अत्र प्रष्टव्यम्
भेदस्य धर्मिस्वरूपत्वसमर्थनम्
अत्र प्रष्टव्यम्
वादावली
अत्र प्रष्टव्यम् । किं भेदस्य प्रतीतिरेव निरा-क्रियते उत तस्याः कारणजन्यता निर्दोषकारणजन्यता वा । नाद्यः । भेदस्य प्रतीतिमनुपजीव्य निराकर्तुमशक्यत्वात् । न द्वितीयः । तत्किमजन्यतया स्यादकारणजन्यतयाऽतत्कारण-जन्यतया वा । नाद्यः । अनभ्युपगमात् । भेदप्रतीतेर्नित्यता-पत्तेः स्वप्रातिकूल्याचरणप्रसङ्गाच्च । न द्वितीयः । व्याघातात् । तन्निवृत्तेरप्यकारणत्वापत्त्या प्रयत्नायोगाच्च । नापि तृतीयः । तदुत्पादकस्यैव तत्कारणतया व्यवहारात् । न ह्यनुत्पादका-दुत्पद्यत इति सम्भवति । नाप्यन्योत्पादकात् ।
वादावलीभावदीपिका
पूर्वपक्ष्यभिसन्ध्युद्घाटनेन तदभिमतं दूषयितुं तदाशयं पृच्छति ॥ अत्रेति । पूर्वपक्षिणोपन्यस्ते प्रमेये वक्ष्यमाणप्रकारेण विविच्य पूर्वपक्ष्यभिमतं प्रष्टव्यमित्यर्थः । निराक्रियत इत्येतदुत्तरकल्पद्वयेऽपि योज्यम् । तथा च गुणजन्यत्वं निराक्रियत इत्यस्य दोषजन्यत्वमुच्यते किमित्यर्थः ॥ भेदस्येति । यदि भेद एव न प्रतीयेत तर्हि भेदमेव गोचरयेदुत वस्त्वपीत्यादि विकल्प्य बहुयत्नैर्भेदनिरासस्त्वदीयोऽयुक्तः स्यात् । न हि भेदज्ञानाभावे विकल्पः सम्भवति । पर्यायेण विकल्पायोगात् । बुद्ध्यनारूढस्य निराकरणा-योगाच्च । तथा च विकल्प्य भेदं निराकुर्वतो भेदधीनिराकरणं स्वव्याहत-मित्यर्थः । निराकर्तुं भेदस्येत्यनुषङ्गः । यद्वा भेदस्य प्रतीत्यभावे निराकर्तुं भेदभ्रमरूपप्रतीतिं निराकर्तुमिति योजना । तथा चायमर्थः । भेदप्रतीत्यभावे भेदभ्रमनिरासाय वेदान्तश्रवणाद्ययोगादिति । अथवा स्वपरपक्षदूषणभूषणादि-भेदस्याप्रतीतौ परपक्षस्य निराकर्तुमशक्यत्वादित्यर्थः । कारणजन्यता निराक्रियत इति पक्षं क्षिपति ॥ न द्वितीय इति ॥ तत्किमिति । कारणजन्यत्वमित्यर्थः ॥ अकारणेति । कारणजन्यं नेत्यकारणजन्यम् ॥ अतत्कारणेति । भेदप्रतीतिं प्रति यत्कारणं न भवति तज्जन्यतयेत्यर्थः ॥ अनभ्युपगमादिति । भेदबुद्धेर्भ्रमतयाऽविद्यारूपदोषजन्यतायाः परेणाभ्युपगमादिति भावः । यदि कश्चिद्वैयात्यादभ्युपगच्छेत्तदा बाधकमाह ॥ भेदेति ॥ स्वप्रातिकूल्येति । भेदप्रतीतेरजन्यत्वे तस्या दोषाजन्यतया प्रमात्वापत्त्या प्रमाविषयस्य च सत्त्वनियमेन भेदमिथ्यात्वाय प्रयतमानस्य तव तत्प्रतीतेरजन्यत्वाङ्गीकरणं विरुद्धमित्यर्थः ॥ व्याघातादिति । भेदप्रतीतेस्त्वया दोषरूपकारणजन्यत्वाङ्गीकारात्कारणं विनाऽपि भेदप्रतीति-र्जन्यतामित्युक्तेः स्ववचनविरुद्धत्वादित्यर्थः । किञ्च यदि भेदप्रतीतेर्जन्यत्व-मङ्गीकृत्य कारणजन्यत्वं नाङ्गीकुरुषे तदा भेदभ्रान्त्युच्छेदार्थं तत्कारणीभूते वेदान्तश्रवणादौ तव प्रयत्नो न स्यात् । दृश्यते च तव प्रवृत्तिः । तथा च कार्योद्देशेन कारणे प्रवर्तमानस्य तव कारणं विनाऽपि कार्यं जायेतेत्युक्तौ स्वक्रियाविरोधश्च स्यादित्याह ॥ तन्निवृत्तेरिति । भेदभ्रान्तिनिवृत्तेरित्यर्थः । अकारणत्वापत्त्याऽकारणकत्वापत्त्येत्यर्थः ॥ प्रयत्नेति । वेदान्तश्रवणादाविति शेषः । उत्पत्तौ कारणानपेक्षस्य निवृत्तावपि कारणानपेक्षत्वनियमेन भेदभ्रम-निवृत्त्यर्थं वेदान्तश्रवणप्रयत्नो न स्यादिति भावः । अतत्कारणजन्यतयेति पक्षं निरस्यति ॥ नापीति । व्याघातादित्यनुवर्तते । अतत्कारणेत्यस्य स्वाकारणात्स्वयमुत्पद्यत इत्यर्थ उतान्यकारणादिति विकल्पद्वयं हृदि निधाय पक्षद्वयेऽप्यन्वयव्यतिरेकाभ्यां व्याहतिमेवोपपादयति ॥ तदिति ।
वादावलीप्रकाशः
जगत्कारणजन्यतानिराकरणम् । जन्यता जन्यत्वमित्यत्र निराक्रियत इत्यनुवर्तते ॥ अनुपजीव्येति । अन्योन्याश्रयादिना भेदप्रतीति-निराकरणस्यापाद्यापादकादिभेदसापेक्षत्वेन तत्प्रतीतिमात्रनिराकरणे स्वव्याहतिरिति भावः ॥ अजन्यतयेति । सर्वथाऽजन्यत्वादेव कारणजन्यता नास्तीत्यर्थः ॥ अकारणेति । कारणाजन्यतयेत्यर्थः । उत्पन्नाऽपि कारण-शून्येति यावत् । अथोत्पन्नाऽपि कारणशून्या इति तत्त्वोद्योतटीकोक्तेः ॥ अतत्कारणेति । तत्कारणभिन्नकारणेत्यर्थः ॥ अनभ्युपगमादिति । भेदप्रतीतेरजन्यताया अनभ्युपगमादित्यर्थः । दूषणान्तरमाह ॥ भेदप्रतीते-रिति । यद्यजन्यतया पर्यवसानं तर्हि भेदप्रतीतेर्नित्यतापत्त्या स्वप्राति-कूल्याचरणप्रसङ्गः । भेदमात्रमङ्गीकृत्य तत्प्रतीतिमात्रं निराकुर्वता त्वया पुनर्भेदप्रतीतेर्नित्यत्वाङ्गीकारे स्वाभ्युपगतविरुद्धाङ्गीकारप्रसङ्ग इत्यर्थः ॥ व्याघातादिति । उत्पन्नाऽपि कारणशून्येत्यङ्गीकारे व्याघातः स्यात् । उत्पत्त्युक्त्यैव सकारणकत्वप्राप्तेः । यत्कार्यं तत्सकारणकमिति नियमादिति भावः । कारणाभावेऽप्युत्पत्त्यङ्गीकारे बाधकमाह ॥ तन्निवृत्तेरपीति । भेदनिवृत्तेरपीत्यर्थः ॥ अकारणत्वेति । अकारणकत्वापत्त्येत्यर्थः ॥ प्रयत्नेति । अन्योन्याश्रयादिना बाधकेन कारणेन भेदनिवृत्तिरुपपद्यते । तथा च भेदनिवृत्त्युपपादनायान्योन्याश्रयाद्युपपादनरूपप्रयत्नवैय्यर्थ्यं स्वत एव भेदनिवृत्तेः सम्भवादित्यर्थः । नन्वनुत्पादकस्यापि कारणत्वं किन्न स्यादिति चेत्तत्राह ॥ न हीति ॥ नाप्यन्योत्पादकादिति । स्वयमुत्पद्यत इति न सम्भवतीत्यर्थः । तथा चोत्पादकस्यैव कारणत्वादतत्कारणजन्यत्वाङ्गी-कारेऽपि व्याघात एव स्यादिति भावः । यथोक्तं तत्त्वोद्योतटीकायाम् । अथातत्कारणोत्पन्न इति तदा व्याघातः । उत्पादकस्यैव कारणत्वादिति ।
