तर्ह्येकमेवाद्वितीयमित्यागमोऽस्तु मानमत्रेति चेन्न
एकमेवेति श्रुत्यर्थविचार
तर्ह्येकमेवाद्वितीयमित्यागमोऽस्तु मानमत्रेति चेन्न
वादावली
तर्ह्येकमेवाद्वितीयमित्यागमोऽस्तु मानमत्रेति चेन्न । अद्वितीयपदस्य सजातीयवस्त्वन्तरनिषेधपरत्वात् । एकत्वविशेषणेनैव सजातीयस्य निषिद्धत्वान्नैवमिति चेन्न । तस्यैकत्वसङ्ख्याविधानपरत्वात् । एका सङ्ख्यैको भाव इत्यादि-प्रयोगासम्भवो नास्मान्प्रति प्रौढिमावहति ॥ छ ॥ एकमेवेति श्रुत्यर्थः ॥ छ ॥
वादावलीभावदीपिका
ननु तर्ह्येकमेवाद्वितीयमिति श्रुतिरस्तु मिथ्यात्वे मानम् । अत्रैकशब्देन स्वगतभेदस्यैवकारेण सजातीयजीवभेदस्याद्वितीयपदेन विजातीय-जडभेदस्य च निषेधात् । जडाभेदश्च तद्व्यतिरेकेणासत्त्वमेव । उक्तं च ‘‘वृक्षस्य स्वगतो भेद’’ इत्यादि । यद्वाऽद्वितीयपदेन न विद्यते द्वितीयं यस्येति द्वितीयसामान्यस्य निषेधादिति शङ्कते ॥ तर्हीति । अत्र विश्वमिथ्यात्व इत्यर्थः । एवमपि न त्वदभिमतसिद्धिः । द्वितीयपदस्य सजातीयपरत्वादिति भावेन सिद्धान्तयति ॥ नेति ॥ सजातीयेति । भगवत्सजातीयेत्यर्थः । न च द्वितीयशब्दस्य सजातीयद्वितीयपरत्वे सङ्कोच इति वाच्यम् । तस्य प्रकृतसमान एव द्वितीये व्युत्पन्नत्वात् । लोकेऽस्मिन्ग्रामेऽयमद्वितीय इति स्मृतौ चैक एवाद्वितीयोऽसवाश्वमेधः क्रतुष्वप्येक एवाद्वितीयोऽसौ प्रणवो मन्त्र उच्यत इति प्रयोगात् । महाभाष्येऽन्तरान्तरेण युक्ते इत्यत्रास्य गोर्द्वितीयेन भाव्यमित्युक्ते सदृशो गौरेवोपादीयते नाश्वो न गर्दभ इत्युक्तेश्च । सङ्करभाष्ये यास्य गोर्द्वितीयोऽ-न्वेष्टव्य इत्युक्ते गौरेव द्वितीयोऽन्विष्यते नाश्वः पुरुषो वेत्युक्तेश्च । समे द्वितीयशब्दः स्यादिति स्मृतेश्चेति भावः । यद्येवं तर्ह्येकमेवेत्यनेन पौनरुक्त्यं स्यादिति शङ्कते ॥ एकत्वेति । अवधारणसहितेनेति शेषः । नैवमद्वितीय-पदार्थोऽयं न भवतीत्यर्थः । एकमेवेत्यस्य त्वदुक्तार्थत्वे भवेदयं दोषो न त्वेतदस्तीत्याह ॥ तस्येति । एकशब्दस्येत्यर्थः । तस्य सङ्ख्यार्थत्वस्य प्रसिद्धेः । महाभाष्ये ष्णान्ता षडिति सूत्रे एकशब्दोऽयं बह्वर्थ इति प्रक्रम्यास्ति सङ्ख्यार्थः । एको द्वौ बहव इत्युक्तेश्च । न च सिद्धत्वात्तद्विधानं व्यर्थम् । अप्राप्ते शास्त्रमर्थवदिति न्यायादिति वाच्यम् । कुसमयप्राप्त-निर्गुणत्वनिषेधादिति भावः ।
ननु मदुक्तार्थत्वमेकशब्दस्यानङ्गीकृत्य सङ्ख्याविधानार्थत्वे विधीयमाने एका सङ्ख्यैको भाव एकं रूपमित्यादिप्रयोगो न स्यात् । एकत्वसङ्ख्याया गुणत्वेन द्रव्यमात्रवृत्तितयाऽद्रव्यभूतसङ्ख्यादावभावादित्याशङ्क्याह ॥ एकेति ॥ अस्मानिति । सङ्ख्याया द्रव्यमात्रवृत्तित्वस्यानङ्गीकारात् । तार्किकपरिभाषा-याश्च निर्मूलत्वस्यान्यत्रोपपादितत्वादिति भावः । तथा चोक्तं भगवत्पादैः–
यथा चोलनृपः सम्राडद्वितीयोऽस्ति भूपतिः ।
इति तत्तुल्यनृपतिनिवारणपरं वचः ।
न तु तद्भ्रातृतत्पुत्रकलत्रादिनिवारणम् ॥ इति ।
