किञ्च जगतो मिथ्यात्वाभावे न बाधकं पश्यामः
मिथ्यात्वहेतूनामप्रयोजकत्वम्
किञ्च जगतो मिथ्यात्वाभावे न बाधकं पश्यामः
वादावली
किञ्च जगतो मिथ्यात्वाभावे न बाधकं पश्यामः । सत्यत्वे कथं प्रकाशेत । न तावत्स्वतः । जड-त्वात् । नापि परतः । प्रकाशान्तरेण सम्बन्धाभावात् । असम्बद्धस्य प्रकाशनेऽतिप्रसङ्गात् । असत्त्वे तु चित्प्रकाशा-रोपितस्याधिष्ठानाध्यस्तत्वसम्बन्धेन प्रकाशोपपत्तिरिति चेन्न । विचारागोचरत्वात् । तथा हि । कथं प्रकाशेतेति कोऽर्थः । कथं प्रकाशः स्यादिति वा कथं प्रकाशाश्रय इति वा कथं प्रकाशविषय इति वा । न प्रथमद्वितीयौ । अनभ्युपगमात् । तृतीयेऽपि किं प्रकाशशब्देन चैतन्यं विवक्षितं वृत्तिर्वा । नाद्यः । चैतन्याविषयत्वेऽपि बाधकाभावात् । वृत्तिविषयत्वे-नैव व्यवहारोपपत्तेः । चैतन्यस्यापि स्वाभाविकं भविष्यतीति को दोषः । असङ्गश्रुतिस्तु परमेश्वरस्य पापादिसम्बन्धाभाव-वादिनी ।
वादावलीभावदीपिका
एवं मिथ्यात्वहेतूनां बाधादिदोषानभिधायाधुनाऽनुकूलतर्काभावा-न्मिथ्यात्वहेतवः सर्वेऽप्रयोजका इति वक्तृं प्रतिजानीते ॥ किञ्चेति । दृश्यत्वमस्तु मिथ्यात्वं मास्तु एवं सति न किञ्चिद्बाधकं पश्याम इत्यर्थः । ननु मिथ्यात्वं विना दृश्यत्वमेवानुपपन्नम् । दृश्यत्वं हि दृक्प्रकाश्यत्वम् । न च दृशोऽसङ्गभूताया दृश्येन सम्बन्धोऽस्ति । तस्माद्दृशो दृश्येनाधिष्ठाना-ध्यस्तभावलक्षणः सम्बन्धोऽभ्युपेय इति दृग्दृश्ययोः सम्बन्धानुपपत्तिरेव विपक्षे बाधकस्तर्क इत्यभिप्रायेण शङ्कते ॥ सत्यत्व इति । कथं न कथमपीत्यर्थः। तदेव विविच्याह ॥ न तावदिति ॥ जडत्वादिति । अप्रकाशात्मकस्य जडस्य प्रकाशत्वमेव दुर्लभं स्वप्रकाशत्वं तु दूरापेतमिति भावः । परेण प्रकाशत इत्यत्रापि स्वसम्बन्धेनोतासम्बन्धेन । आद्य आह ॥ प्रकाशान्त-रेति । स्वस्माद्भिन्नदृग्रूपेणेत्यर्थः । असङ्गो ह्ययं पुरुष इति श्रुत्या दृशोऽ-सङ्गत्वश्रवणादिति भावः । द्वितीय आह ॥ असम्बद्धस्येति । सर्वदा सकलपदार्थप्रकाशः स्यादित्यर्थः । एवं सत्यत्वे प्रकाशानुपपत्तिमुक्त्वा मिथ्यात्वे तदुपपत्तिमाह ॥ असत्त्वे त्विति । मिथ्यात्व इत्यर्थः ॥ चिदिति । चिद्रूपप्रकाशारोपितस्येत्यर्थः । चितोऽधिष्ठानत्वं दृश्यस्याध्य-स्तत्वमित्यर्थः । असङ्गश्रुतेस्तात्त्विकसम्बन्धाभावपरत्वादतो मिथ्यात्व-मुपेयमिति भावः । एवमनूदितं पूर्वपक्षं प्रतिक्षिपति ॥ विचारेति । प्रकाशः प्रकाशात्मकः स्यादित्यर्थः । प्रकाशाश्रय इति । समवायसम्बन्धेनेत्यर्थः ॥ अनभ्युपगमादिति । वादिप्रतिवादिभ्यामित्यर्थः ॥ वृत्तिरिति । अन्तःकरणवृत्तिरित्यर्थः । यद्यपि परेण चैतन्याभिप्रायेणैव प्रकाशशब्दः प्रयुक्तस्तथाऽपि वृत्तेरपि प्रकाशशब्दार्थत्वात्तयाऽप्युपपत्तिं वक्तृं वृत्तिर्वेत्युक्तमिति ध्येयम् । तत्तदीयव्यवहारानुपपत्तिरेव चिदविषयत्वे बाधिकेत्यत आह ॥ वृत्तीति ।
