नेह नानेत्यागमोऽस्तु विश्वमिथ्यात्वे मानमिति चेन्न
नेह नानेति श्रुत्यर्थविचारः
नेह नानेत्यागमोऽस्तु विश्वमिथ्यात्वे मानमिति चेन्न
वादावली
नेह नानेत्यागमोऽस्तु विश्वमिथ्यात्वे मानमिति चेन्न । तस्य ब्रह्मणि नानात्वनिषेधपरत्वात् । न ब्रह्मणि नानात्वं प्रसक्तं यन्निषेध्यत इति चेद्धन्त तथा सति त्वयाऽ-प्येकमेवाद्वितीयमित्यादेः स्वगतनानात्वनिषेधपरत्वमभ्युपगतं कथं स्यात् । अखण्डवादानारम्भप्रसङ्गाच्च ।
वादावलीभावदीपिका
ननु माऽस्तु मिथ्यात्वेऽनुमानम् । श्रुतिस्तु स्यात् । तथा हि । बृहदारण्यके काठके च श्रूयते नेह नानाऽस्ति किञ्चनेति । इह ब्रह्मणि प्रतिपन्नोपाधौ नाना भिन्नं किञ्चन जगन्नास्तीति सर्वाभावबोधनादित्याशङ्क्याह ॥ नेह नानेति । कुतो नेत्याशङ्क्य तस्य भगवदवतारगुणकर्मणां भेदनिषेधपरत्वेन त्वदभिमतमिथ्यात्वपरत्वाभावादिति भावेन तस्य तात्पर्यार्थं हेतूकृत्याह ॥ तस्येति ॥ नानात्वेति । स्वप्रतियोगिकस्वावतार-स्वगुणकर्मादिगतेत्यर्थः । अयमर्थः । इह सगुणे नानावतारे च ब्रह्मणि किञ्चन नाना नानात्वं कोऽपि भेद इति यावत् । नास्तीति यदेवेह तदमुत्र यदमुत्र तदन्विहेति पूर्ववाक्ये इदमाद्यर्थाङ्गीकारेण तन्निष्ठब्रह्माभेदस्यैवोक्तेः । सर्वाभावपरत्वे चेदं वाऽदश्च नेति श्रूयेतेति । स्यादेतत् । भगवद्गुणादिषु यदि भेदप्राप्तिः स्यात्तदा तन्निषेधः स्यात् । न चायं प्रत्यक्षादितः प्राप्तः । अन्यथाऽप्रसक्तनिषेधापातात् । जगति च प्रत्यक्षादितो भेदः प्राप्त इति तद्विशिष्टः प्रपञ्च एव निषेध्य इति शङ्कते ॥ न ब्रह्मणीति । यद्येवं तर्हि त्वयाऽप्येकमेवेति वाक्ये ब्रह्मणि भेदनिषेधपरत्वं न वक्तव्यं स्यात् । तथा च–
यश्चोभयोः समो दोषः परिहारोऽपि वा समः ।
नैकः पर्यनुयोक्तव्यस्तादृगर्थविचारणे ॥
इति न्यायेन त्वयैतन्न वाच्यमिति वक्तृमाह ॥ हन्त तथा सतीति । हन्त हर्षे । त्वयैव परिहारस्य वक्तव्यत्वादिति भावः ॥ अभ्युपगतमिति ।
वृक्षस्य स्वगतो भेदः पत्रपुष्पफलादिभिः ।
वृक्षान्तरात्सजातीयाद्विजातीयाच्छिलादितः ।
तथा सद्वस्तुनो भेदत्रयं प्राप्तं निवार्यते ।
ऐक्यावधारणद्वैतप्रतिषेधैस्त्रिभिः क्रमात् ॥
इति त्वद्वचनादित्यर्थः ॥ अखण्डेति । वेदान्तानां निर्भेदे ब्रह्मणि तात्पर्यवर्णनं चायुक्तं स्यात् । अखण्डत्वस्याप्राप्तेरित्यर्थः । अपि चास्ति च प्रसक्तिः । जगज्जन्मादिकारणे ब्रह्मणि गुरुतरविचित्रकार्यभेदेनान्तर्यामिणि च नियम्यानन्त्येन स्थानभेदेन च यदेकमव्यक्तमनन्तरूपमित्यनेकत्वश्रुत्या चावतारेषु च प्रतिविग्रहं प्रत्यक्षादिना भेदस्य गुणगुण्यादौ तार्किकरीत्या भेदस्य भट्टरीत्या भेदाभेदयोश्च प्राप्तेः । किञ्च