०५ कालादेः साक्षिसिद्धत्वसमर्थनम्

स्वरूपत्वेन च भेदस्यानेकप्रतीत्यभावान्ना-न्योन्याश्रयादेरवकाशः

कालादेः साक्षिसिद्धत्वसमर्थनम्

स्वरूपत्वेन च भेदस्यानेकप्रतीत्यभावान्ना-न्योन्याश्रयादेरवकाशः

वादावली

स्वरूपत्वेन च भेदस्यानेकप्रतीत्यभावान्ना-न्योन्याश्रयादेरवकाशः । अस्ति तावदस्तीदमित्यत्र वर्तमान-कालो वस्तुना सहैवानुभूयते साक्षिणेति । तदुक्तम्–

तदेतदिति सर्वं च दृश्यं वा स्मृतिगोचरम् ।

साक्षिसिद्धेन कालेन खचितं ह्येव वर्तते ॥ इति ।

न ह्यानुमानिकः कालः कालसिद्ध्यसिद्ध्योः सिद्ध-साधनाश्रयासिद्धिभ्यां तमेव पक्षीकृत्यानुमानस्यानुत्थानात् । नापि तत्सम्बन्धिनः कस्यचित्पक्षीकारेणानुमानप्रवृत्तिः । कालवृत्तिमन्तरेण तेन साहचर्यस्मरणाद्यसम्भवात् ।

वादावलीभावदीपिका

अस्त्वेवं भेदस्य धर्मिस्वरूपत्वम् । कथमनेनान्योन्याश्रयादेः परिहार इत्यपेक्षायामाह ॥ स्वरूपत्वेन चेति । यदि भेदो धर्म्यतिरिक्तः स्यात्तदा भेदज्ञानं धर्मिज्ञानापेक्षं, प्रतियोग्यपेक्षया भिन्नत्वेन ज्ञातस्य धर्मित्वेन धर्मिज्ञानं भेदज्ञानापेक्षमित्यन्योन्याश्रयः स्यात् । यदा तु भेदो धर्मिस्वरूपं तदा धर्मिज्ञानं भेदज्ञानमिति ज्ञानद्वयाभावेनान्योन्यापेक्षाभावान्नान्योन्या-श्रयत्वमित्यर्थः । ननु यद्यपि भेदो धर्मिस्वरूपमिति न तदपेक्षयाऽ-न्योन्याश्रयः । तथाऽपि प्रतियोगिस्वरूपं नेति धर्मिणो भिन्नत्वेन ज्ञातस्य प्रतियोगिता तज्ज्ञानानन्तरं धर्मिस्वरूपभेदज्ञानमिति प्रतियोग्यपेक्षयाऽ-न्योन्याश्रयो दुर्वार एवेति चेन्न । धर्मिणो भेदोऽपि प्रतियोगिस्वरूपमेवेति यदा प्रतियोगी ज्ञायते तदैव तत्स्वरूपभूतभेदोऽपि ज्ञायत एव । न चैवमपि प्रतियोगिज्ञानानन्तरं धर्मिस्वरूपभूतभेदज्ञानं धर्मिज्ञानानन्तरं च तज्ज्ञानाधीन प्रतियोगिज्ञानमित्यन्योन्याश्रय इति वाच्यम् ।