ननु घटादेश्चैतन्याविषयत्वे घटोऽपरोक्ष इति घटादावापरोक्ष्यव्यवहारो न स्यात् । अपरोक्षत्वस्य चिन्मात्रगतत्वात् । तथा च बाधकाभावोऽसिद्ध एवेति चेन्न । इच्छादिवृत्त्यनिष्ठेन परोक्षवृत्तिगेन ज्ञानत्वरूपविशेषेण विषयस्य ज्ञातत्वव्यवहारस्येव स्मृत्याद्यनिष्ठेनानुभवादिगतेनानुभवत्वादिरूपविशेषेण तद्विषयत्वस्यानुभूतत्वव्यवहारस्येव च चैतन्याविषयस्यापि घटादे-रिन्द्रियजन्यत्वप्रयुक्तेन वृत्तिगतेन साक्षात्कारत्वरूपविशेषेणैवापरोक्ष-व्यवहारस्याप्युपपत्तेः । न च वृत्तौ परोक्षत्वमेवापरोक्षत्वं तु चैतन्य एवेति युक्तम् । परोक्षत्वापरोक्षत्वयोरेकज्ञानत्वव्याप्यत्वप्रसिद्धिपरिलोपापातात् । एतदप्युक्तम् ॥ वृत्तीति । अपरोक्षवृत्तीत्यर्थः ॥ व्यवहारेति । अपरोक्ष-व्यवहारेत्यर्थः । न चाज्ञानव्यवहारेऽपरोक्षचिद्विषयत्वम् । त्वन्मते वृत्तेरेवाज्ञानविरोधित्वात् । चितस्तु तत्साधकत्वेन तद्बाधकत्वायोगाच्च । न च घटं जानामीति सकर्मकज्ञानवृत्त्यन्यो घटः प्रकाशते । घटः स्फुरतीत्य-कर्मकप्रकाशरूपा चिदनुभवसिद्धेति वाच्यम् । जानाति प्रकाशत इति क्रिययोरेकार्थकत्वेऽपि करोति प्रयतते गच्छति चलतीत्यादाविव धात्वोः कर्मोपरागवाचित्वतदभावस्वभावत्वोपपत्तेः । अन्यथा त्वत्पक्षे परिणतेर-कर्मकत्वात्परिणतिविशेषस्य वृत्तेः सकर्मकज्ञानत्वं न स्यात् । अतीत-चैतन्यसम्बन्धानङ्गीकारेणातीतो घटः प्रकाशत इति धीश्च न स्यादिति । एतदप्याह ॥ वृत्तीति ॥ व्यवहारेति । घटः प्रकाशत इत्यादि-व्यवहारेत्यर्थः ।
ननु ‘‘तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाती’’ति श्रुत्या सर्वस्य दृश्यस्य दृक्प्रकाशत्वं श्रूयत इति विरोध एव चैतन्याविषयत्वे बाधक इति चेन्मैवं वादीः । अस्याः श्रुतेः सूर्यादिप्रकाशस्येशाधीनत्वपरत्वस्य अनुकृतेस्तस्य चेत्यधिकरणभाष्यादावेव स्पष्टत्वात् । एतद्वाक्यनिर्णायके अपि स्मर्यत इति सूत्रे त्वद्भाष्येऽपि यदादित्यगतं तेज इत्यादिस्मृतेरेवो-दाहृतत्वेनास्मदादिगतघटज्ञानस्य चैतन्यरूपताऽप्रसक्तेः । अन्यथा त्वन्मते ब्रह्मणो भानमात्रत्वेन भान्तमिति कर्तरि विहितक्तप्रत्ययस्य तस्य भासेति षष्ठ्याः प्रपञ्चे ब्रह्मभानान्यभानाभावेनानुशब्दस्य चायोगाच्च । गच्छन्त-मनुगच्छतीत्यादौ गमनादिभेदे सत्येवानुशब्दस्य दर्शनादिति । एवं चैतन्याविषयत्वे बाधकाभावमुपपाद्येदानीं चैतन्यविषयत्वमभ्युपेत्यापि समाधत्ते ॥ चैतन्यस्यापीति । सुखदुःखाकाशादौ चैतन्यविषयत्वस्य सिद्धान्तेऽ-प्यङ्गीकारादयमप्यभ्युगम इति ध्येयम् ॥ स्वाभाविकमिति । अर्थ-प्रकाशकत्वमिति शेषः । स्वरूपसम्बन्धकृतं न त्वधिष्ठानाध्यस्तत्वरूपाध्या-सिकसम्बन्धकृतमित्यर्थः । नन्वसङ्गो ह्ययं पुरुष इति श्रुतिपीडनमेव दोष इत्यत आह ॥ असङ्गेति । स यत्तत्र यत्किञ्चित्पश्यत्यनन्वागतस्तेन भवतीति पूर्ववाक्याद् यथाऽऽकाशस्थितो नित्यं वायुः सर्वत्रगो महानित्यादि-स्मृतेः । अन्यथाऽसङ्गो ह्ययं पुरुष इति वाक्यबोध्यासङ्गत्वान्वयस्य भावाभावाभ्यां व्याघातादिति भावः ।
वादावलीप्रकाशः
विपक्षे बाधकाभावादप्रयोजको दृश्यत्वहेतुरित्याह ॥ किञ्चेति । प्रपञ्चस्य मिथ्यात्वं यदि न स्यात्तर्हि दृग्विषयत्वरूपं दृश्यत्वमेव न स्या-त्सत्यत्वे दृग्दृश्ययोः सम्बन्धानिरूपणादिति हेतूच्छित्तिरेव बाधिकेत्यभिप्रेत्य सत्यत्वे दृग्दृश्ययोः सम्बन्धानुपपत्तिमुपपादयति ॥ सत्यत्व इति । प्रकाशेत ज्ञायेत । अत्र सर्वत्र प्रकाशशब्दो ज्ञानपर इत्यवगन्तव्यम् ॥ जडत्वादिति । जगतोऽस्वप्रकाशस्वरूपत्वादिति भावः ॥ प्रकाशान्तरेणेति । वृत्ति-ज्ञानाख्येनेत्यर्थः । संयोगसमवाययोरसम्भवाद्विषयविषयिभावस्य च दुर्निरूपत्वदिति भावः । अस्त्वसम्बद्धस्यापि प्रकाशनमित्यत आह ॥ असम्बद्धस्येति ॥ अतिप्रसङ्गादिति । काशीस्थघटस्याप्यत्र प्रकाशः स्यादिति भावः । मिथ्यात्वे त्वाध्यासिकसम्बन्धसद्भावात्प्रकाशः सम्भवतीत्याह ॥ असत्त्वे त्विति । मिथ्यात्वे त्वित्यर्थः ॥ चित्प्रकाशेति । अधिष्ठानचैतन्यरूपप्रकाशेत्यर्थः ॥ अधिष्ठानेत्यादि । आध्यासिकसम्बन्धेनेत्यर्थः । प्रकाशः प्रकाशस्वरूपः ॥ अनभ्युप-गमादिति । जडस्य जगतः प्रकाशरूपत्वप्रकाशाश्रयत्वयोरनभ्युपगमा-दित्यर्थः । चैतन्यमधिष्ठानचैतन्यम् ॥ चैतन्याविषयत्वेऽपीति । चैतन्यरूपप्रकाशाविषयत्वेऽपीत्यर्थः ॥ बाधकाभावादिति । सत्यत्वे कथं प्रकाशतेत्यस्य कथं चैतन्यरूपप्रकाशविषयः स्यात् । चैतन्यरूपप्रकाशविषयो न स्यादिति यावदित्यर्थः । तथा च सत्यस्यापि चैतन्यरूपप्रकाशविषयत्वे बाधकाभावेन तर्के इष्टापत्तिरिति भावः । ननु चैतन्यरूपप्रकाशाविषयत्वे घटादिव्यवहार एव न स्यात् । व्यवहारस्य व्यवहर्तव्यज्ञानसाध्यत्वादित्येवं व्यवहारानुपपत्तिरेव बाधिका । ततश्च तदन्यथाऽनुपपत्त्या चित्प्रकाश-विषयत्वमङ्गीकार्यमिति नेष्टापत्तिरित्यतोऽन्यथैवोपपत्तिमाह ॥ वृत्तीति । वृत्तिरूपज्ञानविषयत्वेनेत्यर्थः । ननु चक्षुरादिजन्यवृत्त्यविषये सुखादौ कथं व्यवहारः स्यादित्यत आह ॥ चैतन्यस्यापीति । साक्षिरूपचैतन्यस्या-पीत्यर्थः ॥ स्वाभाविकमिति । विषयकत्वमिति शेषः । सुखादिविषय-कत्वमित्यर्थः । तथा च सुखादेः साक्षिविषयत्वेन व्यवहारः सम्भवतीति भावः । नन्वसङ्गो ह्ययं पुरुष इति श्रुत्या साक्षिचैतन्यस्यासङ्गत्वावगमात्कथं तस्य सुखादिविषयसम्बन्ध इत्यत आह ॥ असङ्गश्रुतिस्त्विति । असङ्गत्वश्रुतिस्त्वित्यर्थः ॥ पापादीति । न तु सुखादिविषयसम्बन्धा-भाववादिनीत्यर्थः ।
वादावलीविवरणम्
अनुकूलतर्कहीनाश्च मिथ्यात्वहेतव इत्याह ॥ किञ्चेति । अनुकूलतर्कं शङ्कते ॥ सत्यत्व इति ॥ न तावत्स्वत इति । आत्मवदिति शेषः । तथा चात्मवत्स्वतः प्रकाशत इति पक्षो नेत्यर्थः ॥ जडत्वादिति । त्वन्मते मामहं जानामीति प्रत्यक्षेण वा सुप्तोत्थितस्यैतावन्तं कालं सुखमहमस्वाप्समिति परामर्शान्यथाऽनुपपत्त्या वा चेतनस्यैव स्वप्रकाशत्वं न तु जडस्येत्यर्थः ॥ नापि परत इति । स्वाभिन्नज्ञानेन प्रकाशत इत्यपि नेत्यर्थः । कुत इत्याशङ्क्य ज्ञानं किं ज्ञेयसम्बद्धं प्रकाशकमसम्बद्धं वेति विकल्पं मनसि कृत्वा नाद्य इत्याह ॥ प्रकाशान्तरेणेति । स्वभिन्नज्ञानेनेत्यर्थः । आत्मगुणस्य ज्ञानस्य ज्ञेयेन सह संयोगसमवाययोरयोगात् । अन्यस्य च सम्बन्धस्याभावाद्विषयविषयि-भावस्य च द्विष्ठत्वेनासम्बन्धत्वादिति भावः । नान्त्य इत्याह ॥ असम्बद्ध-स्येति ॥ अतिप्रसङ्गादिति । दीपस्यापि घटाद्यसम्बद्धस्यैव प्रकाशकत्व-प्रसङ्गादित्यर्थः । ननु मिथ्यात्वेऽपि कथं प्रकाशः । उक्तदोषप्रसङ्गादित्यत आह ॥ असत्वे त्विति । मिथ्यात्व इत्यर्थः । ननु प्रपञ्चस्य प्रकाशा-रोपितत्वे आरोपाधिष्ठानत्वेन ज्ञानस्य पारमार्थिकत्वं स्यादिति सदद्वैतभङ्ग इत्यत उक्तं चिदिति । तथा च विज्ञानमानन्दं ब्रह्मेति श्रुत्या ज्ञान-ब्रह्मणोरैक्यावगमान्न ब्रह्मैव परमार्थसदित्यस्य भङ्ग इति भावः । ननु वेदान्तमते कथं वियदादिज्ञानानां ब्रह्मज्ञानात्मकत्वं येन ब्रह्मरूपप्रकाशा-रोपितत्वं वियदादिप्रपञ्चस्य स्यादिति चेत् । उच्यते । तन्मते सर्वत्र वृत्तिप्रतिबिम्बितचैतन्यमेव ज्ञानमित्युच्यते । न केवलमन्तःकरणपरिणामरूपं जडम् । तस्याज्ञाननिवर्तकत्वाद्यभावेन ज्ञानशब्दवाच्यत्वात् । तथा च ज्ञानशब्दवाच्यान्तर्गतं विशेष्यं विशेषणांशत्यागेन सर्वत्रानुस्यूतं ब्रह्मरूपमेवेति काऽत्र कथन्ता । उक्तं च सङ्क्षेपशारीरटीकायाम् । सर्वेष्वर्थेषु यत्स्फुरण-मवभासते तत्तदर्थविशेषितबुद्धिवृत्तिविशिष्टं यज्ज्ञानशब्दवाच्यं भवति तदेव तत्तदर्थाकार बुद्धिवृत्तिविशेषणांशापोहेनानुगम्यमानं प्रकाशमात्र-स्वभावज्ञानशब्दस्य लक्ष्यं भवतीति ॥ कथं प्रकाशः स्यादिति ।
