११ दृश्यत्वविकल्पनिरासः

नापि दृश्यत्वस्य

नापि दृश्यत्वस्य

वादावली

नापि दृश्यत्वस्य । तथा हि । किमिदं दृश्यत्वम् । दृग्विषयत्वमस्वप्रकाशत्वं वा । आद्ये किं दृग्वृत्ति-रूपा चिद्रूपा वा । नाद्यः । आत्मन्यनैकान्त्यात् । तस्यापि वेदान्तजनितवृत्तिविषयत्वात् । वृत्तिजनितफलासम्बन्धान्ना-नैकान्त्यमिति चेत् । फलं ज्ञातता, व्यवहारो वा । आद्ये घटादावपि तदभावादसिद्धिः ।

वादावलीभावदीपिका

एवं प्रतिज्ञांशं दूषयित्वा हेत्वंशमपि दूषयति ॥ नापीति । निरुक्तिरिति सम्बध्यते । न केवलं मिथ्यात्वस्येत्यपेरर्थः ॥ अनैकान्त्यादिति । ब्रह्मणि वृत्तिविषयत्वे सत्यपि मिथ्यात्वाभावादिति भावः । हेतोरभावान्न व्यभिचार इत्याशङ्क्याह ॥ तस्येति । अन्यथा ब्रह्मपराणां वेदान्तानां ब्रह्मज्ञानार्थं श्रवणादिविधेश्च वैय्यर्थं स्यात् । ब्रह्मविचारवतोर्गुरुशिष्ययोः क्रमेण मौनं मौढ््यं च स्यादिति भावः । यत्तु विपक्षे धर्मिसमसत्त्वस्य हेतोस्सत्त्वे व्यभिचारः । न त्वारोपितस्यानुमान-मात्रोच्छेदात् । दृश्यत्वं च व्यावहारिके जगतीव पारमार्थिके ब्रह्मण्यपि व्यावहारिकमेवेति न व्यभिचार इति । तत्तुच्छम् । ब्रह्मजगतोः पारमार्थिकत्व- व्यावहारिकत्वविभागस्य मिथ्यात्वसिद्ध्युत्तरकालीनत्वात् । यदपि धर्मिसमसत्त्वं हेतुविशेषणमिति तदपि न चारु । ब्रह्मणि धर्ममात्रस्याप्यभावेन धर्मिसमसत्त्वविषयत्वमात्रस्य हेतुत्वसम्भवेन शेषवैय्यर्थ्यादित्यलम् । ननु दृश्यत्वं नाम न वृत्तिविषयत्वं किन्तु तत्कर्मत्वम् । तच्च वृत्तिजन्य-फलाधारत्वम् । परसमवेतक्रियाफलशालित्वस्यैव कर्मलक्षणत्वात् । ब्रह्मणश्च तदभावान्न व्यभिचार इति शङ्कते ॥ वृत्तीति ॥ ज्ञाततेति । व्यवहारे भट्टनय इत्यभ्युपगमेन भट्टरीत्याऽयं कल्पः । व्यवहार इति सिद्धान्तरीत्येति बोध्यम् । सिद्धान्तरीत्या दोषमाह ॥ घटादाविति । न केवलमतीता-नागतादावित्यपेरर्थः । न केवलं ब्रह्मणीति वाऽर्थः । ज्ञानविषयताव्यतिरेकेण ज्ञाततासद्भावे मानाभावादिति भावः ।

वादावलीप्रकाशः

॥ दृश्यत्वस्येति । बुद्ध्या विवेकेन निरुक्तिरित्यनुवर्तते ॥ दृगिति । ज्ञानमित्यर्थः ॥ वृत्तिरूपेति । अन्तःकरणवृत्तिरूपेत्यर्थः ॥ चिद्रपेति । वृत्तिप्रतिबिम्बितचैतन्याभिव्यक्ताधिष्ठानचैतन्यरूपेत्यर्थः । तदुपपादयति ॥ तस्यापीति । अन्यथा ब्रह्मज्ञानजननाय प्रवृत्तानां वेदान्तानां वैय्यर्थ्यं स्यादिति भावः । इदमुपलक्षणम् । ब्रह्मजिज्ञासा ब्रह्मज्ञानमित्यादौ कर्मणि षष्ठी, आत्मा वा ओ द्रष्टव्य इत्यादौ तव्यप्रत्ययादिश्च न स्यात् । तस्य कर्मणि स्मरणात् । ब्रह्म विचारयितु-मारब्धयोर्गुरुशिष्ययोर्मौनं मौढ््यं च स्यादित्यपि द्रष्टव्यम् । ननु वृत्तिविषयत्वं नाम वृत्तिजनितफलसम्बन्धित्वं विवक्षितम् । तदात्मनि नास्तीति न व्यभिचार इत्याङ्कते ॥ वृत्तिजनितेति ॥ घटादावपीति । ज्ञानविषय-त्वातिरिक्तायां ज्ञाततायां प्रमाणाभावेन तस्यास्मन्मतेऽप्रामाणिकत्वात् । घटादावपि ज्ञानजनितज्ञाततालक्षणफलसम्बधित्वाभावात्स्वरूपासिद्धिः स्यादित्यर्थः ।

