सन्घट इत्यादिप्रत्यक्षेण बाधितविषयत्वा-त्कालात्ययापदिष्टश्च
मिथ्यात्वानुमानस्य प्रत्यक्षबाधः
सन्घट इत्यादिप्रत्यक्षेण बाधितविषयत्वा-त्कालात्ययापदिष्टश्च
वादावली
सन्घट इत्यादिप्रत्यक्षेण बाधितविषयत्वा-त्कालात्ययापदिष्टश्च । ननु केयं सत्यता या प्रत्यक्षगोचरा । किं सत्त्वं वा विधिगम्यत्वं वाऽर्थक्रियाकारित्वं वा प्रातिभासि-केतरत्वं वाऽसत्त्वातिरिक्तत्वं वाऽबाध्यत्वं वा । आद्यपञ्च-कान्यतमाभ्युपगमे नास्माकं प्रत्यक्षविरोधः । तस्यास्माभिर-निराकरणात् । न षष्ठः । प्रत्यक्षस्योत्तरकालीनबाधाभाव-ग्राहितायोगात् । तस्मात्सद्गन्धर्वनगरमित्यादिवदयं प्रत्यक्षेण सत्त्वग्रहणप्रवाद इति ।
वादावलीभावदीपिका
एवं दृश्यत्वादिहेतून् प्रातिस्विकरूपेणासिद्धविरुद्धानैकान्तिकत्वै-र्निराकृत्याधुना सर्वसाधारण्येन बाधितविषयत्वरूपदोषेणापि दुष्टतां वक्तृमाह ॥ सन्निति । आदिपदात्सन्पटः सत्सुखमित्यादि गृह्यते । ननु न मिथ्या-त्वानुमानस्य प्रत्यक्षबाधः । भिन्नविषयत्वेनाविरोधात् । यत्प्रत्यक्षवेद्यं सत्त्वं न तदभावोऽनुमानबोध्यः । यदभावोऽनुमानवेद्यो न तत्प्रत्यक्षवेद्यमिति भावेन शङ्कते ॥ नन्विति ॥ सत्त्वमिति । सत्ताजातिरित्यर्थः ॥ विधीति । घटोऽस्ति पटोऽस्तीत्यादिविधिमुखप्रत्ययविषयत्वमित्यर्थः ॥ तस्येति । आद्यपञ्चकान्यतमस्येत्यर्थः । अनिराकरणाद् अनुमानेनेति शेषः । अन्यथा शून्यवादापत्तेरिति भावः । अबाध्यत्वरूपसत्त्वस्यानुमानेन निराकरणेऽपि नाक्षबाधः । तस्य वर्तमानमात्रग्राहित्वेन त्रैकालिकनिषेधाप्रतियोगित्व-रूपाबाध्यत्वग्रहाक्षमत्वादिति भावेनाह ॥ न षष्ठ इति । नन्वबाध्यत्व-स्याक्षागोचरत्वे कथं घटसत्त्वं प्रत्यक्षमिति व्यवहार इत्यत आह ॥ तस्मादिति । अबाध्यत्वरूपसत्त्वस्याक्षागोचरत्वादित्यर्थः ॥ सद्गन्धर्व-नगरमिति । मायाविनिर्मितान्तरिक्षगतगन्धर्वनगरसत्त्वग्रहणवदित्यर्थः । शुक्तिरूप्यादिसत्त्वग्रहणमादिपदार्थः ।
वादावलीप्रकाशः
॥ बाधितविषयत्वादिति । बाधितसाध्यकविषयत्वादित्यर्थः ॥ कालात्ययापदिष्ट इति । दृश्यत्वादिहेतुसमुदाय इत्यर्थः । प्रश्नस्यासङ्गतिपरिहारायाह ॥ या प्रत्यक्षगोचरेति ॥ सत्त्वमिति । सत्ताजातिरित्यर्थः ॥ विधिगम्यत्वमिति । विधिबुद्धिविषयत्वमित्यर्थः ॥ अबाध्यत्वमिति । कालत्रयाबाध्यत्वमित्यर्थः । कुतो न विरोध इत्यत आह ॥ तस्येति । प्रतिपन्नोपाधौ त्रैकालिकसत्यताप्रतिषेधो मिथ्यात्वमिति वदद्भिरस्माभिस्तस्य प्रत्यक्षगृहीतस्याद्यपञ्चकान्यतररूपस्य सत्त्वस्या-निराकरणादित्यर्थः । तथात्व एव ह्यस्माकं प्रत्यक्षविरोधः स्यादिति भावः ॥ अयोगादिति । तस्य वर्तमानमात्रग्राहित्वेन कालत्रयाबाध्यत्वरूपसत्त्व-ग्राहकत्वाभावादिति भावः । तर्हि सन्घट इत्यादिप्रत्यक्षेण घटादिसत्त्वं गृह्यत इति प्रवादस्य का गतिरित्यत आह ॥ तस्मादिति । तस्मादबाध्यत्व-रूपसत्त्वस्य प्रत्यक्षागोचरत्वात् । तथा च मायाविनिर्मितान्तरिक्षगत-गन्धर्वनगरसत्त्वावगाहिप्रत्यक्षवज्जगत्सत्यत्वाव गाहिप्रत्यक्षमप्यप्रामाणिकमिति भावः ।
वादावलीविवरणम्
॥ किं सत्त्वमिति । सत्ताजातिरित्यर्थः ॥ आद्यपञ्चका-न्यतमाभ्युपगमेनेति । नन्वन्यतमशब्दः स्वभावाद्विषयस्यैव निर्धारणे वर्तते । न चात्र विषयनिर्धारणमस्ति । बहूनां प्रक्रान्तत्वेन तद्विषयस्यैव निर्धारणस्येह प्रस्तुतत्वात् । अतः कथमन्यतमेत्युक्तमिति चेत् । उच्यते । सत्वं विधिगम्यत्वं चेत्येकं द्वयमर्थक्रियाकारित्वं प्रातिभासिकेतरत्वं चेत्यपरद्वयमेवमादिरूपेण द्वौ द्वावभिप्रेत्यान्यतमेत्युक्तम् । अत एव तेषां मोहः पापीयानिति गौतमसूत्रे द्वौ द्वावभिप्रेत्य पापीयानित्युक्तम् । अन्यथा कथमीयसुन् ‘द्विवचनविभज्योपपदे तरबीयसुनौ’ इति सूत्रात् । रागद्वेषमोहानां च बहुत्वादिति भगवता तत्वोद्योतकारेण व्याख्यातम् ॥ अनिराकरणा-दिति । अन्यथा शून्यवादापत्तेरिति भावः ॥ प्रत्यक्षस्येति । वर्तमान-मात्रग्राहिण इति शेषः । अबाध्यत्वं कालत्रये बाधाभावः । एवञ्च वर्तमानमात्रग्राहिप्रत्यक्षं कथं कालान्तरीयबाधाभावं गृह्णीयात् । अतो भिन्नविषयत्वेन विरोधाभावान्न बाध्यबाधकत्वमिति भावः । विरोधित्वे सति प्राबल्यं बाधकत्वे तन्त्रम् । तत्र प्रत्यक्षस्य विरोधित्वाभावमुक्त्वा प्राबल्याभावं वदन्नुपसंहरति ॥ तस्मादिति ॥ गन्धर्वनगरमिति । मायाविनिर्मितान्त-रिक्षगतं गन्धर्वनगरमित्यर्थ इत्यूचुः । कल्पतरौ त्वभ्रेष्वारोपितं गृहादिकं गन्धर्वनगरमित्युक्तम् । तथा च गन्धर्वनगरप्रत्यक्षवत्कल्पितसत्त्वग्राहित्वान्न सत्यत्वग्राहिप्रत्यक्षस्य प्राबल्यम् । अन्यथा गन्धर्वनगरप्रत्यक्षस्यापि प्राबल्योपत्तेर्गन्धर्वनगरं नास्तीति प्रत्यक्षबाधकत्वापत्तेरिति भावः ।
मैवम् । अबाध्यतायाः प्रत्यक्षग्राह्यत्वात्
मैवम् । अबाध्यतायाः प्रत्यक्षग्राह्यत्वात्
वादावली
