विप्रतिपन्नं सत्यं प्रमाणदृष्टत्वाद्ब्रह्मवदित्यनु-मानविरोधश्च
मिथ्यात्वानुमानस्यानुमानविरोधः
विप्रतिपन्नं सत्यं प्रमाणदृष्टत्वाद्ब्रह्मवदित्यनु-मानविरोधश्च
वादावली
विप्रतिपन्नं सत्यं प्रमाणदृष्टत्वाद्ब्रह्मवदित्यनु-मानविरोधश्च । न च साध्यानिरुक्तिः । अबाध्यतायाः साध्यत्वात् । तस्याश्च ब्रह्मणि सिद्धत्वान्नाप्रसिद्धविशेषणता । ननु किमिदं प्रमाणदृष्टत्वम् । तात्त्विकप्रमाणदृष्टत्वमतात्त्विक-प्रमाणदृष्टत्वं वा । नाद्यः । अस्माकमसिद्धेः । प्रत्यक्षादि-प्रमाणानां तत्त्वावेदकताऽनभ्युपगमात् । नोत्तरः । तवा-सिद्धेः । साधनविकलत्वं च दृष्टान्तस्येति ।
वादावलीभावदीपिका
एवं मिथ्यात्वहेतूनां प्रत्यक्षागमविरोधमभिधायाधुनाऽनुमानविरोधं चाह ॥ विप्रतिपन्नमिति । अत्र यद्यपि प्रत्यक्षविरोधकथनानन्तरं क्रमप्राप्तानुमानविरोधमुक्त्वा पश्चादागमविरोधकथनमुचितम् । तथाऽप्यनुमानस्य स्वातन्त्र्येण साधकबाधकत्वान्यतराशक्तत्वात्प्रत्यक्षागमान्यतरमूलकस्यैव तच्छक्तत्वेन तदुभयनिरूपणानन्तरमेतन्निरूपणमिति ध्येयम् । विप्रतिपन्नं सत्यत्वमिथ्यात्वाभ्यां विवादविषयीभूतम् । असत्प्रातिभासिकब्रह्मान्य-जगदित्यर्थः । सत्यमबाध्यम् । प्रमाणदृष्टत्वात्प्रमाणजन्यज्ञानं प्रत्यनिषेध्यत्वेन साक्षाद्विषयत्वादित्यर्थः । दृष्टत्वाज्ज्ञानविषयत्वादित्युक्तौ शुक्तिरूप्ये व्यभिचारः । अतः प्रमाणेति । प्रमितिविषयत्वादित्यर्थः । तावत्युक्तेऽपि रूप्यज्ञानवानहमिति व्यवसायद्वारा शुक्तिरूप्यस्यापि साक्ष्यादिरूपप्रमा-विषयत्वाद्व्यभिचार एव । अतः साक्षादिति । अव्यवधानेनेत्यर्थः । तावत्युक्तेऽप्यसद्रजतमिति बाधरूपप्रमां प्रति साक्षाद्विषयत्वेन पुनर्व्यभिचारः। अतोऽनिषेध्यत्वेनेति विशेषणम् ॥ ब्रह्मवदिति । शुद्धब्रह्मवदित्यर्थः । ब्रह्मणो वृत्तिव्याप्यत्वमतेनेदं दृष्टान्तकथनमतो न साधनवैकल्यम् । अत्र व्याप्त्यनभिधानं तदभिधाननियमाभावसूचनाय ।
