भेदो मिथ्या भेदत्वाच्चन्द्रभेदवदित्यनुमान-मस्त्विति चेन्न
भेदमिथ्यात्वानुमानस्य असिद्धिकथनम्
भेदो मिथ्या भेदत्वाच्चन्द्रभेदवदित्यनुमान-मस्त्विति चेन्न
वादावली
भेदो मिथ्या भेदत्वाच्चन्द्रभेदवदित्यनुमान-मस्त्विति चेन्न । साध्यानिरुक्तेः । दृष्टान्ते साधनविकलत्वं च । तत्र तद्भेदासत्त्वेन भेदत्वस्यैवाभावात् । परमार्थतस्तदभावेऽपि कथञ्चिदस्ति भेदोऽतो भेदत्वमपीति चेन्न । तादृशस्य भेदत्वस्य पक्षेऽनन्वयात् । अवधूयैव बाधितत्वादि विशेषं भेदत्वसामान्य-स्यैव हेतुतेति चेन्न । धूमबाष्पयोर्धूमत्ववत्सामान्यस्याप्य-भावात् । अन्यथाऽनवधारितबाधितत्वाबाधितत्वादिविशेषेण धूमवत्त्वमात्रेण ह्रदादेरपि सदहनतापातात् ॥ छ ॥ भेद-मिथ्यात्वानुमानेऽसिद्धिकथनम् ॥ छ ॥
वादावलीभावदीपिका
ननु मास्त्वभेदानुमानं विरोधि भेदमिथ्यात्वानुमानं तु भेदसत्यत्वविरोधीति भावेन शङ्कते ॥ भेद इति । विमत इति शेषः ॥ चन्द्रेति । अङ्गुल्यवष्टब्धनेत्रेण दृश्यमानचन्द्रभेदवदित्यर्थः ॥ साध्या-निरुक्तेरिति । प्रागुक्तमिथ्यात्वविकल्पदोषाणामापत्तेरित्यर्थः । साधन-वैकल्यमेवोपपादयति ॥ तत्रेति । चन्द्रे चन्द्रभेदस्य असत्त्वेन भेद-सामान्याभावादित्यर्थः । ननु चन्द्रे चन्द्रभेदस्य वास्तवस्याभावेऽप्यारोप्यस्य चन्द्रभेदस्य चन्द्रे सत्त्वेन तत्रारोपितं भेदत्वमप्यस्तीति शङ्कते ॥ परमार्थत इति ॥ तादृशस्येति । बाधितस्येत्यर्थः (आरोपितस्येत्यर्थः) । तथा चासिद्धिरित्यर्थः । ननु बाधितत्वाबाधितत्वरूपविशेषौदासीन्येन भेदत्वमेव हेतुरस्त्वित्याशङ्क्य सदृष्टान्तमसिद्धिमाह ॥ अवधूयेति । ननु तत्रापि धूमत्वसामान्यमस्त्वित्यत आह ॥ अन्यथेति ॥ छ ॥
वादावलीप्रकाशः
॥ चन्द्रभेदवदिति । अङ्गुल्यवष्टब्धनयनेन प्रतीयमान-चन्द्रभेदवदित्यर्थः ॥ अस्त्विति । भेदमिथ्यात्वे प्रमाणमिति शेषः ॥ साध्यानिरुक्तेरिति । उक्तरीत्या मिथ्यात्वानिरुक्तेरित्यर्थः । तदुपपादयति ॥ तद्भेदासत्त्वेनेति । द्वितीयचन्द्रस्यैवासत्त्वेन तद्भेदरूपव्यक्तेरेवासत्त्वात्तत्र तद्भेदत्वसामान्यरूपहेतोरभावादित्यर्थः ॥ तदभावेऽपीति । चन्द्र-भेदाभावेऽपीत्यर्थः ॥ कथञ्चिदस्ति भेद इति । प्रातिभासिकारोपितश्चन्द्र-भेदोऽस्तीत्यर्थः । तथा च तद्भेदो नात्यन्तासन्निति भावः ॥ भेदत्व-मपीति । भेदत्वसामान्यमपि तत्रास्तीति न साधनवैकल्यमिति भावः ॥ तादृशस्येति । एवं सति प्रातिभासिकभेदत्वं हेतुरित्युक्तं स्यात् । तथा च तस्य पक्षीभूते घटपटादिभेदेऽनन्वयादसम्बन्धादभावादिति यावत् । स्वरूपासिद्धिः स्यादित्यर्थः । शङ्कते ॥ अवधूयैवेति ॥ बाधितत्वा-दिति ॥ आरोपितत्वपारमार्थिकत्वरूपविशेषमवधूय परित्यज्येत्यर्थः ॥ भेदत्वसामान्यस्यैवेति । आरोपितानारोपितसाधारणभेदत्वसामान्य-स्येत्यर्त्थः । तथा च स्वरूपासिद्धिः साधनवैकल्यं चेति भावः ॥ धूम-बाष्पयोरिति । धूमबाष्पारोपितधूमयोरित्यर्थः ॥ अन्यथेति । तत्रापि धूमवत्त्वसामान्याङ्गीकार इत्यर्थः ॥ अनवधारितेत्यादि । अनवधारितम-निश्चितमविवक्षितमिति यावत् । एतादृशं यद्बाधितत्वादिविशेषणमारोपितत्वा-नारोपितत्वादिरूपविशेषणं तदुपेतं यद्धूमवत्त्वं तन्मात्रेणेत्यर्थः ॥ सदहनतेति । अग्निसाहित्येत्यर्थः । अग्निमत्त्वापातादिति यावत् । तथा च ह्रदोऽग्निमान्धूमवत्त्वादित्यप्यनुमानापत्तिरिति भावः ॥ छ ॥
वादावलीविवरणम्
अभेदो मिथ्याऽभेदत्वाद्देहात्माभेदवदित्याभाससाम्यमिति दोषे सत्येव दोषान्तरमाह ॥ साध्यानिरुक्तेरित्यादिना । नन्वारोपितभेदत्वमात्रं हेतुः । अस्ति च तच्चन्द्रभेदेऽपीति न साधनवैकल्यमिति भावेन शङ्कते ॥ परमार्थत इति । तदभावेऽपि चन्द्रभेदाभावेऽपि कथञ्चिदारोपितः । धूमवत्त्वसामान्य-स्येत्यतःपरमिवेति तस्येति च शेषः । तथा च धूमबाष्पयोर्धूमत्व-सामान्यवद्बाधिताबाधितभेदयोर्भेदत्वसामान्यस्याप्यभावादसिद्धिरिति भावः ॥ छ ॥ भेदमिथ्यात्वानुमानेऽसिद्धिकथनम् ॥ छ ॥
भेदमिथ्यात्वानुमानस्य असिद्धिकथनम्