सर्वं सामान्यतो यस्मात्सर्वैरेवानुभूयते ।

तस्माद्व्यावृत्तता सर्वैः सर्वस्मादनुभूयते ॥

इत्यनुव्याख्यानोक्तरीत्या सर्वस्यापि साक्षिसिद्धत्वेन घटादिधर्मि-प्रतीतिदशायां तत्स्वरूपभूतसर्वप्रतियोगिकभेदोऽपि साक्ष्युन्नीतेन प्रतियोगिना सहैव गृह्यत इति धर्मिप्रतियोगिज्ञानभेदाभावेन ज्ञानद्वयाभावान्नान्योन्याश्रय इति परिहारं, ‘तद्वदेव युगपत्प्रतीतयोर्धर्मिप्रतियोगिभावेन’ इत्याद्युपरितनेन विवक्षुः कथं साक्षिसिद्धमुपनीतं सत्पटादिज्ञाने भासते क्वाप्यदर्शनादित्याशङ्क्य साक्षि सिद्धस्य कालस्य घटादिचाक्षुषज्ञाने प्रतीतिदर्शनादिति भावेन दृष्टान्तं साधयितुं प्रतिजानीते ॥ अस्ति तावदिति । तावच्छब्दः क्रमार्थः । तद्वदेव धर्मिप्रतियोगिनोर्युगपत्प्रतीतिरिति वक्ष्यते इत्यर्थः । इदं घटादि । अस्ति वर्तमानकालसम्बद्धमित्यर्थः ॥ साक्षिणेति । उपनीत इति भावः । यथा चन्दनखण्डे घ्राणोपनीतं सौरभं चक्षुषागृह्यते तद्वदिति भावः । उक्तेऽर्थे आचार्यसूक्तिं संवादयति ॥ तदुक्तमिति । तत्साक्षिसिद्धेन कालेन सहैव वस्तुनः प्रतीयमानत्वमानुमानिकपादीयानुव्याख्याने भगवत्पादैरुक्तमित्यर्थः । तद्वचनं पठति ॥ तदेतदिति । तदिति स्मृतिगोचरमेतदिति दृश्यं वा सर्वमपि साक्षिसिद्धेन कालेन खचितं सम्बद्धमेव वर्तते हि यस्मात्तस्मात्तं कालं विना कालप्रतिभासं विना किञ्चित्स्मर्तुं वा धर्म्यादिकं द्रष्टुं वा न शक्यमिति ‘तस्मान्न तं विना किञ्चित्स्मर्तुं द्रष्टुमथाऽपि वा’ इत्युत्तरवाक्येनान्वयः।

स्यादेतदेवम् । यदि कालस्य साक्षिसिद्धत्वं स्यात् । तदेव कुत इति चेत्परिशेषादिति ब्रूमः । तथा हि । न तावद्बाह्यप्रत्यक्षत्वम् । तत्प्रयोजकस्य महत्त्वसमानाधिकरणोद्भूतरूपवत्त्वस्याभावात् । नापि मानसत्वम् । मनसो बहिरस्वातन्त्र्यात् । जातिबधिरमूकानामपि कालप्रतिभासदर्शनेन नागमवेद्यत्व-मपि । अथानुमानिकत्वं वाच्यम् । तदपि नेति प्रतिजानीते ॥ न हीति ।

यद्यपि कालस्यानुमानिकत्वेऽप्यनुमानेनोपनीतस्य तस्य घटादिवस्तुप्रतीतौ सहभानसम्भवेनेष्टसिद्धिः । तथाऽपि वस्तुस्थितिमभिप्रेत्य तस्य साक्षिसिद्धत्वं साधयितुमानुमानिकत्वखण्डनमिति ध्येयम् । तदनुमानमपि कालमेव पक्षीकृत्य प्रवर्तते उत तत्सम्बन्धिकिञ्चित्पक्षीकृत्येति विकल्प्य ‘पक्षीकर्तुमशक्य-त्वान्नानुमा तत्र वर्तते’ इत्यनुव्याख्यानं मनसि निधायाद्यं दूषयति ॥ कालेति ॥ कालस्य सिद्धौ सिद्धसाधनत्वादसिद्धौ त्वाश्रयासिद्धेरित्यर्थः । द्वितीयं निराह ॥ नापीति ॥ कालवृत्तिमिति । कालगोचरवृत्तिं काल-प्रतिभासमन्तरेण तेन कालेन साहचर्यस्मरणासम्भवाद्व्याप्तिस्मरणासम्भवा-दित्यर्थः । अयमाशयः। अनुभूतव्याप्तिकस्य पुंसोऽनुभूयमाने धर्मिणि व्याप्यधर्मस्यानुभवात्पूर्वानुभूतां व्याप्तिं स्मृतवतो व्याप्तस्य पक्षेऽनुसन्धानमनु-मानम् । तच्च व्यापकसम्बन्धप्रमितिलक्षणाऽनुमितिकरणम् । स्मृत्यनुभवरूपाश्च सर्वाः प्रतीतयो न केवलमर्थमवगाहन्ते । अपि तु कालकलितमेव । तदिति हि स्मृतिरुत्पद्यते न पुना रूपमिति । तत्ता च पूर्वकालसम्बन्धितैव । एवमनुभवोऽपि चक्षुरादिजन्यस्तावदेतदिति जायते । अनुमानादिजन्योऽप्य-भूदिति वा भवतीति वा भविष्यतीति वोदेति । एतत्त्वादिकं न वर्तमानादि-कालातिरिक्तं किञ्चित् । तथा च व्याप्त्यादिविषया अपि प्रतीतयो न कालविशेषितं स्वार्थं गोचरयितुं शक्नुवन्तीति कालाप्रतिभासे व्याप्तिस्मरणाद्य-भावेनानुमानस्यानुत्थानादिति । एतेन तदेतदिति वचनस्य द्वितीयपक्ष-दूषणपरत्वं च सूचितं भवति ।

