०३ भेदस्य प्रत्यक्षाद्यग्राह्यत्वपूर्वपक्षः

ननु कथं प्रत्यक्षस्य भेदग्राहकत्वम्

भेदस्य प्रत्यक्षाद्यग्राह्यत्वपूर्वपक्षः

ननु कथं प्रत्यक्षस्य भेदग्राहकत्वम्

वादावली

ननु कथं प्रत्यक्षस्य भेदग्राहकत्वम् । तत्किं भेदमेव गोचरयेदुत वस्त्वपि । नाद्यः । धर्मिप्रतियोगिप्रतीति-मन्तरेण भेदप्रतिपत्तेरयोगात् । द्वितीये किं भेदपूर्वं वस्तु वस्तुपूर्वं वा भेदं युगपद्वोभयं गोचरयेत् । नाद्यः । दत्तोत्तर-त्वात् । न द्वितीयः । बुद्धेर्विरम्यव्यापारायोगात् । नापि तृतीयः । कार्यकारणबुद्ध्योर्यौगपद्यायोगात् । तत्तद्भेदस्य भेदान्तरभेदेऽनवस्थानम् ।

वादावलीभावदीपिका

स्यादेतत् । यदि प्रत्यक्षं भेदग्राहि स्यात्तदा भवेत्तद्बाधो भेद-मिथ्यात्वानुमानस्य । तदेव न सम्भवतीत्यभिप्रायेण पूर्वपक्षमारचयति ॥ नन्विति । कथमित्याक्षेपे न कथमपीत्यर्थः । तथा हि । प्रत्यक्षं भेदग्राहीति वदन्वादी प्रष्टव्यः । किं स्वातन्त्र्येण भेदं गोचरयेदुत धर्मिप्रतियोगि-विशेषणविशेष्यतया । तत्र तावदाद्ये प्रतिज्ञातं भेदस्य प्रत्यक्षाग्राह्यत्व-मुपपादयितुं विकल्पयति ॥ तत्किमिति । तत्प्रत्यक्षमित्यर्थः ॥ भेद-मेवेति । धर्मिप्रतियोगिनावगृहीत्वा केवलं भेदमित्यर्थः ॥ वस्त्वपीति । स्वनिरूपकं धर्मिप्रतियोग्याख्यमर्थं भेदं चेत्यर्थः ॥ अयोगादिति । भेदस्यान्योन्याभावरूपत्वेन सद्भ्यामधिकरणप्रतियोगिभ्यामभावो निरूप्यत इति न्यायेन धर्मिप्रतियोगिज्ञानस्य भेदज्ञाने कारणत्वेन कारणाभावे कार्यानुदयादित्यर्थः । भेदं वस्तु च द्वयं गृह्णातीति पक्षेऽपि पूर्वं भेदं गृहीत्वा पश्चान्निरूपकं धर्मिप्रतियोग्याख्यं वस्तु गृह्णात्युत वस्तु गृहीत्वा पश्चाद्भेदमथैकदा द्वयमपीति विकल्पपूर्वं क्रमेण दूषयति ॥ द्वितीय इति ॥ भेदपूर्वं वस्त्विति । गोचरयेदिति वक्ष्यमाणेनान्वयः । प्रत्यक्षमिति वर्तते ॥ दत्तेति । धर्मिप्रतियोगिप्रतीतिमन्तरेण पूर्वं भेदज्ञानायोगादित्युक्तत्वा-दित्यर्थः ॥ विरम्येति । पूर्वं वस्तु गृहीत्वा पश्चाद्भेदग्रहस्य विलम्बितत्वेना-योगादित्यर्थः । इदं च प्राक् पक्षेऽपि योज्यम् ॥ कार्यकारणेति । धर्मिप्रतियोगिज्ञप्तेः कारणत्वाद्भेदबुद्धेश्च कार्यत्वात्कार्यकारणभावस्य च नियतपौर्वापर्यगर्भतया यौगपद्यमयुक्तमित्यर्थः । धर्मिप्रतियोगिविशेषणविशेष्यतया भेदग्राहि प्रत्यक्षमिति द्वितीयपक्षेऽनवस्थापत्त्या न प्रत्यक्षस्य भेदग्राहकत्वमिति वक्तृमाह ॥ तत्तदिति । यद्वा युगपदुभयमिति तृतीयकल्पेऽङ्गुलिद्वय-वत्स्वातन्त्र्येण भानस्योक्तरीत्याऽयोगेन विशेषणविशेष्यतयैव भाने वक्तव्ये तत्रानवस्थालक्षणदोषान्तरं वक्तृमाह ॥ तत्तदिति । बुद्धिस्थं घटपटादिकं तत्तच्छब्देन गृह्यते । तथा चायमर्थः । भेदः किं धर्मिस्वरूप उत ततो भिन्नः । नाद्यः । घटभेदशब्दयोः पर्यायतापातात् । अन्यतरपरिशेषापाताच्च । न द्वितीयः । भेदस्य धर्मिणो घटाद्भेदे तुल्यन्यायतया सोऽपि भेदः स्वधर्मि-भूताद्भेदाद्भिन्नो वाच्यः, सोऽपि भेदस्तथेत्यनवस्थितानन्तभेदापत्त्याऽनवस्था स्यादिति ।

