०१ जडत्वहेतुनिरासः

न च जडत्वहेतुरपि

जडत्वहेतुनिरासः

न च जडत्वहेतुरपि

वादावली

न च जडत्वहेतुरपि निगदितदूषणगणलङ्घने जङ्घालः । तथा हि । किमिदं जडत्वं नाम । ज्ञानानाधारत्वं वाऽनात्मत्वं वाऽज्ञानरूपत्वं वाऽस्वप्रकाशत्वं वा । नाद्यः । विशिष्टात्मनि पक्षनिक्षिप्तेऽसिद्धत्वात् । असदात्मनोर्विपक्ष-भूतयोश्च वर्तमानत्वात् । न द्वितीयः । अनात्मत्वपदे-नात्मातिरिक्तत्वं वाऽऽत्मत्वानाधारत्वं वा विवक्षितम् । नाद्यः । तवासिद्धेः । न हि त्वत्पक्षे परमात्मनो जगदति-रिक्तमस्ति । परमार्थतस्तदभावेऽप्यनाद्यविद्याविलसितो भेदोऽ-स्तीति चेत्तर्ह्यस्माकमसिद्धो हेतुः । असति व्यभिचारश्च ।

वादावलीभावदीपिका

ननु माऽस्तु दृश्यत्वं हेतुः । जडत्वं हेतुर्भविष्यतीत्यत-स्तदप्युक्तदूषणेनैव निरस्तमित्याह ॥ न च जडत्वेति । जङ्घालो जङ्घावान् । प्राणिस्थादातो लजन्यतरस्यामिति मत्वर्थे लच् । तदप्युक्तदूषणानि नातिक्रमेदित्यर्थः । न हि प्रतिज्ञामात्रेणार्थसिद्धिरित्यतस्तान्युपपादयितुं प्रतिजानीते ॥ तथा हीति ॥ ज्ञानानाधारत्वमिति । ज्ञातृत्वाभाव इत्यर्थः । अज्ञानरूपत्वं ज्ञानरूपत्वाभावः । अस्वप्रकाशत्वं स्वप्रकाशत्वाभावः ॥ विशिष्टेति । अन्तःकरणावच्छिन्नस्यैवाहंशब्दितस्यात्मनो ज्ञातृत्वेन मिथ्यात्वेन त्वदभिमते तत्र ज्ञातृत्वाभावरूपहेतोरभावेन भागासिद्धेरित्यर्थः ।

किञ्च मिथ्यात्वेन त्वदनभिमते निर्धर्मकेऽत्यन्तासति शुद्धात्मनि च ज्ञातृत्वाभावरूपहेतोः सत्त्वेन व्यभिचारश्चेत्याह ॥ असदिति । न च शुद्धात्मनि कल्पितं ज्ञातृत्वमस्तीति वाच्यम् । कल्पितेन हेत्वभावेन व्यभिचारापरिहारात् । असति कल्पितस्याप्यभावात् । न च शुद्धस्याप्यात्मनो निर्धर्मकत्वादेव ज्ञानानाधारत्वमपि नेति वाच्यम् । निर्धर्मकत्वरूप-हेतोर्ज्ञानाधारत्वाभावरूपसाध्यस्य च भावाभावाभ्यां व्याघातेनाभावरूप-धर्मनिषेधायोगादिति भावः । अनात्मत्वं जडत्वमित्यत्र नञोऽन्योन्याभावोऽर्थ उतात्यन्ताभावो वेति भावेन विकल्पयति ॥ अनात्मत्वेति । आद्येऽप्यति-रिक्तपदेन तात्त्विकभेदवत्त्वं वाऽतात्त्विकभेदवत्त्वं वेति विकल्पौ हृदि निधायाद्य आह ॥ तवेति । तामेवोपपादयति ॥ न हीति । तदनन्यत्व-मारम्भणशब्दादिभ्य इत्यधिकरणे तत्त्वतः कार्यस्य जगतः कारणस्यात्मनोऽ-नन्यत्वं वाचारम्भणं विकारो नामधेयमिदं सर्वं यदयमात्मेति श्रुतेरुच्यत इति त्वयैवोक्तेः कथं तयोस्तत्त्वतो भेदः स्यादित्यर्थः । द्वितीयं शङ्कते ॥ परमार्थतस्तदभावेऽपीति । पारमार्थिकभेदाभावेऽपीत्यर्थः । अविद्या-विलसितोऽविद्यानिमित्तभ्रमविषय इत्यर्थः । ननु भेदस्यानादित्वात्कथं दोषजन्यभ्रमविलसितत्वमित्यत उक्तमनादीति । अविद्याया अप्यनादि-त्वादनाद्यध्यासविषयता युक्तेत्यर्थः । आविद्यकभेदस्यास्माभिर्जगदात्मनोर-नङ्गीकारादन्यतरासिद्धो हेतुरित्याह ॥ तर्हीति । ननु तात्त्विकाविद्यक-साधारण्येनात्मातिरिक्तत्वमात्रं हेतुरस्तु । तथा च नान्यतरासिद्धिः । आत्मातिरिक्तत्वमात्रस्योभयसम्मतत्वादिति चेन्न । तात्त्विकाविद्यकभेदद्वया-भावेन सामान्यस्याभावादित्युक्तत्वादिति मन्वानो दूषणान्तरं चाह ॥ असतीति । त्वयाऽसति मिथ्यात्वानङ्गीकारादिति भावः ।