वादावलीप्रकाशः

एवं भेदस्य धर्मिस्वरूपत्वे सिद्धे सति नोक्तदोषावकाश इत्याह ॥ स्वरूपत्वेन चेति । भेदस्य वस्तुस्वरूपत्वेनेत्यन्वयः ॥ अनेकेति । प्रतीतिद्वयाभावादिति भावः ॥ नान्योन्याश्रयादेरिति । तथा च वस्तुप्रतीतिरेव भेदप्रतीतिरिति प्रतीतिद्वयाभावान्नान्योन्याश्रयादेरवकाश इत्यर्थः । पूर्वं सन्घटः, अस्ति घट इत्यादिप्रत्यक्षेण बाधितविषयत्वात्काला-त्ययापदिष्टश्चेत्युक्तम् । तत्र प्रत्यक्षस्य वर्तमानकालीनसत्ताग्राहकत्वात्कथं त्रैकालिकसत्ताप्रतिषेधाभावग्राहकत्वमिति शङ्कायां तदानीमबाध्यताग्रहणेनैव तत्सिद्धिरित्युक्तं तदयुक्तम् । कालस्यातीन्द्रियत्वेनानुमानिकत्वात्कथं प्रत्यक्षेण वर्तमानकालग्रहणमित्याशङ्क्याह ॥ अस्ति तावदिति । वस्तुना सहैव वस्तुसम्बद्धत्वेनैवेति तावदस्तीत्यन्वयः । तथा च साक्ष्युपनीतः कालश्चाक्षुष-प्रत्यक्षे भासत इति भावः । अत्रानुव्याख्यानसम्मतिमाह ॥ तदुक्तमिति । साक्षिसिद्धत्वं कालस्य समर्थयितुमनुमानगम्यत्वं निराकरोति ॥ न हीति ॥ कुतो नेति चेत् । अत्र प्रष्टव्यम् । तदनुमानं किं कालमेव पक्षीकृत्य प्रवर्तते उत कालसम्बन्धिनं कञ्चित्पदार्थं पक्षीकृत्य । नाद्यः । कुत इत्यत आह ॥ कालसिद्ध्यसिद्ध्योरिति । अत्र प्रष्टव्यम् । कालः सिद्धो न वेति । सिद्धत्वे सिद्धसाधनत्वापत्त्याऽसिद्धत्वे आश्रयासिद्ध्यापत्त्याऽनुमाना-नुत्थानादिति भावः । द्वितीयपक्षमाशङ्क्य निराकरोति ॥ नापीति । कुत इत्यत आह ॥ कालेति । प्रवृत्तिज्ञानं तेन कालेन पूर्वं कालज्ञानमन्तरेण हेतौ तन्नियतसाहचर्यरूपव्याप्तेरनुभूतयोस्तत्र तत्र स्मरणसम्भवेन व्याप्तिविशिष्टपक्षधर्मताज्ञान रूपलिङ्गपरामर्शासम्भवेनानुमित्यनुदयादिति भावः । (अस्पष्टमिदमुपरितनं वाक्यम् । अत्र ग्रन्थपातः स्यादिति भाति ।)

