किञ्च यदि जगद् भ्रान्तिकल्पितं स्यात्तर्हि..
मिथ्यात्वहेतूनां प्रतिकूलतर्कपराहतिः
किञ्च यदि जगद् भ्रान्तिकल्पितं स्यात्तर्हि..
वादावली
किञ्च यदि जगद् भ्रान्तिकल्पितं स्यात्तर्हि कल्प्यमानजगत्सदृशसत्याधिष्ठानप्रधानपूर्वकमङ्गीकार्यं प्रसज्येत । न च सत्यजगद्द्वयाङ्गीकारो युक्तः । पिण्याकयाचनार्थं गतस्य खारीतैलप्रदानप्रतिज्ञावदधिकापातात् । ततो नेदं जगद्भ्रान्ति-कल्पितमिति तर्कपराहतं दृश्यत्वाद्यनुमानम् । किञ्च कल्पनाया आरोप्यसदृशाधिष्ठानप्रधानपूर्वकत्वं व्यापकम् । तच्चात्र नास्ति । सत्यजगद्द्वयाङ्गीकारादस्यैव जगतः सत्यत्वाङ्गीकारस्य लघु-
त्त्वात् । अतो व्याप्यकल्पनापि नास्तीति प्रमाणविरोधः । तथा च प्रयोगः । प्रपञ्चो न भ्रान्तिकल्पितः । निरधिष्ठानत्वा-न्निष्प्रधानत्वादात्मवद्व्यतिरेकेण वा रजतवत् । विपक्षे त्वारोप्य-सदृशाधिष्ठानप्रधानभूतसत्यजगद्द्वयाङ्गीकारप्रसङ्गो बाधकः ।
वादावलीभावदीपिका
मिथ्यात्वहेतूनां प्रतिकूलपराहतिञ्चाह ॥ किञ्चेति ॥ कल्प्यमानेति । कल्प्यमानं यज्जगत्तत्सदृशं सत्यभूतं यदधिष्ठानं यच्च प्रधानं तत्पूर्वकं स्यादित्यर्थः । यद्भ्रान्तिकल्पितं तत्तादृशसत्यवस्तुद्वयपूर्वकं यथा शुक्तिरूप्यमिति व्याप्तेरिति भावः । आपाद्यस्यानिष्टत्वमाह ॥ न चेति । कुतो न युक्तमित्यतो दृष्टान्तपूर्वं हेतुमाह ॥ पिण्याकेति । कश्चित्कञ्चित्पुरुषं पिण्याकं भक्षितुं ययाचे । तदा स एनं बद्ध्वा खारीपरिमाणकं तैलं मह्यं दत्वा गच्छेत्युक्ते तर्हि दास्यामीति प्रतिज्ञा यथाऽधिका तद्वदेकस्य मिथ्यात्वं वक्तृमागतस्य तव सत्यवस्तुद्वयाङ्गीकारापातोऽधिक इत्यर्थः । विपर्यये पर्यवसानमाह ॥ तत इति । सत्यद्वयाङ्गीकारस्यायोगादित्यर्थः । ननु तर्कस्य प्रमाणानुग्राहकत्वेन स्वानुग्राह्यप्रमाणद्वारैव कस्यचिदर्थस्य साधकत्वं बाधकत्वं वा स्यान्न स्वत इति मन्यमानं प्रति तदनुग्राह्यमनुमानं वक्तृमाह ॥ किञ्चेति ।
वक्ष्यमाणप्रयोगे व्याप्यत्वासिद्धिवारणाय व्यतिरेकव्याप्तिं दर्शयति ॥ कल्पनाया इति । यद्यप्यवक्रत्वादन्वय एव प्रदर्श्यः । तथाऽप्येतत्प्रदर्शनं तु वक्ष्यमाणहेतोर्व्यभिचारशङ्कानिवृत्तिश्च कृता भवतीत्यभिप्रत्येति बोध्यम् ॥ व्यापकमिति । शुक्तिरूप्यादौ दर्शनादिति भावः । हेतोः पक्षधर्मताञ्च दर्शयति ॥ तदिति । तादृशाधिष्ठानप्रधानपूर्वकत्वमित्यर्थः । अत्र जगत्कल्पनायामित्यर्थः । तत्र हेतुमाह ॥ सत्येति । अधिष्ठानत्वेन प्रधानत्वेन च सत्यद्वयं तावदपेक्षितम् । अधिष्ठानप्रधानयोश्चारोप्येण सादृश्य-स्यापेक्षितत्वाज् जगत एव जगता सादृश्यसम्भवात्सत्यजगद्द्वयाङ्गी-कारादित्युक्तम् । अस्यैव विप्रतिपन्नस्यैवेत्यर्थः । व्याप्तिपक्षधर्मतावद्धेतूक्तिपूर्वं साध्यं निगमयति ॥ अत इति । कल्पितत्वव्यापकाधिष्ठानादेरभावादित्यर्थः । कथमनुमानप्रयोग इत्याशङ्कायामाह ॥ तथा चेति । व्याप्तिपक्षधर्मतयोः सिद्धत्व इत्यर्थः । हेतोरप्रयोजकतामुद्धर्तुं तदनुग्राहकं विपक्षे बाधकतर्कमाह ॥ विपक्ष इति । साध्यानङ्गीकारे कल्पितत्वानङ्गीकार इत्यर्थः । प्रत्यक्षबाधादिरादिपदार्थः ।
वादावलीप्रकाशः
दृश्यत्वानुमानस्य तर्कपराहतिञ्चाह ॥ किं च यदीत्यादिना । स्यादित्यनन्तरं तर्हीति शेषः ॥ कल्प्यमानेति । आरोप्यमाणेत्यर्थः ॥ प्रसज्येतेति । अधिष्ठानं च सदृशं तथ्यवस्तुद्वयं विना । न भ्रान्तिर्भवति क्वापीति वचनादिति भावः । तथा च सत्यजगद्द्वयाङ्गीकारप्रसङ्ग इति वाक्यशेषः । न चारोप्यस्यात्यन्तासत्त्वेन निर्धर्मिकत्वात्कथं तत्सादृश्य-मधिष्ठानप्रधानयोरपेक्षितमित्युच्यत इति चेन्न । आरोप्यस्य यत्किञ्चि-त्प्रतियोगिकसादृश्यानाश्रयत्वेऽपि किञ्चिन्निष्ठसादृश्यप्रतियोगित्वसम्भवात् । प्रतियोगित्वस्य च रूपादिवद्धर्मिसत्तासापेक्षत्वाभावात् । परमते घटत्वादिजातिवदस्मन्मते सादृश्यमखण्डमेव । यथोक्तं सुधायाम् । सादृश्यं हि पदार्थान्तरमिति । पदार्थान्तरमखण्डमिति तदर्थः । न तु तद्गतं भूयोधर्मवत्त्वरूपम् । तेनारोप्यस्यासतो निर्धर्मकत्वात्कथं तद्गतं भूयोधर्मवत्त्वरूपं सादृश्यमधिष्ठानप्रधानयोरुच्यत इति शङ्कानवकाश इति द्रष्टव्यम् ।
इष्टापत्तिरिति चेत्तत्राह ॥ न चेति । अधिष्ठानत्वेन प्रधानत्वेन च सत्यद्वयं तावदपेक्षितम् । अधिष्ठानप्रधानयोश्चारोप्यसादृश्यमपेक्षितम् । तथा चारोप्यजगत्सदृशमधिष्ठानं प्रधानं च जगदेवेति वाच्यम् । जगत एव जगता सादृश्यसम्भवादन्यस्य च तदसम्भवादतो जगद्द्वयमपेक्षितम् । न च तदङ्गीकारस्तव युक्त इत्यर्थः । कुतो न युक्त इत्यत आह ॥ पिण्याकेति । तैलयन्त्रखण्डिततिलादेः सकाशात्तैलनिष्पत्त्यनन्तरं यत्पिष्ठमवशिष्यते तत्पिण्याकमित्युच्यते । गतस्येति कर्मणि षष्ठी । गतं प्रतीत्यर्थः । तत्त्वनिर्णयटीकानुसारेण खारीत्यतः पूर्वं पिशाचस्येति पूरणीयम् । कर्तरि चेयं षष्ठी । पिशाचकर्तृकखारीपरिमिततैलदानप्रतिज्ञावदित्यर्थः । खारीति परिमितिविशेषस्य संज्ञा । खारी द्रोणी निकुञ्चक इत्यभिधानात् ॥ अधिकापातादिति । स्वापेक्षितापेक्षयाऽप्यधिकस्यापातादित्यर्थः । यथा केनचित्पिण्याकं देहीति याचिते सति तं प्रति पिण्याकेन खारीपरिमिततैलं दास्यमीति केनचित्पिशाचेन प्रतिज्ञाते सति पिण्याकयाचकस्य यथाऽधिकलाभो जातस्तद्वत्परिदृश्यमानस्यैकस्य जगतः सत्यत्वमपेक्ष्यमाणं मां प्रत्यस्य जगतो भ्रान्तिकल्पितत्ववचनेनोक्तरीत्या सत्यभूतजगद्द्वयलाभेनापेक्षितादप्यधिकलाभो मम जात इत्यविवेकितया पिशाचतुल्यो भवानिति भावः ।
दृश्यत्वानुमानस्य व्यापकनिवृत्त्या व्याप्यनिवृत्तिरूपप्रमाणविरोधश्च स्यादित्याह ॥ किञ्चेति । कुतो नास्तीत्यत आह ॥ सत्यजगद्द्वयेति । तथात्वे गौरवं स्यादिति भावः ॥ अस्यैवेति । भ्रान्तिकल्पिततया त्वयोच्यमानस्यास्यैव परिदृश्यमानस्येत्यर्थः ॥ प्रमाणविरोध इति । अनुमानरूपप्रमाणविरोध इत्यर्थः । अनुमानप्रयोगप्रकारं दर्शयति ॥ तथा चेति । अप्रयोजकतापरिहाराय विपक्षे बाधकतर्कमाह ॥ विपक्षे त्विति ।
वादावलीविवरणम्
प्रतिकूलतर्कपराहताश्च दृश्यत्वादय इत्याह ॥ किञ्चेति ॥ अङ्गीकार्यं प्रसज्येतेति । भ्रान्तेः सदृशं सत्यं चाधिष्ठानं प्रधानं च विनाऽयोगादिति भावः । तर्कस्यानिष्टत्वमाह ॥ न चेति ॥ पिण्याकेति । तैले निष्पन्नेऽवशिष्यमाणपिण्डीभूतद्रव्यं पिण्याकः। तिलकल्के च पिण्याक इत्यभिधानात् ॥ खारीतैलेति । खारीपरिमिततैलेत्यर्थः ।
पलद्वयं तु प्रसृतिर्द्विगुणः कुडवो भवेत् ।
चतुर्भिः कुडवैः प्रस्थः प्रस्थाश्चत्वार आढकः ।
चतुर्भिश्चाढकैर्द्रोणः खारी तेषां तु विंशतिः ॥
इति वाक्यानुसारेण खारीशब्दार्थोऽवगन्तव्यः । तर्कस्य विपर्यये पर्यवसानमाह ॥ ततो नेदमिति । ननु तर्कस्य प्रमाणानुग्राहकत्वेन स्वानुग्राह्यप्रमाणद्वारेणैव कस्यचिदर्थस्य साधकत्वं बाधकत्वं वा स्यान्न स्वत इति मन्वानं प्रति तदनुग्राह्यमनुमानं वक्तृमाह ॥ किञ्चेति । एवमग्रेऽपि । नन्वधिष्ठानप्रधानशून्यत्वेनाकल्पितत्वसाधने व्यर्थविशेषणासिद्धिरित्यतः प्रयोग माह ॥ तथा चेति ।
ननु यदुक्तं यद्भ्रन्तिकल्पितं तत्साधिष्ठानमिति तन्न
ननु यदुक्तं यद्भ्रन्तिकल्पितं तत्साधिष्ठानमिति तन्न
वादावली
