०४ सत्यत्वहेतूनां प्रतिकूलतर्कोद्धारः

ननु सत्यत्वे..

सत्यत्वहेतूनां प्रतिकूलतर्कोद्धारः

ननु सत्यत्वे..

वादावली

ननु सत्यत्वे प्रपञ्चो ब्रह्मणो भिन्नोऽभिन्नो भिन्नाभिन्नो भिन्नाभिन्नविलक्षणो वा । आद्ये भेदपरम्परयाऽ-नवस्था । द्वितीयेऽपसिद्धान्तः। तृतीये व्याघातः । चतुर्थेऽ-निर्वाच्यतेति चेन्न । भेदस्य स्वरूपत्वेनानवस्थाया अभावात् । किञ्चैवं सति ब्रह्मण्यपि प्रपञ्चाद्भिन्नमभिन्नं वेत्यादिदोषाः समा एव ॥ छ ॥ सत्यत्वहेतूनां प्रतिकूलतर्कोद्धारः ॥ छ ॥

वादावलीभावदीपिका

ननु यथा मिथ्यात्वहेतूनां प्रतिकूलतर्कपराहतत्वान्न साध्यसाधकता तथा विमतं सत्यं प्रमाणदृष्टत्वादित्यादिसत्यत्वहेतूनामपि । तथा च सत्यत्वमपि न सिध्येदिति भावेन शङ्कते ॥ नन्विति । यद्यपीयं शङ्का सत्यत्वहेतुत्रयानन्तरमेव कर्तुमुचिता । तथाऽपि मिथ्यात्वहेतूनामनुकूल-तर्कहीनत्वमसिद्धमस्यैव तर्कस्यानुकूलतर्कत्वादित्याशङ्काया अप्यत्र निराकार्यत्वादत्रोपन्यस्तेति ध्येयम् ॥ अनवस्थेति । ब्रह्मभेदः प्रपञ्चे ब्रह्मणो भिन्ने वा स्यादभिन्ने वा । नान्त्यः । विरोधात् । आद्ये सोऽपि भेद उक्तरीत्या भिन्न एवेत्यनेकभेदपरम्परयाऽनवस्थेत्यर्थः ॥ अपसिद्धान्त इति । सत्यत्ववादिनाऽनङ्गीकारादित्यर्थः ॥ व्याघात इति । भेदाभेदयोर्विरोधादेक-त्रैकदा व्याघात इत्यर्थः ॥ अनिर्वाच्यतेति । चतुर्थप्रकारस्यैवानिर्वाच्य-त्वादिति भावः । इदमुक्तं भवति । यदि प्रपञ्चः सत्यः स्यात्तदा भिन्नाद्यन्यतमः स्यात् । न च तथाऽङ्गीकर्तुं शक्यते । तस्मान्न सत्य इति । तत्राद्यपक्षाङ्गीकारेणापादकस्यान्यथोपपत्तिमाह ॥ भेदस्येति । स्वरूपत्वं च समर्थयिष्यत इति भावः । स्वव्याहतत्वाच्च तर्काभासोऽयमित्याह ॥ किञ्चेति । यदि ब्रह्म प्रपञ्चाद्भिन्नं तर्हि स च भेदो भिन्ने वा ब्रह्मण्यभिन्ने वा । नान्त्यः । विरोधात् । आद्ये सोऽपि भेदो भिन्न एवेत्यनवस्था । मिथ्याभूतेन जगता ब्रह्माभिन्नं चेत्तर्हि मिथ्या स्यात् । तथा चापसिद्धान्तः । यदि भिन्नाभिन्नं तर्हि व्याघातः । यदि भिन्नाभिन्नविलक्षणं तर्हि ब्रह्मानिर्वाच्य-मित्यादिविकल्प्योच्यमाना दोषा इत्यर्थः । तत्सत्यमित्यादिप्रमाणं ब्रह्मणः सत्यत्वमवधारयदुक्तदोषानाभासीकरिष्यतीति चेत्प्रपञ्चसत्यताप्रमाणमपि किन्न दोषानाभासीकुर्यात् । ननु पुराणादावात्मान्येष्वसत्स्वपि ‘अविद्यमानो ह्यवभाति हि द्वय’ इत्यादावसत्यत्वं श्रूयत इति चेत्तर्ह्यसद्वा इदमग्र आसीन्न सत्तन्नासदुच्यत इत्यादावसत्त्वमपि श्रूयत इति समम् । अर्थान्तरत्वं चोभयत्र समम् । एतदेवाह । समा एवेत्यवधारणेन ॥ छ ॥