वादावलीविवरणं

यदर्थमियं चात्र दर्शनस्थितिरित्यादिग्रन्थेन भेदस्य धर्मिस्वरूपत्वं समर्थितम् । तदिदानीमाह ॥ स्वरूपत्वेन चेति । एतेन यदुक्तं प्रत्यक्षं किं भेदमेव गोचरयेदित्यादि तन्निरस्तम् । युगपदुभयं गोचरयतीत्यङ्गीकारात् । न च वस्तुप्रतीतेर्भेदप्रतीतिकारणत्वेन यौगपद्यायोगः । भेदस्य वस्तुस्वरूपत्वेन वस्तुप्रतीतेरेव भेदप्रतीतित्वात् । अन्यथा जीवब्रह्मैक्यग्राहिश्रुत्यादिकं किमभेदमेव गोचरयेदुत वस्त्वपीत्यापातः । एतेनैव यच्चोक्तं किमयं भेदो भिन्नमेवेत्यादि । तदपि निरस्तम् । भेदस्य धर्मिस्वरूपत्वेन धर्मिणं परिरभ्यैव भेदो जायत इत्यङ्गीकारात् । न चैवं तत्पक्षोक्तदोषः । नैयायिकादिकान्प्रत्येव तस्यापाद्यत्वेनास्मान्प्रति तस्य दोषस्यासम्भवादिति ।

ननु भेदस्य धर्मिस्वरूपत्वेन धर्मिज्ञानापेक्षयाऽन्योन्याश्रयाभावेऽपि प्रतियोगिज्ञानापेक्षयाऽन्योन्याश्रयः स्यादेव । तथा हि । प्रतियोगिभूतसर्वस्य ज्ञाने हि पुरोवर्तिवस्तुनि व्यावृत्तिज्ञानम् । प्रतियोगिज्ञानस्य तत्र कारणत्वात् । सर्वस्य प्रतियोगित्वज्ञानं च भेदज्ञाने सति धर्मिणः सकाशाद्भेदेन प्रतीतस्यैव प्रतियोगित्वात् । अप्रतीतभेदस्य तु प्रतियोगित्वे स्वस्यापि तत्स्यात् । न च धर्मिस्वरूपत्वमिव प्रतियोगिस्वरूपत्वमपि तस्याङ्गीक्रियते । तथा सत्यद्वैतप्रसङ्गादित्याशङ्कां परिहर्तुं कालस्य साक्षिसिद्धत्वं तावत्समर्थयते ॥ अस्तीत्यादिना । अस्तीत्यत्र कालः साक्षिणाऽनुभूयतेऽनुभूयमानोऽपि वस्तुना सहैवेत्येतत्प्रतिज्ञाद्वयमनुव्याख्यानसम्मत्या द्रढयति ॥ तदुक्तमिति । कालस्य साक्षिवेद्यत्वं परिशेषयितुमरूपिद्रव्यत्वेन चाक्षुषत्वस्य, निःस्पर्शद्रव्य-त्वेन स्पार्शनत्वस्य, बाह्यपदार्थत्वेन मानसत्वस्य चायोगेन न प्रत्यक्षः कालः । जातिबधिराणामपि प्रतिभासनान्नायमवेद्योऽपीति स्पष्टत्वादुपेक्ष्यानु-मानिकत्वं निरस्यति ॥ न ह्यानुमानिक इति । कालस्यानुमानिकत्वे तदनुमानं किं कालमेव पक्षीकृत्य प्रवर्ततेऽन्यद्वा । नाद्य इत्याह ॥ कालेति । यथाक्रमं सम्बन्धः । नान्त्य इत्याह ॥ नापीति । कालप्रवृत्ति-मिति पाठे कालप्रतिभासमित्यर्थः ॥ साहचर्यस्मरणादीति । व्याप्ति-स्मरणादीत्यर्थः । आदिपदेन धर्म्यनुभवादेर्ग्रहणम् । अयं भावः । तदिति हि स्मृतिरुत्पद्यते । एतदिति चानुभवः । तत्ता च पूर्वकालसम्बन्धिता । एतत्वं च वर्तमानकालसम्बन्धः । एवञ्च सर्वस्यापि स्मृत्यनुभवरूपज्ञानस्य कालविशिष्टार्थविषयत्वात्कालप्रतिभासाभावे व्याप्तिस्मरणाद्यसम्भवादिति ।


