असत्यमप्रतिष्ठं ये जगदाहुरनीश्वर’’मित्यादि
मिथ्यात्वानुमानस्य स्मृतिविरोधः
‘‘असत्यमप्रतिष्ठं ये जगदाहुरनीश्वर’’मित्यादि
वादावली
‘‘असत्यमप्रतिष्ठं ये जगदाहुरनीश्वर’’मित्यादि-निरवकाशस्मृतिविरोधश्च । न चात्रासत्यशब्दोऽत्यन्तासत्परोऽ-त्यन्तासत्त्वाभ्युपगन्तुर्वादिन एवाभावादाहुरित्यस्यायोगादिति ॥ छ ॥ मिथ्यात्वानुमानस्य स्मृतिविरोधः ॥ छ ॥
वादावलीभावदीपिका
एवं श्रुतिविरोधमुक्त्वा विश्वमिथ्यात्वस्य स्मृत्या निन्दनाच्च तद्बाध्यञ्चेत्याह ॥ असत्यमिति । त आसुराः स्वयं नष्टा जगतः क्षयकारिण इत्युत्तरार्धेन तेषां निन्दनादिति भावः ॥ निरवकाशेति । श्रुतिवन्निषेध्यसमर्पकत्वेन व्यावहारिकसत्त्वपरत्त्वेन वा शङ्कानवकाशादित्यर्थः । आदिपदेन ‘‘एवम्भूतो महाविष्णुर्यथार्थं जगदीदृशम् । अनाद्यनन्तकालीनं ससर्जात्मेच्छया प्रभुरि’’ति वाराहवचनं, नाभाव उपलब्धेर्वैधर्म्याच्च न स्वप्नादिवदित्यादिसूत्रं च गृह्यते । ननु भवेदयं स्मृतिविरोधो जगतोऽसत्त्वं ब्रुवतां शून्यवादिनामेव नास्माकम् । अस्माभिर्जगतोऽसद्वैलक्षण्याभ्युपगमेन व्यावहारिकसत्त्वस्वीकारादित्याशङ्क्य निषेधति ॥ न चेति ॥ वादिन एवाभावादिति । शून्यवादिमतेऽप्यर्थक्रियाकारित्वादिना शशशृृङ्गादि-वैलक्षण्यसत्त्वात् । प्रतिपन्नोपाधौ निषेधप्रतियोगित्वेन तद्वैलक्षण्यस्याद्वैतिमत इव भावाद्व्यावहारिकसत्त्वस्य च तन्मतेऽपि भावात्–
द्वे सत्त्वे समुपाश्रित्य बुद्धानां धर्मदेशना ।
लोके संवृतसत्यत्वं सत्त्वं च परमार्थतः ।
सत्त्वं तु द्विविधं प्रोक्तं सांवृतं पारमार्थिकम् ।
सांवृतं व्यावहार्यं स्यान्निवृत्तौ पारमार्थिकम् ॥
इति बौद्धोक्तेरिति भावः । अत एवोक्तं भगवत्पादैः । ‘‘न च शून्यवादिनः सकाशाद्वैलक्षण्यं मायावादिन’’ इति । ननु माऽस्त्वत्यन्ता-सत्त्वाभ्युपगन्ता वादी स्मृतिकर्ता व्यासः स्वयमेवासत्त्वमाशङ्क्य निषेधतीति किन्न स्यादित्यत आह ॥ आहुरिति । इतिशब्दः श्रुत्यादिबाधसमाप्तौ
॥ छ ॥
वादावलीप्रकाशः
मिथ्यात्वानुमानस्य श्रुतिविरोधमुक्त्वा स्मृतिविरोधं चाह ॥ असत्यमिति । अप्रतिष्ठं ज्ञानबाध्यम् । इत्यादीत्यादिपदेन त आसुराः स्वयं नष्टा जगतः क्षयकारिण इति वाक्यशेषग्रहणम् ॥ विरोधश्चेति । अत्र जगदसत्यत्ववादिनामासुरत्वोक्त्या निन्दनादिति भावः । नन्वत्र जगतोऽत्यन्तासत्त्वं वदतां वादिनामेव निन्दा प्रतीयते न तु सदसद्वैलक्षण्यरूपमिथ्यात्वं वदतां मायावादिनामतो नास्माकमेतत्स्मृतिविरोध इत्याशङ्क्य परिहरति ॥ न चात्रेति । कुतो न चेत्यत आह ॥ अत्यन्तासत्त्वेति । अत्रासत्यशब्दस्यात्यन्तासत्त्वपरत्वे जगदसत्यमाहु-रित्यस्य जगदत्यन्तासदाहुरित्यर्थः स्यान्न चैवं सम्भवति जगदत्यन्तासत्यत्व-वादिनः कस्याप्यभावात् । साङ्ख्यवैशेषिकादिभिर्जगतः पारमार्थिक-सत्यत्वाङ्गीकारात् । शून्यवादिभिर्बौद्धैरपि वैभाषिकादिभिर्यत्सत्तत्क्षणिक-मित्यङ्गीकुर्वद्भिः पञ्चस्कन्धात्मकस्य जगतः सांवृतसत्त्वाङ्गीकारादाहु-रित्यस्यानुपपत्तिप्रसङ्गादतस्तदन्यथाऽनुपपत्त्याऽसत्यशब्दस्यात्यन्तासत्त्व-परत्वानुपपत्तेः सदसद्वैलक्षण्यरूपमिथ्यात्वपरत्वमित्येव वाच्यमिति तथा वदतां मायावादिनामेव निन्दनं स्मृत्यभिप्रेतमिति ज्ञायत इति भावः ॥ छ ॥
वादावलीविवरणम्
मिथ्यात्वानुमानस्य स्मृतिविरोधं चाह ॥ असत्यमिति ॥ निरवकाशेति ॥ त आसुराः स्वयं नष्टा इत्युत्तरत्र निन्दार्थानुवादेन स्मृतेर्जगत्सत्यत्वे तात्पर्यावगमादिति भावः । ननु मिथ्यात्वानुमानस्य न स्मृतिविरोधः । तस्याः शून्यवादमतनिरासार्थत्वात् । तन्मते जगतोऽसत्यता-सत्त्वेनात्यन्तासत्त्वार्थकासत्यशब्दसामञ्जस्यात् । मन्मतेऽसद्विलक्षणत्वेन तदयोगादित्याशङ्क्य निराकरोति ॥ न चेति ॥ वादिन एवेति । अर्थक्रियाकारित्वादिनाऽसद्वैलक्षण्यस्य शून्यवादिमतेऽपि सत्त्वादिति भावः । ननु माऽस्त्वत्यन्तासत्त्वाभ्युपगन्ता वादी । तथाऽपि स्मृतिकर्ता व्यासः स्वयमेवाशङ्क्य निषेधतीति किन्न स्यादित्यत आह ॥ आहुरिति ॥ छ ॥ मिथ्यात्वानुमानस्य स्मृतिविरोधः ॥ छ ॥
मिथ्यात्वानुमानस्य स्मृतिविरोधः