वादावलीप्रकाशः

विमतं सत्यं प्रमाणदृष्टत्वादित्यादिकं मिथ्यात्वानुमानस्य प्रतिपक्षानुमानमुक्तम् । तत्र तर्कपराहतिमाशङ्कते ॥ नन्विति । ब्रह्मणः सकाशात् ॥ भेदपरम्परयेति । प्रपञ्चो ब्रह्मणो भिन्न इत्यस्य भेदवानित्यर्थस्तथा च स भेदः किं भेदिभ्यां भिन्नो वाऽभिन्नो वा । आद्ये सोऽपि भेदस्तथेत्यनवस्थेत्यर्थः ॥ अपसिद्धान्त इति । प्रपञ्चस्य ब्रह्मणा भेदस्य भवद्भिरनङ्गीकारादिति भावः ॥ अनिर्वाच्यतेति । केनापि प्रकारेण निर्वक्तृमशक्यत्वस्यैवानिर्वाच्यलक्षणत्वेन भिन्नाभिन्नविलक्षणत्वेऽनिर्वाच्यत्वं स्यादित्यर्थः ॥ भेदस्येति । ब्रह्मणः सकाशात्प्रपञ्चस्य भेद एवाङ्गीक्रियते । न च भेदपरम्परयाऽनवस्थेति वाच्यम् । भेदस्य प्रपञ्चनिरूपितधर्मिस्वरूप-त्वाङ्गीकारान्न भेदपरम्परयाऽनवस्थेत्यर्थः । जगतो भिन्नमभिन्नं वेत्यादि-विकल्पस्तत्रापि युज्यत इत्यादितत्त्वोद्योतं मनसि निधायाह ॥ किञ्चैवं सतीति । जगत्येवंविकल्पात्सत्यत्वनिराकरणे सतीत्यर्थः ॥ समा एवेति । ब्रह्म जगतो भिन्नं चेद्भेदपरम्परयाऽनवस्थाऽभिन्नं चेन्मिथ्यारूपेण जगताऽभिन्नत्वाद्ब्रह्मापि मिथ्यैव स्यादित्यपसिद्धान्तः । तृतीये विरोधः । भिन्नाभिन्नविलक्षणं चेदनिर्वचनीयत्वं ब्रह्मण एवापतितमित्यर्थः ॥ छ ॥

वादावलीविवरणं

सत्यत्वपक्षे बाधकमुद्धर्तुमाक्षिपति ॥ नन्विति ॥ अनिर्वाच्य-तेति । न च भिन्नाभिन्नविलक्षणत्वेन कथमनिर्वचनीयतापादनं सद-सद्विलक्षणत्वेनैव तस्यापाद्यत्वादिति वाच्यम् । केनापि प्रकारेण दुर्निरूपत्व-मनिर्वचनीयत्वमिति परेणाङ्गीकृतत्वेन तेनापि तदापादनसम्भवात् । सत्यत्वनिराकरणस्य स्वव्याघातकत्वाज्जात्युत्तरमभिप्रेत्याह ॥ किञ्चेति ॥ छ ॥ सत्यत्वहेतूनां प्रतिकूलतर्कोद्धारः ॥ छ ॥

सत्यत्वहेतूनां प्रतिकूलतर्कोद्धारः