मैवम् । अबाध्यतायाः प्रत्यक्षग्राह्यत्वात् । न च तस्योत्तरकालीनबाधाभावाग्राहकत्वमिति वाच्यम् । तदानीमबाध्यताग्रहणेनैव तत्सिद्धेः । तत्कालीनाबाध्यता गन्धर्वनगरेऽपि गृह्यत इति चेत् । सत्यम् । तथाऽप्यस्ति विशेषः । प्रामाण्यं हि ज्ञानस्योत्सर्गतोऽपवादादप्रामाण्यमिति विद्वत्सम्मतिः । तथा च तत्र बाधकादप्रामाण्यमुपस्थाप्यते प्रकृते तु तादृशबाधकादर्शनात्त्रिकालाबाध्यतैव निरपवादा-त्सिध्यतीति ।
वादावलीभावदीपिका
निषेधति ॥ मैवमिति । किमक्षस्य प्रामाण्येऽपि त्रिकालाबाध्यत्व ग्रहणाक्षमतेत्यभिप्राय उत तस्य गन्धर्वनगरप्रत्यक्षवत्प्रामाण्यमेव नेति विकल्प्याद्ये यदनुमाननिषेध्यमबाध्यत्वं तदेव प्रत्यक्षग्राह्यं तथा च ग्राह्या-भावावगाहित्वेनाक्षस्यानुमानबाधकत्वं युक्तमिति भावेनाह ॥ अबाध्यताया इति । नन्वाबाध्यत्वं कालत्रये बाधाभावः । एवञ्च वर्तमानमात्रग्राहिप्रत्यक्षं कालान्तरीयबाधाभावं कथं गृह्णीयादित्याशङ्क्य निषेधति ॥ न चेति । प्रत्यक्षस्य वर्तमानसत्त्वग्राहित्वेऽपि स्वकाले स्वविषयसत्त्वं गृह्णत्प्रत्यक्षं त्रिकालासत्त्वं प्रतिबध्नात्येवेति भावेनाह ॥ तदानीमिति । स्वयं यदा विषयं गृह्वाति तदानीमित्यर्थः । तत्सिद्धेस्त्रिकालबाधाभावरूपाबाध्यत्वग्रहण-सिद्धेरित्यर्थः । अयमाशयः । त्रिकालासत्त्वाभावो हि द्वेधा । कदाचित्सत्त्वेन वा कालत्रयेऽपि सत्त्वेन वा । तत्र कालत्रयसत्त्वग्रहणे सामर्थ्याभावेऽपि कदाचित्सत्त्वग्रहणसमर्थेनाक्षेण कथं कालत्रयासत्त्वं न प्रतिबध्यमिति ।
ननु गन्धर्वनगरप्रत्यक्षवद्विश्वसत्त्वग्राहिप्रत्यक्षमप्रमाणमिति द्वितीयं गूढभावेन शङ्कते ॥ तत्कालीनेति । यदा गन्धर्वनगरं गृह्यते तत्कालावच्छेदेना-बाध्यतेत्यर्थः। विप्रतिपन्नाक्षस्याप्रामाण्यं किं प्रमाण्यस्य परतस्त्वेन तद्ग्राहकप्रमाणान्तरसंवादाभावाद्वा मिथ्यात्वग्राह्यनुमानादिबाधकाद्वोत गन्धर्वनगरप्रत्यक्ष इवात्रापि कालान्तरे किञ्चिद्बाधकं भविष्यतीति शङ्कामात्रेण वेति त्रेधा विकल्प्याद्ये सन्घट इतिवत्सद्गन्धर्वनगरमिति तस्य सत्त्वग्रहणेऽपि घटादिवन्नात्यन्ताबाध्यता प्रामाण्यस्य स्वतस्त्वेन संवादानपेक्षत्वेन बाधकैकापोद्यतया गन्धर्वनगरादौ बाधकेन तत्सत्त्वग्राहिणः प्रामाण्यत्यागेन तद्विषयस्यासत्त्वेऽपि न घटादौ तथा बाधकाभावादिति भावेन परिहरति ॥ सत्यमिति । तथाऽपि सन्घटः सद्गन्धर्वनगरमिति ज्ञानयोः सत्त्वग्रहण-साम्येऽपीत्यर्थः। अस्ति विशेष इत्युक्तमेव प्रामाण्याप्रमाण्यरूपं विशेषं विशदयितुमाह ॥ प्रामाण्यं हीति । तस्य युक्त्यादिसिद्धत्वं हिशब्दार्थः ॥ ज्ञानस्येति । प्रकृते तावतैवोपपत्त्या ज्ञानग्रहणम् । न तु करणप्रामाण्य-व्युदासाय । तस्याप्युत्पत्तौ स्वतस्त्वादिति ध्येयम् । यद्वेह ज्ञप्तावेव स्वतस्त्वकथनात्करणानां च ज्ञप्तौ परतस्त्वाज्ज्ञानग्रहणमिति बोध्यम् । उक्तं च प्रमाणपद्धतौ । ज्ञप्तिस्तु परत एव । इन्द्रियादिस्वरूपस्य यथायथं प्रमाण-वेद्यत्वात् । यथार्थज्ञानसाधनत्वस्यानुमानवेद्यत्वादिति । बाह्यैरप्रामाण्य-स्यौत्सर्गिकत्वाङ्गीकारात्कथं सम्मतिरित्यत उक्तम् ॥ विद्वदिति । परीक्षकाणामित्यर्थः । तार्किकाणामप्यविद्वत्त्वादिति भावः । किमतो यद्येवमित्यत आह ॥ तथा चेति । प्रामाण्यस्य बाधकैकापोद्यत्वे चेत्यर्थः । तत्र गन्धर्वनगरादिसत्त्वग्राहिणि । प्रकृते घटदिसत्त्वग्राहिणि ॥ तादृशेति । असदेव गन्धर्वनगरं प्रत्यभादिति विशेषदर्शनजन्यबलवत्प्रत्यक्षरूपेत्यर्थः । बाधकाभावस्यासिद्धतां व्युदसितुमदर्शनादित्युक्तम् । तेन निरपवादेत्यस्य नासिद्धिरिति भावः । तस्मात्प्रत्यक्षबाधः सुस्थ इति घट्टार्थः ।
नन्विदं रूप्यमितिवत्सन्घट इत्यत्रापि सदित्यधिष्ठानब्रह्मानुवेध एव न तु घटगतं सत्त्वं प्रतीयत इति चेन्न । नीलो घटोऽनित्यः पटो मिथ्या रूप्यमसन्नृशृृङ्गमित्यादावपि नीलादिरधिष्ठानानुवेध इत्यापातात् । ननु नैल्यादिकं घटेऽस्ति सत्त्वं तु नेति चेन्न । अस्यारोपितसिद्ध्यधीनत्वेनान्योन्याश्रयात् । सिद्धे ह्यारोपितत्वे घटादेः सत्त्वाभावसिद्धिः। सत्त्वाभावसिद्धौ चाधिष्ठान-ब्रह्मानुवेधसम्भवेनारोपितत्वसिद्धिरिति । किञ्च रूपादिहीनस्यासंसार-मज्ञानानुवृत्तस्य शब्दैकगम्यस्य ब्रह्मणः सन् घटः सन् शब्द इति चाक्षुषादि-ज्ञाने भानायोगात् । न च स्वरूपेणाप्रत्यक्षस्यापि राहोश्चन्द्रावच्छेदेनेव ब्रह्मणो घटाद्यवच्छेदेन प्रत्यक्षता युक्तेति वाच्यम् । शब्दाद्यवच्छिन्नगगनादेः श्रावणादित्वापातात् । राहोस्तु दूरदोषेणाज्ञातस्य नीलस्य शुक्लभास्वर-सम्बन्धाच्चाक्षुषता युक्तेति ।
वादावलीप्रकाशः
॥ अबाध्यताया इति । त्रिकालाबाध्यत्वरूपसत्त्वस्येत्यर्थः ॥ अग्राहकत्वमिति । वर्तमानमात्रग्राहित्वादिति भावः ॥ तदानीमबाध्यता-ग्रहणेनैवेति । वर्तमानकालीनसत्ताग्रहणेनैवेत्यर्थः ॥ तत्सिद्धेरिति । त्रैकालिकसत्ताप्रतिषेधाभावसिद्धेरित्यर्थः । अयं भावः । यदा प्रत्यक्षं वर्तमानकालसत्तां गृह्णाति तदा त्रैकालिकसत्ताप्रतिषेधाभावं गृह्वात्येव । यदा वर्तमानकाले सत्ता तदा त्रैकालिकसत्ताप्रतिषेधाभाव इत्येवं वर्तमानकालीन-सत्तायास्त्रैकालिकसत्ताप्रतिषेधाभावव्याप्यत्वात् । यथाऽऽहुः–