वादावलीविवरणम्

॥ नापि दृश्यत्वस्येति । निरुक्तिरिति शेषो न त्वनुषङ्गः । तस्य समासैकदेशत्वात् ॥ वृत्तिरूपेति । विषयेन्द्रियसंयोगादिके सति बाह्येन्द्रियद्वारा निर्गतान्तःकरणस्य तत्तद्विषयाकारः परिणामविशेषो वृत्तिस्तद्रूपेत्यर्थः । यद्यपि दृग्वृत्तिविषयत्वं परमते घटादावेव न तु गगनादौ । परैरतीन्द्रियेऽन्तःकरणनिर्गमनानङ्गीकारात् । नापि शुक्तिरूप्यादौ । तदिन्द्रिय-संयोगाभावात् । तथाऽपि गगनादिसन्निकृष्टशब्दादिरूपकरणेन निर्गतस्यैवान्तः-करणस्य तत्तदाकारपरिणामाङ्गीकारात्तादृशविषयत्वं गगनादावस्त्येव । शुक्तिरूप्यादौ त्वविद्यापरिणामरूपवृत्तिविषयत्वमस्ति । शुक्तीन्द्रियसन्निकर्षे सतीदमाकाराऽन्तःकरणवृत्तिरुदेति । तस्यां च चैतन्यं प्रतिफलति । तत्र शुक्तित्वाविद्याऽस्ति । सा च दोषवशात्क्षुब्धा सती रजतात्मना रजताकार-ज्ञानात्मना च परिणमत इति तैरङ्गीकृतत्वात् । एवञ्च वृत्तिविषयत्वं पक्षदृष्टान्तानुगतं भवतीति न कश्चिद्दोषः ॥ चिद्रूपेति । घटादौ शुक्ति-रूप्यादौ चान्तःकरणाविद्यावृत्तिप्रतिफलितचिद्विषयत्वमादाय गगनादाव-ज्ञानावच्छेदकतया साक्षिविषयत्वमादाय चिद्विषयत्वरूपदृश्यत्वं बोध्यम् ॥ तस्यापीति । अन्यथा ब्रह्मपराणां वेदान्तानां वैय्यर्थ्यं स्यात् । सर्वप्रत्ययवेद्ये च ब्रह्मरूपे व्यवस्थित इति स्ववचनविरोधश्च स्यादिति भावः । ननु न वृत्तिमात्रविषयत्वं दृश्यत्वं किन्तु वृत्तिजन्यफलव्याप्यत्वं तदभावाच्च नात्मन्य-नैकान्त्यमिति भावेन शङ्कते ॥ वृत्तिजनितेति ॥ ज्ञाततेति । ज्ञातता-शब्दवाच्यं वृत्तिप्रतिफलितचैतन्यं वा तदभिव्यक्ताधिष्ठानचैतन्यं वेत्यर्थः । उक्तं हि । ज्ञातताशब्दवाच्यमभिव्यक्तं स्फुरणं सम्बन्धरूपं फलमिति । स्वमतेनाह ॥ घटादावपीति ।


अतीतानागतनित्यानुमेयेषु ज्ञातताभावाद्भागा-सिद्धिश्च

अतीतानागतनित्यानुमेयेषु ज्ञातताभावाद्भागा-सिद्धिश्च

वादावली

अतीतानागतनित्यानुमेयेषु ज्ञातताभावाद्भागा-सिद्धिश्च । तथा हि । अवेद्यत्वे सत्यपरोक्षव्यवहारयोग्यत्वं स्वप्रकाशत्वमिति तल्लक्षणमभिदधता चित्सुखेनापरोक्षव्यवहार-योग्यताविशेषणकृत्याभिधान प्रस्तावेऽभिहितम् । न चावेद्यत्वमित्येतावदेवास्तु तल्लक्षणमिति वाच्यम् । तथा सत्यतीतानागतनित्यानुमेयेषु चातिव्याप्तेः । फलव्याप्यता-लक्षणवेद्यत्वस्य तत्राभावादिति । द्वितीये पुनरनैकान्त्यमेव । आत्मनोऽपि वृत्तिजन्यव्यवहारविषयत्वात् । चिद्रूपदृग्विषयत्वं तु घटादावस्माभिर्नाङ्गीक्रियत इति भागासिद्धिः । स्वप्रकाशत्वं च निर्वक्तव्यं यदभावो दृश्यत्वम् । अवेद्यत्वमिति चेत्तर्हि वेद्यत्वं दृश्यत्वमित्युक्तं स्यात् । तथा च प्रागुक्तविकल्प-दोषापातः ।