ननु कथमसत्यात्मभेदस्तस्य धर्मिस्वरूपत्वेन निःस्वरूपा-सत्स्वरूपत्वायोगादिति चेन्न । परमते तस्य धर्मिस्वरूपत्वाभावेनासन्नात्मेत्य-बाधितप्रतीत्याऽऽत्मभेदस्य सत्त्वात् । अन्यथाऽऽत्मन्यसद्वैलक्षण्यासिद्धेः । पररीत्या च तस्योपपादनात् । यद्वा सस्वरूपभावाभावनिष्ठभेदस्य तदुभयस्वरूपत्वेऽपि निःस्वरूपासन्निष्ठस्य तदभावेऽपि तन्निष्ठत्वोपपत्तेः । अत एव भावाभावस्वरूपत्वान्नान्योन्याभावता पृथगिति भावाभाव-स्वरूपत्वमेवोक्तम् ।

वादावलीप्रकाशः

॥ निगदितदूषणेति । व्यभिचारादिदूषणेत्यर्थः । जङ्घालः समर्थो विभुः समर्थो जङ्घाल इत्यमरोक्तेः ॥ अज्ञानरूपत्वमिति । ज्ञानरूपत्वाभाव इत्यर्थः ॥ विशिष्टात्मनीति । समुदायापेक्षमेकवचनम् ॥ असिद्धत्वादिति । विशिष्टात्मनां ज्ञानाधारत्वेन तदनाधारत्वरूपजडत्वस्य भागासिद्धत्वादित्यर्थः। विरुद्धत्वं चाह ॥ असदात्मनोरिति ॥ विपक्षभूतयोरिति । प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वरूप-मिथ्यात्वशून्ययोरित्यर्थः ॥ वर्तमानत्वादिति । तथा च साध्याभाव-व्याप्तत्वाद्विरुद्धत्वमिति भावः । तामेवासिद्धिमुपपादयति ॥ न हीति । तथा चात्मातिरिक्तत्वरूपानात्मत्वरूपं यज्जडत्वं तस्य त्वन्मतेऽसिद्धिरिति भावः । शङ्कते ॥ परमार्थत इति ॥ तदभावेऽपीति । आत्मप्रतियोगिक-भेदाभावेऽपीत्यर्थः । अविद्याविलसितोऽविद्यया प्रतीयमानः ॥ भेदोऽस्तीति । तथा चात्मप्रतियोगिकाविद्यकभेदवत्त्वरूपं यदनात्मत्वं तद्रूपजडत्वस्य न ममासिद्धिरित्यर्थः ॥ अस्माकमिति । आविद्यकभेदस्यास्माभिरनङ्गीकारेण तद्घटितजडत्वहेतोरस्माकमसिद्धिः स्यादित्यर्थः । असत्यात्मातिरिक्तत्व-रूपानात्मत्वाख्यजडत्वसद्भावेऽपि निरुक्तमिथ्यात्वाभावाद्व्यभिचारश्च स्यादित्याह ॥ असतीति ।

