०२ अंशित्वानुमाननिरासः

किञ्च किमत्र पटस्यासत्त्वमापाद्यते संसर्ग-निषेधो वा क्रियते

अंशित्वानुमाननिरासः

किञ्च किमत्र पटस्यासत्त्वमापाद्यते संसर्ग-निषेधो वा क्रियते

वादावली

किञ्च किमत्र पटस्यासत्त्वमापाद्यते संसर्ग-निषेधो वा क्रियते । नाद्यः । त्वद्दर्शनविरोधात् । सत्त्वमात्रं निषिध्यते नासत्त्वमापाद्यत इति चेन्न । तन्निषेधे तद्ध्रौव्यात् । सत्त्वनिषेधे चैतत्तन्तुनिष्ठपदवैय्यर्थ्यम् । न च सिद्धसाधनता-परिहारार्थं विशेषणमिति वक्तव्यम् । एतत्पटात्यन्ताभावस्या-स्माकमसिद्धेः । एतेन दृष्टान्तोऽपि साध्यविकलतया प्रत्युक्तो वेदितव्यः । ननु पटान्तरस्यात्यन्ताभावो न चेत्पटः किन्न स्यात् । किमत्र पटसंसर्गः स्यात्पटो वा । आद्ये न व्याप्ति-सिद्धिः । द्वितीये सिद्धसाधनम् । नाप्युत्तरः । तन्तुपटसंसर्गा-भावस्य सिद्धत्वात् । अथायं पट एतत्तन्तुजन्यो न भवतीति प्रतिज्ञावाक्यार्थः स्यात्तर्हि तस्यांशित्वमपि न स्यादिति हेतोर-सिद्धिः स्यात् । न तत्त्वतस्तदप्यस्तीति चेन्न । अतात्त्विका-वयवित्वस्यास्माकमसिद्धेः । इह तन्तुषु पट इत्यादिप्रत्यक्ष-विरुद्धं चैतत् ।

वादावलीभावदीपिका

अंशित्वानुमानस्य तर्कपराहतिं च वक्तृं पूर्ववदेव साध्यं विकल्पयति ॥ किञ्चेति । तर्कपराहतत्वप्रतिपादनपरत्वान्न पौनरुक्त्यमिति बोध्यम् ॥ संसर्गेति । आधाराधेयभावलक्षणेत्यर्थः ॥ त्वद्दर्शनविरोधादिति । त्वयाऽपि पटादेर्व्यावहारिकत्वरूपसत्त्वाभ्युपगमेनासत्त्वेऽभिधीयमानेऽपसिद्धान्त इत्यर्थः । ननु नापसिद्धान्तः । मया प्रपञ्चस्य सदसद्वैलक्षण्याभ्युपगमेन सत्त्वमात्रस्य निषेधे दोषाभावादिति शङ्कते ॥ सत्त्वेति । मात्रपदव्यावर्त्यमाह ॥ नासत्त्वमिति ॥ तन्निषेध इति । सत्त्वनिषेधेऽसत्त्वस्य ध्रुवत्वादिति भावः । सत्त्वासत्त्वयोर्भावाभावरूपत्वात् । परस्परविरहव्याप्यत्वस्य वा समर्थितत्वादिति भावः ।

