०७ सत्यं ज्ञानमिति श्रुत्यर्थः

अनन्तपदं च देशकालान्तवत्त्वाभावपरम्

सत्यं ज्ञानमिति श्रुत्यर्थः

अनन्तपदं च देशकालान्तवत्त्वाभावपरम्

वादावली

अनन्तपदं च देशकालान्तवत्त्वाभावपरम् । तत्रैव व्युत्पन्नत्वात् । अन्तशब्दस्य देशतः कालतो वस्तुतः परिच्छिन्ने व्युत्पन्नत्वात्तस्य नञ्समासे त्रिविधस्याप्यन्तस्य निषेधकत्वोपपत्तौ पृथग्व्युत्पत्तिर्नापेक्षितेति चेन्न । अनन्त-शब्दस्योक्तत्रयेऽव्युत्पन्नत्वादिति ॥ छ ॥ सत्यं ज्ञानमनन्त-मिति श्रुत्यर्थः ॥ छ ॥

वादावलीभावदीपिका

यदुक्तं तत्त्वप्रदीपिकायां सत्यं ज्ञानमनन्तमित्यत्रानन्तशब्दो मिथ्यात्वे मानम् । अन्तशब्दस्य देशकालपरिच्छिन्नवस्तुव्युत्पन्नत्वात्तन्न भवतीत्युक्ते सर्ववस्त्वभेद एव लभ्यते । तथा चानन्तशब्दमहिम्ना मिथ्यात्वसिद्धिरिति । तदेतदयुक्तमिति भावेन तस्यार्थान्तरत्वं प्रतिजानीते ॥ अनन्तपदं चेति । देशकालपरिच्छेदाभावपरम् । न तु वस्तुपरिच्छेद-रूपभेदाभावपरमित्यर्थः । तत्र हेतुमाह ॥ तत्रैवेति । अनन्तपदस्येति सम्बन्धः । देशकालपरिच्छेदरहिते गगनादावनन्तपदप्रयोगादिति भावः । शङ्कते ॥ अन्तशब्दस्येति । तस्यान्तशब्दस्येत्यर्थः । तथा च वस्तु-परिच्छिन्नं नेत्युक्ते सर्ववस्त्वभेद एवोक्त इति मिथ्यात्वे पर्यवस्यतीति भावः ॥ पृथगिति । अवयवशक्त्यैवोपपत्तौ समुदायशक्तिकल्पने मानाभावाद्गौरवा-च्चेति भावः । स्यादेवं यद्यनन्तशब्दो देशतः कालतो वस्तुतश्चापरिच्छिन्न-त्वार्थकः स्यात् । न चैवम् । देशकालपरिच्छेदाभावमात्रार्थकत्वात् । अन्यथा परिच्छिन्नाद्भेदाभावेऽपरिच्छिन्नत्वायोगात् । कालापरिच्छिन्नेऽपि परमाण्वादौ देशपरिच्छेदेन परिच्छिन्नत्वबुद्धिवदुभयापरिच्छिन्ने गगनादौ घटादिभेदमात्रेण परिच्छिन्नत्वबुद्धेरभावाच्चेति भावेनाह ॥ अनन्तशब्दस्येति । एतेन ब्रह्मशब्द एव देशकालवस्तुपरिच्छेदराहित्यं ब्रुवन्मिथ्यात्वे मानमिति कस्यचित्प्रलापः प्रत्युक्तः । अभेदस्य परिच्छेदशब्दार्थत्वाभावात् । विस्तरस्तु चन्द्रिकायां द्रष्टव्यः ॥ छ ॥

