विश्वं सत्यमित्याद्यागमविरोधश्च
मिथ्यात्वानुमानस्य श्रुतिविरोधः
विश्वं सत्यमित्याद्यागमविरोधश्च
वादावली
विश्वं सत्यमित्याद्यागमविरोधश्च । व्यावहारिकं सत्त्वमत्रोच्यत इति चेन्न । निर्बीजत्वात्कल्पनायाः । व्यर्थं च प्रपञ्चे व्यावहारिकसत्यत्वप्रतिपादनम् । न हि कश्चिल्लौकिको वैदिको वा व्यावहारिकसत्यतां प्रपञ्चे नाभ्युपैति । तस्माद्वादि-प्रसिद्धमिथ्यात्वनिषेधेन पारमार्थिकसत्त्वमेव प्रतिपाद्यते । अप्राप्ते शास्त्रमर्थवदिति न्यायात् । नेह नानेत्यादिश्रुतिनिषेध्य-समर्पकतयाऽनुवदति विश्वसत्यतावाक्यमिति चेन्न । तथा सति विश्वं सत्यमित्यादिवचनविधानसिद्ध्यर्थं नेह नानेत्यनुवाद इति प्रसङ्गात् ।
वादावलीभावदीपिका
तदेवं प्रत्यक्षे स्वतः प्राप्तप्रामाण्यस्य बाधकाभावेन निश्चित-प्रामाण्यकेन प्रबलेन प्रत्यक्षेण मिथ्यात्वानुमानस्य बाधमुक्त्वाऽऽगमबाधं चाह ॥ विश्वमिति । विश्वं सत्यं मघवाना युवोरिदापश्चन प्रमिनन्ति व्रतं वामिति श्रुतेरयमर्थः । हे मघवानौ धनवन्तौ युवयोः सम्बन्धीदं विश्वं सङ्कोचकाभावात्प्रत्यक्षादिसिद्धं सर्वं सत्यं ब्रह्मवदबाध्यम् । अत एव तादृशविश्वान्तर्गतत्वादेव वां व्रतं तदर्थं कर्मविशेषम् । आपश्चनाबभिमानिन्यो देवता अपि प्रमिनन्ति प्रतीत्या विषयीकुर्वत इति । आदिपदेन यच्चिकेत सत्यमित्तन्न मोघं वसुस्पार्हमुत जेतोत दाता । याथातथ्यतोऽर्थान् व्यदधाच्छाश्वतीभ्यः समाभ्यः । सत्यः सो अस्य महिमा, अथैनमाहुः सत्य-कर्मेति । सत्यं ह्येवेदं विश्वमसौ सृजते । कथमसतः सज्जायेतेत्यादिश्रुतयः । विरोधो बाध इत्यर्थः । ननु नानुमानस्यागमबाधः । भिन्नविषयत्वेना-विरोधात् । अनुमानं हि तात्त्विक सत्त्वाभावमवगाहते श्रुत्यादिकं व्यावहारिकसत्त्वमावेदयतीति भावेनाशङ्क्य निषेधति ॥ व्यावहारिकमिति । अत्र श्रुत्यादौ ॥ निर्बीजत्वादिति । व्यावहारिकसत्यत्वकल्पनाया मिथ्यात्वसिद्ध्युत्तरकालीनत्वेनाद्यापि तदसिद्ध्या कल्पकाभावादित्यर्थः । अन्यथा तत्सत्यमित्यादिब्रह्मसत्ताश्रुतिरपि प्रातिभासिकसत्त्वपरा स्यात् । न च मिथ्यात्वबोधकाद्वैतश्रुतिविरोधात्सत्यत्वश्रुतेर्व्यावहारिकत्वपरता कल्प्यत इति वाच्यम् । त्वत्पक्षे तस्या लक्षणयाऽखण्डचिन्मात्रपरत्वेन विश्वसत्ताऽविरोधित्वात् । असद्वा इत्यादिश्रुतिविरोधेन तत्सत्यमित्यादेः प्रातिभासिकसत्त्वपरत्वसाम्याच्च । न च ब्रह्मसत्त्वश्रुतिविरोधादसद्वा इदमित्यादिवाक्यमप्रमाणमन्यार्थं वेति वाच्यम् । विश्वसत्यत्वश्रुतिविरोधा-त्तन्मिथ्यात्वश्रुतिरप्रमाणमन्यार्था वेत्यपि साम्यात् । न च मिथ्यात्वश्रुतिः षड्विधतात्पर्यलिङ्गोपेतत्वात्प्रबलेति वाच्यम् । अत्रापि वाक्यशेषे आपश्चन प्रमिनन्तीति प्रामाणिकत्वरूपायाः सत्यमित्तन्न मोघमित्यर्थ-क्रियाकारित्वरूपायाश्चोपपत्तेस्तात्पर्यलिङ्गस्य सत्त्वात् । तस्मात्साधूक्तं निर्बीजत्वात्कल्पनाया इति । किञ्चैवमविप्रतिपन्नार्थबोधकत्वेनाग्निर्हिमस्य भेषजमितिवदनुपादेयमेव स्यादित्याह ॥ व्यर्थं चेति । वैय्यर्थ्यमेवो-पपादयति ॥ न हीति ॥ व्यावहारिकेति । असत्प्रातिभासिकविलक्षण-सद्रूपतामित्यर्थः ।