किञ्च यदि पटस्य सत्त्वनिषेध एवात्यन्ताभावप्रतियोगित्वपदेनाभिमतस्तर्हि पटोऽत्यन्ताभावप्रतियोगीत्येतावतैवेष्टसिद्धेरेतत्तन्तुनिष्ठेति व्यर्थमित्याह ॥ सत्त्वेति । किञ्चेति चार्थः । ननु तार्किकमतेऽस्य पटस्य तन्त्वन्तर-निष्ठात्यन्ताभावप्रतियोगितोपगमात् सिद्धसाधनतानिवृत्त्यै तदुपात्तमित्याशङ्क्य तथाऽपि मन्मते तद्व्यर्थमित्याह ॥ न चेति ॥ असिद्धेरिति । अन्यथाऽ-सत्त्वापत्तेरिति भावः ॥ एतेनेति । पटान्तरात्यन्ताभावस्यास्माक-मसिद्धत्वेनेत्यर्थः । ननु यदि पटान्तरस्यात्यन्ताभाव एतत्तन्तुषु न स्यात्तर्ह्यत्र पटः स्यात् । न चेष्टापत्तिः । एतस्मिन्पटे सति पटान्तरस्यात्र वृत्तेरयोगात् । मूर्तानां समानदेशताविरोधादिति शङ्कते ॥ नन्विति । एतत्तन्तुष्विति शेषः । प्रश्नाशयं विवृण्वन्नुत्तरयति ॥ किमिति । अत्रैतत्तन्तुष्वित्यर्थः ॥ न व्याप्तिसिद्धिरिति । मन्मतेऽश्वे गोत्वात्यन्ताभावाभावेऽपि गोत्वसंसर्गस्या-भावान्मतान्तरेऽपि पटाभावे आत्माश्रयापत्त्या पटाभावाभावेऽपि पटसंसर्गस्या-भावेन यत्र यदत्यन्ताभावो नास्ति तत्र तत्संसर्ग इति व्याप्तेरसिद्धेरित्यर्थः ॥ सिद्धसाधनमिति । पटान्तरस्यापि संयोगवृत्त्यैतत्तन्तुष्ववस्थानसम्भवे-नेष्टापत्तेरित्यर्थः । उपादानोपादेययोरभेदेन मूर्तानां समानदेशताविरोध इत्यस्याप्यभावात् । यद्यपीदं दूषणं प्राचीनपक्षेऽपि समानं तथाऽपि वस्तुस्थितिकथनाय व्याप्त्यभाव एवोक्तः । यद्वाऽऽद्ये संसर्गशब्दः समवायपरः ।

ननु पटस्यात्यन्ताभावाभावे इह तन्तुष्वयं पटो नास्ति, भूतले नास्तीत्यादिप्रत्यया निरालम्बना भवेयुरिति चेन्मैवं वोचः । इह पटो नास्तीति प्रतीतेः पटसम्बन्धाभावविषयत्वात् । इह भूतले घटो नास्तीत्यत्र भूतलघटसंयोगो निषिध्यत इति कुसुमाञ्जलावुदयनोक्तेः । भूतले घटोऽस्तीति बुद्धेस्तत्सम्बन्धविषयत्वेन नास्तीति बुद्धेरपि तदभावविषयत्वाच्च । किञ्च न तावदयं घटस्य प्रागभावो ध्वंसो वा । घटसमानकालीनत्वात् । नाप्यत्यन्ता-भावः । कदाचिद्घटस्य तत्रानयनात् । सम्बन्धस्य तु भूतत्वे ध्वंसो भावित्वे प्रागभावः । कदाऽप्यभावे तदधिकरणकैतत्पटनिरूपितसम्बन्धस्यासत्त्वेन तदत्यन्ताभावसम्भव इत्येतत्तन्तुषु पटान्तरस्यात्यन्ताभावाभावे न कोऽपि दोष इत्यलमियता । संसर्गनिषेधो वा क्रियत इति प्रागुक्तं साध्ये विकल्पं दूषयति ॥ नाप्युत्तर इति । पट एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगी-त्यस्यैतत्तन्तुजन्यो नेत्येव विवक्षितमिति शङ्कते ॥ अथेति ॥ अंशित्व-मपीति । तन्त्वन्तराजन्यत्वेन निश्चितस्यैतत्तन्त्वजन्यत्वे साध्ये सर्वथाऽजन्यत्वापत्त्या परमाणुवदवयवित्वरूपमंशित्वमपि न स्यादित्यर्थः । ननु तात्त्विकांशित्वाभावेऽप्यतात्त्विकमंशित्वं सम्भवतीति भावेन शङ्कते ॥ न तत्त्वत इति । एवमप्यन्यतरासिद्धो हेतुरिति भावेनाह ॥ अतात्त्वि-केति । एवमवयवित्वानुमानस्य तर्कपराहतिमुक्त्वा बाधकं चाह ॥ इहेति । इदं च न्यायमतरीत्या बोध्यम् । स्वमत एवंविधप्रत्यक्षाभावादिति ध्येयम् । केचित्तु सर्वतन्तुभिः पटस्यात्यन्ताभेदेऽप्येकैकतन्तुभिर्भेदाभेदादेवं प्रत्यक्षमुक्तमित्याहुः ।