नेह नानेत्यस्य पूर्ववाक्ये बृहदारण्यके तस्मिन् शुक्लमुत नीलमाहुः । पिङ्गलं हरितं लोहितमित्यादिना भगवतोऽनेक-रूपाणि, यस्यानुवित्तः प्रतिबुद्ध आत्माऽस्मिन्सन्दोहे गहने प्रविष्ट इत्यादिना धर्माः, काठके च पूर्ववाक्ये गुहां प्रविश्य तिष्ठन्ती या भूतेभिर्व्यजायते-त्यनेकावताराः, महान्तं विभुमात्मानमित्यादिनाऽनेके धर्माश्चोक्ता इति कथं तदप्रसक्तिः । दृष्टश्चैकस्मिन्वृक्षे पत्रशाखादिवत्प्रसक्तस्य स्वगतभेदस्य एको देवः सर्वभूतेषु गूढ इत्यादिश्रुतौ–
ब्रह्मादयो हि भूतानि तेषामन्तर्गतो हरिः ।
समः स सर्वभूतेषु य एवं वेद तत्त्ववित् ॥
इति भारते च निषेध इति ध्येयम् ।
वादावलीप्रकाशः
॥ नेह नानेति । इह ब्रह्मणि नाना भिन्नं किञ्चन किमपि जगन्नास्तीत्यर्थः । तथा च प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वरूपं मिथ्यात्वमनेनोच्यत इति भावः ॥ नानात्वेति । तथा चेह ब्रह्मणि किञ्चन किमपि नाना नानात्वं भेदो नास्ति । गुणकर्मादिप्रतियोगिकोऽपि भेदो नास्तीत्येवार्थो न तु भिन्नजगन्निषेध इत्यर्थः । नानाशब्दस्य नानात्व-परत्वाभावेऽपि किञ्चन गुणकर्मादिकं नाना भिन्नं नास्तीत्युक्ते सविशेषण-विधिनिषेधौ विशेषणमुपसङ्क्रामतः सति विशेष्ये बाध इति न्यायेन विशेष्यभूतगुणकर्मादेर्गुणाः श्रुता इत्यादिश्रुतिसिद्धत्वेन निषेधायोगाद्विशेषणीभूतो भेद एव निषिध्यत इत्यपि द्रष्टव्यम् । शङ्कते ॥ नेति । यन्नानात्वं निषिध्यते तन्नानात्वं ब्रह्मणि न प्रसक्तम् । अतोऽप्रसक्तस्य भेदस्य प्रतिषेधो न युक्त इति भावः ॥ स्वगतेति । ब्रह्मगतेत्यर्थः ॥ कथं स्यादिति । ब्रह्मणि नानात्वस्याप्रसक्तत्वादिति भावः । ब्रह्मणि भेदप्रसक्त्यनङ्गीकारे दूषणान्तरमाह ॥ अखण्डवादेति । वेदान्तानां निर्भेदार्थनिष्ठत्वरूपाखण्डार्थत्वे वादारम्भो न सम्भवति भेदस्याप्रसक्तत्वादिति भावः ।
वादावलीविवरणं
ननु मा भूद्विश्वमिथ्यात्वेऽनुमानं मानम् । तथाऽपि नेह नानाऽस्ति किञ्चनेति श्रुतिर्भविष्यत्येव । विश्वं ब्रह्मणि नास्तीत्युक्ते स्फुटं मिथ्यात्व-प्रतीतेरिति शङ्कते ॥ नेहेति ॥ ब्रह्मणि नानात्वेति । ब्रह्मगतगुणकर्मादि-प्रतियोगिकभेदनिषेधपरा स्यादित्यर्थः । अन्यथा नानेति विशेषणवैय्यर्थ्यादिति भावः ॥ अभ्युपगतमिति ।
वृक्षस्य स्वगतो भेदः पत्रपुष्पफलादिभिः ।
वृक्षान्तरात्सजातीयाद्विजातीयाच्छिलादितः ।
तथा सद्वस्तुनो भेदत्रयं प्राप्तं निवार्यते ।
ऐक्यावधारणद्वैतप्रतिषेधैस्त्रिभिः क्रमात् ॥
इति त्वदुक्तेरिति भावः ॥ कथं स्यादिति । स्वगतनानात्व-प्रसक्त्यभावस्य त्वयैवोक्तत्वादिति भावः । वेदान्तानां निर्भेदार्थनिष्ठार्थ-प्रतिपादनायोगाच्चेत्यर्थः ।