किञ्च दृश्यत्वं प्रमाणतो वा भ्रान्त्या वा
दृश्यत्वहेतुनिरासः
किञ्च दृश्यत्वं प्रमाणतो वा भ्रान्त्या वा
वादावली
किञ्च दृश्यत्वं प्रमाणतो वा भ्रान्त्या वा । नोभयमपि । अन्यतरासिद्धेः । ननु सामान्यतः प्रयुक्तस्य हेतोर्विशेषविकल्पैर्निराकरणे सर्वानुमानाभावप्रसङ्गः । तथा हि । धूमाद्धूमध्वजसाधने किमेतद्देशकालसंलग्नो धूमो हेतुः किं वाऽनेतद्देशकालसंलग्न इति विकल्प्याद्ये साधनशून्यं निदर्शनम् । द्वितीयेऽसिद्धिरिति दूषणसम्भवादिति । मैवम् । तत्र धूम-मात्रस्य पर्वतेऽग्निसाधकत्वेनादूषणत्वाभ्युपगमात् । तर्हि किं वक्रो धूमो हेतुरिति विकल्पेन दूषणप्रसङ्ग इति चेन्न । तस्य सामान्यस्यैव हेतुत्वात् । न चास्तु तथा प्रकृतेऽपीति वाच्यम् । प्रमाणभ्रान्तिदृश्ययोर्दृश्यत्वसामान्याभावात् । न हि जलनभोनलिनयोर्नलिनत्वसामान्यमस्ति । तर्हि कथं भ्रान्ति-दृश्यत्वमित्युच्यत इति चेन्न । यथा नभो नलिनमित्युच्यते तथैवेत्यवेहि । दृश्यत्वस्य सन्मात्रवृत्तित्वाद्विरुद्धता च । न च शुक्तिरजतं दृश्यमिति वाच्यम् । तत्र शुक्तिकाया एव दृश्यत्वात् ।
वादावलीभावदीपिका
किञ्च दृश्यत्वमित्यत्र दृक्शब्देन प्रमोच्यते भ्रमो वेति विकल्प्याद्ये तवासिद्धिः । अन्त्येऽस्माकमसिद्धिरित्याह ॥ दृश्यत्वमिति । ननु दृश्यत्वं न प्रमाणतो नापि भ्रान्त्या येनोक्तदोषः स्यात् । किन्तूभयसाधारणमेव । न हि सामान्येनोक्तस्य विशेषविकल्पेन दोषोत्कीर्तनम् । अतिप्रसङ्गादिति शङ्कते ॥ नन्विति । सामान्यतो भ्रमप्रमासाधारण्येनेत्यर्थः । अतिप्रसङ्गमेवाह ॥ तथा हीति । धूमध्वजो वह्निः ॥ एतद्देशेति । पक्षत्वेनाभिमतो देश एतद्देशशब्देनोच्यते । यदा पक्षे हेतुरस्ति तत्काल एतत्कालशब्देनोच्यते । देशिकव्याप्तिकत्वेन कालिकव्याप्त्युपेतत्वेन वा सर्वानुमानानां द्वैविध्या-त्तादृशसर्वानुमानोच्छेदज्ञापनाय देशकालोभयोपादानम् ॥ अनेतदिति । पक्षदेशभिन्नदेशसम्बद्धस्तत्कालभिन्नकालसम्बद्ध इत्यर्थः । विकल्प्येत्यनन्तरं वर्तमानेन पुंसेति शेषः । दूषणमिति भावे ल्युट् । दूषणकरणसम्भवादित्यर्थः । तेन विकल्प्येति क्त्वाप्रत्ययोपपत्तिः ॥ साधनशून्यमिति । पक्षदेश-सम्बद्धस्य दृष्टान्तेऽभावादिति भावः । एतेनासिद्धिर्व्याख्याता । इतिशब्दः शङ्कासमाप्तौ । समाधत्ते ॥ मैवमिति ॥ तत्रेति । धूमानुमान इत्यर्थः । धूममात्रस्यैतद्देशाद्यविशेषितस्य ॥ अदूषणत्वेति । निर्दोषत्वेनाभ्युपगमात् । परीक्षकैरिति शेषः । शङ्कते ॥ तर्हीति । धूमवत्त्वस्य साधकत्वेऽपीत्यर्थः । इति विकल्पेनेत्यत्रावक्रो धूम इति कोट््यन्तरं च ध्येयम् ॥ दूषणेति । साधनवैकल्यादिनेति भावः । वक्रावक्रसाधारणधूमत्वाक्रान्तधूममात्रस्यैव हेतुत्वसम्भवे वक्रादिविशेषणं व्यर्थम् । गौरवपराहतं चेति भावेनाह ॥ तस्येति । दृश्यत्वानुमानेऽपि भ्रमप्रमासाधारणदृश्यत्वमेव हेतुरस्त्विति शङ्कते ॥ न चेति । वक्रावक्रधूमयोर्द्वयोरपि सत्त्वेन तत्र धूमत्वस्यानुगतसामान्यस्य सम्भवेऽपि प्रकृते न तस्य सम्भवः । प्रमाणदृश्यत्वस्य सत्त्वेऽपि भ्रान्ति-दृश्यत्वस्यासत्त्वेन सत्यसति चानुगतसामान्याभावेनासिद्धिः स्यादिति भावेन परिहरति ॥ प्रमाणेति । आश्रयाभावे तदनुगतधर्मस्याभाव इत्येतन्निदर्शने-नोपपादयति ॥ न हीति । भ्रान्तिदृश्ये दृश्यत्वाभावे भ्रान्तिदृश्यत्वमिति व्यवहारायोग इति शङ्कते ॥ तर्हीति । उपचारोऽयं प्रयोग इति भावेन निदर्शनपूर्वमाह ॥ यथेति । अवेहि अवगच्छेति । तथा च दृश्यत्वं जगत्य-सिद्धमिति सुस्थमिति भावः । एवं लिङ्गदर्शनानन्तरं व्याप्तिस्मृतिरिति न्यायात्तेनैव क्रमेण हेतोराभासीकरणं मन्वानोऽसिद्धत्वं दृश्यत्वं प्रमाणत इत्यादिना प्रतिष्ठाप्येदानीं व्याप्तिविरहभेदौ विरुद्धानैकान्तिकौ । तत्र विरुद्धो विपरितनिश्चयं करोति । अनैकान्तिकस्तु सन्देहमिति दुष्टत्वक्रमानुरोधेन व्याप्त्यभावमुपपादयन् विरुद्धतां तावदाह ॥ दृश्यत्वस्येति । चस्त्वसिद्धि-समुच्चायार्थः ॥ सन्मात्रेति । साध्यसम्बन्धरहितत्वे सति तदभावेनैव सम्बन्धो विरुद्ध इति विरुद्धलक्षणम् । तथा च दृश्यत्वस्य मिथ्यात्वरहित-सत्पदार्थ एव सत्त्वेनोक्तलक्षणसत्त्वादिति भावः ।
ननु सति ब्रह्मणि दृश्यत्वस्याग्रे साधयिष्यमाणत्वेन मिथ्यात्वरूप-साध्याभावेन सम्बन्धे सत्यपि मिथ्याभूते शुक्तिरूप्ये च सत्त्वान्न साध्यसम्बन्धवैधुर्यमिति शङ्कते ॥ न चेति । दृग्विषयत्वं हि दृश्यत्वं नाम । तथा च यत्सन्निकृष्टकरणेन यज्ज्ञानमुत्पद्यते स तस्य विषय इत्यनित्यज्ञाने व्यवस्थितम् । रजतज्ञानं शुक्तिसन्निकृष्टेन जातमिति शुक्तिकाया एव दृश्यत्वमिति भावेन परिहरति ॥ तत्रेति । भ्रान्तावित्यर्थः ॥ अनभ्युपग-मादिति । उक्तदिशा शुक्तिविषयकत्वादिति भावः । अविरोधमेवाह ॥ स्वविषयेति । अन्याकारेण रूप्याकारेण । आकारान्तरेणेत्यपि क्वचित्पाठः ।
वादावलीप्रकाशः
॥ प्रमाणत इति । तथा च दृश्यत्वादित्यस्य प्रमितिविषय-त्वादित्यर्थो द्रष्टव्यः ॥ भ्रान्त्या वेति । तथा च दृश्यत्वादित्यस्य भ्रान्ति-विषयत्वादित्यर्थोऽवगन्तव्यः ॥ अन्यतरेति । आद्ये तवासिद्धिर्द्वितीये-ऽस्माकमसिद्धिरित्यर्थः ॥ अनुमानाभाव इति । अनुमानोच्छेद इत्यर्थः ॥ धूमध्वजेति । धूम एव ध्वजो यस्य स धूमध्वजो वह्निरित्यर्थः । एतदिति देशकालयोर्विशेषणम् । पर्वतसम्बन्ध्येतत्कालसम्बन्धीत्यर्थः ॥ धूममात्रस्येति । एतद्देशकालानैतद्देशकालविशेषितधूमसामान्यस्येत्यर्थः ॥ अदूषणत्वादिति । त्वदीयविकल्पनिराकरणयोर्दूषणत्वाभावादित्यर्थः । धूमवत्त्वस्येति धूमवत्त्वं नाम धूमसंयोगरूपो धूमसम्बन्धः । तथा चैतद्देशकालसंलग्नो धूमसंयोगो हेतुरित्यादिरूपेणैव विकल्पः कर्तव्यो न तु धूमो हेतुरित्यादिरूपेण । तर्हि तथैव विकल्प्य दूषयिष्यामीति तु न युक्तम् । धूमसंयोगे एतद्देशकालसंयोगित्वरूपसंलग्नत्वस्य गुणे गुणानङ्गीकारेण बाधितत्वादिति भावः । प्रकारान्तरेण तदीयग्रन्थोक्तं विकल्पदूषणाभ्यां सर्वानुमानोच्छेदप्रसङ्गमा शङ्कते ॥ तर्हीति । इत्यादीत्यादिपदेन ऋजुधूमो हेतुरित्यस्य ग्रहणम् । तथा च वक्रधूमस्य हेतुत्वे महानसे ऋजुधूमसद्भाव-दशायां साधनवैकल्यम् । ऋजुधूमस्य हेतुत्वे पर्वते वक्रधूमसद्भावदशायम-सिद्धिरित्यर्थः ।
एतदपि पूर्वोक्तरीत्यैव निराकृतमित्याह ॥ तस्येति । वक्रत्वाद्य-विशेषितस्य धूमसामान्यस्यैव हेतुत्वादित्यर्थः ॥ प्रकृतेऽपीति । प्रमाण-भ्रान्त्यविशेषितं दृश्यत्वसामान्यमेव हेतुरस्त्वित्यर्थः ॥ अभावादिति । नभोनलिनवद्भ्रान्तिदृश्यस्यात्यन्तासत्त्वात् । प्रमाणभ्रान्त्यविशेषितं दृश्यत्वसामान्यमेव हेतुरित्यर्थः ॥ अभावादिति । न हि व्यक्त्यभावे सामान्यमस्तीति भावः । तदेवोपपादयति ॥ न हीति ॥ जलनभो-नलिनयोरिति । जलनलिननभोनलिनयोरित्यर्थः । सरोजारविन्दगगनार-विन्दयोरिति यावत् । तत्र नभोनलिनस्यैवात्यन्तासत्त्वादिति भावः ॥ उच्यत इतीति । व्यवह्रियत इत्यर्थः । असत्त्वे तस्य ज्ञानासम्भवेन व्यवहारा-योगात्तस्य ज्ञानसाध्यत्वादिति भावः ॥ अवेहीति । जानीहीत्यर्थः । तथा च शुकबालादिव्यवहारवत्तत्र चित्रलिखितसिंहे सिंहशब्दव्यवहारवच्च ज्ञानाभावेऽपि भवतीत्यौपचारिको व्यवहार इति भावः । असतोऽपि ज्ञानविषयत्वस्यान्यत्रोपपादितत्वान्नोक्तदोष इत्यपि द्रष्टव्यम् । दृश्यत्व-हेतोर्विरुद्धत्वं चाह ॥ दृश्यत्वस्येति ॥ सन्मात्रवृत्तित्वादिति । मिथ्यात्वरूपसाध्याभावव्याप्तत्वादित्यर्थः । ननु कथं दृश्यत्वस्य सन्मात्रवृत्तित्वं मिथ्याभूतेऽपि शुक्तिरजते दृश्यत्वस्य सत्त्वादित्याशङ्क्य निराकरोति ॥ न चेति । कुतो न चेत्यत आह ॥ तत्रेति । इदं रजतमिति भ्रमस्थल इत्यर्थः ॥ दृश्यत्वादिति । दृग्विषयत्वादित्यर्थः । यत्सन्निकृष्टेन करणेन यज्ज्ञानमुत्पद्यते स तस्य विषय इत्येवंरूपं विषयत्वं शुक्तिकायामेवास्ति न रजते । असता सन्निकर्षायोगात् । अतो न रजते दृश्यत्वमस्तीति विरुद्धत्वकथनं युक्तमिति भावः ।
वादावलीविवरणम्
॥ अन्यतरासिद्धेरिति । आद्ये तवासिद्धिरन्त्ये ममासिद्धि-रित्यर्थः । ननु धूममात्रस्य पर्वताग्निसाधकत्वमुक्तम् । तस्य तद्व्यक्तिरूपतया तत्तन्मात्रनिष्ठत्वेन पूर्वोक्तविकल्पापातादित्यत आह ॥ धूमवत्त्वस्येति । तथा च धूमवत्त्वोपाधेः पक्षाद्यनुगतत्वेन हेतुत्वं युक्तमिति भावः । इदं च पररीत्या । वस्तुतस्तु प्रातिस्विकस्यापि धूमस्य सामान्याकारेण पक्षा-द्यनुगतत्वात्तन्मात्रहेतुत्वेऽपि न क्षतिः । पक्षाद्यनुगतत्वं च प्रातिस्विकस्यैव तस्य सामान्याकारेण तत्र तत्र विद्यमानत्वमेव न त्वेकस्य सर्वगतत्वम् । यथा पृथिवीलक्षणस्य गन्धस्य नैकस्य सर्वपृथिवीगतत्वं