वादावलीप्रकाशः

॥ असत्त्वमित्यादि । एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगीति साधनेन पटस्यासत्त्वमापाद्यते । सत्त्वे पर्यवसानं क्रियत इति यावत् । उतैतत्तन्तुषु पटसंसर्गो नास्तीति तत्संसर्गनिषेधो वा क्रियत इत्यर्थः ॥ स(त्व)द्दर्शनेति । सन्पट इत्यादिसत्त्वावगाहिप्रत्यक्षविरोधादित्यर्थः ॥ निषिध्यत इति । अत्यन्ता भावप्रतियोगीत्यनेनेत्यर्थः ॥ नासत्त्वमिति । तथा च न प्रत्यक्षविरोध इति भावः ॥ तन्निषेध इति । परस्पर-विरुद्धयोरन्यतरनिषेधस्यान्यतरविधिनान्तरीयकत्वेन सत्त्वनिषेधेऽसत्त्वस्य ध्रौव्याद् ध्रुवत्वन्निश्चयादित्यर्थः ॥ वैय्यर्थ्यमिति । एतत्तन्तुनिष्ठात्यन्ता-भावप्रतियोगीत्यनेनैतत्तन्तुषु सत्त्वं नास्तीत्युक्तं स्यात् । तथा च पटस्य सत्त्वं कुत्रापि नास्तीति सत्त्वमात्रनिषेधाभिप्राये विशिष्यैतत्तन्तुषु नास्तीति निषेधस्य व्यर्थत्वेनैतत्तन्तुनिष्ठपदवैय्यर्थ्यं स्यादित्यर्थः ।

ननु तन्त्वन्तरनिष्ठात्यन्ताभावप्रतियोगित्वेन सिद्धसाधनतापरिहारार्थ-त्वान्नैतत्तन्तुनिष्ठविशेषणवैय्यर्थ्यमित्याशङ्क्याह ॥ न चेति । प्रामाणिक-प्रतियोगिकात्यन्ताभावस्यास्माभिरनङ्गीकारेणैतत्पटस्य प्रामाणिकतया तदत्यन्ताभावासम्भवेन तद्घटितसाध्यस्याप्रसिद्धिरित्याह ॥ एतत्पटेति ॥ दृष्टान्तोऽपीति । पटान्तरस्यापि प्रामाणिकतयैतत्तन्तुनिष्ठात्यन्ताभाव-प्रतियोगित्वाभावेन साध्यविकल इत्यर्थः । प्रत्युक्तो निराकृतः । दृष्टान्ते एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वमनङ्गीकृत्य साध्यवैकल्योक्तावनिष्टमाशङ्कते ॥ नन्विति ॥ अत्यन्ताभावो न चेदिति । पटान्तरस्यैतत्तन्तुनिष्ठात्यन्ता-भावप्रतियोगित्वं नास्तीत्यस्यैतत्तन्तुषु तदत्यन्ताभावो न चेदिति फलितोऽर्थः । पटः किन्न स्यादित्याक्षेपः । एतत्तन्तुषु पट एव स्यादित्यर्थः । परस्पर-विरुद्धयोरन्यतरनिषेधस्यान्यतरविधिनान्तरीयकत्वादिति भावः । अत्र विकल्पयति ॥ किमत्रेति । एतत्तन्तुषु पटात्यन्ताभावो नास्ति चेत्पट एव स्यादित्यस्य पटसंसर्गः स्यादित्यर्थो वा पट एव स्यादित्यर्थो वेत्यर्थः ॥ न व्याप्तिसिद्धिरिति । यत्रैतत्तन्तुषु पटात्यन्ताभावाभावस्तत्रैतत्पटसंसर्ग इति व्याप्तौ दृष्टान्ताभावादित्यर्थः । यद्येतत्तन्तुषु पटसंसर्गात्यन्ताभावो नास्तीति स्यात्तर्ह्येव तत्रैतत्पटसंसर्गः स्यादित्यापादयितुं शक्यते परस्पर-विरुद्धयोरित्युक्तन्यायसम्भवात् । पटात्यन्ताभावो नास्ति चेत्तर्हि पटसंसर्गापादनमयुक्तमेव । उक्तव्याप्त्यनवकाशादिति भावः ॥ सिद्धसाधन-मिति । इष्टापादनमित्यर्थः । एतत्तन्तुषु पटात्यन्ताभावाभावे पट एव स्यादित्युक्तेऽनिष्टाभावेनेष्टापादनरूपत्वात्तर्काभासोऽयम् । पटान्तरस्याप्ये-तत्तन्तुषु संयोगेन सत्त्वसम्भवादिति भावः । तस्मात्साध्यवैकल्यं स्यादेवेति हृदयम् ।

