०८ मिथ्यात्वानुमानस्य दृष्टान्ते साध्यवैकल्यनिरूपणम्

अनिर्वचनीयत्वाविद्यातत्कार्ययोरन्यतरत्वस्य मिथ्यात्वाभिप्राये..

मिथ्यात्वानुमानस्य दृष्टान्ते साध्यवैकल्यनिरूपणम्

अनिर्वचनीयत्वाविद्यातत्कार्ययोरन्यतरत्वस्य मिथ्यात्वाभिप्राये..

वादावली

अनिर्वचनीयत्वाविद्यातत्कार्ययोरन्यतरत्वस्य मिथ्यात्वाभिप्राये निदर्शनस्य साध्यविकलत्वं च । ननु कादा-चित्कत्वहेतुना सकारणकत्वानुमाने कारणस्य सदसद्रूपत्वा-सम्भवादविद्याकार्यत्वमेव पर्यवस्यतीति चेन्न । केयं कादा-चित्कता नाम । कदाचित्प्रतीतता वा कदाचिदुत्पन्नता वा । नाद्यः । व्याप्त्यभावात् । नोत्तरः । हेतोरसिद्धत्वात् । तस्मान्न त्रिविधोऽप्ययं प्रयोगो युक्तिपथमवतरतीति ॥ छ ॥ मिथ्यात्वानुमानस्य दृष्टान्ते साध्यवैकल्यम् ॥ छ ॥

वादावलीभावदीपिका

एवं मिथ्यात्वहेतूनां सोपाधिकत्वमुक्त्वा दृष्टान्ते साध्यवैकल्यं चाह ॥ अनिर्वचनीयत्वेति । निदर्शनस्य शुक्तिरूप्यस्यासत्त्वसद्विविक्तत्वादि-रूपमिथ्यात्वे विवक्षिते तस्य शुक्तिरूप्यादौ सिद्धान्तेऽपि सत्त्वान्न साध्य-हीनतेत्यत उक्तमनिर्वचनीयत्वेति । तथा चानिर्वचनीयत्वस्याविद्यातत्कार्य-योरन्यतरत्वस्य वा मिथ्यात्वस्य विवक्षायां साध्यहीनतेत्यर्थः । तयोः सिद्धान्ते तत्रानङ्गीकारादिति । ननु न दृष्टान्तः साध्यहीनस्तस्यानिर्वचनीयत्व-साधकलक्षणप्रमाणयोर्मिथ्यात्वरूपसाध्यविकल्पखण्डनवेलायां खण्डितत्वेना-निर्वाच्यत्वरूपसाध्याभावेऽप्यविद्याकार्यत्वरूपमिथ्यात्वं सम्भवत्येव । तथा हि । विमतं शुक्तिरूप्यं सकारणकं कादाचित्कत्वाद्घटवदिति तस्य सकारणकत्वे सिद्धे तच्च कारणं न सत् । तज्जन्यस्य रूप्यस्यापि सत्त्वापत्त्या बाधायोगात् । नाप्यसत् । तस्य कारणत्वासम्भवात् । नोभयं विरोधात् । ततोऽनिर्वचनीयमेव तत्कारणमेषितव्यम् । सैव चाविद्येति सामान्य-परिशेषाभ्यामविद्याकार्यत्वसिद्धेरिति भावेन शङ्कते ॥ नन्विति ॥ सकारणकत्वेति । कारणशब्दश्चोपादानपरः । शुक्तिरूप्यस्येति शेषः ॥ सदसद्रूपत्वेति । सद्रूपत्वासद्रूपत्वयोः सदसद्रूपत्वस्य चेत्यर्थः । असम्भवश्चोक्तरीत्या बोध्यः ॥ व्याप्त्यभावादिति । आसंसारमज्ञानावृतस्य शुद्धस्य वेदान्तजन्यचरमसाक्षात्कारेण कदाचित्प्रतीतत्वे विद्यमानेऽपि सकारणकत्वाभावात्तुच्छस्यापि शब्दादिना कदाचित्प्रतीतिसम्भवेन च व्यभिचारादिति भावः ॥ असिद्धत्वादिति । मन्मते तस्यासिद्धत्वात् । त्वन्मते च तस्य सद्विलक्षणत्वेन सत्तन्त्रस्य कादाचित्कसत्त्वस्याभावेन सकारणकत्वानुपपत्तेरिति भावः । न च सकारणकत्वेऽसद्वैलक्षण्यमेव तन्त्रम् । न तु कादाचित्कसत्त्वमिति वाच्यम् । गौरवेण तस्यातन्त्रत्वात् । ब्रह्मणोऽपि सकारणकत्वापत्तेश्चेति । अतः साध्यहीनत्वं दृष्टान्तस्य सुस्थमिति भावः । एवं दृश्यत्वादिहेतूनां दूषणान्यभिधायोपसंहरति ॥ तस्मादिति । उक्तदूषण-गणादित्यर्थः । त्रिविधो दृश्यत्वजडत्वपरिच्छिन्नत्वलक्षणः ॥ युक्तिपथ-मिति । युक्तेर्निर्दोषानुमानस्य यः पन्था असिद्धत्वाद्याभासशून्यत्वरूपस्तन्न प्राप्नोति । अनेकहेत्वाभासलक्षणलक्षितोऽयं न स्वसाध्यं साधयितुमलमिति ॥