वादावलीप्रकाशः

नन्वनन्तं ब्रह्मेत्यनन्तशब्द एव विश्वमिथ्यात्वे मानम् । तथा हि । अन्तो नाम वस्त्वन्तरप्रतियोगिकान्योन्याभावरूपो वस्तुतः परिच्छेद-स्तथा चानन्तमित्युक्ते वस्त्वन्तराभेदः सिध्यति । ब्रह्मणश्च जगता साक्षाद-भेदासम्भवात्तदारोपाधिष्ठानत्वमेव पर्यवस्यति । तथा च जगतोऽर्थान्मिथ्यात्वं सिध्यतीति । यद्वाऽन्तो नाम वस्त्वन्तराद्भेदस्तथा च वस्त्वन्तरस्यैव मिथ्यात्वात्तत्प्रतियोगिको भेदो ब्रह्मणि नास्तीति प्राप्त्या जगतो मिथ्यात्वं सिध्यतीति चेत्तत्राह ॥ अनन्तपदं चेति । अन्तः परिच्छेदो, देशतः कालतश्च परिच्छेदाभावपरं विभुत्वं नित्यत्वं च तदर्थः । कुत इत्यत आह ॥ तत्रैवेति । देशतः कालतश्चान्ताभाव एव व्युत्पन्नत्वेन वस्तुतोऽ-परिच्छिन्नत्वे व्युत्पत्त्यभावादित्यर्थः । शङ्कते ॥ अन्तशब्दस्येति ॥ तस्येति । त्रिविधपरिच्छेदे व्युत्पन्नस्यान्तशब्दस्य न विद्यतेऽन्तो यस्य तदिति नञ्समासे कृते सतीत्यर्थः ॥ पृथग्व्युत्पत्तिरिति । वस्तुतः परिच्छेदमात्र एव व्युत्पत्तिर्नापेक्षितेत्यर्थः ॥ उक्तत्रय इति । देशतः कालतो वस्तुतश्च परिच्छेदाभावत्रय इत्यर्थः । एकसत्त्वे द्वयमिह नास्तीति प्रतीतिसिद्धव्यासज्यवृत्तिप्रतियोगिकाभावाभिप्रायेण देशतः कालतश्च परिच्छेदा-भावे व्युत्पन्नत्वेऽपि वस्तुतः परिच्छेदाभावे व्युत्पन्नत्वाभावेनोक्तत्रयेऽव्युत्पन्न-त्वादित्युक्तम् । त्रिविधपरिच्छेदाभावोऽनन्तशब्दस्यार्थ इति प्रसिद्धिस्तु गुणतः परिच्छेदाभावाभिप्रायेण । यथोक्तम्–

‘‘देशतः कालतश्चैव गुणतश्च त्रिधा ततिः ।

सा समस्ता हरेरेव न ह्यन्ये पूर्णषड्गुण’’ इति ॥ छ ॥

वादावलीविवरणं

ननु सत्यं ज्ञानमनन्तमित्यनन्तशब्दो विश्वमिथ्यात्वे मानमिति चेत् । अत्र वक्तव्यम् । किमन्तशब्दस्य परिच्छेदरूपभेदार्थकत्वान्न विद्यतेऽन्तः परिच्छेदो यस्येत्यर्थकरणे ब्रह्मणः सर्वाभिन्नत्वं सिध्यति । सर्वस्य ब्रह्माभिन्नत्वं च ब्रह्मव्यतिरेकेणासत्त्वमेव जडाजडयोरैक्यायोगादित्याशयः । यद्वाऽन्तशब्दस्य परिच्छिन्नार्थकत्वान्न विद्यतेऽन्तः परिच्छिन्नं यस्येत्यर्थकरणे द्वितीयनिषेधः सिध्यतीति । आद्य आह ॥ अनन्तपदं चेति ॥ तत्रैवेति । अन्तो नाशो द्वयोरिति कोशबलेन कालतोऽन्तेऽर्थप्रसिद्ध्या देशतोऽन्ते च व्युत्पन्नतयाऽनन्तपदस्यापि देशतः कालतोऽन्तशून्यत्व एव व्युत्पन्नत्वादिति भावः । द्वितीयं शङ्कते ॥ नन्विति ॥ अव्युत्पन्नत्वादिति । तत्रा-प्रयोगादिति भावः ।

सत्यं ज्ञानमिति श्रुत्यर्थः