वादावलीविवरणम्
॥ व्याघातादिति । जनकस्यैव कारणत्वादिति भावः ॥ प्रयत्नायोगादिति । वेदान्तश्रवणादिप्रयत्नायोगादिति भावः ॥ तदुत्पादक-स्यैवेति । तथा च व्याघातानिस्तार इति भावः ।
तृतीयेऽपि किं तर्केणैव सदोषत्वाध्यवसायोऽथ स्फुटतरबाधकवशात्
तृतीयेऽपि किं तर्केणैव सदोषत्वाध्यवसायोऽथ स्फुटतरबाधकवशात्
वादावली
तृतीयेऽपि किं तर्केणैव सदोषत्वाध्यवसायोऽथ स्फुटतरबाधकवशात् । नाद्यः । वेदान्तवाक्यवृत्तेरप्य-विश्वसनीयतापातात् । दोषश्चात्राविद्यैव परस्येष्टा । सा च यदि वेदान्तानामपि मूलं तर्हि प्रत्यक्षे प्रद्वेषः किन्निबन्धनः । न द्वितीयः । निरवकाशस्य तस्यानुपलम्भात् ।
वादावलीभावदीपिका
उत्पद्यत इति सम्भवतीत्येतद्देहलीदीपन्यायेन पूर्वत्रोत्तरत्र च सम्बध्यते । गुणजन्यतानिरासद्वारा दोषजन्यतैवापद्यत इति पक्षमपि दूषयितुं विकल्पेन पृच्छति ॥ तृतीयेऽपीति ॥ तर्केणैवेति । प्रागुक्तशुष्कतर्के-णेत्यर्थः ॥ सदोषत्वेति । भेदप्रतीतेर्दोषजन्यत्वनिश्चय इत्यर्थः । एकमेवा-द्वितीयं न तु द्वितीयमस्तीत्यादीनामापाततो भेदबाधकत्वेन प्रतीयमानत्वेऽपि न द्वैतबाधकत्वमित्यभिप्रेत्याह ॥ स्फुटतरेति । प्रत्यक्षादिरूपेत्यर्थः ॥ वेदान्तेति । यदि शुष्कतर्कैरेव द्वैतप्रत्यक्षस्य दोषजन्यत्वाध्यवसायेना-विश्वसनीयता तर्हि वेदान्तवाक्यैर्जायमानाया औतगोचरान्तःकरणवृत्तेरपि तथाविधशुष्कतर्कैरविश्वसनीयतापातात् । द्वैतवदद्वैतेऽपि वेदान्तवृत्तिरपि किमैक्यमेव गोचरयेदुत वस्त्वपि । नाद्यः । धर्मिप्रतियोगिबुद्धिमन्तरेणैक्य-बुद्धेरयोगात् । द्वितीयेऽपि किमैक्यपूर्वं वस्तु वस्तुपूर्वमैक्यं वा युगपदुभयं वा गोचरयेदित्यादिविकल्पानां दोषाणां च साम्यादिति भावः ।
ननु न ब्रह्मातिरिक्तमैक्यमस्ति यद्विकल्प्य दूष्येतेति चेन्न । एवं सति भेदोऽपि घटाद्यतिरिक्तो नेत्यपि वक्ष्यमाणत्वेन साम्यात् । ननु श्रुति-विरोधादैक्यदूषकास्तर्का आभासा इति चेत्प्रत्यक्षादिविरोधाद्भेददूषका अपि तथेति समम् । प्रत्यक्षं तर्कविरोधादप्रमाणं चेच्छतिरपि तद्विरोधादुपचरितार्थेति समम् । त्वन्मतेऽपि स्वस्य स्वाभिन्नत्वादभेदनिरासः स्वव्याहत इति चेत् । त्वन्मते ब्रह्मणोऽनृताद्भिन्नत्वाद्भेदनिरासोऽपि स्वव्याहत इति समम् । ब्रह्मणोऽनृतादपि भेदो मिथ्येति चेत् । स्वस्य स्वाभेदोऽपि मिथ्येति सुवचत्वाच्च । न च विरोधः । ब्रह्मणोऽनृताद्भिन्नत्वं मिथ्येत्युक्त्यपेक्षया स्वस्य स्वाभेदो मिथ्येत्युक्तेरतीवविरोधाभावात् । उक्तं च न्यायामृते ।
न हि सत्यमसत्येभ्यो भिन्नं नेत्युक्तितोऽपि च ।
सत्यं न सत्यमित्युक्तावधिकाऽस्ति विरुद्धता ॥ इति ।