वादावलीविवरणम्

॥ जङ्घाल इति । एकस्मिन्नेव दिवसे बहुयोजनपरिमित-मार्गगमनशीलो नरो जङ्घालः । जङ्घालोऽतिजवस्तुल्यौ जङ्घाकरिकजाङ्घिका वित्यभिधानात् ॥ विशिष्टात्मनीति । अन्तःकरणावच्छिन्नचैतन्यमहमर्थ-संज्ञकविशिष्टात्मा तत्रेत्यर्थः । परमते तस्यैव ज्ञातृत्वादिति भावः ॥ असदात्मनोरिति । अत्रात्मशब्देन शुद्धात्मनो ग्रहणम् । परमते तस्यैव ज्ञातृत्वाभावादिति बोध्यम् । आद्येऽप्यतिरिक्तपदेन तात्त्विकभेदवत्त्वं वा विवक्षितमतात्त्विकभेदवत्त्वं वेति विकल्प्याद्यं निराह ॥ तथेति । द्वितीयं शङ्कते ॥ परमार्थत इति । ननु भेदस्यानादित्वात्कथं दोषजन्य-भ्रमविलसितत्वमित्यत उक्तम् ॥ अनादीति ।


न द्वितीयः । आत्मत्वस्य..

न द्वितीयः । आत्मत्वस्य..

वादावली

न द्वितीयः । आत्मत्वस्य प्रागुक्तप्रकारान्त-र्भावे साध्याविशिष्टतासिद्ध्यनैकान्त्यान्यतमापातात् । एतेन यत्त्वयाऽऽत्मत्वमभिप्रेतं तदेवास्त्वस्माकमिति परिहृतम् । अस्माकमुक्तप्रकारान्यतरसङ्ग्रहसम्भवात् । न तृतीयः । वृत्तिज्ञानभागेऽसिद्धत्वात् ।

वादावलीभावदीपिका

आत्मत्वानाधारत्वं जडत्वमिति द्वितीयस्य द्वितीयं निराह ॥ न द्वितीय इति । तत्र हेतुमाह ॥ आत्मत्वस्येति ॥ प्रागुक्तेति । सत्त्व-विरहेऽसत्त्वमसत्त्वविरहे सत्त्वमित्यत्रासत्त्वविरहसत्त्वविरहयोर्व्याप्तिसमर्थन-प्रस्तावोक्तात्मविकल्पेष्वन्यतमाङ्गीकारे साध्याविशिष्टतादिदोषाः प्रादुष्युरित्यर्थः । तथा हि । किमात्मत्वानाधारत्वमात्मत्वरूपजात्यनाधारत्वं वा सत्त्वानाधारत्वं वाऽबाध्यत्वानाधारत्वं वा ज्ञानत्वानाधारत्वं वा ज्ञानाधारत्वानाधारत्वं वा स्वप्रकाशत्वानाधारत्वं वाऽऽत्मपदवाच्यत्वानाधारत्वं वा तल्लक्ष्यत्वानाधारत्वं वा । आद्ये आत्मनि व्यभिचारः । तस्यैकव्यक्तित्वेन तत्रात्मत्व-रूपजातेरयोगात् । विशिष्टात्मनां भेदेऽपि तेषां पक्षनिक्षिप्ततया भागासिद्धेः । न द्वितीयतृतीयौ । साध्याविशिष्टतापत्तेः । न चतुर्थपञ्चमौ । यथाक्रमं वृत्ति-ज्ञाने विशिष्टात्मसु च भागासिद्धेः । शुद्धात्मनो ज्ञानत्वस्य निरसिष्यमाणत्वेन निर्धर्मकत्वेन ज्ञानाधारत्वाभावेन चानैकान्त्यात् । न षष्ठः । अस्वप्रकाशत्व-रूपहेतुखण्डनप्रस्तावोक्तरीत्याऽनैकान्त्यापत्तेः । न सप्तमः । अवाच्ये आत्मन्यनैकान्त्यात् । आत्मपदवाच्ये देहादावसिद्धेश्च । नाष्टमः । इन्द्रिया-दावात्मपदलक्ष्ये भागासिद्धेरिति । अत्रासिद्धिपदं भागासिद्धिपरम् । अतो न कश्चिद्दोषः । ननु भवतो यदात्मत्वमभिप्रेतं तदेव ममापि । तथा च तदनाधारत्वं हेतुर्भविष्यतीत्यत आह ॥ एतेनेति । उक्तविधयाऽऽत्मत्वा-नाधारत्वदूषणेनेत्यर्थः । कथं परिहृतमित्यत आह ॥ अस्माकमिति । आत्मत्वं जातिर्वा सत्त्वं वेत्याद्युक्तेष्वष्टसु कल्पेष्वन्यतमस्वीकारेऽपि दोषाभावादित्यर्थः । अत्रान्यतरेति प्राग्वद्बोध्यम् । अज्ञानरूपत्वं जडत्वमिति कल्पं प्रत्याख्याति ॥ न तृतीय इति । न च विवरणरीत्या वृत्तेर्न ज्ञप्तित्वमिति वाच्यम् । धर्माधर्मादिकं जानामीत्यनुभवेन तस्या ज्ञप्तित्व-सिद्धेरिति प्रागेवावोचम् ।