ननु सत्यमित्यत्र किमिदं सत्यत्वं सत्ताजातिर्वा विधिगम्यत्वं वाऽर्थक्रियाकारित्वं वा प्रातिभासिकेतरत्वं वाऽसदतिरिक्तत्वं वा । सर्वस्यापि मयाऽङ्गीकृतत्वेन सिद्धसाधनादन्यस्यानिरूपणादित्याशङ्क्य निषेधति ॥ न चेति । अभिमतसत्यशब्दार्थमाह ॥ अबाध्यताया इति । साध्यत्वा-त्सत्यशब्दार्थत्वात् । एतेन सत्यत्वं नाम व्यावहारिकसत्त्वमुत पारमार्थिकसत्त्वम् । आद्ये सिद्धसाधनं साध्यहीनता दृष्टान्तस्य । अन्त्ये सिद्धान्ते व्यर्थविशेषणत्वं व्यावर्त्याभावादिति निरस्तम् । बाधाभावस्यैव साध्यत्वात् । नन्वेवमपि सप्रकारकबाधाभावो वा निष्प्रकारकबाधाभावो वा साध्यः । आद्ये इष्टापत्तिः। वादिनः सप्रकारकपदवैय्यर्थ्यं च । अन्त्ये वादिनोऽप्रसिद्धिरिति चेन्न । बाधसामान्याभावस्यैव साधनात् । ननु बाधो नामान्यथाविज्ञातस्य सम्यग्विज्ञातत्वं चेत्तर्हि सिद्धान्तेऽपि पक्षसपक्षयोः क्षणिकत्वनिर्गुणत्वादिना ज्ञातस्य सत्यत्वसगुणत्वादिना प्रमितत्वाङ्गीकारा-द्बाधसाध्यवैकल्ये स्यातामिति चेन्न । प्रतिपन्नोपाधिस्थत्रैकालिकनिषेधा-प्रतियोगित्वस्यैव तदर्थत्वादिति भावः । नन्वबाध्यत्वमप्रसिद्धम् । प्रपञ्चमात्रस्य पक्षत्वात् । शुक्तिरूप्यस्य विपक्षत्वादित्यत आह ॥ तस्याश्चेति । त्रैकालिकनिषेधाप्रतियोगित्वरूपाबाध्यताया इत्यर्थः । सिद्धत्वाद्वादिप्रतिवादिनोरिति शेषः । न वा साध्यवैकल्यमिति वाक्यशेषः । ननु प्रमाणदृष्टत्वादित्यत्र किं तत्त्वावेदकप्रमाणविषयत्वमुतातत्त्वावेदक-प्रमाणविषयत्वं हेतुः । पक्षद्वयेऽप्यन्यतरासिद्धो हेतुरिति शङ्कते ॥ नन्विति । अस्माकमद्वैतिनाम् । असिद्धिमेवोपपादयति ॥ प्रत्यक्षादीति ॥ तवेति । सिद्धान्तिन इत्यर्थः । मतद्वयेऽपि दोषमाह ॥ साधनेति । ब्रह्मणस्तत्त्वावेदकमानवेद्यत्वादिति भावः ।
वादावलीप्रकाशः
मिथ्यात्वानुमानस्य प्रत्यक्षागमविरोधमुक्त्वाऽनुमानविरोधं चाह ॥ विप्रतिपन्नमिति । वियदादिकमित्यर्थः ॥ प्रमाणदृष्टत्वादिति । प्रमाणजन्यज्ञानविषयत्वादित्यर्थः । नन्वबाध्यत्वरूपसत्यत्वाख्यसाध्यस्य कुत्राप्यप्रसिद्धत्वादप्रसिद्धविशेषणत्वमनुमानस्येत्यत आह ॥ तस्याश्चेति । अबाध्यत्वरूपसत्यताया इत्यर्थः ॥ तात्त्विकप्रमाणेति । तत्त्वावेदक-प्रमाणेत्यर्थः ॥ अतात्त्विकेति । अतत्त्वावेदकेत्यर्थः । तामेवासिद्धिमुप-पादयाति ॥ प्रत्यक्षादीति ॥ तवासिद्धेरिति । प्रत्यक्षादिप्रमाणानां त्वया