स्वकाले ह्यस्तितां गृह्णन्साक्षात्कारस्त्रिकालगम् ।
प्रतिषेधं निरुन्धानो गृह्णात्येव ह्यबाध्यताम् ॥ इति ।
अन्यथा वह्निरनुष्ण इत्यत्रापि प्रतियोगिभूतौष्ण्यग्राहिप्रत्यक्षस्य साक्षाद्ग्राह्याभावावगाहित्वेन विरोधित्वं सर्वसम्मतं तदपि न स्यात् । तत्राप्यनुमानेन त्रैकालिकौष्ण्याभावः साध्यते । स्पार्शनप्रत्यक्षेण तु वर्तमानकालीनमेवौष्ण्यं गृह्यते । तथा च त्रैकालिकानौष्ण्याभावव्याप्यभूतैक-कालीनौष्ण्यग्राहकत्वेनैव स्पार्शनप्रत्यक्षस्य विरोधित्वं न साक्षादिति वक्तृं शक्यत्वात् । वस्तुतस्तु साक्षाद्ग्राह्याभावावगाहित्वेनैव विरोधित्वम् । न च प्रत्यक्षगृहीतैककालीनसत्तायास्त्रैकालिकसत्ताप्रतिषेधाभावरूपत्वाभावात्कथमेतदिति वाच्यम् । स्यादिदं यदि सार्वकालिकी सार्वदैशिकी या या सत्ता तत्प्रतिषेधो बाध इत्येवं देशकालयोरपि निषेध्यकोटौ प्रवेशः स्यान्न चैवं किन्तु सर्वस्मिन्देशे सर्वस्मिन्काले च या सत्ता तत्प्रतिषेध इत्येवमधिकरणकोटावेव । तथा च सत्ताप्रतिषेधमात्रस्यैव बाध्यत्वेन प्रत्यक्षेण च सत्तामात्रस्यैव गृहीतत्वेन साक्षाद्ग्राह्याभावावगाहित्वेनैव विरोधित्वम् । एतदेवाभिप्रेत्योक्तं तच्चेन्नोत्तरगोचरमित्यनुव्याख्यानावतारिकावसरे भक्तिपादीयसुधायाम् । घटादिसत्ताप्रतिषेधरूपस्य बाधस्य तत्सत्ताग्राहिणा प्रत्यक्षेण विरोधावश्यम्भावादिति । निपुणतरमेतदुपपादितमस्मदाचार्यैस्तट्टिपण्यां तत्रैवानुसन्धेयम् ॥ गृह्यत इतीति । प्रत्यक्षेणेत्यर्थः । तथा च तत्रापि तेन त्रिकालाबाध्यत्वं सिध्येदिति भावः ॥ निरपवादादिति । निर्बाधप्रत्यक्षात्सिध्यतीत्यर्थः ।
वादावलीविवरणम्
॥ अबाध्यताया इति । न चाबाध्यत्वानिरुक्तिः । त्रैकालिक-निषेधप्रतियोगित्वं बाध्यत्वं तदभावः सत्त्वमिति तन्निर्वचनात् । ननु नैतादृशं सत्त्वं चक्षुरादियोग्यम् । तदयोग्यकालघटितत्त्वेनैतादृशसत्त्वग्रहणे चक्षुरादेर-सामर्थ्यात् । न ह्युक्तनिषेधप्रतियोगित्वं कस्यचित्प्रत्यक्षं येन तदभावः प्रत्यक्षो भवेदिति चेत् । मैवम् । त्रैकालिकनिषेधप्रतियोगिभिन्नत्वं सत्त्वमिति विवक्षणात् । अन्योन्याभावस्य च प्रतियोग्यप्रत्यक्षत्वेऽपि प्रत्यक्षत्वं सम्भवति । पिशाचस्याप्रत्यक्षत्वेऽपि तदन्योन्याभावस्य प्रत्यक्षत्वदर्शनात् । एवञ्च न कश्चिद्दोषः ।
