०९ आपाततो भेदबाधकतया प्रतीयमानयुक्तिनिरासः

ननु कथं भेदसत्यता युक्तिमती..

आपाततो भेदबाधकतया प्रतीयमानयुक्तिनिरासः

ननु कथं भेदसत्यता युक्तिमती..

वादावली

ननु कथं भेदसत्यता युक्तिमती । विमता आत्मानः परमात्मनः परमार्थतो न भिद्यन्ते आत्मत्वा-त्परमात्मवदित्यनुमानेन विरोधादिति चेन्न । आत्मत्वस्य प्रागेव निरस्तत्वात् । अस्तु तर्हि–

‘‘विमतं तात्त्विकस्वान्तर्भेदहीनं मतत्वतः ।

यदित्थं तत्तथा यद्वत्खं तथेदं ततस्तथा ॥’’

इत्यनुमानविरोध इति चेन्न । विचारागोचरत्वात् । तथा हि । किमत्र स्वान्तर्भेदहीनताशब्देन प्रत्येकं पदार्थानां स्वगत-भेदराहित्यमुच्यते उत भेदाधिकरणत्वविरहः । नाद्यः । सिद्ध-साधनत्वात् । नोत्तरः । साध्यविकलत्वाद्दृष्टान्तस्य ।

वादावलीभावदीपिका

उक्तं भेदसत्यत्वं समर्थयितुमापाततो भेदबाधकतया प्रतीयमाना युक्तीर्निराचिकीर्षुः शङ्कामुत्थापयति ॥ नन्विति । कथं न कथमपीत्यर्थः । न हि प्रतिज्ञामात्रेणार्थसिद्धिरित्यतो जीवानां भगवता भेदे तावदनुमान-विरोधमाशङ्कते ॥ विमता इति । भिन्नत्वेनाभिन्नत्वेन विवादविषया इत्यर्थः । परमात्मनो न भिद्यन्त इत्येवोक्तौ परेण व्यावहारिकभेदस्याङ्गीकारेण बाधः स्यादतः परमार्थत इति ॥ परमात्मवदिति । परमात्मनि परमात्मभेदस्याभावादित्यर्थः ॥ प्रागेवेति । अनिर्वाच्यत्वलक्षणखण्डनावसर इत्यर्थः । तथा चात्मत्वस्य ज्ञानाधारत्वादिरूपत्वे तवासिद्धिः । अवेद्यत्वादिरूपत्वे ममासिद्धिः । जातिरूपत्वे विरोधः । अबाध्यत्वादि-रूपत्वेऽनैकान्त्यमिति बोध्यम् । इदानीं जडानामप्यन्योन्यं भेदेऽनुमान-विरोधमाशङ्क्य निराकरोति ॥ अस्त्विति । तर्ह्यात्मत्वानुमाना-सम्भवेऽपीत्यर्थः । मतत्वतो मतिविषयत्वाज् ज्ञानविषयत्वादित्यर्थः । यदित्थमुक्तसाधनवत् । तत्तथोक्तसाध्यवत् । यद्वत्खं यथाऽऽकाशमित्यर्थः । इदं च जगत्तथा उक्तसाधनवदित्युपनयः । तत उक्तसाध्यव्याप्यसाधन-वत्त्वात् । तथोक्तसाध्यवदिति निगमनम् ॥ विरोध इति । जडानां भेदसत्त्व इति शेषः ॥ स्वगतेति । स्वप्रतियोगिकेत्यपि ग्राह्यम् । तथा च घटः स्वगतस्वप्रतियोगिकभेदरहितः पटश्च तथा स्तम्भश्च तथेत्यर्थः ॥ उत भेदेति । यत्किञ्चित्प्रतियोगिकस्वगतभेदराहित्यमित्यर्थः ॥ सिद्धसाधनेति । अस्माभिर्घटादौ प्रत्येकं घटादिप्रतियोगिकभेदानभ्युपगमादिति भावः ॥ साध्यविकलत्वादिति । आकाशेऽपि घटादिभेदस्य तात्त्विकस्यास्माभि-रङ्गीकारादिति भावः ।

वादावलीप्रकाशः

व्यावहारिकभेदाङ्गीकारेण बाधपरिहाराय परमार्थत इत्युक्तम् ॥ निरस्तत्वादिति । स्वप्रकाशत्वमात्मत्वं चेद्दृष्टान्ते साधनवैकल्यम् । स्वकर्मकप्रकाशत्वस्य कर्तृकर्मभावविरोधेनानङ्गीकारात् । नापि ज्ञानाधारत्वम् । परमात्मनो ज्ञानरूपत्वेन तदाधारत्वायोगेनोक्तदोषात् । नाप्यात्मपदवाच्य-त्वम् । अनङ्गीकारात् । नापि जातिविशेषः । एकव्यक्तिकत्वेन तदयोगादिति निरस्तत्वादित्यर्थः । विमतं विश्वम् । स्वान्तर्व्यावहारिकघटपटादिभेदवत्त्वस्यैव सत्त्वेन तदधीनत्वाभावाद्बाधः स्यादित्यतस्तात्त्विकेत्युक्तम् । मतत्वतो मतिविषयत्वाद्दृश्यत्वादित्यर्थः । खमाकाशं यथेत्यर्थः । तथेदमित्युपनयः । ततस्तस्मान्मतत्वात्तथा स्वान्तर्भेदहीनमिति निगमनम् । अनुमानविरोधो यतोऽतो भेदस्य सत्यता कथं युक्तमितीति योज्यम् ॥ उत भेदाधिकरणत्व-विरह इति । स्वान्तरिति पदं परित्यज्येत्यर्थः ॥ सिद्धसाधनत्वादिति । एकैकस्य घटादेः प्रत्येकं स्वस्य स्वेनाभेदस्यैव सद्भावेन स्वान्तर्भेदहीनत्वस्य सिद्धत्वादित्यर्थः ॥ साध्यविकलत्वादिति । गगनरूपदृष्टान्ते घटादिभेदस्यैव सत्त्वेन तदधिकरणत्वविरहाभावात्साध्यवैकल्यमित्यर्थः ।

वादावलीविवरणम्

॥ प्रागेवेति । किं तदात्मत्वमात्मवृत्तिजातिर्वा सत्त्वं वेत्यादिनेति शेषः । तथा चात्मत्वं यदि जातिज्ञानाधारत्वात्मपदवाच्यत्वान्यतमं तदा दृष्टान्ते साधनवैकल्यम् । यदि सत्त्वाबाध्यत्वज्ञानत्वप्रकाशत्वात्म-पदलक्ष्यत्वान्यतमं तदाऽसिद्धिरिति भावः ॥ मतत्वत इति । ज्ञातत्वा-दित्यर्थः ॥ स्वगतभेदराहित्यमिति । स्वप्रतियोगिकभेदराहित्यमित्यर्थः।