तत्त्वावेदकत्वानभ्युपगमादिति भावः ॥ साधनविकलत्वं चेति । ब्रह्मणः स्वप्रकाशत्वेनावेद्यतया प्रमाणजन्यज्ञानविषयत्वरूपप्रमाणदृष्टत्वाभावादिति भावः ।
वादावलीविवरणं
दृश्यत्वादेरनुमानबाधमाह ॥ विप्रतिपन्नमिति । अत्र प्राग्वद्विप्रतिपन्नशब्दार्थो बोध्यः ॥ प्रमाणदृष्टत्वादिति । ननु प्रमाणदृष्टत्वं नाम प्रमाणविषयत्वं तच्च शुक्तिरूप्यादौ व्यभिचारि । तस्यापि व्यवसाय-द्वाराऽनुव्यवसायविषयत्वात् । साक्षात्प्रमाविषयत्वविवक्षायामपि तदनिवृत्तिः । शुक्तिरूप्यादेरपि बाधकज्ञानं प्रति निषेध्यत्वेन साक्षाद्विषयत्वादिति चेत् । मैवम् । अनिषेध्यत्वेन प्रमां प्रति साक्षाद्विषयत्वस्य प्रमाणदृष्टत्वपदेन विवक्षितत्वात् ॥ तात्त्विकेति । तत्त्वावेदकेत्यर्थः । यथाश्रुते परमते प्रमाणमात्रस्यातात्त्विकत्वाद्विकल्पायोग इति बोध्यम् ।
मैवम् । प्रत्यक्षादिप्रमाणानामतत्त्वावेदकत्वे मानाभावात्
वादावली
मैवम् । प्रत्यक्षादिप्रमाणानामतत्त्वावेदकत्वे मानाभावात् । प्रत्यक्षादिकं तत्त्वावेदकं प्रमाणत्वात्सत्य-ज्ञानादिवाक्यवत् । अन्यथा प्रामाण्यमेव न स्यात् । प्रपञ्च-स्तत्त्वावेदकप्रमाणदृष्टः । सम्प्रतिपन्नभ्रान्तपदार्थेतरत्वाद्ब्रह्मवत् । आत्मत्वमुपाधिरिति चेन्न । अबाध्यत्वादेरात्मत्वस्य पक्षे सम्भवात् । अन्यथाऽऽत्मत्वस्याप्यभावः स्याद्ब्रह्मणि ।
वादावलीभावदीपिका
आद्यपक्षमभ्युपेत्य तत्रासिद्धिमुद्धरति ॥ प्रत्यक्षादीति । यथायथं घटपटादिप्रपञ्चग्राहकप्रत्यक्षादिप्रमाणानामित्यर्थः ॥ मानाभावादिति । न च विश्वमिथ्यात्वमेव तन्मानमिति वाच्यम् । मिथ्यात्वसिद्धौ प्रत्यक्षादेर-तत्त्वावेदकत्वसिद्धिरतत्त्वावेदकत्वसिद्धौ मिथ्यात्वसिद्धिरित्यन्योन्याश्रय इति भावः । ननु प्रत्यक्षादेरतत्त्वावेदकत्वे मानाभावेऽपि न तत्त्वावेदकत्वम् । तत्साधकाभावात् । तथा चासिद्धिरेवेत्याशङ्क्य तामुद्धर्तुमाह ॥ प्रत्यक्षादिक-मिति । हेतोरप्रयोजकतामुद्धरति ॥ अन्यथेति । प्रत्यक्षादेरतत्त्वावेदकत्व इत्यर्थः । तत्त्वावेदकस्यैव प्रमाणत्वादिति भावः । एवं प्रत्यक्षादेस्तत्त्वा-वेदकत्वं प्रसाध्य पक्षे हेतुसिद्धिं साधयति ॥ प्रपञ्च इति । साक्षादनिषेध्यत्वेन तादृशप्रमाणविषय इत्यर्थः ॥ सम्प्रतिपन्नेति । भ्रमविषयत्वेनोभयवादिसिद्धो योऽर्थस्तद्भिन्नत्वादित्यर्थः ॥ उपाधेः साधनव्यापकतामाह ॥ अबाध्यत्वादेरिति । अबाध्यत्वज्ञानत्वज्ञाना-धारत्वात्मपदवाच्यत्वादिप्रागुक्तात्मत्वविकल्पानां पक्षेऽ नेनैव हेतुना साधनसम्भवादित्यर्थः । ज्ञानत्वादेरपि पक्षैकदेशे सत्त्वादिति भावः ॥ अन्यथेति । उक्तहेतुनाऽबाध्यत्वादिरूपात्मत्वस्य पक्षेऽसिद्धौ तादृशहेतुमति ब्रह्मण्यप्यात्मत्वं न स्यादविशेषात् । तथा च साधनव्यापकतेति भावः । तथा च तत्त्वावेदकप्रमाणविषयत्वरूपो हेतुर्नासिद्ध इत्यखण्डतात्पर्यम् ।
वादावलीप्रकाशः
तत्त्वावेदकप्रमाणदृष्टत्वमेव हेतुतया विवक्षितमित्यभिप्रेत्य तत्रोक्तामसिद्धिं परिहरति ॥ प्रत्यक्षादीति । प्रत्युत तत्त्वावेदकत्वे मानं चास्तीत्याह ॥ प्रत्यक्षादिकमिति । अत्राप्रयोजकत्वमाशङ्क्य हेतूच्छित्तिरूपं बाधकतर्कमाह ॥ अन्यथेति । प्रत्यक्षादीनां तत्त्वावेदकत्वे प्रत्यक्षादि-पक्षकानुमानमुक्त्वा प्रपञ्चपक्षकमप्यनुमानमाह ॥ प्रपञ्च इति । घटादि-पदार्थेतरशुक्तिरूप्ये व्यभिचारवारणाय भ्रान्तेति पदार्थविशेषणम् । प्रपञ्चस्यापि ब्रह्मण्यारोपितत्वस्य परेणाङ्गीकृतत्वाद्भ्रान्तपदार्थेतरत्वस्य स्वरूपासिद्धिवारणाय सम्प्रतिपन्नेत्युक्तम् । तथा च प्रातिभासिकेतरत्वादित्युक्तं भवति । तथा च नासिद्धिरिति भावः । न चासिद्धिवारकतया विशेषणस्य वैय्यर्थ्यं शङ्क्यम् । व्याप्तिवत्पक्षधर्मताया अप्यनुमानाङ्गत्वेन तदुपपादकतया सार्थकत्वात् । चक्षुस्तैजसं रूपादिषु पञ्चसु मध्ये रूपस्यैवाभिव्यञ्चकत्वादित्यादाव-सिद्धिवारकविशेषणस्यापि दर्शनाच्च । अन्यथा व्यभिचारवारकविशेषणमपि न देयं स्यादिति द्रष्टव्यम् । अस्मिन्ननुमाने उपाधिमाशङ्कते ॥ आत्मत्व-मिति । ब्रह्मणि साध्यव्यापकत्वात्साधनवति पक्षे प्रपञ्चे आत्मत्वाभावेन साधनाव्यापकत्वाच्चात्मत्वमुपाधिरिति भावः । साधनव्यापकत्वा-न्नायमुपाधिरित्याह ॥ अबाध्यत्वादेरिति । आदिपदेन सत्त्वग्रहणम् । नन्वबाध्यत्वादेः प्रपञ्चे मयाऽनङ्गीकारात्साधनाव्यापकत्वं भविष्यत्येवेत्यत उक्तम् ॥ हेतोरिति । प्रातिभासिकेतरत्वहेतुनाऽबाध्यत्वादेः पक्षे साधयितुं शक्यत्वेन साधनव्यापकत्वं युक्तमेवेति भावः । निरुक्तहेतुना प्रपञ्चेऽ-बाध्यत्वादिरूपात्मत्वानङ्गीकारे बाधकमाह ॥ अन्यथेति । आत्मत्वस्य ब्रह्मण्यप्यभावः स्यादित्यपिशब्दसम्बन्धः । तथा च साध्याव्यापकत्वं स्यात् । एवञ्च तत्परिहारायोक्तहेतुनैव तत्राबाध्यत्वादिरूपात्मत्वे साधनीये तत्प्रपञ्चेऽपि समानमिति साधनव्यापकत्वमेवेति भावः ।
