०८ विश्वसत्यत्वप्रतिपादनोपसंहारः

तस्मात्सत्यभेदचेतनाचेतनात्मनो विश्वस्य हरिः कर्तेति निराबाधमवस्थितम्

विश्वसत्यत्वप्रतिपादनोपसंहारः

तस्मात्सत्यभेदचेतनाचेतनात्मनो विश्वस्य हरिः कर्तेति निराबाधमवस्थितम्

वादावली

तस्मात्सत्यभेदचेतनाचेतनात्मनो विश्वस्य हरिः कर्तेति निराबाधमवस्थितम् ॥ छ ॥ विश्वसत्यत्व-प्रतिपादनोपसंहारः ॥ छ ॥

वादावलीभावदीपिका

एवमन्या आपाततो मिथ्यात्वपरत्वेन प्रतीयमानाः श्रुतयो यथायथमन्यार्थतया बुद्धिमद्भिर्योजनीया इति भावेनैतावता प्रबन्धेनोप-पादितस्यार्थस्योपयोगं दर्शयन्प्रसङ्गान्तरोपक्षेपं च कुर्वन्नुपसंहरति ॥ तस्मादिति । विश्वमिथ्यात्वस्याप्रामाणिकत्वादित्यर्थः । सत्यस्तात्त्विको भेदो येषां चेतनानामचेतनानामन्योन्यं परमात्मना चेत्यर्थः । तथा च जीवा-नामन्योन्यं जडानामन्योन्यं जीवानां जडानां चान्योन्यं जीवानां परमात्मना जडानां च परमात्मना भेद इति पञ्चभेदास्तात्त्विका इत्युक्तं भवति ॥ हरिः कर्तेति । सत्याशेषजगज्जन्मपूर्वकर्त्र इत्युक्तं विशेषणं सुस्थमित्यर्थः ॥छ॥

वादावलीप्रकाशः

एवं सत्याशेषजगज्जन्मपूर्वकर्त्र इत्येतत् ‘ननु कथं जगतः सत्यताऽङ्गीकाराधिकारिणी’त्याक्षिप्य समाहितं, तदिदानीमुपसंहरति ॥ तस्मादिति ॥ निराबाधमिति । बाधकशून्यं यथा स्यात्तथाऽवस्थितमित्यर्थः॥

वादावलीविवरणं

ननु कथं सत्यता जगतोऽङ्गीकाराधिकारिणीत्यादि-नाऽऽक्षिप्त-मर्थमुपसंहरति ॥ तस्मादिति । मिथ्यात्वे साधकाभावाद्बाधकसद्भावा-त्सत्यत्वे साधकसत्त्वाद्बाधकाभावाच्चेत्यर्थः । उत्तरग्रन्थोपक्षेपार्थमुक्तं सत्य-भेदेति । बहुव्रीहिरयम् ॥ छ ॥ विश्वसत्यत्वप्रतिपादनोपसंहारः ॥

विश्वसत्यत्वप्रतिपादनोपसंहारः