श्री० – तत्प्रत्यक्षम् ॥ अयोगादिति । भेद इत्येवाप्रतीतेरिति भावः ॥ भेदपूर्वमिति । आदौ भेदमात्रं गृहीत्वा पश्चाद्वस्तु गोचरये-द्विषयीकुर्यादित्यर्थः ॥ वस्तुपूर्वमिति । आदौ वस्तु गृहीत्वा पश्चाद्भेदं गोचरयेदित्यर्थः ॥ दत्तोत्तरत्वादिति । धर्मिप्रतियोगिप्रतीतिमन्तरेण भेद इत्येव प्रतीतेरभावादित्यर्थः ॥ विरम्येति । स्थित्वा स्थित्वा व्यापारो विरम्यव्यापारश्चेतनधर्मः । स च बुद्धौ न सम्भवति । तस्या जडत्वादिति भावः । अयं दोष आद्यपक्षेऽपि द्रष्टव्यः ॥ यौगपद्येति । वस्तुप्रतीतेर्भेद-प्रतीतिकारणत्वाङ्गीकारेण तद्बुद्ध्योर्यौगपद्यायोगादित्यर्थः । दूषणान्तरमाह ॥ तत्तद्भेदस्येति । घटपटादिभेदस्येत्यर्थः । भेदान्तरेण घटपटादिभ्यो भेदेऽङ्गीक्रियमाणे सति घटपटयोर्भेद इति प्रतीयमानस्य भेदिभ्यां घटपटादिभ्यां भिन्नत्वेन घटपटयोर्भेदस्य च भेदान्तरमङ्गीकार्यम् । सोऽपि भेदस्तथै-वेत्यनवस्था स्यादिति भावः ।

वादावलीविवरणम्

प्रत्यक्षादिप्रमाणसिद्धतामित्युक्तमसहमानः प्रत्यवतिष्ठते ॥ नन्विति ॥ धर्मिप्रतियोगिप्रतीतिमिति । धर्मिप्रतियोग्युल्लेखमित्यर्थः । भेद इत्येवाप्रतीतेरिति भावः ॥ दत्तोत्तरत्वादिति । धर्मिप्रतियोगीत्यादिनेति शेषः ॥ कार्येति । अत्र वस्तुप्रतीतेः कारणत्वं भेदप्रतीतेः कार्यत्वमवधेयम् ॥ तत्तद्भेदस्येति । उपलक्षणमेतत् । पटो भिन्न इति विशेषणविशेष्यभावेनैव भेदस्य प्रत्येतव्यत्वात्तद्द्वारप्रतीतेश्च प्रतीत्यधीनताया दण्डचैत्रादौ दर्शनेन भेदप्रतीतिपरम्पराया अनवस्थेत्यापि ग्राह्यम् ।


अनन्तभेदाभ्युपगमेऽपि मूलक्षतेरभावान्नान-वस्थादोष इति चेन्न

अनन्तभेदाभ्युपगमेऽपि मूलक्षतेरभावान्नान-वस्थादोष इति चेन्न

वादावली

अनन्तभेदाभ्युपगमेऽपि मूलक्षतेरभावान्नान-वस्थादोष इति चेन्न । अयमितो भिन्न इति वाऽनयोर्भेद इति वा । नाद्यः । विशिष्टत्वेनैव प्रतीतिनियमात् । न द्वितीयः । भेदेनैव विज्ञातस्य विशेषणत्वात् । ततश्च पूर्वपूर्वभेदप्रतीति-मन्तरेणोत्तरोत्तरभेदाप्रतीतेरनन्तत्वाद्युगपत्प्रतीतेरयोगाच्च मूल-क्षतेरनवस्था सुस्थैवेति ।