वादावलीभावदीपिका

पररीत्या च दूषयति ॥ अतीतेति । नन्वतीतानागतयोरपि कदाचिज्ज्ञातताधारत्वादित्यरुच्याऽऽह ॥ नित्यानुमेयेष्विति । तत्र कदाऽप्यभावादिति भावः । एतेन वृत्तिप्रतिफलितं चैतन्यं फलमिति नवीनमतमपि प्रत्युक्तम् । अस्मन्मते घटादावप्यभावेनासिद्धेः । त्वन्मते चातीतानागतयोरभावात् । तयोः कदाचित्तत्सम्भवेऽपि नित्यानुमेये कदाऽप्यभावेन भागासिद्धेः । ननु परमते कथमतीतादौ ज्ञाततारूपफलाभावः कथं च वृत्तिप्रतिफलितचैतन्यरूपफलाभावश्चेत्यतो द्वयमपि चित्सुखवचनेन संवादयितुं प्रतिजानीते ॥ तथा हीति । न चावेद्यत्वमित्यारभ्य तत्राभावा-दित्यन्तं चित्सुखवाक्यानुवादः ॥ फलव्याप्यतेति । ज्ञातताधारत्वरूपस्य वृत्तिप्रतिफलितचैतन्यविषयत्वरूपस्य चाभावादित्यर्थः । न च नित्यानुमेयमपि योगिनं प्रति फलव्याप्यमिति वाच्यम् । चित्सुखेनैव न च योगिप्रत्यक्ष-गम्यतयाऽपरोक्षत्वम् । धर्मादीनां चोदनैकप्रमाणगम्यत्वादित्युक्तत्वेन तद्विरोधादिति भावः । व्यवहारः फलमिति कल्पं निराह ॥ द्वितीय इति ॥ व्यवहारविषयत्त्वादिति ॥ तथा च व्यभिचार इति भावः । चिद्रूप-दृग्विषयत्वं दृश्यत्वमिति प्राग्विकल्पितं पक्षं निराह ॥ चिद्रूपेति । सुख-दुःखादौ चिद्विषयत्वसत्त्वेऽपि घटादावभावेन भागासिद्धिरित्यर्थः । अस्व-प्रकाशत्वं दृश्यत्वमिति द्वितीयपक्षं प्रतिक्षेप्तुं तत्प्रतियोगिभूतस्वप्रकाशत्वं पृच्छति ॥ स्वप्रकाशत्वं चेति । ननु दृश्यत्वापाकरणप्रस्तावे प्रकाशत्वप्रश्नोऽयुक्त इत्यत आह ॥ यदिति ॥ प्रागुक्तविकल्पेति । वेद्यत्वं किं वृत्तिवेद्यत्वं वा चिद्वेद्यत्वं वा वृत्तिजन्यफलसम्बन्धित्वं वा, फलं च ज्ञातता व्यवहारो वा वृत्तिप्रतिफलितचैतन्यं वेति विकल्पानां तेषूक्तदोषाणां चापात इत्यर्थः ।

