०२ भेदमिथ्यात्त्वानुमानस्य सोपाधिकत्त्वकथनम्

अप्रमाणगम्यत्वमुपाधिश्च

भेदमिथ्यात्त्वानुमानस्य सोपाधिकत्त्वकथनम्

अप्रमाणगम्यत्वमुपाधिश्च

वादावली

अप्रमाणगम्यत्वमुपाधिश्च । भेदत्वादेव तदपि स्यादिति चेन्न । प्रातिभासिकत्वस्याप्यापातात् । अथात्र व्यवहारनिर्वाहकता प्रतीयत इति चेत्तर्ह्यत्र प्रत्यक्षादिप्रमाण-सिद्धतां च किन्न पश्यसि ॥ छ ॥ भेदमिथ्यात्वानुमानस्य सोपाधिकत्वकथनम् ॥ छ ॥

वादावलीभावदीपिका

भेदमिथ्यात्वानुमानेऽसिद्धिमुक्त्वोपाधिं चाह ॥ अप्रमाणेति । अप्रमाणेन गम्यत्वमप्रमाणगम्यत्वम् । अप्रमाणजन्यज्ञानविषयत्वमित्यर्थः । न च भेदस्यापि भेदो मिथ्या भेद आविद्यको भेद उपाधिकृतो न स्वाभाविक इत्याद्यप्रमाणविषयत्वात्साधनव्यापकतेति वाच्यम् । भ्रान्तिप्रतीतत्वस्य विवक्षितत्वात् । तस्य च बाधितचन्द्रभेदे सत्त्वेन साध्यव्यापकत्वात् । पक्षे चाभावेन साधनाव्यापकत्वाच्च । ननु भ्रमप्रतीतत्वमप्यनेन हेतुना पक्षे साध्यते । एवञ्च न साधनाव्यापकतेति शङ्कते ॥ भेदत्वादिति ॥ स्यादिति । पक्ष इति शेषः । विमतो भेदः प्रातिभासिको भेदत्वाच्चन्द्र-भेदवदित्याभाससाम्यापत्तेर्नैवमित्याह ॥ प्रातिभासिकत्वस्येति । ननु नाभाससाम्यम् । प्रातिभासिकत्वस्य व्यावहारिकत्वग्राहिप्रत्यक्षबाधादित्याशङ्क्य सममत्रापीत्याह ॥ अथेति ॥ तर्ह्यत्रेति । घटादिभेद इत्यर्थः ॥ छ ॥

वादावलीप्रकाशः

॥ अप्रमाणेति । दुष्टेन्द्रियादीत्यर्थः । मिथ्यात्ववति चन्द्रभेदे साध्यव्यापकत्वाद्भेदत्ववति पक्षीभूते घटपटादिभेदेऽप्रमाणगम्यत्वाभावेन साधनाव्यापकत्वाच्चेत्यर्थः । भेदत्वादेव हेतोस्तदप्यप्रमाणगम्यत्वमपि स्यात्पक्ष इति शेषः । तथा च पक्षीभूते भेदे भेदत्वहेतुनाऽप्रमाणगम्यत्वस्यापि साधना-त्साधनव्यापकोऽयमुपाधिरिति भावः ॥ प्रातिभासिकत्वस्यापीति । यदि घटपटादिभेदस्याप्रमाणगम्यत्वमङ्गीक्रियते तर्हि तेनैव प्रातिभासिकत्वमपि स्यात् । तथा च भेदः प्रातिभासिको भवितुमर्हति अप्रमाणगम्यत्वा-च्चन्द्रभेदवदित्यनुमानापत्तिरित्यर्थः ॥ अत्रेति । घटपटादिभेद इत्यर्थः । तथा च प्रातिभासिकत्वसाधने बाध इति भावः ॥ अत्रेति । तथा च पक्षीभूते भेदेऽप्यप्रमाणगम्यत्वसाधने बाधः समान एवेति साधनाव्यापकत्वं सिद्धमिति भावः ॥ छ ॥

वादावलीविवरणम्

॥ प्रातिभासिकत्वस्यापीति । भेदत्वादेवेति शेषः । तथा च पक्षे भेदत्वहेतुनाऽप्रमाणगम्यत्वसाधनमाभाससमानयोगक्षेममित्याशयः । प्रातिभासिकत्वसाधने बाधं शङ्कते ॥ अथेति । तथा च व्यावहारिकत्वानु-भवबाध इति भावः । एवं चेदप्रमाणगम्यत्वसाधनेऽपि बाध इत्याह ॥ तर्हीति । एवं भेदत्वेन प्रातिभासिकत्वसाधने बाधवदप्रमाणगम्यत्वसाधनेऽपि बाधादुपाधेः साधनाव्यापकत्वं ततश्च सोपाधिकं भेदो मिथ्येत्यनुमानमिति निर्व्यूढम् । इदानीं बाधितं च तदित्याह ॥ तर्ह्यत्रेति ॥ छ ॥ भेदमिथ्यात्वानुमानस्य सोपाधिकत्वकथनम् ॥ छ ॥

भेदमिथ्यात्त्वानुमानस्य सोपाधिकत्त्वकथनम्