अत्र केचिदाहुः । बहुतरणिपरिस्पन्दान्तरित-जन्मत्वं परत्वम्

अत्र केचिदाहुः । बहुतरणिपरिस्पन्दान्तरित-जन्मत्वं परत्वम्

वादावली

अत्र केचिदाहुः । बहुतरणिपरिस्पन्दान्तरित-जन्मत्वं परत्वम् । अल्पतरसूर्यसञ्चारान्तरितजनिमत्त्वं चापर-त्वम् । एकतपनप्रचारविशिष्टत्वं यौगपद्यम् । अनेकतद्विशिष्ट-त्वमयौगपद्यम् । बहुतपनक्रिया विशिष्टत्वमक्षिप्रत्वम् । कतिपयक्रियाविशिष्टत्वं क्षिप्रत्वम् । तत्प्रत्ययैरनुमेयः कालः । तरणिपरिस्पन्दा हि पदार्थसार्थे विशिष्टप्रत्ययहेतुतया स्वप्रत्या-सत्तिमपेक्षन्ते । विशिष्टव्यवहारजनकत्वात् । चन्दनसौरभवत् । स च सम्बन्धः परम्परया वाच्यः । साक्षादसम्भवात् । पट-विशेषणस्येव नीलिम्नः । अतः पदार्थानां तपनपरिस्पन्दैः संयुक्तसंयोगिसमवायात्मके सम्बन्धे यन्निमित्तं द्रव्यं स काल इति ।

वादावलीभावदीपिका

एवं कालविषयाण्यनुमानानि सामान्यतो निरस्य विशेषतोऽपि निरसितुमाह ॥ अत्र केचिदिति । तार्किका इत्यर्थः । कालः परापरव्यतिकरयौगपद्यचिरक्षिप्रप्रत्ययलिङ्ग इति तदीयभाष्यं मनसि निधाय तस्य तदभियुक्तव्याख्यानमनुवदति ॥ बहुतरणीति । अस्ति तावत्स्थविरे परोऽयमिति प्रत्ययो यूनि चापर इति । सोऽयं दिक्कृतपरापरविलक्षणत्वा-त्परापरव्यतिकरप्रत्ययः । तथा युगपदागतावेतावयुगपदागतावेतौ चिरेणागतोऽयं क्षिप्रमागतोऽयमिति प्रत्ययाः । तैरेतैः षडि्भः प्रत्ययैरनुमेयः काल इत्यर्थः । तत्र परत्वादीनि निर्वक्ति ॥ बहुतरणीत्यादिना । बहवो ये तरणिपरिस्पन्दाः सूर्यसञ्चारास्तैरन्तरितं व्यवहितं जन्म यस्य तस्य भावस्तत्त्वम् । यस्योत्पत्त्यनन्तरं बहवः सूर्यपरिस्पन्दा जातास्तस्य परत्व-मित्यर्थः । एतेनाल्पतरेति व्याख्यातम् ॥ एकेति । एको यस्तपनस्य सूर्यस्य प्रचारः परिस्पन्दस्तद्वैशिष्ट्यमित्यर्थः । एकस्मिन्नेव तपनप्रचारे ययोरागमनं तयोर्यौगपद्यमित्यर्थः ॥ अनेकेति । अनेकतपन-प्रचारवैशिष्ट्यमित्यर्थः । एकसूर्यप्रचारे एकस्यागमनमन्यसूर्यप्रचारेऽन्यस्य चेत्तदा तयोर्भिन्नतपनप्रचारविशिष्टत्वादयौगपद्यमित्यर्थः ॥ बह्विति । बहुतपनपरिस्पन्दरूपक्रियावैशिष्ट्यं चिरत्वम् । तस्यार्थनिर्देशोऽक्षि प्रत्वमिति । यस्यागमनानन्तरं बहवः सूर्यपरिस्पन्दा जातास्तस्याचिरत्वम् । तद्विपरितं क्षिप्रत्वमित्यर्थः । तत्प्रत्ययैस्तेषां परत्वादीनां प्रत्ययैरित्यर्थः । कथमेतैः कालानुमानप्रकार इत्यतः सामान्यपरिशेषाभ्यामिति भावेन सामान्यानुमानप्रकारं तावदाह ॥ तरणीति । तरणिपरिस्पन्दा इति पक्षनिर्देशः । पदार्थसार्थे परावरादिवस्तुसमूहे ॥ विशिष्टेति । परत्वापरत्वयौगपद्यादिविशिष्ट-प्रत्ययहेतुतयेत्यर्थः । पदार्थविषयकपरत्वादिविशिष्टप्रत्ययजनकप्रत्यासत्तिमन्त इति साध्यार्थः ॥ विशिष्टेति । परत्वादिविशिष्टव्यवहारजनकत्वादित्यर्थः ॥ चन्दनेति । यथा सौरभं चन्दनखण्डे सुरभि चन्दनमिति विशिष्टव्यवहारजनने समवायरूपप्रत्यासत्तिमपेक्षते तद्वदित्यर्थः । अनेन तपनपरिस्पन्दानां परापरादिपिण्डानां च सम्बन्धसामान्यं सिध्यतीति भावः । अस्त्वेवं कालसिद्धौ किमायातमित्यत आह ॥ स चेति । सूर्यपरिस्पन्दानां परापरादिपिण्डानां च सिध्यन् सम्बन्ध इत्यर्थः ।