ननु भवतामप्ययं दोषः समानो विश्वसत्यत्वस्य विश्वजनीनत्वादित्याशङ्क्य वैदिकाभासविवादनिरासेनार्थवत्त्वमाह ॥ तस्मादिति । व्यावहारिकपरत्वे वैय्यर्थ्यप्रसङ्गादित्यर्थः । तत्र युक्तिमाह ॥ अप्राप्त इति । मानान्तरा-नवगतार्थं बोधयच्छास्त्रं सप्रयोजनमित्यर्थः । अत एव शासनादप्रतीतार्थ-बोधनाच्छास्त्रमिति वदन्तीति भावः । नन्वथाऽपि नागमादनुमानस्य बाधस्तस्य प्रत्यक्षावगतसत्त्वानुवादित्त्वेन दुर्बलत्वात् । न चानुवादित्वे तस्य वैय्यर्थ्यमिति वाच्यम् । नेह नानेति निषेधवाक्यापेक्षितप्रतियोगिसमर्पकत्वेन सार्थक्यादिति शङ्कते ॥ नेह नानेति । अनुवदति विश्वसत्यतामिति शेषः । निषेध्यसमर्पणाभावे निषेधानुपपत्तेरिति भावः । यदि विश्वसत्यतावाक्यं निषेध्यसमर्पकं तर्हि नियामकाभावेन नेह नानेति श्रुतिरेव बाध्यत्वरूप-बाधनिषेधाय विश्वबाधानुवादिनी किन्न स्यादित्याह ॥ तथा सतीति ॥ विधानेति । बाधाभावरूपाबाध्यत्वलक्षणसत्यताविधानार्थमित्यर्थः ॥ अनुवाद इति । तत्र प्रतियोगिभूतबाधानुवाद इत्यर्थः । अत्र यद्यपि विश्वं सत्यमिति न निषेधः । तथाऽपि न्यायनये तमःशब्दवत्सर्वमते प्रलयशब्दवच्चार्थगत्या भवत्येव निषेध इति भावः । उपलक्षणं चैतत् । नेह नानेति वाक्य एव किञ्चनेति निषेध्यार्पकस्य सत्त्वेन तद्धानेनातिदूरस्थ-कर्मकाण्डगतस्य विश्वं सत्यमित्यादेर्ब्रह्मकाण्डगतनेहनानेति वाक्य-निषेध्यार्पकताकल्पनमन्याय्यमिति च बोध्यम् ।
ननु न विश्वं सत्यमित्यनेन विश्वस्य सत्यत्वं विधातुं शक्यते । तस्याक्षसिद्धत्वेनाप्राप्त्यभावेन विधानायोगादिति चेत्तर्हि विश्वबाधस्यापि विज्ञानवादादितो दृश्यत्वादिकुतर्कैश्च प्राप्त्या नेह नानेत्यनेनापि तन्निषेधविधानायोगात् । किञ्च वर्तमानकतिपयमात्रविषय प्रत्यक्षा-प्राप्तसर्वप्रपञ्चनिष्ठत्रिकालाबाध्यत्वरूपसत्त्वविधानसम्भावाच्च । अन्ये तु अक्षसिद्धस्य सत्त्वस्य नेह नानेत्यादिना निषिद्धस्य प्रतिप्रसवार्थं विश्वं सत्यमित्यादि किन्न स्यादिति विधानशब्दस्य प्रतिप्रसवार्थाभिधायकत्वमाहुः ।
वादावलीप्रकाशः