॥ नाप्युत्तर इति । पटसंसर्गनिषेधः क्रियत इत्युत्तरो द्वितीयः पक्षो नेत्यर्थः ॥ सिद्धत्वादिति । कार्यकारणयोरभेदेन भेदगर्भसंसर्गाभावस्य सिद्धत्वेन सिद्धसाधनता स्यादित्यर्थः ॥ अंशित्वमपि नेति । अवयवित्वं नामांशित्वम् । तच्चांशित्वं नामावयवरूपांशित्वं तद्वत्त्वं च तत्कारणकत्वम् । तथा चैतत्पटस्यैतत्तन्तुनिष्ठजन्यत्वाभावे एतत्तन्तुकारणकत्वरूपावय-वित्वापरपर्यायं यदंशित्वं तदपि न स्यादित्यसिद्धिः स्यादित्यर्थः । असिद्धि-परिहारं शङ्कते ॥ न तत्त्वत इति । परमार्थतोऽवयवकारणकत्वरूप-मवयवित्वं नास्त्येव । तथा चातात्त्विकावयवित्वस्य हेतुत्वेन विवक्षितत्वान्न स्वरूपासिद्धिरिति भावः ॥ अस्माकमिति । उभयवादिसिद्धस्यैव हेतूकर्तव्यत्वादिति भावः ॥ इह तन्तुष्विति । तथा च तन्तुषु पटनिष्ठत्वावगाहिप्रत्यक्षविरुद्धत्वात्तन्तुनिष्ठत्वाभावसाधकमयं पट इत्युक्तानुमानं प्रत्यक्षबाधितमित्यर्थः ।

वादावलीविवरणं

नन्वेतत्तन्तुषु नास्तीति साध्यते । न च सिद्धसाधनम् । कार्यकारणयोरभेदेऽपि भेदस्यापि सत्त्वेनाधाराधेयभावोपपत्तेरित्यरुचेराह ॥ किञ्चेति । अत्रैतत्तन्तुष्वापाद्यते साध्यते ॥ संसर्गनिषेध इति । संयोग-समवायान्यतरसम्बन्धेनात्यन्ताभावप्रतियोगित्वं साध्यत इत्यर्थः । आद्येऽप्य-सत्त्वमापाद्यत इत्यनेन स्वरूपेणात्यन्ताभावप्रतियोगित्वं वा साध्यत इत्युक्तं भवति । न च तद्युक्तम् । जगदसद्विलक्षणस्वरूपेण प्रतीतिकाले सदिति सिद्धान्तविरोधादित्याह ॥ त्वद्दर्शनेति । नन्वसत्वमापाद्यत इत्यनेन स्वरूपेणात्यन्ताभावप्रतियोगित्वं साध्यत इत्यर्थो न विवक्षितः । किन्तु पारमार्थिकत्वाकारेणात्यन्ताभावप्रतियोगित्वं साध्यतेऽतो नोक्तदोष इति शङ्कते ॥ सत्त्वमात्रमिति ॥ तद्ध्रौव्यादिति । असत्त्वध्रौव्यादित्यर्थः । नृशृङ्गा-दावपि सत्त्वाभावादन्यस्यासत्त्वस्याभावादिति भावः । सत्त्वाकारेण निषेध-प्रतियोगित्वं साध्यमिति पक्षमभ्युपेत्यापि दोषमाह ॥ सत्वनिषेधे चेति । किञ्चेति चार्थः । किञ्चासत्त्वाकारेण निषेधप्रतियोगित्वे साध्ये एतत्तन्तुनिष्ठपदवैय्यर्थ्यमिति फक्किकार्थः ।

नन्वयं पटः पारमार्थिकत्वाकारेणात्यन्ताभावप्रतियोगीत्युक्ते सिद्धसाधनम् । एतत्पटे सत्त्वाकारेण कपालादिनिष्ठात्यन्ताभावप्रतियोगित्वस्य सिद्धत्वात् । न ह्येतत्पटः कपालादौ पारमार्थिकत्वाकारेणास्ति । एवञ्च सिद्धसाधन-वारणायैतत्तन्तुनिष्ठपदं सार्थकमित्याशङ्क्य निराकरोति ॥ न चेति । सिद्धसाधनं हि पररीत्या । न च मन्मते एतत्पटात्यन्ताभावः सिद्धो येन तत्स्यादित्याह ॥ एतत्पटात्यन्ताभावस्येति । अत्यन्ताभावस्य अप्रामाणिकप्रतियोगिकत्वादिति भावः ।