॥ साक्षादिति । तपनसमवेतानां परिस्पन्दानामवनिगतैः पिण्डैः संयोगसमवायादेरसम्भावादित्यर्थः । तत्रानुरूपं दृष्टान्तमाह ॥ पटेति । पटस्य स्वभावतः शुक्लत्वेन नैल्यस्यौपाधिकतया कर्दमलिप्ते पटे नीलः पट इति विशिष्टव्यवहारजनकस्य नैल्यस्य पटसंयुक्तकर्दमादिद्रव्यसमवेतत्वे पटेन सह संयुक्तसमवायरूपसम्बन्ध इव परम्परया वाच्य इत्यर्थः । अस्तु परम्परासम्बन्धस्ततोऽपि किमित्यत आह ॥ अत इति । साक्षा-त्सम्बन्धस्यासम्भवादित्यर्थः ॥ संयुक्तसंयोगीति । पिण्डसंयुक्तं यद्द्रव्यं तत्संयोगी यस्तपनस्तत्समवायात्मके यन्निमित्तं यत्सम्बन्धघटकं स काल इति । अयमर्थः । परम्परासम्बन्धोऽपि न संयुक्तसमवायः । सूर्यपरिस्पन्दा-दीनां सूर्यस्य च समवायसम्बन्धे सत्यपि सूर्यस्यावनिगतपिण्डस्य च संयोगाभावात् । अतः सूर्यस्य पिण्डानां मध्ये पिण्डसंयुक्तं सूर्यसंयुक्तं च किञ्चिद्द्रव्यं कल्पनीयम् । तन्न तावत्पृथिव्यादिभूतचतुष्टयम् । तपन-पिण्डाभ्यामसंसर्गात् । नाप्याकाशः । तस्य पिण्डतपनसंयोगेऽपि विशेषगुण-वत्त्वेन पृथिव्यादिवत्पिण्डे तपनधर्मोपसङ्क्रामकत्वाभावात् । किञ्च यद्याकाशः स्वसम्बन्धेनान्यगतं धर्ममन्यत्र सङ्क्रामयेत्तदा सर्वं सर्वत्र सङ्क्रामयेद् अविशेषात् । एतेन दिगात्मनोरपि तत्सम्बन्धेन तद्धर्मसङ्क्रामकत्वं प्रत्युक्तम् । दिशो दिक्संसर्गोपनायकत्वेनान्यथासिद्धत्वाच्च । मनस्तु नोभाभ्यां संयुक्तम् । अतोऽष्टद्रव्यातिरिक्तं किञ्चिदान्तरालिकमुभयसंयुक्तं द्रव्यं वाच्यम् । तदेव कालशब्देनोच्यत इति परिशेषात्कालसिद्धिरिति ।