वादावलीभावदीपिका

नन्वियमनवस्था प्राथमिकभेदस्योत्पत्तिज्ञप्त्योरन्यतरप्रतिबन्धकत्व लक्षणमूलक्षयकारणत्वाभावाद्बीजाङ्कुरानवस्थावन्न दोषावहेति शङ्कते ॥ अनन्तेति । उत्पत्तिप्रतिबन्धकत्वाभावेऽपि प्राथमिकभेदज्ञप्तिप्रतिबन्धकत्व-मस्त्येवेति भावेन परिहरति ॥ नेति । ज्ञप्तिप्रतिबन्धकत्वमुपपादयितुं भेदगोचरज्ञानाकारं विवेचयति ॥ अयमिति । घट इत्यर्थः । अनयोर्घट-पटयोरित्यर्थः । इति वेत्यनन्तरं भेदोऽवभासत इति शेषः । भेदस्य विशेषण-तया प्रतीतिराद्ये विवक्षिता । द्वितीये तु विशेष्यतयेति ध्येयम् ॥ विशिष्ट-त्वेनैवेति । विशेषणविशेष्यभावापन्नतयेत्यर्थः । तथा च द्वितीयपक्षे वक्ष्यमाणदोषेण दुष्टतेति भावः ॥ भेदेनैवेति । दण्डी कुण्डली कमण्डलुमानित्यादिविशिष्टज्ञाने देवदत्ताद्भेदेनैव प्रतीतस्य दण्डादेर्विशेषणत्व-दर्शनादिति भावः ॥ विशेषणत्वादिति । विशेष्यत्वादित्यपि बोध्यम् ।

नन्वस्तु भिन्नत्वेन ज्ञातस्य विशेषणत्वं विशेष्यत्वं वा । प्रकृते च घटाद्भिन्नत्वेन ज्ञातस्यैव पटभेदस्य घटः पटाद्भिन्न इति घटविशेषणतया घटपटाभ्यां भिन्नत्वेन ज्ञातस्य च भेदस्य घटपटयोर्भेद इति तदुभयविशेष्यतया च प्रतीतिसम्भवादित्याशङ्क्याह ॥ ततश्चेति । विशेषणविशेष्यभाव-प्रतीतेर्विशेषणविशेष्यभेदप्रतीतिसापेक्षत्वादित्यर्थः । ततश्चेत्यस्यानवस्था सुस्थैवेत्यनेनान्वयः । भेदाप्रतीतेर्भेदप्रतीतेरभावात् । कथमित्यत उपपादयति ॥ पूर्वपूर्वेति । घटः पटाद्भिन्न इति घटे पटभेदस्य विशेषणतया ज्ञानं विशेष्यभूतस्य घटस्य विशेषणभूतस्य पटभेदस्य च भेदज्ञाने सत्येव घटपटभेदयोर्विशेष्यविशेषणतया प्रतीतिर्घटपटभेदयोर्भेदस्य च ज्ञानं न स्वातन्त्र्येण निरस्तत्वात् । किन्तु पटाद्भिन्न इति भेदस्य विशेष्यतया घटभेदस्य च विशेषणतया । तथा च पटभेदनिष्ठघटभेदस्य च भेदापेक्षया विशेषणत्वेन भानादान्तरालिकभेदज्ञाने सति तस्याप्येवमित्यनवस्था । एवं घटपटयोर्भेद इत्यत्रापि भेदभेदिनोर्भेदज्ञानमन्तरा भेदज्ञानमपि न सिध्यति । तदपि तत्पूर्वभेदज्ञानसापेक्षमित्यनवस्थेति ।