नन्विह भूतले घटो नास्तीति प्रामाणिकस्यैव घटस्यात्यन्ताभाव-प्रतियोगित्वप्रतीतेः कथमेतदिति चेत् । उच्यते । इह भूतले घटो नास्तीति धियो हि तत्सम्बन्धाभावो विषयो न तु घटाभावः । इह भूतले घटो नास्तीत्यत्र संयोगो निषिध्यत इत्युदयनोक्तेः । इह भूतले घटोऽस्तीति बुद्धेस्तत्सम्बन्धविषयत्वेन नास्तीति बुद्धेरपि तदभावविषयत्वाच्च । न च तत्रोभयप्रतीतिवदत्राप्युभयाभावः प्रतीयतामिति वाच्यम् । निषेधप्रतियोगित्वस्य स्वाश्रयसत्ताऽसहनस्वभावत्वेन तत्काले विद्यमानघटवृत्तित्वायोगात् । न च तादृशस्वभाव एव कुत इति वाच्यम् । घटसत्तादशायां तस्मिन्प्रागभाव-प्रध्वंसाप्रतियोगित्वप्रदर्शनात् । अविद्यमान एव घटे तद्दर्शनाच्च । प्रतियोगित्वस्य रूपादिवद्धर्मिसत्तानपेक्षत्वात् । न चान्योन्याभाव-प्रतियोगित्वस्याप्युक्तस्वभावप्रसङ्गः । अन्योन्याभावस्यानिषेधरूपत्वात् । प्रतिषेधप्रतियोगित्वस्यैवोक्तस्वभावकल्पनात् । प्रागभावध्वंसप्रतियोगित्वमेव स्वाश्रयसत्ताविरोधि न त्वत्यन्ताभावप्रतियोगित्वमिति वाच्यम् । नियामकाभावात् । अत्यन्ताभावप्रतियोगिनां शशविषाणादीनामपि सत्त्वापत्तेश्च ।

किञ्चेह भूतले घटो नास्तीति बुद्धेर्घटाभावविषयकत्वेन तावदयं घट-प्रागभावो ध्वंसो वा तयोः प्रतियोग्यसमानकालीनत्वादस्य च तदभावात् । नाप्यत्यन्ताभावः । कदाचित्तत्र घटस्य सत्त्वात् । स्यादेतत् । यदि चैतत्कालवच्छेदेनात्यन्ताभावातिरिक्तः प्रागभावादिर्न सिध्येत् । संसर्गस्य तु भूतत्वे ध्वंसः । भावित्वे प्रागभावः । कदाऽप्यभावेऽत्यन्ताभाव इति न काऽप्यनुपपत्तिः । न च घटवत्तत्संसर्गस्याप्यन्यत्र सत्त्वेन न प्रतियोगित्व-

मिति वाच्यम् । एतद्भूतलैतद्घटसंसर्गस्य निषेधकाले कुत्राप्यसत्त्वादिति सङ्क्षेपः ।

॥ एतेनेति । प्रामाणिकप्रतियोगिकात्यन्ताभावस्यास्माकमसिद्धत्वे-नेत्यर्थः । नन्वेतत्तन्तुषु यदि पटान्तरस्यात्यन्ताभावो न स्यात्तर्ह्यत्र पटः स्यात् । न चेष्टापत्तिः । एतस्मिन्पटे सति पटान्तरस्यायोगात् । मूर्तानां समानदेशताविरोधादिति शङ्कते ॥ नन्विति । एतत्तन्तुष्विति शेषः । पटः किन्न स्यादिति कोऽर्थः । किमेतत्तन्तुषु समवायेन पटः स्यादिति किं वा संयोगेनेति विकल्पपूर्वकं सिद्धान्तयति ॥ न व्याप्तिसिद्धिरिति । यत्र यदत्यन्ताभावो नास्ति तत्र तत्समवाय इति व्याप्तिर्न सम्भवति । मन्मतेऽश्वे गोत्वात्यन्ताभावेऽपि गोत्वसमवायस्याभावात् । मतान्तरेऽपि पटाभावे आत्माश्रयापत्त्या पटाभावाभावेऽपि पटसमवायस्याभावादित्यर्थः ॥ सिद्धसाधनमिति । पटान्तरस्यापि संयोगेनैतत्तन्तुष्ववस्थानसम्भवा-दिष्टापत्तेरित्यर्थः । न च मूर्तानां समानदेशताविरोधः । उपादानोपादेययोरभेदेन तदभावादित्याशयात् । यद्यपीदं दूषणं प्राचीनपक्षेऽपि समानं तथाऽपि वस्तुस्थितिकथनाय तत्र व्याप्त्यभाव एवोक्त इति बोध्यम् । संसर्गनिषेधो वा क्रियत इति पक्षं दूषयति ॥ नाप्युत्तर इति ॥ सिद्धत्वादिति । संसर्गनिषेधः क्रियत इत्यस्य हि संयोगसमवायान्यतरसम्बन्धेनैतत्तन्तु-निष्ठात्यन्ताभावप्रतियोगित्वं साध्यत इत्यर्थो विवक्षितः । एवञ्च सिद्ध-साधनम् । कार्यकारणयोरभेदेन तन्तुपटयोः संयोगसमवायाभावस्य सिद्धतयोक्तसाध्यस्यापि सिद्धत्वादित्यर्थः । प्राग्दूषितमप्येतत्तन्तुकार्यत्वाभावपक्षं दोषान्तरविवक्षया शङ्कते ॥ अथेति । तन्त्वन्तराजन्यत्वेन निश्चितस्यै-तत्तन्त्वजन्यत्वे साध्ये सर्वथाऽजन्यत्वापत्त्या परमाणुवदवयवित्वरूप-मंशित्वमपि न स्यादित्यर्थः । नन्वतात्त्विकमेवांशित्वं हेतुरतो नासिद्धिरिति गूढाभिसन्धिः शङ्कते ॥ न तत्त्वत इति । आशयं समुद्घाट््य दूषयति ॥ अतात्त्विकेति । एवं साध्यनिर्वचनेन प्रतिज्ञांशं दूषयित्वा बाधेनापि दूषयति ॥ एतत्तन्तुष्विति । इदं च न्यायमतेन । स्वमते एवंविधप्रत्यक्षाभावादित्यूचुः । सर्वतन्तुभिः पटस्यात्यन्ताभेदेऽप्येकैक-तन्तुभिर्भेदाभेदादित्येवं प्रत्यक्षमुक्तमित्याहुः ॥ छ ॥


