परिच्छिन्नत्वहेतुरपि न साध्यसाधकता-मध्यास्ते
परिच्छिन्नत्वहेतुनिरासः
परिच्छिन्नत्वहेतुरपि न साध्यसाधकता-मध्यास्ते
वादावली
परिच्छिन्नत्वहेतुरपि न साध्यसाधकता-मध्यास्ते । तथा हि । परिच्छिन्नत्वं नाम देशतः परिच्छिन्नत्वं वा कालतो वाऽन्योन्याभावाधिकरणत्वं वा । नाद्यः । काला-काशादिभागेऽसिद्धेः । अत एव न द्वितीयः । ब्रह्मव्यतिरिक्तं सकलमपि देशकालाभ्यां परिच्छिन्नमिति चेन्न । व्याघातात् । तथा हि । देशतः परिच्छिन्नत्वं नाम क्वचिन्निष्ठाभाव-प्रतियोगिता । तथा च सर्वस्याभावं प्रतिजानता किञ्चि-दधिष्ठानमभ्युपेयम् । अभावस्याधिष्ठानबोधाधीनबोधत्वात् । तथा च कथं न व्याघातः । सकलमपि ब्रह्मण्यध्यस्तमतस्तत्र नास्तीति निषेधान्नाधिष्ठानाभ्युपगत्या व्याघात इति चेन्न । परिच्छिन्नता नाम बाध्यतेत्यर्थः स्यात्तथात्वे साध्याविशिष्ट-तयैव दुष्टतापत्तिः । कालपरिच्छेदे चानित्यता सादिता त्रिकालासत्यता वाऽभिप्रेता भवेत्तथा च कालस्यैतादृश-परिच्छेदायोगेनागतः स एव दुरात्मा व्याघातः ।
वादावलीभावदीपिका
ननु माऽस्तु जडत्वं, परिच्छिन्नत्वं तु हेतुः स्यादित्यत आह ॥ परिच्छिन्नत्वेति । न केवलं दृश्यत्वजडत्वे इत्यपेरर्थः । प्रतिज्ञातं परिच्छिन्नत्वस्य साधकत्वाभावमुपपादयितुं पृच्छति ॥ परिच्छिन्नत्वमिति ॥ कालतो वेति । परिच्छिन्नत्वमिति सम्बन्धः । वस्तुतः परिच्छिन्नत्वं तृतीयकोटिस्तदभिप्रायकथनमन्योन्येति ॥ कालाकाशादीति । कालशब्दे-नात्रांशी कालो गृह्यते । न तु क्षणलवाद्यंशः । आकाशशब्देन चाव्याकृता-काशः । न तु भूताकाशः । येन तयोर्जन्यत्वेन यथायोगं देशकालपरिच्छिन्न-त्वेनासिद्धिर्न स्यात् । आदिपदेनाज्ञानं पराभिमता रूप्यादेर्जगतश्च प्रतिपन्नोपाधिस्थत्रैकालिकनिषेधश्च गृह्यते । न च कालादिव्यतिरिक्तस्य पक्षतेति वाच्यम् । तत्र मिथ्यात्वासिद्ध्यापत्तेः । दृश्यत्वादेर्दूषितत्वादिति भावः । कालादौ भागासिद्धेरेव द्वितीयोऽप्यपास्त इत्याह ॥ अत एवेति । पक्षद्वयेऽपि नासिद्धिरिति शङ्कते ॥ ब्रह्मेति । सर्वस्य देशकालाभ्यां परिच्छेदे उक्तं व्याघातं प्रतिपिपादयिषुर्देशतः परिच्छेदं तावदुपपादयितुं देशतः परिच्छिन्नत्वं निर्धारयति ॥ देशत इति । अस्त्वेवं प्रकृते किमित्यत आह ॥ तथा चेति । अत्र हेतुमाह ॥ अभावस्येति । तथा च सुस्थो व्याघात इत्याह ॥ तथा चेति । इदमुक्तं भवति । सर्वस्य देशतः परिच्छेदे हि सर्वं कस्मिंश्चिद्देशेऽस्ति कस्मिंश्चिद्देशे नास्तीति वक्तव्यम् । तथा च सर्वाभावाधिष्ठानत्वेन देशशब्दितमाकाशमङ्गीकृत्य पुनस्तस्याप्यभावाभिधाने माता वन्ध्येतिवद्व्याघात इति । ननु न व्याघातः सर्वस्यापि ब्रह्मनिष्ठा-भावप्रतियोगित्वेनान्याधिष्ठानानभ्युपगमादिति शङ्कते ॥ सकलमिति । निषेधति ॥ नेति । देशतः परिच्छिन्नत्वं नामाध्यासाधिष्ठानब्रह्मनिष्ठाभाव-प्रतियोगित्वमित्युक्तं स्यात् । तथा चेदमेव साध्यत्वेनाभिमतं मिथ्यात्व-मित्यसिद्धिः स्यादित्याह ॥ तथात्व इति । अध्यासाधिष्ठानब्रह्मनिष्ठाभाव-प्रतियोगित्व इत्यर्थः । एवकारस्य न तु दोषान्तरान्वेषणायास इत्यर्थः । एवं सर्वान्तर्गताकाशस्य देशतः परिच्छेदे व्याघातमभिधाय कालस्य कालतः परिच्छेदे व्याघातं विवक्षुः कालपरिच्छेदो नाम भविष्यत्कालतः परिच्छेद उत भूतकालतो यद्वा त्रिकालत इति विकल्पत्रयाभिप्रेतार्थकथनपूर्वमाह ॥ कालेति । कालस्येति शेषः । अनित्येति भाविकालतः परिच्छेदे सादितेति भूतकालतः परिच्छेदे त्रिकालासत्यतेति कालत्रयपरिच्छेदे । अस्त्वेवं किं तत इत्यत आह ॥ तथा चेति ॥ अयोगेनेति । पूर्वं कालो नास्ति पश्चान्नास्ति सर्वदा नास्तीति निषिध्यमानकालाभावाधिकरणत्वेन पूर्वादि-कालाङ्गीकारेण पुनस्तन्निषेधो व्याहत इत्यर्थः । अत्र कालस्येदानीं कालो नास्तीत्यादिकालतः परिच्छेदे व्याघात इति वक्तव्ये यदनित्यतेत्यादिना कालपरिच्छेदाभिप्रायकथनं तस्यायम्भावः । पश्चात्पूर्वं वाऽसत्त्वमात्रेण वर्तमानकालेऽप्यभावसाधने प्रमाणविरोधस्याविशिष्टतया वर्तमानकाले सत्त्वेन कालान्तरेऽपि सत्त्वसाधनं स्यात् । त्रिकालासत्त्वं त्वसिद्धमिति ।
वादावलीप्रकाशः
साधकतां मिथ्यात्वसाधकताम् । अधि अधिकृत्य । नास्ति तत्साधको न भवतीति यावदित्यर्थः ॥ कालतो वेति । कालतः परिच्छिन्नत्वं नामानित्यत्वमित्यर्थः । वस्तुतः परिच्छिन्नत्वरूपतृतीयविकल्प-मर्थतोऽनुवदति ॥ अन्योन्याभावेति । तथा च वस्त्वन्तरप्रतियोगिका-न्योन्याभावाधिकरणत्वरूपं वस्तुतः परिच्छिन्नत्वं वेत्यर्थः । देशतः कालतः परिच्छिन्नत्वं प्रकृतिकालादिष्वभावाद्भागासिद्धमिति तत्त्वोद्योतवाक्यं मनसि निधायाह ॥ कालेति । आदिपदेन प्रकृतेः पञ्चाशद्वर्णानां च ग्रहणम् ॥ भागेऽसिद्धेरिति । कालादीनां व्याप्तत्वेन देशतः परिच्छिन्नत्वाभावादिति भावः ॥ अत एवेति । भागेऽसिद्धेरेवेत्यर्थः । कालादीनां नित्यत्वेन कालतः परिच्छिन्नत्वाभावादित्यर्थः । भागासिद्धिपरिहारं शङ्कते ॥ ब्रह्म-व्यतिरिक्तमिति ॥ क्वचिन्निष्ठेति । किञ्चिन्निष्ठेत्यर्थः ॥ सर्वस्येत्यादि । ब्रह्मव्यतिरिक्तं सकलं किञ्चिन्निष्ठात्यन्ताभावप्रतियोगीति वदतेत्यर्थः ॥ किञ्चिदधिष्ठानमिति । किञ्चिद्रूपमधिष्ठानमधिकरणमभ्युपेयमित्यर्थः । कुत इत्यत आह ॥ अभावस्येति ॥ अधिष्ठानेति । अधिकरणज्ञानाधीन-ज्ञानत्वादित्यर्थः । सद्भ्यामधिकरणप्रतियोगिभ्यामभावो निरुप्यत इति वचनादिति भावः ॥ कथं न व्याघात इति । ब्रह्मव्यतिरिक्तस्य सकलस्यापि किञ्चिन्निष्ठाभावप्रतियोगित्वेऽधिकरणभूतस्य किञ्चितोऽभाव-प्रतियोगित्वं नास्तीति प्राप्तम् । ब्रह्मव्यतिरिक्तसकलमध्येऽधिकरणभूतस्य किञ्चितोऽपि प्रविष्टत्वेनाभावप्रतियोगित्वमस्तीति प्राप्तम् । तथा च व्याघात इत्यर्थः । ननु ब्रह्मव्यतिरिक्तस्य किञ्चितोऽधिष्ठानत्वं नाभ्युपगम्यते येनोक्त-रीत्या व्याघातः स्यात्किन्त्वित्यत आह ॥ सकलमपीति । तत्र ब्रह्मण्यध्यस्तत्वाभ्युपगमेन ब्रह्मरूपाधिष्ठानाभ्युपगमेन न व्याघात इत्यर्थः ॥ बाध्यतेत्यर्थः स्यादिति । देशतः परिच्छिन्नत्वं नाम ब्रह्मनिष्ठात्यन्ताभाव-प्रतियोगित्वमित्युक्त्या प्रतिपन्नोपाधौ निषेधप्रतियोगित्वरूपबाध्यत्वमेवार्थतयोक्तं स्यादित्यर्थः ॥ साध्याविशिष्टतयैवेति । बाध्यताया एव च मिथ्यात्वादिति भावः ॥ दुष्टतापत्तिरिति । देशतः परिच्छिन्नत्वहेतोरित्यर्थः । अनित्यतोत्तरकालेऽसत्त्वम् । सादिता पूर्वकालेऽसत्त्वम् ॥ त्रिकालासत्वेति । त्रैकालिकसत्त्वप्रतिषेध इत्यर्थः ॥ एतादृशेति । अनित्यतादिरूपेत्यर्थः ॥ स एव दुरात्मा व्याघात इति । उत्तरकाले पूर्वकाले कालत्रये च कालस्य सत्त्वाभावोक्तौ सत्त्वाभावाधिकरणतया कालस्य सत्त्वप्राप्त्या पुनस्तन्निषेधे स एव दुरात्मा पापी व्याघातः स्याद् यो देशतः परिच्छेद उक्त इत्यर्थः ।
वादावलीविवरणम्
॥ कालाकाशादीति । आदिपदेनाज्ञानपरिग्रहः । तस्यापि सर्वगतब्रह्मावरणत्वेन देशादिपरिच्छेदायोगात् । सर्वस्य देशपरिच्छिन्नत्वपक्षे व्याघातमुपपादयितुं देशापरिच्छिन्नत्वं नाम यत्किञ्चिद्देशेऽसत्त्वं वा प्रतीतदेशेऽसत्त्वं वेति विकल्प्याद्यमनुवदति ॥ देशत इति । तद्दूषयितुमाह ॥ तथा चेति ॥ तथा च कथमिति । सर्वस्य हि देशपरिच्छिन्नत्वे सर्वं क्वचिद्देशेऽस्ति क्वचिद्देशे नास्तीति वाच्यम् । तथा च सर्वाभावाधिष्ठानत्वेन देशशब्दितमाकाशमङ्गीकृत्य पुनस्तस्याप्यभावाभिधाने मे माता वन्ध्येति-वद्व्याघात इत्यर्थ इत्यूचुः । अन्ये तु ब्रह्मातिरिक्तं सर्वमपि परिच्छिन्नमिति वदता सर्वाभावाधिष्ठानं ब्रह्मातिरिक्तमपरिच्छिन्नं किञ्चिदङ्गीकार्यम् । अन्यथा तस्यापि प्रतियोगिकोटौ निवेशेनाधिष्ठानत्वानुपपत्तेः । तथा च कथं न व्याघात इत्यर्थ इत्याहुः । प्रतीतदेशेऽसत्त्वं देशपरिच्छिन्नत्वमिति द्वितीयं शङ्कते ॥ सकलमपीति ॥ तर्हीति । अन्यत्रासत्त्वेनासम्मतस्य घटादेः प्रतिपन्नदेशेऽसत्त्वं मिथ्यात्वमिति त्वदभ्युपगमादिति भावः । सर्वस्य काल-परिच्छिन्नत्वे व्याघातं वक्तृं कालपरिच्छिन्नत्वं नाम कालान्तरेऽसत्त्वं वा सकलकालेऽसत्त्वं वेति विकल्प्याद्ये पर्यवसितमर्थमाह ॥ अनित्यता सादितेति । द्वितीयमनुवदति ॥ त्रिकालेति । दूषयति ॥ तथा चेति ॥ अयोगेनेति । उत्तरः कालः पूर्वकालः सदाऽस्तीत्यबाधितप्रतीत्याऽ-नित्यत्वाद्यभावावगमादिति भावः ।