कथं प्रकाशरूपः स्यादित्यर्थः ॥ अनभ्युपगमादिति । तथा च तदभावापादने इष्टापत्तिरिति भावः ।
ननु प्रपञ्चस्य चैतन्यरूपज्ञातृविषयत्वाभावे कथमपरोक्षव्यवहारः । अपरोक्षैकरसचैतन्यासम्बन्धादित्यत आह ॥ वृत्तीति । तथा च यथा त्वन्मतेऽतीन्द्रियेषु वृत्तिमात्रेण व्यवहारस्तथैन्द्रियकेष्वप्यपरोक्षवृत्त्यैवा-परोक्षव्यवहारोपपत्तौ चैतन्यसम्बन्धस्वीकारेऽनर्थक इति भावः । अस्तु वा चैतन्यविषयत्वं प्रपञ्चस्य । न च सम्बन्धाभावे कथं तद्विषयत्वमिति वाच्यम् । स्वाभाविकसम्बन्धेन चैतन्यस्यापि विषयत्वोपपत्तेरित्याह ॥ चैतन्यस्यापीति । यद्वा ननु वृत्त्यविषये सुखादौ कथं व्यवहारः स्यादित्यत आह ॥ चैतन्यस्यापीति । नन्वेवं चैतन्यस्य विषयत्वाङ्गीकारेऽ-सङ्गश्रुतिविरोध इत्यत आह ॥ असङ्गश्रुतिस्त्विति । असङ्गो ह्ययं पुरुष इति श्रुतिरित्यर्थः । स यत्तत्र यत्किञ्चित्पश्यत्यनन्वागतस्तेन भवतीति पूर्ववाक्ये हिरण्मयः पुरुष इति प्रकृत ईश्वरः स्वप्नाद्यवस्थासु जीवं प्रति यत्पुण्यादिकं दर्शयति तेनानन्वागतो भवतीत्युक्तत्वात् ।
यथाऽऽकाशस्थितो नित्यं वायुः सर्वत्रगो महान् ।
तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥
इति सर्वसम्बन्धोक्तेश्चेति भावः ।
न द्वितीयः । करणसामर्थ्येन विषयविषयि-भावोपपत्तेः
न द्वितीयः । करणसामर्थ्येन विषयविषयि-भावोपपत्तेः
वादावली
न द्वितीयः । करणसामर्थ्येन विषयविषयि-भावोपपत्तेः । किञ्चाध्यस्तत्वेन प्रकाशने जीवेऽध्यासपक्षे सर्वदा प्रकाशः स्यात् । ब्रह्मण्यध्यासे न कदाचित् । बहुजीवपक्षेऽपि जीवेऽध्यासे सर्वदा सर्वेषां प्रपञ्चः प्रकाशेत । ब्रह्माधिष्ठानत्वे तु न कस्यापि कदाऽपि । तथापि सत्यत्वे दृश्यत्वं न युज्यते । दृग्दृश्ययोः संसर्गानिरूपणादिति चेन्न । संयोगासम्भवे समवायवदन्यस्यापि तयोरसम्भवे कल्प्यत्वात् । विषयविषयिभावस्य सम्भवात् ।
वादावलीभावदीपिका
वृत्तिर्वेति द्वितीयं पक्षं निराह ॥ न द्वितीय इति । आध्यासिक-सम्बन्धाभावेऽपि विषयविषयिभावरूपसम्बन्धेनैव वृत्तेरर्थप्रकाशकत्वो-पपत्तेरित्यर्थः । नन्वान्तरस्य वृत्तिरूपस्य बाह्यघटादिसम्बन्धः कथं स्यात् । तथात्वे सर्वेणापि सम्बन्धः स्यादविशेषादित्यत उक्तं करणसामर्थ्यादिति । त्वयाऽपि प्रतिकर्मव्यवस्थासिद्ध्यर्थं तत्तत्सन्निकृष्टकरणजन्यतदाकार-वृत्तिद्वारकसम्बन्धस्यावश्यं वक्तव्यत्वादिति भावः । करणसन्निकर्षादिकं नियामकं त्वयाऽप्यवश्यं वाच्यम् । अन्यथाऽतिप्रसङ्गः स्यादिति भावेना-ध्यासिकसम्बन्धपक्षे बाधकमाह ॥ किञ्चेति । ऐक्यवादिनो हि द्विविधाः । एकजीववादिनो बहुजीववादिनश्चेति । एक एव ब्रह्मप्रतिबिम्बभूतो जीवोऽन्ये जीवा जडवत्स्वरूपेणैव कल्पिता यथा स्वप्न इत्येकजीववादिमतम् । बहुजीववादिनां तु मुखमिव दर्पणेष्वनेकाविद्यासु प्रतिबिम्बितं ब्रह्मानेक-जीवभावमापद्यत इति तत्र भेदमात्रमसत्यं जीवास्त्वनन्ताः स्वरूपेण सत्या एवेति । मतद्वयेऽपि शुद्धं ब्रह्म जगदुपादानभूताविद्याधिष्ठानमिति । मतद्वयेऽपि जगदारोपाधिष्ठानं जीवो वा ब्रह्म वेति विकल्प्यैकजीवपक्षे प्रथमतो दोषमाह ॥ जीव इति । तस्य सर्वदाऽहमिति भासमानत्वेन तत्राध्यस्तत्वे सर्वदा प्रपञ्चभानापत्तेरित्यर्थः । उपलक्षणमेतत् । तस्य विशिष्टस्य कल्पितत्वे-नाधिष्ठानत्वायोगाच्चेत्यपि बोध्यम् ॥ ब्रह्मणीति । तस्यासंसारमज्ञानावृतत्वे-नाधिष्ठान प्रकाशभूतस्याध्यस्तस्फुरणोपायस्याभावादिति भावः ।
बहुजीवपक्षेऽप्याह ॥ बहुजीवेति ॥ सर्वदेति । तस्याप्यावृतत्वे न कदाचित्प्रकाशः स्यादिति ध्येयम् । न च मतद्वयेऽपि ब्रह्माध्यासपक्षेऽन-वच्छिन्नस्यावृतत्वेऽपि घटाद्यवच्छिन्नं तत्तदाकारवृत्त्याऽभिव्यक्तं सत्तदर्थप्रकाशकं भवतीति वाच्यम् । अवच्छिन्नस्य कल्पितत्वेनात्माश्रयापातेन घटाद्य-नधिष्ठानत्वेनाध्यासिकसम्बन्धस्यातन्त्रत्वापातात् । विशिष्टज्ञानेऽधिकप्रकाशेऽपि चरमवृत्तिविषयस्य विशेष्यस्यापि प्रकाशेन चरमवृत्तिवैय्यर्थ्याच्च । किञ्च घटाद्यधिष्ठानब्रह्मचैतन्यावरणाभिभवार्थमावश्यकवृत्त्यैव घटप्रकाशोपपत्तौ किं चैतन्यविषयत्वकल्पनाव्यसनेन । न च जीवाध्यासपक्षे तत्तदिन्द्रिय-सन्निकर्षादिकं नियामकमतो नाव्यवस्थेति चेत्तर्हि किमनेनारोपितत्वदुर्व्यसनेन । सत्यस्यैव दृश्यस्य वृत्तिरूपया दृशा करणसम्बन्धनिबन्धनस्य विषयविषयि-भावस्योपपत्तेरिति न सत्यत्वे बाधकं किञ्चित्पश्याम इति भावः ।
ननु यदुक्तं वृत्तिविषयत्वेनैव व्यवहाराद्युपपत्तिरिति । तदयुक्तम् । वृत्तेर्दृश्यस्य च सम्बन्धस्यैव दुर्निरूपत्वात् । तथा चाध्यासिकस्यैव सम्बन्धस्य वक्तव्यत्वादिति भावेन शङ्कते ॥ तथाऽपीति । वृत्तिविषयत्वेऽपीत्यर्थः । वृत्तिरत्र दृक्शब्देनोच्यते ॥ संसर्गानिरूपणादिति । अयमाशयः । न तावद्दृग्दृश्ययोः संयोगो द्रव्ययोरेव संयोगात् । दृशश्चाद्रव्यत्वात् । द्रव्यत्वेऽपि गुणकर्मादिभिः संयोगस्यासम्भवात् । नापि समवायः । दृश आत्मैकगुणत्वेन वाऽन्तःकरणधर्मत्वेन वा घटादिना तदयोगात् । न चार्था ज्ञाने समवेताः । बाह्यत्वात् । अतद्गुणतयैव प्रतीयमानत्वाच्च । न तादात्म्यमपि । विरुद्धयोर्दृग्दृश्ययोरसम्भवात् । विषयविषयिभावमपि न तत्त्वतो जानीमः ।