अन्यथा सर्वाभावपरत्वे कालप्रापकेण पूर्वेणाग्रपदेन तदैक्षत नामरूपे व्याकरोदितीक्षणनामरूपात्मकप्रपञ्चप्रापकेणोत्तरेण च द्वैतवाक्येन विरोधः स्यात् । किञ्च त्वया यत्किञ्चिद्भवेदिदंशब्दोदितं जगदिदं सर्वं पुरा सृष्टेरेकमेवाद्वितीयं सदेवासीदिति व्याख्यातत्वात् । सदभेदेन सत्त्वमुक्त्वा पुनरद्वितीयपदेन तन्निषेधे व्याघातः । न हि सदेवासीदित्यस्य सदासीदित्यर्थः । सद्व्यतिरेकेण नासीदित्यर्थोक्तौ तु सविशेषणे हीति न्यायेन सदात्मकत्वं स्यादिति ॥ छ ॥
वादावलीप्रकाशः
ननु तर्हि विश्वमिथ्यात्वे एकमेवाद्वितीयमिति श्रुतिः प्रमाणमित्या-शङ्क्य निराह ॥ तर्ह्येकमेवेति ॥ अत्रेति । विश्वमित्यात्व इत्यर्थः । अद्वितीयपदेन द्वितीयप्रपञ्चस्य निषिद्धत्वादित्यर्थः ॥ सजातीयेति । भगव-त्सदृश इत्यर्थः । अस्य गोर्द्वितीयोऽन्वेष्टव्य इत्युक्ते तत्सदृश एव द्वितीयोऽन्विष्यते नाश्वो न गर्दभ इत्येवं द्वितीयशब्दस्य तज्जातीये व्युत्पन्नतयाऽद्वितीयपदेन तज्जातीय एव निषिध्यत इति भावः ॥ एकत्वविशेषणेनेति ।
वृक्षस्य स्वगतो भेदः पत्रपुष्पफलादिभिः ।
वृक्षान्तरात्सजातीयो विजातीयः शिलादितः ।
तथा सद्वस्तुनो भेदत्रयं प्राप्तं निषिध्यते ।
ऐक्यावधारणद्वैतप्रतिषेधैस्त्रिभिः क्रमात् ।
इति वचनादिति भावः ॥ विधानपरत्वादिति । न सजातीयवस्तु-निषेधपरत्वमिति भावः । ननु कथमेकशब्दस्यैकत्वसङ्ख्याविधानपरत्वम् । तथात्वे एकं द्वित्वमिति द्वित्वसङ्ख्यायामेकशब्दप्रयोगस्यैकोऽभाव इत्यभावे एकशब्दप्रयोगस्यैकः समवाय इति समवाये चैकशब्दप्रयोगस्याप्यसम्भवापत्तेः। गुणादिपञ्चकस्य निर्गुणत्वाङ्गीकारेण सङ्ख्याभावसमवायेष्वेकत्वविधाना-योगादित्याशङ्क्य निराकरोति ॥ एका सङ्ख्येत्यादि । आदिपदेनैकः समवाय इत्यस्य ग्रहणम् ॥ अस्मानिति । गुणादिपञ्चकस्य निर्गुणत्वादिप्रक्रियाया अस्माभिरनङ्गीकारेण सङ्ख्याभावादावपि सङ्ख्याङ्गीकारेण तत्राप्येकत्वसङ्ख्या-विधानसम्भवेन बाधकाभावादिति भावः ॥ छ ॥
वादावलीविवरणम्
॥ एकमेवेति । अद्वितीयशब्दस्य बहुव्रीहित्वात्तेन द्वितीयस्य मिथ्यात्वसिद्धिरिति शङ्कितुर्हृदयम् ॥ अद्वितीयपदस्येति । द्वितीयशब्दो हि प्रवृत्तसजातीय एव द्वितीये व्युत्पन्नः । सङ्करभाष्येऽस्य गौर्द्वितीयोऽन्वेष्टव्य इत्युक्ते गौरेव द्वितीयोऽन्विष्यते नाश्वः पुरुषो वेत्युक्तेः । समे द्वितीयशब्दः स्यादिति स्मृतेश्चेति भावः ॥ एकत्वविशेषणेनैवेति । यद्यपि परमते स्वगतभेदनिषेधकत्वमेकशब्दस्य वृक्षस्य स्वगतेत्यादिवाक्यसिद्धम् । तथाऽपि प्रतिवादिरीत्येयं शङ्केति बोध्यम् ॥ तस्येति । ष्णान्ता षडिति सूत्रे महाभाष्ये एकशब्दोऽयं बह्वर्थः । अस्ति सङ्ख्यार्थ एको द्वौ वा बहव इत्युक्तेः । एको बहूनां यो विदधाति कामानित्यादौ सङ्ख्याभावप्रसङ्गाच्चेति भावः । न च ब्रह्मैकत्वस्य लोकत एव प्राप्तेर्विधानवैय्यर्थ्यम् । अप्राप्ते शास्त्रमर्थवदिति न्यायादिति वाच्यम् । कुसमयप्राप्तनिर्गुणत्वनिषेधार्थत्वेन विधानसार्थक्यात् । नन्वेकशब्दस्यैकत्वसङ्ख्याविधानपरत्वे एका सङ्ख्येत्यादि-प्रयोगायोगः । सङ्ख्यादौ सङ्ख्याख्यगुणाभावात् । गुणादिर्निर्गुणक्रिये-त्यङ्गीकारादित्यत आह ॥ एका सङ्ख्येति ॥ नास्मान्प्रतीति । अस्माभिः सर्वत्र गुणाङ्गीकारादिति भावः ॥ छ ॥ एकमेवेति श्रुत्यर्थः ॥ छ ॥
एकमेवेति श्रुत्यर्थविचार