पूर्वोक्तमविरोधित्वमाशङ्क्य निषेधति ॥ न चेति । कुत इत्यत आह ॥ तदानीमिति । स्वयं यदा विषयं गृह्णाति तदानीमित्यर्थः ॥ तत्सिद्धेरिति । त्रिकालबाधाभावरूपाबाध्यत्वग्रहणसिद्धेरित्यर्थः । अयं भावः । अबाध्यत्वं हि न कालत्रयेऽपि सत्त्वम् । मन्मतेऽप्यनित्ये प्रपञ्चे तदभावात् । किन्तु कालत्रयासत्त्वाभावः । स च द्वेधा कदाचित्सत्त्वेन वा कालत्रयेऽपि सत्त्वेन वा । तत्र कालत्रयसत्त्वग्रहणे सामर्थ्याभावेऽपि कदाचित्सत्त्वग्रहणसमर्थेनाक्षेण कथं कालत्रयासत्त्वं न प्रतिबध्यमितीत्याहुः । वस्तुतस्तु सत्त्वं प्रतियोगि बाध्यत्वं तु तदत्यन्ताभावः । तस्य कालत्रये सत्त्वप्रतिषेधरूपत्वात् । प्रतियोगिनोऽत्यन्ताभावरूपत्वेन तद्ग्राहकप्रत्यक्ष-स्यानुमानग्राह्याभावावगाहित्वादिति भावः । एवञ्च वर्तमानकाले सत्त्वरूप-प्रतियोगिग्राहकेण प्रत्यक्षेण तत्र तदत्यन्ताभावरूपबाध्यत्वग्राहकमनुमानं विरुध्यत एव । ननु नात्र साक्षाद्विरोधः । वर्तमानकालसत्त्वस्य त्रैकालिकसत्ताप्रतिषेधविरहव्याप्यत्वेऽपि तद्विरहरूपत्वाभावात् । न हि विशेषणाभावो विशिष्टाभावरूपः किन्तु तद्व्याप्यः । न चैवं तदभावव्याप्याव-गाहित्वेनैव विरोधित्वमात्रं विवक्षितमिति वाच्यम् । तथात्वेऽनुमानबाधस्यैव प्राप्त्या प्रत्यक्षबाधाभिधानानुपपत्तेरिति चेत् । अत्र ब्रूमः । नात्र कालत्रयस्य सत्ताप्रतिषेधविशेषणत्वं विवक्षितं किन्तूपलक्षणत्वमेव । तथा च कालत्रये यः सत्ताप्रतिषेधस्तदत्यन्ताभाव इति यावत् । तद्विरहरूपत्वं कदाचित्कस्यापि प्रतियोगिनोऽस्त्येव । कथमन्यथा कादाचित्कस्यापि घटादेस्त्रैकालिक-निषेधरूपस्वात्यन्ताभावविरहरूपत्वमिति । अत एवाहुः ।
स्वकाले ह्यस्तितां गृह्णन्साक्षात्कारस्त्रिकालगम् ।
प्रतिषेधं निरुन्धानो गृह्णात्येवात्यबाध्यताम् ॥ इति ।
एवमनङ्गीकारे औष्ण्यग्राहिप्रत्यक्षस्यापि वर्तमानमात्रग्राहित्वेनानुमानसाध्य-त्रैकालिकतत्प्रतिषेधविरहानवगाहित्वप्राप्त्या बाधोच्छेद एव स्यादिति दिक् ।
कल्पितसत्त्वग्राहित्वान्न प्राबल्यमिति पूर्वपक्षावसरे यदुक्तं तच्छङ्कते ॥ तत्कालीनेति । विषयस्याकल्पितत्वज्ञाने प्रामाण्यमेव तन्त्रम् । तच्च जगत्सत्यत्वप्रत्यक्षे ज्ञानग्राहिणा साक्षिणा गृह्यते । प्रामाण्यस्य स्वतस्त्वात् । न तु गन्धर्वनगरप्रत्यक्ष इव तदोत्पद्यते । तद्वदत्र बाधनिश्चयाभावात् । एवञ्च प्रामाण्यसिद्धौ प्राबल्यमपि सिद्धमेवेत्याशयेन सिद्धान्तयति ॥ सत्यमिति ।