नन्विह नभसि नीलिमेति..

नन्विह नभसि नीलिमेति..

वादावली

नन्विह नभसि नीलिमेति प्रत्यक्षाभिमत-प्रत्ययबाधेनारूपित्वानुमानप्रवृत्तिवदत्राप्यनुमानप्रवृत्त्युपपत्तिः किन्न स्यादिति चेन्न । तथा सति दहनशैत्यानुमानादे-रप्यप्रतिबद्धप्रसरेण बाधपरिभाषापरिमोषापातात् । उभयवादि-सम्प्रतिपन्नप्रामाण्ये प्रत्यक्षादौ जाग्रति बाधः सुखं प्रसरेदिति चेत्तत्किं प्रकृते प्रत्यक्षप्रामाण्यानभ्युपगमे कारणम् । अनुमान-विरोध इति चेत्समं दहनशैत्यानुमानेऽपि । न च प्रत्यक्ष-स्यानुमानबाधितत्वे दृष्टान्तं पश्यामः । नभोनीलिमाप्रतीति-भ्रमताऽप्यागमाद्यवगम्यैव । अनुमानस्याप्रसरात् । तथा हि । महत्त्वान्नभसो रूपं निषिध्यतेऽगन्धवत्त्वाद्वा स्पर्शरहितत्वाद्वा । न त्रयमपि । तत एवाशब्दत्वप्रसङ्गात् ।

वादावलीभावदीपिका

ननु न प्रत्यक्षमनुमानबाधकं नभो नीलमित्यक्षबाधेनारूपित्वानु-मापकामूर्तत्वाद्यनुमानस्येवात्राप्यक्षबाधेनैवानुमानप्रवृत्तिसम्भवादित्याशङ्क्याति प्रसङ्गमुत्तरयति ॥ नन्विह नभसीत्यादिना ॥ प्रत्यक्षेति । प्रत्यक्ष-त्वेनाभिमतो यस्तद्बाधेनारूपित्वसाध्यकानुमानप्रवृत्तिवदित्यर्थः ॥ अप्रतिबद्धेति । प्रत्यक्षाप्रतिबद्धप्रवृत्त्या बाधवार्ताया अपन्हवः स्यात् । बाधोच्छेद इति यावत् । यद्यपीदं प्रागेवाशङ्क्य समाहितम् । तथाऽप्यधिकं विवृण्वन्पुनरेतदवतारितमित्यदोषः । ननु वह्न्यौैष्ण्यप्रत्यक्षप्रामाण्ये च वादिप्रतिवादि सम्मतेः सत्त्वात्तत्र बाधसम्भवेऽपि नेह तथा । इह तन्तुषु पट इति प्रत्यक्षे मम प्रामाण्यासम्मतेरिति तत्त्वप्रदीपोक्तामाशङ्कां प्रति हेतुमनुवदति ॥ उभयेति । तत्किमित्याक्षेपे, न किमपीत्यर्थः । तथा च न दृष्टान्तदार्ष्टान्तिकयोर्वैषम्यमिति भावः । तत्र कारणमाशङ्क्य तदपि सम्मतमेवेत्याह ॥ अनुमानेति । अंशित्वानुमानेत्यर्थः ॥ सममिति । अनुमानविरोधलक्षणं कारणमित्यर्थः ।