किन्तु तत्तत्पृथिवीगतस्यैव सामान्याकारेण तद्वत् । न च तत्र गन्धत्वेन गन्धाना-मनुगमात्सामान्याकारेण सर्वगतत्वमिति वाच्यम् । गन्धत्वानुगमेन गन्धानु-गमासम्भवात् । न हि पितुः पाण्डित्येन पुत्रः पण्डितो भवति । न च प्रातिस्विकस्य धूमस्य कथं सामान्यरूपत्वमिति वाच्यम् । प्रातिस्विकस्यापि तस्य विशेषबलेन सामान्यरूपतोपपत्तेः । अन्यथा परमतेऽपि सामान्यादिकं सदिति सामान्येनोक्तिर्न स्यात् । तत्रापि सत्त्वस्य प्रातिस्विकतया तत्त-त्स्वरूपत्वाङ्गीकारादिति द्रष्टव्यम् । ननु मा भूद्देशकालविकल्पदोषः । दृश्यत्वहेतुवदेव धर्मिविकल्पदोषस्तु स्यादिति भावेन शङ्कते ॥ तर्हीति ॥ तथेति । दृश्यत्वसामान्यस्य हेतुत्वमित्यर्थः ॥ सामान्याभावादिति । भ्रान्तिदृश्यत्वस्यात्यन्तासत्त्वादिति भावः ॥ तर्हीति । दृश्यत्वरूपधर्माभाव इत्यर्थः । किञ्च दृश्यत्वं नाम ज्ञानविषयत्वं वा ज्ञानोल्लेखित्वमात्रं वेति विकल्पं हृदि कृत्वाऽऽद्य आह ॥ दृश्यत्वस्येति । ज्ञानविषयत्वस्येत्यर्थः ।
ननु रजतसंविदः कथं शुक्तिका विषयो विरोधादिति चेन्न
ननु रजतसंविदः कथं शुक्तिका विषयो विरोधादिति चेन्न
वादावली
ननु रजतसंविदः कथं शुक्तिका विषयो विरोधादिति चेन्न । रजतसंविद इति कोऽर्थः ? किं रजत-विषयाया इति रजतत्वोल्लेखिसंविद इति वा । नाद्यः । अनभ्युपगमात् । द्वितीये को विरोधः । स्वविषयशुक्ति-कामेवान्याकारेण गृह्णातीत्यस्याविरुद्धत्वात् । ननु तर्ह्यपि रजतेऽस्ति कथञ्चिद्दृश्यतेति चेन्न । तस्य दृश्यत्वाभासत्वात् । तादृशस्य पक्षेऽनन्वयात् । किञ्च रजतस्य फलव्याप्यतया वृत्तिव्याप्यतया वा दृश्यत्वम् । नोभयमपि । अध्यस्ततयैव तत्सिद्ध्यभ्युपगमात् । न च तत्प्रतीतावुपायान्तरं वाऽस्ति । सन्निकर्षाभावात् । आत्मनोऽपि दृयशत्वादनैकान्तिकता च । नात्मा दृश्यत इति चेन्न । व्याहतेः । न ह्यज्ञाते धर्मिणि धर्मविधानं तन्निषेधो वा युज्यते । आत्मा दृश्यो वस्तुत्वा-द्घटवत् । अयं घट एतद्घटात्मान्यान्यदृश्यान्यः प्रमेयत्वा-द्घटवदिति च तस्य दृश्यत्वसिद्धेः ।
वादावलीभावदीपिका
नन्वेवमपि रूप्ये दृगुल्लेखित्वेनापि दृश्यत्वमागतमिति शङ्कते । नन्विति । तर्ह्यपि दृग्विषयत्वाभावेऽपीत्यर्थः । कथञ्चिद्दृगुल्लेखित्वेन दृश्यताऽस्तीत्यन्वयः ॥ दृश्यत्वाभासत्वादिति । रजते दृश्यत्वस्य कल्पितत्वादित्यर्थः । रजतं दृष्टमिति भ्रममात्रत्वादिति भगवत्पादोक्तेरिति भावः । ननु यादृशं रजते दृश्यत्वं तादृशमेव प्रकृते हेतुरस्तु । तथा च न विरुद्धत्वमित्याशङ्क्याह ॥ तादृशस्येति । असिद्धिप्रसङ्गादिति भावः । एवं स्वरीत्या रूप्ये दृश्यत्वाभावं प्रतिपाद्य पररीत्याऽपि तमाह ॥ किञ्चेति ॥ फलेति । अन्तःकरणवृत्तिप्रतिफलितचैतन्यविषयतयेत्यर्थः ॥ वृत्तीति । अन्तःकरणवृत्तिविषयतयेत्यर्थः ॥ अध्यस्ततयेति । प्रतिभासमात्रशरीरतयेत्यर्थः । ननु तन्मतेऽधिष्ठानस्यैव तदुभयविषयत्वेन रूप्यस्य तदभावेऽप्यविद्यावृत्त्या तत्प्रतिफलितचैतन्यरूपफलेन व्याप्यत्व-मङ्गीकृतमिति कथं तस्य न दृश्यत्वमिति चेन्न । तादृशदृश्यत्वस्य पक्षेऽभावेनासिद्ध्यापत्त्या तस्याहेतुत्वादिति भावः । किञ्च शुक्तिरूप्य-स्यादृश्यत्वमिन्द्रियसन्निकर्षादिरूपसामग्रयभावाच्चेत्याह ॥ न चेति । सन्निकृष्टस्यैव ज्ञानविषयत्वात्परोक्षस्थलेऽपि व्याप्त्यादिरूपप्रत्यासत्तेः सत्त्वादिति भावः ।
इदानीं क्रमप्राप्तं व्यभिचारं च वक्तृं दृश्यत्वं वृत्तिव्याप्यत्वं वा फलव्याप्यत्वं वेति विकल्पौ हृदि कृत्वाऽऽद्य आह ॥ आत्मन इति । न केवलं सपक्षस्य शुक्तिरूप्यादेः किन्तु विपक्षस्यात्मनोऽपीत्यपेरर्थः । हेतोरेवाभावान्न दोष इति शङ्कते ॥ नेति । मूकोऽहमितिवत्स्वक्रिया-विरोधलक्षणव्याहतिमेवोपपादयति ॥ न हीति । धर्मविधानमिति दृष्टान्तार्थम् । दृश्यत्वरूपधर्मनिषेधस्यैव प्रस्तुतत्वात् । आत्मनि दृश्यत्वं निषेधता परेणात्मा ज्ञातव्य इति भावः । ननु न बाधकाभावमात्रेण वस्तुसिद्धिः । मानाधीनत्वान्मेयसिद्धेरित्याशङ्क्यात्मनो दृश्यत्वं साधयति ॥ आत्मेति ।
नन्वात्मनो वस्तुत्वमसिद्धम् । निर्धर्मकत्वात् । न च निर्धर्मकत्वस्य भावाभावाभ्यां विरोधः । अभावरूपधर्माङ्गीकारात् । कल्पितस्य च रूप्यादौ सत्त्वेन व्यभिचारापत्तेरित्याशयेनानुमानान्तरमाह ॥ अयं घट इति । इन्द्रियसन्निकृष्टः पुरोवर्तिघटविशेषोऽयमिति परामृश्यते । एतद्घटः पक्षीकृतो घटः, स चात्मा च ताभ्यां यदन्यत्तदुभयभिन्नं विश्वं तदन्यद्यद्दृश्यमात्मरूपं तदन्य इत्यर्थः । अत्र यद्यप्येतद्घटात्मान्यान्यदृश्यं पक्षीकृतघटो भवति तथाऽपि स्वस्य स्वान्यत्वं बाधितमित्यात्मनो दृश्यत्वसिद्धिः । दृष्टान्ते घटे च तथाभूतैद्घटान्यत्वेन साध्यं बोध्यम् । दृश्यान्य इति कृते पटान्यत्वे-नार्थान्तरमत एतद्घटान्यान्येति विशेषणम् । तावत्युक्ते बाधः । अत आत्मेत्युक्तम् । आत्मान्यान्यदृश्यान्य इति कृते यद्यप्यात्मनो दृश्यत्वसिद्धिः । तथाऽपि दृष्टान्ते साध्यवैकल्याद्व्याप्तिवैकल्यं प्रसज्येत । अत एतद्घटेति विशेषणम् । एतद्घटात्मान्यदृश्यान्य इति कृते तादृशपटान्यत्वेनार्थान्तरता । अतोऽन्यान्येति सर्वं सार्थकम् । विपक्षे बाधकस्य प्राचीनवाक्ये प्रतिपादि-तत्वेन नाप्रयोजकत्वं शङ्कनीयम् । अत एवायं घट एतद्घटात्मान्यान्य-नित्यान्यः । तथाविधाचेतनान्य इत्याभाससाम्यमपास्तम् । तत्र विपक्षे बाधकाभावेनाप्रयोजकत्वात् । अत एवेति चेति प्रागुक्तबाधकसमुच्चयार्थश्च-कारः । तथा ‘दृश्यते त्वग्रयया बुद्ध्या’ ‘तमेव धीरो विज्ञाये’त्यादिश्रुत्या, ‘सर्वप्रत्ययवेद्ये च ब्रह्मरूपे’ इत्यादिस्ववचनेन विरोधश्च स्यात् । वेदान्तानां वैय्यर्थ्यं च स्यात् । इत्यादिविपक्षबाधकेन चानुगृहीतत्वादन्योऽपि क्षुद्रोपद्रवः परिहार्य इति भावः ।