ननु सर्वेषामपि भेदानां युगपज्ज्ञाने सति विशेषणादितया प्रतीति-रुपपन्नेत्यत आह ॥ अनन्तत्वादिति । तथा च पूर्वपूर्वभेदज्ञानानाम-भावेनोत्तरोत्तरभेदज्ञानानामभावात्प्राथमिकभेदज्ञानमपि न सिध्येदित्यनवस्था सुस्थेत्यर्थः । अयमत्र तर्कप्रयोगः । यदि विशेषणविशेष्यतया भेदः प्रतीयेत तर्हि पूर्वपूर्वभेदप्रतीतिपरम्परयाऽनवस्था स्यात् । न चैवमङ्गीकर्तुं शक्यते । अतो न भेदप्रतीतिः सम्भवतीति ।

वादावलीप्रकाशः

ननु मूलक्षयकरीं प्राहुरनवस्थां हि दूषणमित्युक्तत्वात् । यदर्थमुत्तरोत्तरानुसरणं तन्मूलं परम्पराकल्पकमिति यावत् । तत्क्षया-भावान्नेयमनवस्था दोष इत्याशङ्कते ॥ अनन्तभेदेति । भेदपरम्परा-रूपानवस्थायाः स्वानभ्युपगमे मूलक्षयकारित्वमस्त्येवेत्याशयेन मूलभूतां प्रतीतिमुपपादयति ॥ अयमिति । अयमस्मादित्यर्थः । एकप्रतियोगिकोऽ-परनिरूप्य इति पक्षाभिप्रायेणेदम् । इति वा प्रतीत्या भवितव्यमिति शेषः । एवमुत्तरत्रापि शेषः कार्यः । एक एव भेदो द्विष्ठ इति पक्षाभिप्रायेणाह ॥ अनयोरिति । पूर्वं भेदो विशेषणत्वेनात्र तु विशेष्यत्वेनेति द्रष्टव्यम् ॥ नाद्य इति । आद्यपक्षेऽनवस्थाभावो नेत्यर्थः । कुत इत्यत आह ॥ विशिष्टत्वेनैवेति । भेदविशिष्टत्वेनैवेत्यर्थः । अन्यथाऽयमित इति विलक्षणव्यवहारस्यैवायोगात् । तथा च भिन्न इति भेदप्रतीत्यपेक्षया पूर्वमप्ययमित इति विलक्षणप्रयोगोपपत्तयेऽयमित इत्युक्तयोर्धर्मिप्रतियोगिनो-र्भेदप्रतीत्या भवितव्यम् । सोऽपि भेदः पुनरयमितो भिन्न इति प्रतीयत इत्यङ्गीकार्यम् । तत्रापि विलक्षणप्रयोगाय तयोर्भेदप्रतीतिरङ्गीकार्येत्यर्थः ॥ न द्वितीय इति । द्वितीयपक्षेऽप्यनवस्थाभावो नेत्यर्थः । कुत इत्यत आह ॥ भेदेनैवेति । विज्ञातस्यानयोरित्युक्तपदार्थद्वयस्य । तथा चानयोरित्यस्य विशेषणघटकोऽपि भेदः पुनरनयोर्भेद इत्येव प्रतीयत इति वक्तव्यम् । भेद इत्येवं प्रतीत्यभावात् । सोऽपि भेदस्तथैवेत्यर्थः । एवं प्रतीतिद्वय-पक्षेऽप्यनवस्था स्यादेव । परम्परानङ्गीकारे मूलक्षतिसद्भावादित्याह ॥ ततश्चेति ॥ पूर्वपूर्वेति । अयमितोऽनयोरित्यादौ या प्रतीता भेदप्रतीतिः सा पूर्वपूर्वभेदप्रतीतिरित्यर्थः ॥ उत्तरोत्तरेति । भिन्नः भेद इत्यादौ प्रतीयमाना भेदप्रतीतिरुत्तरोत्तरभेदप्रतीतिरित्यर्थः । ननु नानवस्था सर्वेषामपि भेदानां युगपदेव प्रतीत्या भेदप्रतीतिपरम्पराऽभावादिति चेत्तत्राह ॥ युगपदिति । तत्र हेतुरनन्तत्वादिति । भिन्नभिन्नधर्मिप्रतियोगिसापेक्षतया विशेषणविशेष्यसापेक्षतया च प्रतीयमानानां भेदानामनन्तत्वेन युगपत्प्रतीत्ययोगादित्यर्थः ।

वादावलीविवरणम्

॥ अनन्तत्वादिति । अयं युगपत्प्रतीत्ययोगादित्यत्र हेतुरिति ध्येयम् ।