वादावलीप्रकाशः

पूर्वमविद्यातत्कार्ययोरन्यतरत्वं वा मिथ्यात्वमिति विकल्पस्य केयमविद्या नामेत्यादिना लक्षणप्रमाणाभावेनाविद्यां निराकृत्य तस्मान्नाविद्या निरूपणगोचरतामाचरतीति कुतस्तत्कार्यं कुतस्तरां चाविद्यातत्कार्ययोरन्यतर-त्वस्य साध्यता सिध्यतीति दूषणमुक्तम् । इदानीमेतादृशमिथ्यात्वसाधने साध्यवैकल्यरूपदोषान्तरं चाह ॥ अनिर्वचनीयत्वाविद्येति ॥ तत्कार्य-त्वेति । अविद्योपादानकत्वरूपतत्कार्यत्वेत्यर्थः । अविद्याया मिथ्यात्वे तत्कार्येऽव्याप्त्यापत्तेः । अविद्याकार्यस्य मिथ्यात्वेऽविद्यायाम-व्याप्त्यापत्तेरननुगमपरिहारायान्यतरेत्युक्तम् । नन्वेतादृशमिथ्यात्वसाधने सत्यभूताविद्याशब्दप्रकृतिकार्यत्वस्य प्रपञ्चेऽस्माभिरङ्गीकारादर्थान्तरता स्यादतस्तत्परिहारायानिर्वचनीयेत्यविद्याविशेषणमुक्तम् ॥ साध्यविकलत्वं चेति । शुक्तिरजतस्यात्यन्तासत्त्वेन निरुपादानकतयाऽविद्योपादानकत्व-रूपतत्कार्यत्वाभावादित्यर्थः । ननु परिशेषेणानिर्वचनीयाविद्याकार्यत्वं प्रपञ्चे शुक्तिरजते च सिध्यति । तथा हि । प्रपञ्चः शुक्तिरजतं वा सकारणकं कादाचित्कत्वादङ्कुरादिवत् । व्यतिरेकेण ब्रह्मवदित्यनुमानेन प्रपञ्चशुक्ति-रजतयोः सकारणकत्वे सिद्धे तत्कारणं सदसद्वा । नाद्यः । सत्यस्य ब्रह्मवत्क्रियावेशशून्यस्य कारणत्वायोगात् । न द्वितीयः । सकलसामर्थ्य-विधुरस्य शशविषाणवत्कारणत्वानुपपत्तेरित्येवं परिशेषेण कारणस्य सदसत्त्वयोर्निषेधे सदसद्विलक्षणानिर्वचनीयाविद्याकार्यत्वमेव परिशेषेण सिद्ध्यतीति नोक्तदोष इति शङ्कते ॥ नन्वित्यादिना ॥ व्याप्त्यभावादिति । कदाचित्प्रतीयमाने ब्रह्मणि सकारणत्वाभावात् । तार्किकरीत्या संयुक्तसमवायादिरूपसन्निकर्षसद्भावदशायामेव कदाचित्प्रतीयमानघटत्व-रूपत्वादिजातौ च नित्यतया सकारणकत्वाभावेन व्यभिचारादिति भावः ॥ असिद्धत्वादिति । विश्वं सत्यं वशे विष्णोर्नित्यमेव प्रवाहतः । अनाद्यनन्तं जगदेतदीदृक् प्रवर्तत इत्यादि वाक्यैर्जगत्प्रवाहस्यानादित्वावगमेन कदाचि-दुत्पन्नत्वाभावाद्धेतोरसिद्धिः स्यात् । तथा शुक्तिरजतस्याप्यत्यन्तासत्त्वेन कदाचिदुत्पन्नत्वाभावाद्दृष्टान्ते हेतोरसिद्धिः स्यात् । साधनवैकल्यं स्यादिति यावदित्यर्थः ॥ त्रिविधोऽपीति । दृश्यत्वजडत्वपरिच्छिन्नत्व-रूपत्रिविधोऽप्यनुमानप्रयोग इत्यर्थः । परार्थानुमानस्य शब्दरूपत्वात्प्रयोग इत्युक्तम् ॥ छ ॥