वादावलीप्रकाशः
रजतसंविदः शुक्तिकाविषयत्वं न विरुद्धमित्याशङ्कते ॥ ननु रजतसंविद इति ॥ विरोधादितीति । रजतज्ञानवानहमित्यनुव्यवसाय-रूपानुभवेन रजतसंविदो रजतविषयकत्वावगाहनाच्छुक्तिविषयत्वाङ्गीकारे तद्विरोध इत्यर्थः ॥ अनभ्युपगमादिति । असतो रजतस्य निरुक्तविषय-ताया अस्माभिरनभ्युपगमादित्यर्थः । स्वविषयेत्यतःपूर्वमिदं रजतमिति ज्ञानमिति शेषः । अन्याकारेण रजताकारेण रजतोल्लेखितयेति यावत् ॥ गृह्णातीति । दोषवशादिति शेषः । अत एवोक्तमन्यदन्यात्मनाऽवगाहत इत्यन्यथाख्यातिरिति । तथा च रजते दृश्यत्वाभावाद्युक्तं सन्मात्रवृत्तित्वमिति भावः ।
नन्वेवमपि रूप्ये दृगुल्लेख्यत्वेनापि दृश्यत्वमागतमिति शङ्कते ॥ नन्विति । तर्ह्यपि तथाऽपि दृग्विषयत्वाभावेऽपीत्यर्थः । रजतेऽपीति वा सम्बन्धः ॥ कथञ्चिदिति । रजतमिति व्यवह्रियमाणत्वरूपं यद्रजतो-ल्लिखित्वरूपं दृश्यत्वं तद्रजतेऽप्यस्तीति भावः ॥ तस्य दृश्यत्वा-भासत्वादिति । दृग्विषयत्वमेव हि मुख्यं दृश्यत्वं नेतरत् । तस्याभास-त्वात्तादृशस्य रजते सद्भावेऽपि नास्माकं काचित्क्षतिरिति भावः । ननु तर्ह्याभासभूतमेव दृश्यत्वं हेतुरस्तु तथा च रजते मिथ्यात्वसामानाधिकरण्य-सद्भावान्न विरुद्धत्वमित्यत आह ॥ तादृशस्येति ॥ अनन्वयादिति । असम्बन्धादित्यर्थः । आभासभूतदृश्यत्वस्य प्रपञ्चे मिथ्यात्वसाधनाय पक्षसम्बन्धितया हेतुत्वेनावक्तव्यत्वादिति यावत् । अयं भावः । प्रतिपन्नो-पाधौ त्रैकालिकनिषेधप्रतियोगित्वरूपमिथ्यात्वमसति शशविषाणादौ नास्तीति तावत्तव सम्मतम् । तस्य प्रतियोग्यधिकरणतया प्रतिपन्नोपाधेरेवाभावात् । तत्र प्रष्टव्यम् । शशविषाणमस्तीति शब्दात्तदाकारं ज्ञानमुपजायते न वेति । नेति पक्षेऽनुभवविरोधः । आकाङ्क्षादिमच्छब्दस्य ज्ञानजनकत्वस्वाभाव्यात् । आद्ये तद्विषयत्वमेव हि ज्ञानस्य तदाकारत्वम् । यत्सन्निकृष्टकरणेनेत्यादिरूपं मुख्यं तद्विषयत्वं शशविषाणस्य न सम्भवति । असता सन्निकर्षायोगात् । अतस्तदुल्लेखित्वरूपामुख्यं यदाभासभूतं दृश्यत्वं तदेव तत्र वक्तव्यम् । तथा च तेनापि तत्र निरुक्तं मिथ्यात्वं साध्यं स्यादन्यथाऽऽभासदृश्यत्वस्य तत्र व्यभिचारापत्तेः । अतो मुख्य एव दृश्यत्वे हेतूकरणीये तस्य रजतेऽभावाद्युक्तं तस्य सन्मात्रवृत्तित्वमिति । दृष्टान्ते साधनवैकल्यं चाह ॥ किञ्चेति । दृश्यत्वं वक्तव्यमिति शेषः । कुत इत्यत आह ॥ अध्यस्ततयैवेति । प्रातिभासिकतयैवेत्यर्थः ॥ तत्सिद्धीति । रजतसिद्धीत्यर्थः । प्रातिभासिक-स्थले रजताकाराविद्यावृत्तिरन्तरेव भवतीत्यङ्गीकारेण वृत्तिप्रतिबिम्बित-चैतन्याभिव्यक्ताधिष्ठानचैतन्यरूपफलस्य तत्राभावेन तद्व्याप्यत्वाभावात् । तत्राविद्यावृत्त्यङ्गीकारेणान्तःकरणवृत्त्यभावेन तद्व्याप्यत्वस्याप्यभावादित्यर्थः ।