वादावलीविवरणम्
आद्यपक्षमभ्युपेत्य सिद्धान्तयति ॥ मैवमिति । तत्रोक्तदोषं निरस्यति ॥ प्रत्यक्षादीति । नन्वतत्त्वावेदकत्वे मानाभावमात्रेण न तत्त्वावेदकत्वसिद्धिः । मानाधीनत्वान्मेयसिद्धेरित्यत आह ॥ प्रत्यक्षादिक-मिति । अप्रयोजकतां निरस्यति ॥ अन्यथेति । प्रामाण्ये सत्यपि तत्त्वावेदकत्वानङ्गीकारे प्रामाण्यमेव न स्यात् । तस्य तत्त्वावेदनरूपत्वात् । तथा च व्याघात इत्यर्थः । नन्वस्तु प्रत्यक्षादेस्तत्त्वावेदकत्वं तावताऽपि नासिद्धिपरिहारः । विश्वस्य तादृशप्रमाणविषयत्वे मानाभावादित्यत आह ॥ प्रपञ्च इति ॥ सम्प्रतिपन्नेति । शुक्तिरूप्यादिवारणाय भ्रान्ति-पदार्थेतरेति । परेण पक्षेऽपि भ्रान्तत्वाङ्गीकारादन्यतरासिद्धिव्यावृत्त्यै सम्प्रतिपन्नेति । न चासिद्धिवारकविशेषणवैय्यर्थ्यम् । व्याप्तिग्रहौपयिकतया व्यभिचारवारकस्येव पक्षधर्मताग्रहौपयिकतयाऽसिद्धिनिवारकस्यापि सार्थक्याङ्गीकारे बाधकाभावात् । अत्यन्तासत्यनैकान्तिकत्ववारणाय विशेषणम् । न च तदप्यसदादिपदवाच्यमिति वाच्यम् । यौगिकशब्दाना-मवयवसङ्गत्यतिरेकेण पृथक् सङ्गत्यनपेक्षतयाऽवाच्यस्याप्यसतोऽसत्पदेन बोधनसम्भवात् । उक्तं चैवमेव न्यायामृते ख्यातिबाधान्यथाऽनुपपत्तिभङ्गे ॥ आत्मत्वमिति । विमतं सत्यमित्यनुमाने प्रपञ्चस्तत्त्वावेदकप्रमाणदृष्ट इत्यनुमाने चोपाधिप्रतिपादनपरत्वादस्य ग्रन्थस्यात्र निवेशोऽतो न पूर्वोत्तरैक-वाक्यताभङ्ग इति बोध्यम् । किमिहात्मत्वं सद्रूपत्वाबाध्यत्वात्मपद-लक्ष्यत्वान्यतमत्वं विवक्षितं जातिज्ञानत्वज्ञानाधारत्वस्वप्रकाशत्वात्मपद-वाच्यत्वान्यतमत्वं वा । आद्य आह ॥ अबाध्यत्वादेरिति ॥ सम्भवा-दिति । साधनसम्भवादित्यर्थः । उक्तहेतुनेति शेषः । तथा चोपाधेः साधान-व्यापकत्वमिति भावः । अन्त्ये आह ॥ अन्यथेति । तथा च जात्यादि-निरूप्यस्यात्मत्वस्यात्मन्यपि त्वद्रीत्याऽभावात्साध्याव्यापकतेति भावः ।