वादावलीविवरणं

विमतं मिथ्येत्यत्र मिथ्यापदेनानिर्वचनीयत्वस्याविद्यातत्कार्ययो-रन्यतरत्वस्य वा विवक्षायां दृष्टान्ते साध्यवैकल्यमित्याह ॥ अनिर्वचनीय-त्वेति । साध्यवैकल्यपरिहारं शङ्कते ॥ नन्विति ॥ सदसद्रूपत्वासम्भवा-दिति । कारणस्य सत्त्वेऽसत्त्वे वा शुक्तिरूप्यादेरपि तथात्वं स्यात् । कार्यस्य कारणस्वभावत्वात् । न चेष्टापत्तिः । ख्यातिबाधयोरनुपपत्तेरिति भावः । उपलक्षणं चैतत् । तस्य कारणस्य सादित्वासम्भवाच्च । अन्यथा तस्यापि कारणस्य कारणान्तरकल्पनाप्रसङ्गेनानवस्थाप्रसङ्गादित्यपि ग्राह्यम् । एवं सत्यनादित्वे सति सदसद्विलक्षणं यत्कारणं तदज्ञानमेव यदनादि स्वयं मिथ्या मिथ्योपादनं तदज्ञानमिति विवरणोक्तेः । ततश्च तज्जन्यत्वेऽविद्याकार्य-त्वमेव पर्यवसन्नमित्याह ॥ अविद्याकार्यमिति । अनिर्वचनीयं चेत्यपि ग्राह्यम् । अनिर्वचनीयाविद्याकार्यस्यानिर्वचनीयत्वावश्यम्भावात् । कार्यस्य कारणस्वभावत्वात् । एवञ्च पक्षद्वये न साधनवैकल्यमिति भावः ॥ व्याप्त्य-भावादिति । त्वद्रीत्या जीवब्रह्मण्येव मद्रीत्या परब्रह्मणि चानैकान्त्यादिति भावः ॥ असिद्धत्वादिति । रूप्यमुत्पन्नमिति प्रतीत्यभावाद्रूप्यस्योत्पन्नत्वे सकर्तृकत्वापाताच्चेति भावः ॥ छ ॥ इति मिथ्यात्वानुमानस्य दृष्टान्ते साध्यवैकल्यम् ॥ छ ॥

मिथ्यात्वानुमानस्य दृष्टान्ते साध्यवैकल्यनिरूपणम्