मिथ्यात्वानुमानस्यागमविरोधं चाह ॥ विश्वं सत्यमितीति ॥ निर्बीजत्वादिति । विश्वं सत्यमित्यादिश्रुतेर्व्यावहारिकसत्यताप्रतिपादकत्व-कल्पनाया निर्बीजत्वादित्यर्थः । ननु व्यावहारिकसत्यत्वस्य प्रपञ्चे केनाप्यनङ्गीकृतत्वेन तं प्रति तत्प्रतिपादनस्य सार्थकत्वादित्यत आह ॥ न हीति । लौकिको मूर्खो वैदिको विद्वान् । व्यावहारिकसत्यतामर्थ-क्रियाकारित्वादिरूपाम् ॥ नाभ्युपैतीति । येन तं प्रति तत्प्रतिपादनं सार्थकं स्यादिति भावः । ननु विश्वं सत्यमित्यादिश्रुत्या पारमार्थिकसत्यत्व प्रतिपादनमपि व्यर्थं तस्यापि सर्वैरङ्गीकृतत्वादित्यत आह ॥ वादि-प्रसिद्धमिति । मायावादिसमयसिद्धमिथ्यात्वनिषेधं हृदि निधायेत्यर्थः । समयानां प्रवाहतोऽनादित्वात्तत्प्राप्तप्रतिषेधः श्रुत्या कर्तुं युक्त एव । अनादिकालतो वृत्ताः समया हि प्रवाहत इत्युक्तत्वादिति भावः ।
ननु लौकिकवैदिकाभ्युपगमसिद्धाऽपि व्यवहारिकी सत्ता श्रुत्या प्रतिपाद्यतां को दोष इति चेन्न । तथात्वेऽपूर्वताभंगः स्यात् । कुत इत्यत आह ॥ अप्राप्त इति । प्रमाणान्तराप्राप्तेऽर्थे तत्प्रतिपादने क्रियमाणे सतीति यावत् । शास्त्रमर्थवत् । सार्थकं भवत्यपूर्वतालाभादित्यर्थः । अन्यथा ज्ञातज्ञापकत्वेन शास्त्रस्यानुपादेयत्वं स्यादिति भावः । ननु नेह नानाऽस्ति किञ्चनेति श्रुत्येह ब्रह्मणि किञ्चन किमपि नास्तीति विश्वमिथ्यात्वं प्रतिपाद्यते मिथ्यात्वं च सत्ताप्रतिषेधरूपं प्रतिषेधश्च प्रतियोगिप्रसक्तिपूर्वकः । तथा च विश्वं सत्यमित्यादिवाक्यं नेह नानाऽस्ति किञ्चनेति श्रुतिप्रतिषेध्यं यद्विश्वसत्यत्वं तत्समर्पकतया तत्प्रसञ्जकतया विश्वसत्यतामनुवदति । तथा च निषेधायानुवादरूपत्वान्न विश्वं सत्यमित्यादिवाक्यस्य स्वार्थे तात्पर्यमित्याशङ्कते ॥ नेह नानेति । वैपरीत्यस्यापि वक्तृं सुवचत्वादित्याह ॥ तथा सतीति ॥ वचनविधानसिद्ध्यर्थमिति । वचनेन सत्यत्व-विधानसिद्ध्यर्थमिति भावः । तथा च विश्वं सत्यमित्यादिना विश्वस्य सत्यत्वं विधातुं नेह नानेत्यादिना तन्मिथ्यात्वमनूद्यत इत्यपि स्यात् । तथा च नेह नानेति श्रुतेरपि न स्वार्थे तात्पर्यमिति भावः ।
वादावलीविवरणम्
॥ विश्वं सत्यमित्यादीति । आदिपदाद्यच्चिकेत सत्यमित्यादि-परिग्रहः । ननु विरोधित्वे सति प्राबल्यं बाधकत्वे तन्त्रम् । विश्व-सत्यत्वागमस्यानुमानग्राह्यमिथ्यात्वप्रतियोगिसत्त्वग्राहकत्वाभावेनाविरोधित्वान्न बाधकत्वमिति शङ्कते ॥ व्यावहारिकेति ॥ निर्बीजत्वादिति । व्यावहारिकत्ववाचकपदाभावादिति भावः । किञ्चैवं प्राप्तार्थबोधकत्वेनाग्निर्हिमस्य भेषजमित्यादिवदनुपादेयमेव स्यादित्याह ॥ व्यर्थं चेति । यद्वा व्यावहारिक-शब्देन किं बाध्यमुच्यत उताबाध्यमिति विकल्प्याद्य आह ॥ निर्बीजत्वा-दिति । श्रुतेर्बाध्यार्थबोधकत्वे भ्रान्तिहेतुत्वेनाप्रामाण्यप्रसङ्गादिति भावः । अन्त्य आह ॥ व्यर्थं चेति । अबाध्यत्वसत्त्वप्रतिपादकश्रुतेरनुवादकत्व-प्रसङ्गादिति भावः । अत्र व्यावहारिकपदेनाबाध्यत्वं विवक्षितं कुत इत्यत आह ॥ न हीति । यथा चाबाध्यं सत्त्वं सर्वजनप्रत्यक्षसिद्धं तथा प्रागुपपादितम् । व्यावहारिकसत्त्वपरत्वाभावमुपसंहरति ॥ तस्मादिति । व्यावहारिकसत्त्वपरत्वे उक्तदोषादित्यर्थः ।