अभ्युपेत्यैवमुदितं वस्तुतस्त्वनुमानबाधितं प्रत्यक्षमेव नास्ति । येन तद्दृष्टान्तेनेह तन्तुषु पट इति प्रत्यक्षस्यानुमानबाधसम्भावनाऽपि स्यादित्याह ॥ न चेति । किञ्चेति चार्थः । दृष्टान्तं चेति वाऽन्वयः । ननूक्तं नभोनैल्यप्रत्यक्षमिति तत्राह ॥ नभ इति । आगमेति तर्काबाध्यत्वे तात्पर्यम् । न त्वागमेनापि तत्र बाधः । तथात्वेऽद्वैतानुमानेन बाधाभावेऽप्य-द्वैतागमेन तस्य बाधसम्भवेन पराभिमतसिद्ध्यापातात् । अत एवादिपद-प्रयोगः । तथा चायमर्थः । न तत्रागमेन बाधः । किन्तु मूलभूतप्रत्यक्षेणैव बाधः । यथा चैतत्तथोक्तं प्राक् । विस्तरस्तु न्यायामृते द्रष्टव्यः । एवकारव्यावर्त्यमाह ॥ अनुमानस्येति । महत्त्वात्परममहत्त्वादित्यर्थः ॥ अगन्धेति । गन्धरसरूपस्पर्शान्यतमवत्त्वाभावादित्यर्थः । पृथिव्यादि-चतुष्टयान्यतमत्वाभावादिति यावत् । यद्वा नीलरूपाभावलक्षणसाध्याभिप्रायेण यथाश्रुत एवागन्धवत्त्वादिति हेतुः साधुः ॥ तत एवेति । उक्तहेतुत्रया-न्यतमादित्यर्थः । इदमुपलक्षणम् । औतिमते नभसो जन्यत्वेनाद्य-हेतोरसिद्धिश्च बोध्या । एतेनामूर्तत्वान्त्यावय विभिन्नानारम्भकत्वादिकमिह हेतुरिति प्रत्युक्तम् । असिद्धेः । अशब्दगुणकत्व साधनसम्भवाच्चेति ।

वादावलीप्रकाशः

नभसि नैल्यप्रत्ययस्य निर्दोषार्थेन्द्रियसन्निकर्षरूपप्रत्यक्षत्वा भावादभिमतेत्युक्तम् ॥ बाधेनेति । बाधकत्वेनेत्यर्थः ॥ अरूपित्वानु-मानेति । अरूपित्वसाधकविभुत्वानुमानेत्यर्थः । तथा च यथा नीलं नभ इति प्रत्यक्षं नभो न नीलरूपवद्विभुत्वादित्यनुमानबाध्यं दृष्टं तथेहाप्ययं पट इत्यनुमानमेवेह तन्तुषु पट इति प्रत्यक्षबाधकमेव किन्न स्यादिति भावः ॥ अप्रतिबद्धप्रसरेणेति । स्पार्शनप्रत्यक्षाप्रतिबद्धत्वप्रसरेणेत्यर्थः । तथा च तत्राप्यनुमानेनैव प्रत्यक्षबाधोऽस्त्विति भावः । बाधपरिमोषोऽपलापोच्छेदः । तथा च कालात्ययापदिष्टमात्रोच्छेदः स्यादित्यर्थः । दहनशैत्यानुमानमेव प्रत्यक्षबाधितम् । औष्ण्यावगाहिस्पार्शनप्रामाण्यस्योभयवादिसम्प्रतिपन्नत्वात् । न चैवं प्रकृते । इह तन्तुषु पटसत्त्वावगाहिप्रत्यक्षप्रामाण्यस्योभयानभ्युप-गमादतोऽत्रानुमानेनैव प्रत्यक्षबाधोऽस्त्वित्याशयेन शङ्कते ॥ उभयवादीति । प्रामाण्ये प्रामाण्योपेते जाग्रति सति ॥ प्रत्यक्षेति । तन्तुपटसत्त्वावगाहि-प्रत्यक्षेत्यर्थः ॥ अनुमानेति । अयं पट इत्यनुमानेत्यर्थः । विरोधः कारणमिति वर्तते ॥ सममिति । तत्राप्यनुमानविरोधेन स्पार्शनप्रत्यक्ष-प्रामाण्यमप्युभयवादिसम्प्रतिपन्नं नेति वदाम इति सममित्यर्थः । दृष्टान्तं च न पश्याम इत्यन्वयः । ननु नभोनैल्यप्रत्यक्षं विभुत्वानुमानबाध्यं दृष्टमिति तदेव दृष्टान्तो भविष्यतीत्यत आह ॥ नभोनीलिमेति । कुत इत्यत आह ॥ अनुमानस्येति । नभसो नीरूपित्व इति शेषः । एतदेवोपपादयति ॥ तथा हीत्यादिना । महत्त्वान्महत्परिमाणवत्त्वाद्विभुत्वादित्यर्थः । कालादिदृष्टान्तोऽपि द्रष्टव्यः ॥ न त्रयमपीति । नभो नीरूपं महत्त्वाद-गन्धवत्त्वात्स्पार्शनरहितत्वात्कालादिवदित्यनुमानत्रयमपि न युक्तमित्यर्थः । कुत इत्यत आभाससमानयोगक्षेमत्वादित्याह ॥ तत एवेति । महत्त्वादि-हेतुत्रयादेवेत्यर्थः ॥ अशब्दत्वेति । शब्दगुणकत्वाभावप्रसङ्गादित्यर्थः । नभः शब्दगुणकं न भवति महत्त्वात्कालादिवदिति भावः ।