वादावलीप्रकाशः

त्वद्रीत्या भागासिद्धिश्च स्यादित्याह ॥ अतीतेति ॥ नित्यानु-मेयेष्विति । नित्यातीन्द्रियेष्वित्यर्थः । योग्यत्वं विषयत्वं तथैवोत्तरत्र व्यवहारात् । तल्लक्षणं स्वप्रकाशत्वलक्षणम् । प्रस्तावे प्रसङ्गे इति यावत् । तद्वाक्यं पठति ॥ न चेति ॥ एतावदेवास्त्विति । अपरोक्षव्यवहार-योग्यत्वमिति विशेष्यभागो व्यर्थ इति भावः । तामुपपादयति ॥ फल-व्याप्यतेति । वत्तिजनितज्ञाततालक्षणफलसम्बन्धित्वरूपदृश्यत्वापरपर्यायं यद्वेद्यत्वं तस्य तत्राभावेनावेद्यत्वसद्भावादित्यतिव्याप्तिरित्यर्थः । तथा हि । असति धर्मिणि धर्मजननायोगान्नातीतानागतयोर्ज्ञानजन्यज्ञातताधारत्वम् । अपरोक्षज्ञानविषयेष्वेव ज्ञानेन ज्ञातताजननमङ्गीकृतम् । नानुमेयेषु धर्मादिष्वतीन्द्रियेष्वनुमेयस्यापि वह्न्यादेः कदाचिदपरोक्षज्ञानविषयत्वेन ज्ञातताधारत्वान्नित्यानुमेयेष्वित्युक्तम् । नित्यातीन्द्रियेष्वित्यर्थः । तथा च तत्रातिव्याप्तिपरिहाराय विशेष्यभाग इति द्रष्टव्यम् । इत्यभिहितमित्यन्वयः । ज्ञानजन्यव्यवहाररूपफलसम्बन्धित्वं दृश्यत्वमिति द्वितीयपक्षे दोषमाह ॥ द्वितीय इति ॥ व्यवहारेति । आत्मेत्यादिव्यवहारेत्यर्थः । चिद्रूप-दृग्विषयत्वं दृश्यत्वमिति पक्षमनूद्य स्वरूपासिद्ध्या दूषयति ॥ चिद्रूपेति ॥ नाङ्गीक्रियत इति । निरुक्तचैतन्यरूपाया दृशोऽप्रामाणिकत्वादिति भावः । इत्यसिद्धिरित्येव पाठः । अस्वप्रकाशत्वं दृश्यत्वमिति द्वितीयपक्षं दूषयितुमाह ॥ स्वप्रकाशत्वमिति । असङ्गतिपरिहारायाह ॥ यदभाव इति । ओमिति चेत्तत्राह ॥ तथा चेति । वेदनं नाम दृगेव । सा किं वृत्तिरूपा चिद्रूपा वेत्यादिप्रागुक्तविकल्पदोषापात इत्यर्थः ।

वादावलीविवरणम्

पररीत्याऽऽह ॥ अतीतेति । अतीतादावुक्तरूपफलं परैर्नाङ्गीकृत-मित्येतच्चित्सुखाचार्यवचनाज्ज्ञायत इत्याह ॥ तथा हीत्यादिना तत्रा-भावादित्यन्तेन । न चातीतादिकमपि स्वसत्ताकाले फलव्याप्यमिति वाच्यम् । नित्यानुमेयेऽसिद्ध्यनुद्धारात् । अत एवादिपदेन तदगृहीतत्वात्स्वपदेन ग्रहणम् । न च नित्यानुमेयमपि योगिनं प्रति फलव्याप्यमिति वाच्यम् । न च योगिप्रत्यक्षगम्यतयाऽपरोक्षत्वधर्मादीनामिति चित्सुखवचनविरोधेन तत्र फलव्याप्यत्वाङ्गीकारादिति । नन्वतीतादौ कथमवेद्यत्वम् । वृत्तिव्याप्यत्व-रूपवेद्यत्वस्य सत्त्वादित्यत आह ॥ फलव्याप्यतेति । फलं व्यवहार इति द्वितीयपक्ष आह ॥ द्वितीय इति । नन्वस्तु तर्हि दृक् चिद्रूपेति द्वितीयः पक्षः । अतीतादेरपि कदाचित्स्वाकारवृत्तिप्रतिफलितचिद्विषयत्वान्न तत्रासिद्धिः । नित्यातीन्द्रियस्यापि ज्ञातत्वेनाज्ञातत्वेन वा साक्षि-विषयत्वात्तत्रापि नासिद्धिः । आत्मनस्तु चिद्रूपत्वेन तदविषयत्वान्न तत्रानैकान्त्यमित्यत आह ॥ चिद्रूपेति ॥ नाङ्गीक्रियत इति । प्रमाणा-भावात् । न च घटं जानामीति सकर्मकज्ञानगृह्यान्यो घटः प्रकाशत इत्यकर्मकप्रकाशरूपा चिदनुभवसिद्धेति वाच्यम् । तथात्वेऽतीतः प्रकाशत इति बुद्ध्या तस्यापि चिद्रूपविषयत्वापातात् । न चेष्टापत्तिः । अभिव्यक्ता-परोक्षैकरसचिदुपरागेण विषयस्याप्यापरोक्ष्यप्रसङ्गादिति भावः । स्वमतेऽपि गगनादेः साक्षिरूपचिद्विषयत्वादुक्तं भागासिद्धिरिति । अन्यथाऽसिद्धि-रित्येवावक्ष्यत् । अस्वप्रकाशत्वं दृश्यत्वमिति पक्ष आह ॥ द्वितीय इति । स्वप्रकाशत्वप्रश्नोऽसङ्गत इत्यत आह ॥ यदभाव इति ॥ प्रागुक्तेति । वेदनं किं वृत्तिरूपं विवक्षितं चिद्रूपं वा । नाद्यः । आत्मन्यनैकान्त्यात् । नान्त्यः घटादावसिद्धेरिति प्रागुक्तविकल्पदोषापात इत्यर्थः ।