ननु कथं श्रुतेः पारमार्थिकसत्त्वपरत्वं तथा सत्यनुवादकत्वप्रसङ्गात् । पारमार्थिकसत्त्वस्य प्रत्यक्षप्राप्यतायाः प्रागुक्तत्वादित्यत उक्तम् ॥ वादि-प्रसिद्धेति । जगत्सत्त्वस्य प्रत्यक्षप्राप्तत्वेऽपि श्रुतेर्नानुवादकत्वम् । औत-वाद्युक्तसत्त्वनिषेधार्थत्वेन प्रतिप्रसवार्थत्वात् । यथा क्त्वाप्रत्ययस्य कित्त्वे स्वतःप्राप्तेऽपि न क्त्वा सेडिति कित्त्वनिषेधार्थत्वेन मृडमृदेत्यादेर्न कित्त्वानु-वादकत्वं तद्वदिति भावः । ननु प्रत्यक्षप्राप्तार्थबोधकत्वेन श्रुतेरनुवादकत्व-मेवास्तु तावताऽपि न क्षतिर् याथार्थ्यरूपप्रामाण्यानपायात् । तत्किमप्राप्तार्थ-बोधकत्वोपपादनप्रयासेनेत्यत आह ॥ अप्राप्त इति । मानान्तरानवगतार्थ-बोधयच्छास्त्रं सप्रयोजनमिति न्यायार्थः । यदि श्रुतेः प्राप्तार्थबोधकत्वं स्यात्तदा प्रामाण्यमेव न स्यात् । वाक्यप्रामाण्यस्य फलवत्त्वेन व्याप्तत्वात् । व्यापकनिवृत्तौ व्याप्यनिवृत्तेरावश्यकत्वादिति भावः । नन्वस्तूक्तरीत्या श्रुतेर्बाधकत्वप्रयोजकं विरोधित्वं तथाऽपि न बाधकत्वप्रयोजकं प्राबल्यम् । विश्वसत्यत्वश्रुतेरनुवादकत्वात् । यद्यप्यनुवादकत्वं नास्तीत्युक्तं तथाऽपि तदवश्याङ्गीकार्यमेव । अन्यथा नेह नानेति श्रुतेरप्रसक्तप्रतिषेधत्वं स्यात् । एवञ्च श्रुतेरनुवादकत्वेऽङ्गीकृतेऽनधिगतार्थबोधकत्वरूपप्रामाण्याभावात्कथं प्राबल्यमिति शङ्कते ॥ नेह नानेत्यनुवदतीति । प्रत्यक्षप्राप्तं सत्त्वमिति शेषः । यदि विश्वसत्यतावाक्यं निषेध्यसमर्पकतयाऽनुवादकं तर्हि नेह नानेति वाक्यमेव विश्वसत्यतावाक्यनिषेध्यबाध्यत्वरूपमिथ्यात्वानुवादकं किन्न स्यात् । सत्यताया बाध्यत्त्वाभावरूपत्वेन विश्वं सत्यमिति वाक्यस्य बाध्यत्वनिषेध-कत्वादित्यत आह ॥ तथा सतीति ।
ननु नेह नानेत्यादेर्निषेधव्यापकतयाऽनुवादकत्वमयुक्तम् । निषेधवाचक-पदाभावेन विश्वं सत्यमित्यादेर्निषेधकत्वायोगात् । उच्यते । यथा निषेधविधुर-स्यापि मृडमृदेत्यादेर्न क्त्वा सेडिति कित्त्वभावनिषेधकत्वं तथा निषेध-शून्यस्यापि विश्वं सत्यमित्यादेर्नेह नानेत्यादिप्राप्तमिथ्यात्वनिषेधकत्वं सम्भवति । अत एवाह ॥ विधानसिद्ध्यर्थमिति । बाधाभावरूपाबाध्यत्व-लक्षणसत्यत्वविधानार्थमित्यर्थः ॥ अनुवाद इति । तत्र प्रतियोगिभूत-बाधानुवाद इत्यर्थः । अत्र यद्यपि विश्वं सत्यमिति न निषेधस्तथाऽपि न्यायमते तमःशब्दवत्सर्वमते प्रलयादिशब्दवच्च वस्तुगत्या भवत्येव निषेध इति बोध्यम् ।