दोषगम्यत्वमुपाधिश्च
मिथ्यात्वानुमानस्य सोपाधिकत्वसमर्थनम्
दोषगम्यत्वमुपाधिश्च
वादावली
दोषगम्यत्वमुपाधिश्च । न च दृश्यत्वादिना प्रपञ्चेऽपि तत्साध्यम् । मिथ्यात्वसाधन इवात्रापि दोषप्रसक्तेः ॥ छ ॥ मिथ्यात्वानुमानस्य सोपाधिकत्वसमर्थनम् ॥ छ ॥
वादावलीभावदीपिका
एवं मिथ्यात्वहेतूनां प्रत्यक्षागमानुमानैर्बाधितविषयत्व-मभिधायाधुनोपाधिं चाह ॥ दोषेति । चशब्दो दूषणसमुच्चयार्थः । दोषेण गम्यत्वं दोषगम्यत्वं दोषजन्यज्ञानविषयत्वमित्यर्थः । मिथ्यात्वेन सम्मते शुक्तिरूप्यादौ तस्य सत्त्वेन साध्यव्यापकत्वात् साधनवति पक्षे क्लृप्ताति-दूरस्थत्वातिसामीप्यसौक्ष्म्यसमानद्रव्याभिघातादिदोषाणामभावस्य निश्चितत्वेन दोषगम्यत्वस्याभावात्साधनाव्यापकत्वमिति भावः । ननु दोषगम्यत्वं नोपाधिः साधनव्यापकत्वात् । विमतं दोषगम्यं दृश्यत्वाज्जडत्वात्परिच्छिन्नत्वाद्वा शुक्तिरूप्यवदिति तस्य पक्ष एव साधनसम्भवादित्याशङ्क्य निषेधति ॥ न चेति । यथा शुक्तिरजते तथा प्रपञ्चेऽपीत्यपेरर्थः । तद् दोषगम्यत्वमित्यर्थः । कुतो न साध्यमित्यतो हेतुमाह ॥ मिथ्यात्वेति । अत्रापि दोष-गम्यत्वसाधनेऽपीत्यर्थः । अयमाशयः । यथा मिथ्यात्वे दृश्यत्वादिना साध्ये दोषगम्यत्वमुपाधिरेवं दोषगम्यत्वे साध्ये मिथ्यात्वमुपाधिः स्यात् । न चोभयं युगपत्साध्यम् । तथाऽप्यन्यतरस्योपाधित्वानिस्तारात् । किञ्च यथा स श्यामो मित्रातनयत्वादित्यत्र शाकपाकजत्वमुपाधिः शाकपाकजत्वसाधने श्यामत्वमुपाधिरुभयसाधने त्वर्थान्तरमित्युच्यते । एवं दोषगम्यत्वमिथ्यात्वयो-र्द्वयोरपि युगपत्साधनेऽर्थान्तरत्वं दूषणं बोध्यम् । मिथ्यात्व एव विप्रति-पत्तेरिति ।
ननु तर्हि शाकपाकजत्ववदेवायं साधनाव्यापकत्वसन्देहात्सन्दिग्धोपाधिरेव स्यान्न निश्चितोपाधिरिति चेत् । सत्यम् । तथाऽपि पक्षे स्वाव्यावृत्तिसन्देहेन साध्यसन्देहाधायकत्वेन सन्दिग्धोपाधेरपि दूषकत्वात् । न चानुमानमात्रो-च्छेदकतया साध्यसन्देहस्यानुमित्यप्रतिबन्धकत्वेनादोषत्वमिति वाच्यम् । स्वरसवाहिनः साध्यसन्देहस्यानुमित्यप्रतिबन्धकत्वेऽप्युपाध्यादिशङ्काहितस्य बाधसन्देहोत्थापकतया वा सन्दिग्धानैकान्तिकोत्थापकतया वा तत्प्रतिबन्ध-कत्वेन स्वीकारात् । उक्तं च तत्त्वनिर्णयटीकायाम् । अन्यतरप्रामाण्येऽपि व्याघातसम्भवेन सन्दिग्धकालातीतत्वस्यानैकान्तिकत्वस्य वाऽऽपातादित्य-प्रयोजकत्वशङ्काहितस्य तस्य दोषत्वम् । यद्वा यथा दृश्यत्वादिना मिथ्यात्वे साध्येऽसिद्धविरुद्धानैकान्तिकत्वकालात्ययापदिष्टत्वादयो दोषा अभिप्रेतास्तथा तेनैव हेतुना दोषगम्यत्वस्यापि पक्षे साधनेऽसिद्धत्वादयो दोषाः प्रादुष्युः । तथा च दृश्यत्वादीनां पक्षे दोषगम्यत्वसाधनासमर्थत्वेन पक्षे तदसिद्धौ साधनाव्यापकत्वनिश्चयात्साध्यव्यापकत्वस्य च शुक्तिरूप्यादौ निश्चितत्वेन तद्व्यावृत्त्या पक्षे साध्याभावं निश्चयितुं समर्थमिति भवत्युपाधिरिति । इदमुप-लक्षणम् । विमतं प्रातिभासिकं दृश्यत्वाच्छुक्तिरूप्यवदित्यपि साधनसम्भवेना-भाससाम्यं च बोध्यम् ॥ छ ॥