रजते दृग्विषयत्वं नास्तीत्युक्त्वा तत्र दृगेव न सम्भवति कारणा-भावादित्याह ॥ न चेति । न हीत्यर्थः । तत्प्रतीतौ रजतप्रतीतौ ॥ उपायान्तरमिति । इन्द्रियभिन्नमनुमानादिरूपं कारणान्तरमित्यर्थः । तर्हीन्द्रियमेवास्तु तत्कारणमिति चेत्तत्राह ॥ सन्निकर्षाभावादिति । रजतस्य प्रातिभासिकत्वेन प्रतिभासमात्रशरीरतया ज्ञानात्पूर्वं सत्त्वाभावेनेन्द्रियसन्निकर्षो न सम्भवतीति नेन्द्रियेण तज्ज्ञानमित्यर्थः । तथा च ज्ञानात्पूर्वं रजत-सिद्धाविन्द्रियसन्निकर्षसम्भवेन तज्ज्ञानसिद्धिः । तत्सिद्धौ तस्य प्रातिभासि-कत्वेन प्रतिभासमात्र रजतसिद्धिरित्यन्योन्याश्रय इति भावः । अधिकं वक्तृमुक्तमेव दूषणं पुनराह ॥ आत्मनोऽपीति । तत्र हेतोरभावान्न व्यभिचार इत्याशङ्कते ॥ न चात्मेति । आत्मा न हि दृश्यत इत्यर्थः । आत्मा न दृश्यत इत्युक्ते कथं व्याहतिरित्यत आह ॥ न हीति । वाशब्द उपमायाम् । धर्मविधानमिति दृष्टान्तार्थं यथाऽज्ञाते धर्मिणि धर्मविधानं न सम्भवति । (यथाऽज्ञाते धर्मिज्ञानाभावेन तत्र दृश्यत्वमस्तीति विधानं न सम्भवति तथा तत्र दृश्यत्वं नास्तीति दृश्यत्वरूपधर्मनिषेधोऽपि न सम्भव-तीत्यर्थ इति पाठान्तरम्) । एवमात्मरूपज्ञानाभावे तत्र दृश्यत्वं नास्तीति दृश्यत्वरूपधर्मनिषेधोऽपि न सम्भवतीत्यर्थः । हीति सद्भ्यामधिकरण-प्रतियोगिभ्यामभावो निरूप्यत इति प्रसिद्धिं द्योतयति । तथा चात्मनो दृश्यत्वं निषेधता धर्मिभूतात्मज्ञाने वक्तव्ये पुनर्न दृश्यत इत्युक्ते व्याहतिरिति भावः । आत्मनो दृश्यत्वेऽनुमानमप्याह ॥ आत्मेति ॥ अयं घट इति ॥ एतद्घटेति । पक्षीभूतघट इत्यर्थः । तथा चैतद्घटश्चात्मा च ताभ्यामन्यद्यत्सर्वं जगत्तदन्यद्यद्दृश्यमात्मरूपं तदन्यत्वमादाय साध्यार्थपर्यवसानम् । अत्र यद्यप्येतद्घटात्मान्यान्यदृश्यं पक्षीकृते घटेऽपि तथाऽपि स्वान्यत्वं बाधित-मित्यात्मनो दृश्यत्वसिद्धिः । दृष्टान्तभूते घटे एतद्घटात्मान्यान्यादृश्यभूतै-तद्घटात्मान्यत्वमादाय साध्योपपादनं कर्तव्यम् । एवमेव पक्षीभूते एतद्घट उपपादनं कर्तुं न शक्यते बाधात् । अतो दृश्यभूतात्मान्यत्वमादायैव पर्यवस्यतीत्यात्मनो दृश्यत्वसिद्धिरिति भावः ।
वादावलीविवरणं
हेतोः साध्याभावेनैव व्याप्तिदर्शनाय सन्मात्रवृत्तित्वादित्युक्तम् । शङ्कते ॥ न च रजतेति । न च विषय इत्यन्वयः । न त्विति पाठे स्पष्टं शङ्कापरत्वम् ॥ विरोधादिति । अन्यज्ञानस्यान्यविषयत्वविरोधा-दित्यर्थः । यद्वा रजतज्ञानानुव्यवसायविरोधादित्यर्थः । तेन ज्ञानेन रजतविषयत्वस्यैव विषयीकरणादिति भावः ॥ अनभ्युपगमादिति । यत्सन्निकृष्टकरणेन यज्ज्ञानमुत्पन्नं स तस्य विषय इत्येवंविधविषयत्वस्य रजतेऽनभ्युपगमादित्यर्थः ॥ अन्याकारेणेति । अत्यन्तासद्रजततयेत्यर्थः । ननु रजतस्यापि दृग्विषयताऽङ्गीकार्या । रजतं दृष्टमिति प्रतीतिसिद्धत्वादिति भावेन शङ्कते ॥ नन्विति । तर्ह्यपि तथाऽपि । दृग्विषयताया निराकृतत्वा-त्कथञ्चिदित्युक्तम् ॥ तस्या इति । रजतं दृष्टमिति प्रतीतिसिद्धाया दृग्विषयताया इत्यर्थः ॥ दृश्यत्वाभासत्वादिति । कल्पितदृश्यत्व-रूपत्वादित्यर्थः । रजतं दृष्टमिति प्रतीतिस्तु भ्रमं रजतं दृष्टमिति भ्रममात्रत्वादिति भगवत्पदोक्तेरिति भावः । नन्वस्तु यादृशं रजतादेर्दृश्यत्वं तादृशमेव हेतुस्तथा च न विरुद्धत्वमित्यत आह ॥ तादृशस्येति । तथा चासिद्धिरिति भावः । एवं स्वरीत्या रूप्ये दृश्यत्वाभावमुक्त्वा पररीत्याऽऽह ॥ किञ्चेति ॥ फलव्याप्यतयेति । फलविषयतयेत्यर्थः । एवमग्रेऽपि ।
॥ अध्यस्ततयेति । अध्यस्तत्वरूपसम्बन्धेनेत्यर्थः । तथा च ज्ञानज्ञेययोरध्यस्तत्वरूपाध्यासिकसम्बन्धाङ्गीकाराद्वृत्तिविषयत्वरूपं फल-विषयत्वरूपं वा दृश्यत्वं त्वन्मते रजते न सम्भवति । विषयत्वरूपसम्बन्ध-स्यैवाभावादिति भावः । ननु वृत्तिव्याप्यत्वं वृत्त्यभिव्यक्तचिदध्यस्तत्वम् । फलव्याप्यत्वमपि तदध्यस्तत्वमेव । एवञ्च रजतेऽपि मद्रीत्या दृश्यत्वलाभ इति चेन्मैवम् । तथा सति ब्रह्मणो वृत्तिव्याप्यत्वानापत्तेः । तस्याध्य-स्तत्वाभावात् । फलाध्यस्तत्वमित्यत्रापि फलं न तावत्प्रवृत्तिप्रतिबिम्बित-चैतन्यम् । तस्य कल्पितत्वेनाध्यस्ताधिष्ठानत्वाभावात् । नापि वृत्तिप्रति-बिम्बितचैतन्याद्यभिव्यक्तं विषयाधिष्ठानचैतन्यम् । आवश्यकेन वृत्ति-प्रतिबिम्बितचैतन्येनैव प्रकाशोपपत्तौ तदधिष्ठानचिदभिव्यक्तत्वादिकल्पना-योगादिति । ज्ञानोल्लेख्यत्वं दृश्यत्वमिति द्वितीयेऽपि किं वृत्तिव्याप्यत्वमभिप्रेतं फलव्याप्यत्वं वा । आद्य आह ॥ आत्मनोऽपीति । शुक्तिरजतादेः सपक्षस्येव विपक्षस्यात्मनोऽपीत्यर्थः । आत्मनो दृश्यत्वाभावे बाधकमुक्त्वा दृश्यत्वे साधकमाह ॥ आत्मेति । नन्वात्मनो निर्धर्मकत्वेन वस्तुत्व-हेतोरसिद्धिः । न च धर्मकत्वाङ्गीकारविरोधः । अभावरूपधर्माङ्गीकारा-दित्यरुचेराह ॥ अयं घट इति । सन्निहितो घट इत्यर्थः । तेनासन्निहितघटे न सिद्धसाधनता । एतद्घटात्मान्यत्सर्वं जगत्तदन्यदेतद्घटात्माख्यं वस्तुद्वयं तद्रूपं यद्दृश्यं तदन्यदिति साध्यार्थः । पक्षे एतद्घटाख्यदृश्यान्यत्वस्य बाधादात्माख्यदृश्यान्यत्वमादाय साध्यसिद्धिः । दृष्टान्ते एतद्धटाख्य-दृश्यान्यत्वमादायात्म रूपदृश्यस्याधुनाऽप्यसिद्धेरिति बोध्यम् । पटान्यत्वे-नार्थान्तरनिवृत्त्यै एतद्घटान्येति । बाधनिवृत्त्यै आत्मेति । दृष्टान्ते साध्य-वैकल्यपरिहारायैतद्घटेति । एतद्घटात्मान्यदृश्यान्य इत्युक्ते पुनः पटान्यत्वेनार्थान्तरमतोऽन्यान्येति । दृश्यैतद्घटात्मान्य इति कृतेऽप्रसिद्धिरतोऽ-न्यान्येति सर्वं सार्थकम् । न चायं घट एतद्घटात्मान्यान्यनित्यान्य इत्याभास-साम्यम् । विपक्षे बाधकाभावेनाप्रयोजकत्वं च । अत्र चोक्तवक्ष्यमाणबाधक-बलेन तदभावादिति ।