शुष्कतर्कैर्भेदबाधे स्यादभेदोऽपि बाधितः । प्रमितत्त्वात्तत्र तर्का-स्तुच्छाश्चेत्प्रकृतेन किमिति । अपि च तर्कैरपि द्वैतप्रत्यक्षे निश्चीयमानं सदोषत्वमाविद्यकत्वमेव त्वया वाच्यम् । न त्वन्यत् । प्रत्यक्षे क्लृप्त-दूरस्थत्वादिदोषाणामभावस्यैव निश्चितत्वात् । तथा च तदाविद्यकत्वरूप-सदोषत्वं यदि वेदान्तवृत्तौ न स्यात्तदा तस्याः सत्यतापत्त्या सदद्वैतमत-क्षतिरतोऽद्वैतवृत्तेराविद्यकत्वमेव वाच्यमिति द्वैताद्वैतवृत्त्योराविद्यकत्वरूप-सदोषत्वे समानेऽप्येकत्र प्रद्वेषोऽयुक्त इत्याह ॥ दोषश्चेति । किञ्चेति चार्थः । अत्र द्वैतपक्षे ॥ परस्येष्टेति । अन्यस्याभावादिति भावः ॥ मूलमिति । वेदान्तजनितवृत्तेः कारणमित्यर्थः ॥ तस्येति । बाधस्येत्यर्थः । न हि घटपटादिभेदनिषेधकं प्रत्यक्षमागमं वा पश्यामः । शुष्कतर्कस्त्वप्रतिष्ठित इत्युक्तत्वाद् एकमेवाद्वितीयमित्यादेः सावकाशत्वात् । अन्यथाव्याख्यातत्वाच्चेति भावः ।
वादावलीप्रकाशः
॥ तृतीयेऽपीति । निर्दोषकारणजन्यत्वं निराक्रियत इति पक्षेऽपीत्यर्थः ॥ तृतीयेऽपीति । भेदप्रतीतेर्निर्दोषकारणजन्यत्वं निराक्रियत इत्युक्ते सदोषकारणजन्यत्वमुक्तं स्यात् । तत्र भेदप्रतीतिकारणस्य सदोषत्वाध्यवसायः केनेति विकल्पयति ॥ किं तर्केणैवेत्यादिना । अन्योन्याश्रयादिरूपतर्केण निर्दोषकारणजन्यत्वं निवार्यत इत्यस्य तात्पर्यं सदोषत्वाध्यवसाय इति । तथा च भेदप्रतीतेरेवाविश्वसनीयत्वमिति भावः । यदि सदोषत्वेनाविश्वसनीयत्वमुच्यते तर्ह्यतिप्रसङ्गमाह ॥ वेदान्तेति । तत्त्वमसीत्यादिवेदान्तवाक्यजन्यवृत्तेरपीत्यर्थः । तत्र को दोषोऽस्तीति चेत्तत्राह ॥ दोषश्चेति । यर्हि यदा तर्हि तदा ॥ मूलमिति । तथा च ब्रह्मव्यतिरिक्तस्य सर्वस्यापि मिथ्यात्वेनाविद्याकल्पितत्वाद्यदा सदोषत्वेऽपि वेदान्तवाक्यजन्यवृत्तौ विश्वासस्तदेत्यर्थः ॥ प्रत्यक्ष इति । भेदविषय-प्रत्यक्षप्रतीतौ ॥ किन्निबन्धन इति । तथा च तर्केण सदोषत्वाध्यवसायेऽपि विश्वसनीयत्वमेव किन्न स्यादिति भावः । तस्य स्फुटतरबाधकस्य ।
वादावलीविवरणम्
॥ तर्केणैवेति । भेदः स्वरूपो धर्मो वा । नाद्यः । निरपेक्ष-त्वाद्यापातात् । नान्त्यः । अनवस्थापत्तेरिति तर्केणैवेत्यर्थः । यद्वा पूर्वोक्ता-न्योन्याश्रयादितर्केणैवेत्यर्थः ॥ अविश्वसनीयतापातादिति । ऐक्यस्य ब्रह्मस्वरूपत्वे तद्वदेव निरपेक्षत्वाद्यापातः । धर्मत्वेऽनवस्थेत्यादित्व-दुक्ततर्काणामैक्येऽपि प्रसरादिति भावः ॥ अत्रेति । भेदप्रत्यक्ष इत्यर्थः ॥ निरवकाशस्येति । न च तत्त्वमसीत्यादिकमेव निरवकाशं बाधकमिति वाच्यम् । तस्य तत्र तत्र सम्यग्व्याख्यातत्वादित्याशयात् ।