वादावलीप्रकाशः

केचित् तार्किकाः । ननु कथं कालस्यानुमानिकत्वाभावः । परापरादिषट्प्रत्ययैः कालस्यानुमेयत्वात् । यथोक्तं सूत्रकृता । परापर-व्यतिकरयौगपद्यायौगपद्यचिरक्षिप्रप्रत्ययलिङ्गकः काल इति । एतद्व्याख्याति ॥ बहुतरणीत्यादिना । बहुत्वं परिस्पन्दविशेषणम् । जन्मत्वं जन्म-वत्त्वम् । एतज्जन्मान्तरितमस्मिंस्तरणिपरिस्पन्दा बहवो जाता इत्यर्थः । अल्पेति सञ्चारविशेषणम् । सूरः सूर्यः । सञ्चारः परिस्पन्दः । एकत्वं तपनप्रचारविशेषणम् । तपनप्रचारः सूर्यसञ्चारस्तद्विशिष्टत्वं तपनप्रचार-विशिष्टत्वं क्रियापरिस्पन्दः ॥ तत्प्रत्ययैरिति । परत्वादिषट्प्रत्ययैरित्यर्थः । तदुपपादयति ॥ तरणिपरिस्पन्दा हीत्यादिना । पदार्थसार्थे देवदत्तादि-पिण्डसमूहे ॥ विशिष्टप्रत्ययेति । अयं बहुतरणिपरिस्पन्दवानित्येवमादिक-रूपेण तरणिपरिस्पन्दविशेषणकदेवदत्तादिपदार्थविशेष्यकविशिष्टप्रत्ययेत्यर्थः ॥ स्वप्रत्यासत्तिमिति । स्वैस्तरणिपरिस्पन्दैर्निरूपिता या प्रत्यासत्तिः पदार्थसम्बन्धस्तमपेक्षन्त इत्यर्थः ॥ विशिष्टव्यवहारेति । अयं बहुतरणि-परिस्पन्दवानिति स्वविशिष्टव्यवहारजनकत्वादित्यर्थः ॥ चन्दनादाविति । आदिपदेन पुष्पादिग्रहणम् । सौरभे सौरभरूपविशेषणे चन्दनरूपविशेष्ये सुरभि चन्दनमिति स्वविशिष्टव्यवहारजनकत्वमस्ति । विशिष्टप्रत्ययहेतुतया स्वनिरूपिता विशिष्टा या प्रत्यासत्तिः समवायरूपा तत्सापेक्षत्वं चास्ती-त्यर्थः । अस्त्वेवं कालसिद्धौ किमायातमित्यत आह ॥ स चेति ॥ पदार्थसार्थे स्वविशिष्टप्रत्ययापत्तिहेतुभूतस्तरणिपरिस्पन्दनिरूपितः सम्बन्ध इत्यर्थः । कुत इत्यत आह ॥ साक्षादिति । संयोगसमवायरूपो यः साक्षात्सम्बन्धस्तदभावादित्यर्थः । तरणिपरिस्पन्दस्याद्रव्यत्वेन पदार्थतरणि-परिस्पन्दयोः संयोगसम्बन्धासम्भवात् । द्रव्ययोरेव हि संयोगः । नापि समवायः सम्भवति । तरणिपरिस्पन्दानां तरणिसमवेतत्वेन तरणिपरिस्पन्द-पिण्डयोरवयवावयव्यादिपञ्चकान्यतरत्वाभावेनायुतसिद्धत्वशून्यतया पिण्डासमवेतत्वादिति भावः । परम्परया सम्बन्धो वाच्य इत्यत्रानुरूपदृष्टान्तमाह ॥ पटविशेषणस्येवेति । नीलपटस्य नीलिम्नो नीलरूपस्य च यथा पटसंयुक्तनीलद्रव्यसमवेतत्वेन संयुक्तसमवायरूपः सम्बन्धो नीलः पट इति विशिष्टप्रत्ययजनको विशिष्टव्यवहारजनकश्च भवति तथेत्यर्थः ॥ संयुक्तसंयोगीति । पदार्थसंयुक्तं किञ्चिद्द्रव्यं तत्संयोगी तपनस्तत्समवेताः परिस्पन्दा इत्यर्थः ॥ द्रव्यमिति । पिण्डतपन-सम्बन्धितया पिण्डे तरणिपरिस्पन्दघटकं व्याप्तं द्रव्यमित्यर्थः ।

वादावलीविवरणम्

एवं कालविषयाणि सर्वाण्यनुमानानि सामान्यतो निराकृत्य विशेषतोऽपि निराचिकीर्षुः पराभिमतं विशेषानुमानप्रकारं तावदनुवदति ॥ अत्र केचिदिति ॥ स्वप्रत्यासत्तिमिति । स्वनिरूपितातिरिक्त-सम्बन्धमित्यर्थः ॥ विशिष्टेति । अत्र घटाभाववद्भूतलमित्यादावव्यभिचाराय स्वरसतोऽप्रत्यासन्नत्वे सतीति विशेषणीयम् । स्वरूपसम्बन्धेनाप्रत्यासन्नत्वं तदर्थः ॥ पटविशेषणस्येवेति । नीलद्रव्यसम्बद्धस्य पटस्येत्यर्थः ॥ निमित्तमिति । घटकमित्यर्थः ।