ननु यदुक्तं यद्भ्रन्तिकल्पितं तत्साधिष्ठानमिति तन्न । स्वाप्नपदार्थे व्यभिचारात् । तथा हि । स्वाप्नास्ताव-त्पदार्था भ्रान्तिकल्पिताः । सत्यत्वे हि तेऽनादिनित्या उतोत्पत्तिविनाशवन्तः । आद्ये प्रागूर्ध्वं चोपलभ्येरन् । द्वितीये किन्न बोधानन्तरमुपलभ्यन्ते । तदैवोत्पद्यविनष्टा इति चेन्न । असम्भावितत्वात् । किञ्चैवमुपादानानि निमित्तानि चोपलब्ध-व्यानि । अपि चैतानन्तः पश्यति बहिर्वा । नाद्यः । अल्प-प्रदेशे महतां दर्शनासम्भवात् । नोत्तरः । पार्श्वस्थानामप्युप-लम्भप्रसङ्गात् । केन चैते करणेनोपलभ्यन्ते । न ताव-द्बाह्येन्द्रियैः । तेषां तदोपरतत्वात् । नापि मनसा । तस्य बहिरस्वातन्त्र्यात् ॥ किञ्च काश्यां सुप्तो मधुरां पश्यति तथा हेमन्ते सुप्तो वसन्तम् । न च तत्र तयोः सम्भवः । तस्माद्भ्रान्तिकल्पिताः । न चात्र किञ्चिदधिष्ठानमस्ति । आत्मनो भेदेनोपलम्भात् । न ह्यहं गज इति तदा प्रतीति-रस्तीति । एतदप्यविमर्शसुन्दरम् । तेषां सत्यत्वात् । तेन निरधिष्ठानत्वेऽपि न विरोधः ।
वादावलीभावदीपिका
उक्तानुमाने च निरधिष्ठानत्वहेतोर्व्याप्तिहीनतामाशङ्कते ॥ नन्विति ॥ व्यभिचारादिति । तत्र भ्रान्तिकल्पितत्वसत्त्वेऽपि साधिष्ठानत्वाभावादिति भावः । ननु तत्र कल्पितत्वमेव नास्ति येनोक्तदोषः स्यादित्याशङ्क्य तस्य कल्पितत्वं साधयितुं प्रतिजानीते ॥ तथा हीति । ननु कथं भ्रान्तिकल्पिता इति प्रतिज्ञा । अप्रामाण्यस्य परतस्त्वेन विषयान्यथात्वस्य बाधकैकाधीन-ज्ञानत्वादित्यतः सत्यत्वे बाधकानि वक्तृं विकल्पयति ॥ सत्यत्वे हीति । न च तृतीयः प्रकारोऽस्तीति भावः ॥ प्रागूर्ध्वमिति । अनादित्वात्सुप्तेः पूर्वं जाग्रदवस्थायामुपलभ्येरन् । नित्यात्वाच्च सुप्त्युत्थानानन्तरमप्युप-लभ्येरन्नित्यर्थः ॥ द्वितीय इति । किमिति काकुः । उपलभ्येरन्नेव । अनुपलम्भे हेत्वभावादित्यर्थः । उत्पद्यमानस्य प्रागसत्त्वेन प्रागनुपलम्भसत्त्वेऽ-प्युत्पन्नस्य कियत्कालं स्थायित्वनियमेन सुप्त्युत्थानानन्तरमप्युपलम्भः स्यादेवेति भावः ।
ननु स्वप्ने चोत्पन्नानां तदानीमेव नाशान्नोत्थानानन्तरं तदनुपलम्भो दोष इत्याशङ्क्य क्वापि तादृशवस्तुनोऽदृष्ट्याऽयोगादित्याह ॥ तदैवेति । स्वप्नदशायामेवेत्यर्थः । एतेन तस्य प्रमाणेन सत्यत्वसाधनं च परास्तम् । उक्तं च सम्भावितः प्रतिज्ञाया अर्थः साध्येत हेतुनेति । विद्युदादौ तथा दर्शनादसम्भावितत्वमसिद्धमित्यरुचेराह ॥ किञ्चेति ॥ उपलब्धव्यानीति । प्रागूर्ध्वमिति शेषः । सत्यत्वे पदार्थस्वरूपं खण्डयित्वा प्रतीतिमपि खण्डयति ॥ अपि चेति । अन्तर्हृदयाकाशे । बहिर्देहाद्बहिरित्यर्थः ॥ महतामिति । गजतुरगपर्वतसरित्सागरादीनां दर्शने हृदयविदारणप्रसङ्ग इत्यर्थः ॥ पार्श्वस्थानामिति । सुप्तस्योभयपार्श्वे जाग्रतां पुंसामित्यर्थः । बहिः पश्यतीति पक्षे प्रतीतिकारणमपि दुर्वचमित्याह ॥ केन चेति । देशविशेषस्य काल-विशेषस्य च दर्शनात्तदा तत्र तयोरसत्त्वादकामेनापि तस्य कल्पितत्वं वाच्यमित्याह ॥ किञ्चेति । तत्रेत्यनन्तरं तदेति शेषः । प्रतिज्ञातं साध्यं निगमयति ॥ तस्मादिति । सत्यत्वे बाधकसद्भावादित्यर्थः । एवं साध्या-भावमुपपाद्य तत्र निरधिष्ठानत्वहेतुं चोपपादयति ॥ न चेति । नन्वात्मन एवाधिष्ठानत्वात्कथमेवमित्यत आह ॥ आत्मन इति । तस्याधिष्ठानत्वे इदं रूप्यमितिवदहं गज इत्यधिष्ठानसम्भेदेनैव धीः स्यादिति भावः । भेदोपलम्भमेवोपपादयति ॥ न हीति । तस्मात्तत्र व्यभिचार इत्यर्थः । इतिशब्दः पूर्वपक्षसमाप्तौ । उपन्यस्तं पूर्वपक्षं प्रतिक्षिपति ॥ एतदपीति । न केवलं विश्वमिथ्यात्ववर्णनमापातरमणीयमित्यपेरर्थः । न हि प्रतिज्ञामात्रेणार्थसिद्धिरित्यत आह ॥ तेषामिति ॥ तेनेति । अकल्पितत्वरूपसाध्यसत्त्वेनेत्यर्थः ।
वादावलीप्रकाशः
स्वाप्नाः पदार्था घटपटकरितुरगादयः ॥ प्रागूर्ध्वं चेति । स्वप्नात्प्राक् स्वप्नादूर्ध्वं स्वप्नानन्तरमित्यर्थः । बोधानन्तरं प्रबोधानन्तरम् । जाग्रदवस्थायां किन्नोपलभ्यन्ते उत्पत्तिविनाशवतां घटादीनामिवोपलम्भप्रसङ्ग इति भावः ॥ तदैवेति । स्वप्नावस्थायामेवेत्यर्थः । विद्युदादिवदिति शेषः । अतो न प्रागूर्ध्वमुपलम्भप्रसङ्ग इति भावः । विद्युदादिवत्सम्भावितत्व-मप्यङ्गीकृत्याह ॥ किञ्चैवमिति । स्वाप्नपदार्थानां तदैवोत्पद्यविनष्टत्वाङ्गीकार इत्यर्थः । उपादानानि स्वाप्नघटादिपदार्थोपादानानि मृदादीनि । निमित्तानि दण्डादीनि । एतान्स्वाप्नान् गजतुरगादिपदार्थान् । अन्तर्देहान्तः । बहि-र्देहात् । अल्पदेशे देहान्तःस्थेऽल्पावकाशे । महतां स्थूलानां गजतुरगादीनाम् ॥ असम्भवादिति । तथात्वे देहविदारणं स्यादिति भावः ॥ उपरतत्वा-दिति । विषयज्ञानजननव्यापारविनिर्मुक्तत्वादित्यर्थः ॥ बहिरस्वातन्त्र्या-दिति । मनसः स्वातन्त्र्येण बाह्येन्द्रियानधिष्ठानत्वेन बहिःपदार्थविषयक-ज्ञानजनकत्वाभावादित्यर्थः । मनो हि बाह्येन्द्रियाधिष्ठानेनैव बाह्यपदार्थज्ञानं जनयति नान्यथेत्यनुभवसिद्धम् । इन्द्रियाणि च तदोपरतानीति भावः । हेमन्ते हेमन्तर्तौ, वसन्तं वसन्तर्तुम् ॥ न च तत्र तयोरिति । काश्यां मधुराया हेमन्ते वसन्तस्य च सम्भवो नेत्यर्थः । भिन्नदेशयोर्भिन्नकालयोश्च सहावस्थानस्य विरुद्धत्वादिति भावः ।
ननु स्वाप्नपदार्थानामात्मैवाधिष्ठानमस्तीति चेत्तत्राह ॥ आत्मन इति । स्वाप्नपदार्थाद्भेदेनेत्यर्थः । लोके ह्यधिष्ठानमारोप्याभिन्नतयैव प्रतीयत इत्यनुभव सिद्धम् । न चात्र तथा प्रतीतिरस्तीत्याह ॥ न हीति । तदा स्वप्नावस्था-याम् ॥ अस्तीति । तथा च निरधिष्ठानत्वहेतोः स्वाप्नपदार्थेषु व्यभिचारः सुस्थ इति भावः ॥ अविमर्शसुन्दरमिति । विमर्शो विचारस्तदभाव एव सुन्दरं न तु विमर्शे कृते सतीत्यर्थः । तेषां स्वाप्नपदार्थानाम् । तेनाकल्पितत्वसाध्यसमर्थनेन ॥ न विरोध इति । आरोपितत्व एव ह्यधिष्ठानापेक्षा न तु सत्यत्व इति भावः ।
वादावलीविवरणं
व्यतिरेकव्यभिचारं शङ्कते ॥ नन्विति । ननु कथं भ्रान्तिकल्पिता इति प्रतिज्ञा । अप्रामाण्यस्य परतस्त्वेन विषयान्यथात्वस्य बाधकैका-धीनत्वादित्यतः सत्यत्वे बाधकं वक्तृं विकल्पयति ॥ सत्यत्वे हीति । प्रागूर्ध्वमित्यतःपूर्वं स्वप्नावस्थाया इति पूरणीयम् । न हि विद्यमाना अप्युपलब्धिसाधनेषु चक्षुरादिष्वनुपरतेषु नोपलभ्यन्ते । उपलभ्यन्ते चोपरतेष्विति सम्भवतीति भावः । ननु विद्युदादिवत्तदैवोत्पादविनाशदर्शनाद-सम्भवित्वमसिद्धमित्यस्वरसादाह ॥ किञ्चैवमिति । एवं सत्यत्वे उत्पत्त्यनुपपत्तिमुक्त्वा ज्ञप्त्यनुपपत्तिमप्याह ॥ अपि चेति । अन्तर्देहान्त-र्बहिर्देहाद्बहिः । ननु देहाद्बहिरेव स्वाप्नार्थान् पश्यति । न चोक्तदोषः । यथा पुरुषविशेषाणामेव पिशाचदेहादिप्रतीतिर्न तु तत्पार्श्वस्थानां तथा स्वप्नावस्थावतामेव तादृशार्थप्रतीतिर्न तु तत्पार्श्वस्थानामित्युपपत्तेरित्यरुचेराह ॥ केन चेति । एवं स्वाप्नार्थानां सत्यत्वे बाधकान्युक्त्वा तेषां भ्रान्तिकल्पितत्वञ्चाह ॥ किञ्चेति । एवं साध्याभावमुपपाद्य निरधिष्ठानत्वहेतुमुपपादयति ॥ न चात्र किञ्चिदिति ॥ प्रतीतिरस्तीति । तस्माद्या भ्रान्तिकल्पितास्ताः साधिष्ठना इति व्यतिरेकव्याप्तिर्न सम्भवतीति वाक्यशेषः ॥ न विरोध इति । व्यभिचारदोषो नेत्यर्थः ।