न तावज्ज्ञानजन्यफलाधारत्वं विषयत्वम् । फलं ज्ञातता व्यवहारो वा । नाद्यः । अतीतादेरविषयत्वापातात् । नान्त्यः । अतदर्थिनो व्यवहारा-नुत्पत्तावविषयत्वप्रसङ्गात् । नापि व्यवहारयोग्यत्वम् । योग्यतायां तदभ्युपगमेऽनवस्था । तदनभ्युपगमे च तस्याविषयत्वप्रसङ्गात् । यत्सन्निकृष्टकरणेन यज्ज्ञानमुत्पद्यते स तस्य विषय इति चेन्न । रूपादिज्ञानस्याकाशादिविषयत्वापातात् । नित्यज्ञानस्य निर्विषयत्वापाताच्च । किञ्च विषयविषयिभावस्याद्विष्ठत्वेन मुख्यसम्बन्धत्वाभावाच्चेति ॥ समवायवदिति । गुणगुण्यादेरिति शेषः । तयोरयुतसिद्धत्वेन युतसिद्धसम्बन्धस्य संयोगस्यायोगे समवायः सम्बन्धत्वेन कल्प्यते । तद्वज्ज्ञानज्ञेययोस्तयोरयोगेऽप्यन्यः सम्बन्धः कल्प्यतामित्यर्थः ।
ननु संयोगसमवाययोः प्रामाणिकत्वेन तत्परिकल्पनेऽपि न तदन्यः कल्प्यते । मानाभावादिति चेन्न । नियतव्यवहाररूपकार्यान्वय-व्यतिरेकसिद्धत्वात् । ज्ञातो घट दृष्टो घट इत्यादिका धीः, परस्परा-संयुक्तासमवेतविशेषणविशेष्यसम्बन्धविषयिका, विशिष्टधीत्वात्, दण्डीति विशिष्टधीवदित्याद्यनुमानेन च तत्सिद्धेरिति भावः । ननु तथाऽपि कोऽसौ सम्बन्ध इति चेन्न । कोऽसाविति किं तत्र प्रमाणमिति प्रश्न उत संयोगादौ कुत्रान्तर्भाव इति । यद्वा संज्ञाविशेषः क इति अथ किं तस्य लक्षणमिति । नाद्यः । प्रमाणस्योपन्यस्तत्वात् । द्वितीये न क्वचिदिति । सन्ति चैकशतं षष्ठ्यर्थाः । यथोक्तं महाभाष्ये षष्ठीस्थाने योगेत्यत्र नियमार्थोऽयमारम्भः । एकशतं षष्ठ्यर्थाः सन्त्येते सर्वे षष्ठ्यामुच्चारितायां प्राप्नुवन्तीति । एतमन्त-रेणापि सामान्यत एव व्यवहारसिद्धेः किं तद्विशेषविचारक्लेशेन । किञ्चास्ति च विशेषसंज्ञेत्याह ॥ विषयेति । विषयविषयिभावनामकस्य सम्भवादित्यर्थः।
वादावलीप्रकाशः
सत्यत्वे वृत्तिरूपप्रकाशविषयः कथं स्यादिति द्वितीयपक्षोऽप्ययुक्त इत्याह ॥ न द्वितीय इति ॥ करणसामर्थ्येनेति । घटसन्निकृष्टकरण-जन्यत्वेनैव वृत्तेर्घटविषयत्वोपपत्तेरित्यर्थः । असत्त्वे तु चित्प्रकाशारोपित-स्येत्यादिनोक्तमाध्यासिकसम्बन्धेन प्रकाशं दूषयति ॥ किञ्चाध्यस्तत्वेनेति । एकजीववादिमते दोषमाह ॥ जीवेऽध्यासपक्ष इति । जीवचैतन्य-मविद्योपाधिकं सत्सर्वगतमन्तःकरणोपाधिकं तु परिच्छिन्नमित्यङ्गीकृतत्वेना-विद्योपाधिकसर्वगतजीवचैतन्येऽध्यासपक्षे जीवचैतन्यस्यैकत्वात्स्वास्मिन्नध्यस्तः प्रपञ्चः स्वस्य सर्वदा प्रकाशेतेत्यर्थः ॥ न कदाचिदिति । अधिष्ठानभूत-ब्रह्मण इन्द्रियजन्यज्ञानाविषयत्वेन तदध्यस्तस्य प्रपञ्चस्य क्वचिदपि न प्रकाशः स्यादित्यर्थः ॥ सर्वदेति । उक्तरीत्या यस्मिञ्जीवचैतन्येऽध्यस्तः प्रपञ्चस्तस्य जीवस्य सर्वदा प्रकाशेतेत्यर्थः ॥ सर्वेषामिति । घटाधिष्ठानचैतन्यसर्व-साधारणत्वेन तत्रारोपितः प्रपञ्चः सर्वेषां प्रकाशेतेत्यर्थः । इदं च दूषणं नैकजीववादिमते सम्भवति । कल्पकजीवव्यतिरिक्तजीवानामभावादिति ज्ञातव्यम् ॥ ब्रह्माधिष्ठाने त्विति । ब्रह्मैवाधिष्ठानं यस्य तद्ब्रह्माधिष्ठानं जगत्तस्मिन्नङ्गीक्रियमाणे सति जगतो ब्रह्मण्यध्यस्तत्वपक्ष इति यावत् ॥ न कस्यापि कदाऽपीति । तस्येन्द्रियजन्यज्ञानविषयत्वेन तत्रारोपितः प्रपञ्चः कस्यापि कदाऽपि न प्रकाशेतेत्यर्थः ॥ संसार्गानिरूपणादितीति । संयोग-समवाययोरसम्भवादिति भावः ॥ संयोगासम्भव इति । तन्तुपटयोरिति शेषः। उपलक्षणमेतत् । दण्डपुरुषयोः समवायासम्भवे संयोगवदित्यपि द्रष्टव्यम् ॥ तयोरिति । दृग्दृश्ययोः संयोगसमवाययोरसम्भव इत्यर्थः । अन्यस्यापि विषयविषयिभावस्य कल्प्यत्वादित्यन्वयः ।
वादावलीविवरणम्
प्रकाशशब्देन वृत्तिर्विवक्षितेति पक्षं दूषयति ॥ न द्वितीय इति ॥ करणसामर्थ्येनेति । स्वज्ञानजनककरणसन्निकृष्टत्वेनेत्यर्थः । तथा च यज्ज्ञानं यत्सन्निकृष्टकरणजन्यं स तस्य विषय इति जन्यज्ञाने नियमाद्घटादेश्च स्वज्ञानकरणेन्द्रियादिसम्बन्धसद्भावाद्विषयतोपपत्तिरिति भावः । असत्त्वे त्वित्यादिपूर्वपक्षांशं दूषयति ॥ किञ्चाध्यस्तत्वेनेति । दृगध्यस्तत्वेन प्रकाश इत्यर्थः । अधिष्ठानभूता दृक् जीवरूपा वा ब्रह्मरूपा वेति विकल्पं मनसि कृत्वा आद्ये आह ॥ जीव इति । अधिष्ठानस्य जीवस्यानावृततयाऽधिष्ठान-प्रकाशरूपस्याध्यस्तज्ञानहेतोः सत्त्वादिति भावः । न च तस्यावृतत्वपक्षे कथं प्रकाशापादनमिति वाच्यम् । तत्र ब्रह्मपक्षोक्तदूषणसम्भवात् । अन्त्यं प्रत्याह ॥ ब्रह्मणीति । तस्यावृतत्वादिति भावः ॥ बहुजीवेति । अधिष्ठानीभूतजीवानामनावृतत्वादिति भावः ।
ननु करणसामर्थ्येनापि कथं विषयविषयिभावः । प्रकाशान्तरेण सम्बन्धाभावादित्युक्तदोषापरिहारादिति शङ्कते ॥ तथाऽपीति । सत्यत्वपक्षे करणसामर्थ्येनापि प्रकाशत्वं न युज्यते । प्रकाशिप्रकाशयोः सम्बन्धस्यानुक्त-त्वादित्यर्थः । एवञ्च मिथ्याहेतुत्वमात्रेऽप्रयोजकत्वमुक्तम् । अतस्तदुद्धाराय सर्वसाधारणं बाधकं शङ्कनीयम् । कथं दृश्यत्वहेतूच्छित्तिः शङ्क्यत इति चोद्यानवकाशः ॥ संयोगासम्भव इति । गुणगुणिनोः संयोगानुपपत्तौ समवाय इव तन्तुद्वयस्यापि समवायासम्भवे च संयोग इव दृग्दृश्ययोः संयोग-समवायानुपपत्तौ विषयताख्यः सम्बन्धः कल्प्यत इत्यर्थः । न च तस्याद्विष्ठ-त्वात्कथं सम्बन्धत्वमिति वाच्यम् । अभावभूतलयोर्विशेषणविशेष्यभावस्या-द्विष्ठत्वेऽपि विशिष्टधीनिर्वाहकत्वेन सम्बन्धत्ववदत्राप्युपपत्तेरित्याशयात् ।