वादावलीविवरणम्

॥ अत्रापीति । इह तन्तुषु पट इति प्रत्यक्षबाधेऽपीत्यर्थः ॥ अनुमानेति । अयं पट इत्यनुमानेत्यर्थः । तत्किं सम्प्रतिपन्नप्रामाण्यकमपि प्रत्यक्षमनुमानबाध्यमित्युच्यते किं वा सम्मतप्रामाण्यकप्रत्यक्षं बाधकं तदन्यद्बाध्यमिति विकल्प्याद्य आह ॥ तथा सतीति । यदि सम्मत-प्रामाण्यकप्रत्यक्षमप्यनुमानबाध्यं तर्हि दहनशैत्यानुमानमपि तदौष्ण्यप्रत्यक्षबाधकं स्यादिति कालात्ययापदिष्टोच्छेदप्रसङ्ग इत्यर्थः । द्वितीयं शङ्कते ॥ उभयवादीति । इह तन्तुषु पट इति प्रत्यक्षस्यानुमानबाध्यत्वेऽपि न वह्नावौष्ण्यप्रत्यक्षस्य तच्छैत्यानुमानबाध्यत्वम् । वह्न्यौष्ण्यप्रत्यक्षप्रामाण्य-स्योभयवादि सम्प्रतिपन्नत्वात् । इह तन्तुषु पट इति तत्प्रत्यक्षप्रामाण्यस्य च तदभावात् । मया तदनङ्गीकारात् । अतो न कालात्ययापदिष्टोच्छेद इत्यर्थः ॥ अनुमानविरोध इति । अयं पट इत्युक्तानुमानविरोध इत्यर्थः । यदि बाध्यत्वाभिमतानुमानविरोधादिह तन्तुषु पट इति प्रत्यक्षप्रामाण्यानभ्युप-गमस्तदा वह्न्यौष्ण्यप्रत्यक्षस्यापि तच्छैत्यानुमानविरोधात्प्रामाण्यं नाङ्गीक्रियेत । ततश्च प्रागुक्तकालात्ययापदिष्टोच्छेदप्रसङ्गो दुर्वार इत्याह ॥ सममिति । कैमुत्यन्यायेनापि नाक्षस्यानुमानबाध्यत्वमित्याह ॥ न चेति ।

ननु नभोनैल्यप्रतीतेर्भ्रमत्वमनुमानाज्ज्ञायतेऽतः कथमक्षस्यानुमानबाध्यत्वे दृष्टान्ताभाव इत्यत आह ॥ नभ इति ॥ आगमादीति । अत्र यद्वक्तव्यं तत्सर्वं प्रपञ्चितमधस्तात् ॥ महत्त्वादिति । परममहत्त्वादित्यर्थः । तेन न घटादौ व्यभिचारः ॥ अगन्धेति । रूपादिचतुष्टयान्यतमाभावादित्यर्थः । यद्वा नैल्याभावरूपसाध्याभावाभिप्रायेणेदम् ।