न च भावरूपाज्ञाननिराकरणे सिद्धान्त-विरोधः
मिथ्यात्वनिरुक्तिनिरासोपसंहारः
न च भावरूपाज्ञाननिराकरणे सिद्धान्त-विरोधः
वादावली
न च भावरूपाज्ञाननिराकरणे सिद्धान्त-विरोधः । परन्यायेन परनिराकरणात् । न सप्तमः । अत्यन्ता- भावपदेनासत्त्वाभिप्रायेऽपसिद्धान्तः । तदतिरिक्तस्याप्रसिद्ध-त्वात् । भाववैलक्षण्यमिति चेत्तर्हि तत एवासत्त्वापत्त्या नोक्त-दोषनिवृत्तिः । तस्मान्न मिथ्यात्वनिरुक्तिः ॥ छ ॥ मिथ्यात्व-निरुक्तिनिरासोपसंहारः ॥ छ ॥
वादावलीभावदीपिका
नन्वज्ञानस्य भवद्भिरप्यङ्गीकारात्तन्निराकरणं व्याहतमिति शङ्कते ॥ न चेति । परमत एवैते दोषा नास्मन्मत इत्याह ॥ परेति । स्वमते तु स्वभावाज्ञानवादस्य निर्दोषत्वान्न तद्भवेदित्यादौ शास्त्रे तद्व्युत्पादनं व्यक्तमिति भावः । स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वं मिथ्यात्वमिति पक्षं प्रतिक्षिपति ॥ न सप्तम इति ॥ असत्त्वेति । स्वरूपेणात्यन्ता-भावस्यासत्त्वे पर्यवसानादिति भावः ॥ तदतिरिक्तस्येति । स्वरूपेणात्यन्ता-भावप्रतियोगित्वादन्यस्यासत्त्वस्येत्यर्थः ॥ भावेति । सद्वैलक्षण्यमित्यर्थः । तथा च सद्वैलक्षण्यादेवासत्त्वापत्त्याऽपसिद्धान्तदोषस्यानिवृत्तिरित्याह ॥ तर्हीति । प्रतिज्ञांशदोषमुपसंहरति ॥ तस्मादिति ॥ छ ॥
वादावलीप्रकाशः
॥ सिद्धान्तविरोध इति । अभावास्यावरकत्वायोगाज्जीव-स्वरूपभूतानन्दाद्यावरकत्वान्यथाऽनुपपत्त्या भावरूपाज्ञानस्य सिद्धान्ते साधितत्वादिति भावः । न च भावरूपाज्ञानस्यावरकत्वे मानाभाव इति वाच्यम् ।
‘‘प्रकृतिं स्वात्मसंश्लिष्टां गुणान्सत्त्वादिकानपि ।
कर्माणि सूक्ष्मदेहं च जायमाना हरेर्दृशिः ।’’
दहेदि’’त्यादिप्रमाणसिद्धत्वात् । न चात्र भावरूपाज्ञानं न श्रूयत इति वाच्यम् । सत्त्वादिगुणानामेव तथात्वात् । यथोक्तं सुधायाम् । ज्ञानिनां मोक्षदः स इत्यत्र भावरूपया विद्याविरोधित्वेनाविद्यया सत्त्वादिगुणात्मिकया प्रकृत्या परमेश्वरो जीवस्वरूपभूतानप्यानन्दादीनाच्छादयतीति ॥ परन्यायेनेति । स्वसिद्धैः साधनं परसिद्धैर्दूषणमिति भगवत्पादैरुक्तत्वादिति भावः ॥ न सप्तम इति । स्वात्यन्ताभावसमानाधिकरणतया प्रतीय-मानत्वमिति सप्तमोऽपि न युक्त इत्यर्थः । अत्यन्ताभावप्रतियोगिपदेनेत्येवं पाठः । क्वचिदत्यन्ताभावपदेनेति पाठो दृश्यते । तत्र नामैकदेशे नाम-ग्रहणमिति न्यायेनात्यन्ताभावप्रतियोगिपदेनेत्येवार्थो द्रष्टव्यः ॥ असत्त्वाभि-प्राय इति । असत्त्वेऽभिप्रेते सतीत्यर्थः ॥ अपसिद्धान्त इति । असद्वैलक्षण्याङ्गीकारादिति भावः । नन्वस्य लक्षणस्य नासत्त्वे तात्पर्यं किन्तु तदतिरिक्ते सदसद्वैलक्षण्य रूपानिर्वचनीयत्वेऽतो नापसिद्धान्त इत्यत आह ॥ तदतिरिक्तस्येति ॥ अप्रसिद्धत्वादिति । तथा चानुमानस्याप्रसिद्ध-विशेषणत्वमित्यर्थः ॥ भावेति । भवतीति भावः स न, तद्वैलक्षण्य-मित्यर्थः । तथा चास्य लक्षणस्यासत्त्व एव तात्पर्यमसत्त्वं च न निरुपाख्यत्वं किन्तु सद्वैलक्षण्यमेवेति नापसिद्धान्त इति भावः ॥ तत एवेति । भाव-विलक्षणत्वादेव सद्विलक्षणत्वादेवेति यावत् ॥ असत्त्वापत्त्येति ॥ परस्पर-विरुद्धयोरन्यतरनिषेधस्यान्यतरविधिनान्तरीयकत्वादिति भावः । तृतीयकोटे-रद्याप्यप्रसिद्धत्वादिति हृदयम् । उक्तदोषोऽपसिद्धान्तरूपः । मिथ्यात्वा-निरुक्तेरिति प्रतिज्ञातमुपपाद्योपसंहरति ॥ तस्मादिति ॥ छ ॥
वादावलीविवरणं
सत्यमपि किमत्यन्ताभावपदेन स्वरूपेणात्यन्ताभावो विवक्षितः किं वा पारमार्थिकत्वाकारेण वेति विकल्प्याद्य आह ॥ अत्यन्ताभाव-पदेनेति ॥ असत्त्वाभिप्राय इति । स्वरूपेणात्यन्ताभावस्याभिप्रेतत्व इत्यर्थः । अन्त्य आह ॥ तदतिरिक्तस्येति । स्वरूपेणात्यन्ताभावाति-रिक्तस्य पारमार्थिकत्वाकारेणात्यन्ताभावस्येत्यर्थः ॥ अपसिद्धान्तादिति । वियदादौ शुक्तिरूप्यादौ चेति शेषः । नेह नानाऽस्ति किञ्चनेति श्रुत्या रूप्यं नास्ति नासीन्न भविष्यतीत्यनुभवेन च स्वरूपेणैव निषेधादिति भावः ॥ भाववैलक्षण्यमिति । सद्वैलक्षण्यमित्यर्थः ॥ असत्त्वापत्त्येति । नृशृङ्गादावपि सद्वैलक्षण्यादन्यस्यासत्त्वस्याभावेनात्यन्तासत्त्वापातादित्यर्थः ॥ छ ॥ मिथ्यात्वनिरुक्तिनिरासः ॥ छ ॥
मिथ्यात्वनिरुक्तिनिरासोपसंहारः