वादावलीप्रकाशः

॥ प्रागुक्तेति । किं तदात्मत्वमिति प्रागुक्तप्रकारेत्यर्थः ॥ साध्याविशिष्टतेत्यादि । अबाध्यत्वमात्मत्वमित्युक्ते बाध्यत्वरूपानात्मत्वं जडत्वमित्युक्तं स्यात्तदेव च मिथ्यात्वमिति साध्याविशिष्टता । ज्ञानत्व-मात्मत्वमित्युक्तेऽज्ञानत्वरूपानात्मत्वं जडत्वमित्युक्तं स्यात् । तथा च वृत्तिज्ञानभागेऽसिद्धिः । ज्ञानाधारत्वमित्युक्ते तदनाधारत्वरूपानात्मत्वं जडत्वमित्युक्तं स्यात् । तथा चासत्यनैकान्त्यं स्यादित्यर्थः । एतेनेत्युक्तं विशदयति ॥ अस्माकमिति । कर्तरि षष्ठी । अस्माभिरित्यर्थः । अस्माकं मत इति शेषो वा ॥ उक्तप्रकारान्यतरेति ॥ ज्ञानाधारत्वज्ञानत्वा-न्यतरेत्यर्थः । तर्हि तदेवात्मत्वं मन्मतेऽस्त्विति चेत्तत्राह ॥ तस्य च त्वन्मतेऽसम्भवादिति । ज्ञानानाधारत्वरूपानात्मत्वाख्यजडत्वस्यासत्य-नैकान्त्यप्रसङ्गेनाज्ञानत्वरूपा नात्मत्वाख्यजडत्वस्य वृत्तिज्ञानभागेऽ-सिद्धिप्रसङ्गेन च त्वन्मतेऽसम्भवादित्यर्थः । अज्ञानरूपत्वं जडत्वमिति तृतीयः पक्षः कस्मान्न युज्यत इत्यत आह ॥ वृत्तिज्ञानेति । अज्ञानरूपत्वाख्यजडत्वस्यात्मनि व्यभिचारश्चेति ।

वादावलीविवरणम्

॥ प्रागुक्तेति । किं तदात्मत्वं जातिर्वा सत्त्वं वेत्यादिप्रागुक्तेत्यर्थः ॥ साध्याविशिष्टतेति । आत्मत्वस्य सत्त्वाबाध्यत्वरूपत्वे साध्या-विशिष्टत्वम् । ज्ञानत्वज्ञानाधारत्वात्मशब्दलक्ष्यत्वान्यतमत्वरूपत्वेऽसिद्धिः । जातिस्वप्रकाशत्वात्मशब्दवाच्यत्वान्यतमरूपत्वे त्वनैकान्त्यमिति बोध्यम् । अज्ञानरूपत्वं जडत्वमिति तृतीयं निराकरोति ॥ न तृतीय इति ।