वादावलीप्रकाशः
मिथ्यात्वानुमानस्योपाधिमप्याह ॥ दोषगम्यत्वमिति । दोषसहकृतेन्द्रियगम्यत्वं तज्जन्यज्ञानविषयत्वमित्यर्थः ॥ उपाधिश्चेति । मिथ्यात्वोपेते रजते साध्यव्यापकत्वाद्दृश्यत्वोपेते प्रपञ्चे तदभावेन साधना-व्यापकत्वाच्चेत्यर्थः । ननु साधनव्यापकोऽयमुपाधिः । न च प्रपञ्चस्य दोष-गम्यत्वे विवाद इति वाच्यम् । प्रपञ्चो दोषगम्यो दृश्यत्वादेरित्येवं दृश्यत्वा-दिना प्रपञ्चेऽपि तत्साधनादित्याशङ्क्य परिहरति ॥ न चेति । कुतो न चेदित्यत आह ॥ मिथ्यात्वसाधन इवेति । यथा दृश्यत्वेन मिथ्यात्वे साध्ये दोषगम्यत्वमुपाधिरेवं दृश्यत्वेन दोषगम्यत्वे साध्येऽत्रापि मिथ्यात्वमुपाधिरिति दोषप्रसक्तेः । तथा च परस्परोपाधिभावेनानुमानं दुष्टमिति भावः । यद्वा दृश्यत्वेन मिथ्यात्वे साध्ये यथा ब्रह्मणि व्यभिचाररूपो दोषो युक्त एवं दृश्यत्वेन दोषगम्यत्वे साध्येऽत्रापि ब्रह्मणि व्यभिचाररूपदोषप्रसक्ते-रित्यर्थः । तथा च ब्रह्मणि दृश्यत्वे सत्यपि दोषगम्यत्वाभावेन व्यभिचारापत्त्या दृश्यत्वेन दोषगम्यत्वस्य प्रपञ्चे साधयितुमशक्यतया साधनाव्यापकत्वेन युक्तं तस्योपाधित्वमिति भावः ॥ छ ॥
वादावलीविवरणं
स्वपक्षे पक्षादिप्रविभागानन्तरमुपाधेः प्रतिपक्षोन्नायकतया दोषत्वा-त्प्रतिपक्षोन्नयने पुनरनुमानविरोध इत्यभिप्रेत्यानुमानविरोधोक्त्यनन्तरमुपाधिमाह ॥ दोषगम्यत्वमिति । दोषप्रयुक्तभानत्वमित्यर्थः । अयं चोपाधिः स श्यामो मित्रातनयत्वादित्यत्र शाकपाकजत्ववत्सन्दिग्धोपाधिः साधना-व्यापकतायाः सन्दिग्धत्वादिति बोध्यम् । ननु कथं सन्दिग्धोपाधेर्दोषत्वम् । तद्व्यतिरेकस्य सन्दिग्धत्वेन सन्देहापत्त्या प्रतिपक्षासम्भवादिति चेन्मैवम् । पाक्षिकसिद्ध्यादिनाऽपि प्रतिपक्षफलस्य सन्देहस्य सिद्धेः । न च सन्देहाङ्गत्वे समबलत्वाभावः । सन्देहानङ्गत्वस्यैव समबलशब्दार्थत्वेन प्रकृतेति समबलत्वोपपत्तेः । स्पष्टं चैतत्तर्कताण्डवे । तत्रैवानुसन्धेयः । ननु दृश्यत्वादिना दोषगम्यत्वस्य पक्षे साधनादुपाधिः साधनव्यापक इत्याशङ्क्य निराचष्टे ॥ न चेति ॥ अत्रापि दोषप्रसक्तेरिति । दोषगम्यत्वस्य साधने मिथ्यात्वाख्योपाधिप्रसक्तेरित्यर्थः । न च युगपदुभयं साध्यम् । अर्थान्तर-त्वात् । यदाह गङ्गेशः । उभयसाधनेऽर्थान्तरता । एकमात्रे हि विवादो न तूभयत्रेति ॥ छ ॥ मिथ्यात्वानुमानस्य सोपाधिकत्वसमर्थनम् ॥ छ ॥
मिथ्यात्वानुमानस्य सोपाधिकत्वसमर्थनम्