार्थ्यावधारणं न सम्भवतीत्यर्थः ॥ असम्भावित इति । देवदत्तसुखादेर्यज्ञदत्तप्रत्यक्षाविषयत्वादिति भावः । ननु देवदत्तसुखादिविषये यज्ञदत्तप्रत्यक्षाविषयत्वेन तत्संवादाभावेऽप्ययं सुखादिमान्मुखविकासादिमत्त्वादित्यनुमानसंवादो वा देवदत्तसुखमहं जानामीति भ्रमरूपज्ञानप्रत्यक्षसंवादो वाऽस्तीति चेत्तत्राह ॥ ज्ञानमात्रेति ॥ प्रामाण्याभ्युपगम इति । यथार्थनिश्चयाभ्युपगम इत्यर्थः ॥ न स्यादिति । तत्रापि भ्रमरूपद्वितीयादिज्ञानसंवादस्य पूर्वपूर्वज्ञानेषु सद्भावात्तत्रापि तेन याथार्थ्यनिश्चयापत्तिरिति भावः ॥ यथार्थेति । धारावाहिकभ्रमे च न यथार्थज्ञानसंवाद इति भावः ॥ अनवस्थेति । संवादकज्ञानेऽपि याथार्थ्यं पुनर्यथार्थज्ञानान्तरसंवादेनैव निश्चेयं तत्राप्येवमित्यनवस्था स्यादित्यर्थः ।
वादावलीविवरणं
न केवलं कालादिग्राहकः साक्षी किन्तु प्रामाण्यस्यापीत्याह ॥ प्रमाणानामित्यादिना । ज्ञानगतं याथार्थ्यरूपं प्रामाण्यं ज्ञानग्राहकसाक्षि-मात्रवेद्यमिति निर्दिधारयिषुः परतस्त्वं पराभिमतस्वतस्त्वं च निराकर्तुं विकल्पयति ॥ तद्धीति ॥ परस्पराश्रयापात इति । ज्ञानयाथार्थ्यनिश्चयेऽ-दुष्टकरणजन्यत्वनिश्चयस्तन्निश्चये च तन्निश्चय इत्यन्योन्याश्रयापात इत्यर्थः । ज्ञानान्तरसंवादोऽपि किं ज्ञानमात्रसंवादो यथार्थज्ञानसंवादो वा । नाद्य इत्याह ॥ ज्ञानमात्रेति । नान्त्य इत्याह ॥ यथार्थेति ॥