अस्य पटस्यावयवित्वादि..
अंशित्वानुमानस्य बाधः
अस्य पटस्यावयवित्वादि..
वादावली
अस्य पटस्यावयवित्वादिनैतत्तन्तुनिष्ठात्यन्ता-भावप्रतियोगित्वसाधनमप्यत्यन्ताभावस्य निष्प्रतियोगिकत्वेन बाधितम् । एतत्तन्तुषु नास्तीति साधने सिद्धसाधनम् । कार्यकारणयोरभेदेनाधाराधेयभावाभावात् । एतत्तन्तुकार्यं न भवतीति साधनेऽकार्यत्वस्यान्यकार्यत्वस्य वा सिद्ध्याऽर्थान्तर-त्वम् । आकाशादिषु चैवं प्रयोगाभावेन सर्वजगन्मिथ्यात्वा-सिद्धिश्च ॥ छ ॥ अंशित्वानुमानस्य बाधः ॥ छ ॥
वादावलीभावदीपिका
ननु माऽस्तु दृश्यत्वादिकं मिथ्यात्वे मानम् । तथाऽप्ययं पट एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगी अंशित्वात्पटत्वाद्वा पटान्तरवदिति तत्त्वप्रदीपोक्तानुमानात्तत्सिद्धेः । अत्र च हेतोः पक्षधर्मताबलान्मिथ्यात्व-सिद्धिरित्याशङ्क्याह ॥ अस्येति । बुद्धिस्थः कश्चन पटो द्रष्टव्यः । एत-त्तन्त्विति पक्षीकृतपटजनकतन्तवो गृह्यन्ते । न केवलं दृश्यत्वादिना मिथ्यात्वसाधनमपि त्विदमपि बाधितमित्यपेरर्थः । अभावप्रतियोगीत्येवोक्ते प्रागभावादिप्रतियोगित्वमादाय सिद्धसाधनमतोऽत्यन्तेति । तावत्युक्ते पटान्तरजनकतन्तुनिष्ठात्यन्ताभावप्रतियोगित्वमादाय तद्दोषतादवस्थ्यम् । अत एतत्तन्त्विति विशेषणम् । अवयवित्वादंशित्वादित्यर्थः । अत्यन्ताभाव-प्रतियोगित्वं किं पटस्य साध्यते उत तन्तुपटयोराधाराधेयभावलक्षण-सम्बन्धस्याथवा पटान्तरस्येवास्यापि पटस्यैतत्तन्त्वारब्धत्वाभावो वाऽभिमत इति त्रेधा विकल्प्य क्रमेण दूषयति ॥ अत्यन्तेति ॥ निष्प्रतियोगि-कत्वेनेति । असत्प्रतियोगिकत्वेनेत्यर्थः । तथा च पटस्यात्यन्ताभाव-प्रतियोगित्वे साध्ये तस्य नृशृृङ्गादिवदत्यन्तासत्त्वापत्त्या तत्सत्वग्राहिप्रत्यक्षबाध इत्यर्थः । प्रत्यक्षप्राबल्यं चोपजीव्यत्वादिना प्राग्वद्बोध्यम् । तस्यानु-मानबाधितत्वप्रत्याशा तु निरस्ता निरसिष्यते चेति भावः । द्वितीये दोषमाह ॥ एतदिति । सिद्धसाधनत्वमेवोपपादयति ॥ कार्येति । उपादेयोपादानयो-रित्यर्थः । तयोराधाराधेयभावस्याप्रामाणिकत्वेन तस्यात्यन्ताभाव-प्रतियोगित्वसम्भवादिति भावः । तृतीये दोषमाह ॥ एतत्तन्त्विति । नन्वन्याकार्यत्वेन कार्यत्वेन च प्रत्यक्षसिद्धस्यान्यकार्यत्वादिकमादाय नार्थान्तरता बाधापत्तेरिति चेत्तर्हि तत एवैतत्तन्त्वजन्यत्वस्याप्ययोगादिति भावः । सर्वत्र दोषान्तरं चाह ॥ आकाशेति । आकाशादिष्वकारणकेषु स्वकारणनिष्ठात्यन्ताभावप्रतियोगित्वरूपसाध्यासम्भवादित्यर्थः ।
वादावलीप्रकाशः
अयं पट एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगी अवयवित्वा-त्पटान्तरवदित्यनुमानमाशङ्क्य निराकरोति ॥ अस्य पटस्येति । अवयवित्वमंशित्वम् । आदिपदेन पटत्वरूपहेतुसङ्ग्रहः । पटान्तररूप-दृष्टान्तान्तरसङ्ग्रहश्च ॥ निष्प्रतियोगिकत्वेनेति । अप्रामाणि-कात्यन्तासत्प्रतियोगिकत्वेनेत्यर्थः ॥ बाधितमिति । पक्षीभूतस्य पटस्य प्रामाणिकत्वेनात्यन्ताभावप्रतियोगित्वाभावात्तत्साधनं बाधितमित्यर्थः । तदेवोपपादयति ॥ कार्यकारणयोरिति ॥ अकार्यत्वस्येति । सर्वथाऽ-कार्यत्वादेतत्तन्तुकार्यो न भवतीति सिध्यतीति भावः ॥ अन्यकार्यत्व-स्येति । विशेषनिषेधः शेषविध्यनुज्ञापक इति न्यायादिति भावः ॥ अर्थान्तरत्वमिति । मिथ्यात्वालाभादिति भावः ॥ एवं प्रयोगाभावेनेति । तेषां नित्यत्वेनोपादानाभावात्तन्निष्ठात्यन्ताभावप्रतियोगित्वसाधनं न सम्भवतीत्यर्थः ॥ छ ॥
वादावलीविवरणम्
अयं पट एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगी अवयवित्वात्पटत्वाच्च पटान्तरवदिति तत्त्वप्रदीपोक्तमनुमानं दूषयति ॥ अस्य पटस्येत्यादिना ॥ निष्प्रतियोगिकत्वेनेति । असत्प्रतियोगिकत्वेनेत्यर्थः । यदि पटस्यात्यन्ताभावप्रतियोगित्वं स्यात्तर्ह्यत्यन्ताभावप्रतियोगित्वस्यैवासत्त्व-रूपत्वाच्छशविषाणवत्पटस्याप्यसत्त्वापातादर्थक्रियाकारित्वं न स्यात् । अस्ति चैतत् । ततोऽत्यन्ताभावप्रतियोगित्वं बाधितमिति भावः ॥ अकार्यत्व-स्येति । एतत्तन्तुकार्यत्वरूपविशिष्टाभावस्य विशेष्याभावप्रयुक्तत्वेऽकार्यत्वस्य लाभो विशेषाणाभावप्रयुक्तत्वे चान्यकार्यत्वस्येति बोध्यम् ॥ आकाशादि-ष्विति । तत्रावयवित्वेन मिथ्यात्वसाधने हेतोरसिद्धिप्रसङ्गादिति भावः ॥ छ ॥ अंशित्वानुमानस्य बाधः ॥ छ ॥
अंशित्वानुमानस्य बाधः