नानेनानुमानेन त्वदभिमताज्ञानसिद्धिः
अविद्यानुमानभङ्गः
नानेनानुमानेन त्वदभिमताज्ञानसिद्धिः
वादावली
नानेनानुमानेन त्वदभिमताज्ञानसिद्धिः । जडेऽज्ञानानभ्युपगमेनान्तःकरणवृत्तिलक्षणप्रमाणज्ञानानां तथा-विधवस्तुपूर्वकत्वाभावेऽपि हेतोस्तत्र सद्भावादनैकान्तिकत्वात् । व्यर्थं च स्वप्रागभावव्यतिरिक्तेति विशेषणम् । स्वनिवर्त्य-विशेषणेनैव तद्व्यावृत्तेः । न हि भावः स्वप्रागभाव निवर्तकः । अपि तु भावोत्पत्तिरेव तत्प्रागभावनिवर्तिका । भावाभावयोः सहावस्थानविरोधात् । अतः स्वनिवर्त्यविशेषणेनैव स्वप्राग-भावव्यावृत्तेर्व्यर्थं स्वप्रागभावव्यतिरिक्तेति विशेषणम् ।
वादावलीभावदीपिका
एवमनूदितमनुमानं दूषयति ॥ नेति । अत्र प्रमाणज्ञानमित्यनेन चैतन्यं पक्षीक्रियते उत वृत्तिर्वा । आद्ये दोषमाह ॥ जड इति । ‘‘आश्रयत्वविषयत्वभागिनी निर्विशेषचितिरेव केवला । पूर्वसिद्धतमसो हि पश्चिमो नाश्रयो भवति नापि गोचर’’इति विवरणोक्तेर्जडविषयकाज्ञानानभ्युप-गमेनेत्यर्थः ॥ ज्ञानानामिति । जडविषयकाणामिति शेषः ॥ तथा-विधेति । स्वप्रागभावेत्यादिविशेषणविशिष्टेत्यर्थः । इदं तु साध्याभावो-पपादनाय । अनैकान्तिकत्वादित्युपलक्षणम् । सुखादिविषयकचैतन्ये बाधोऽपि बोध्यः । द्वितीयेऽपि परोक्षवृत्तिर्वाऽपरोक्षवृत्तिर्वा । आद्येऽप्याह ॥ जड इति । ज्ञानानां परोक्षज्ञानानामित्यर्थः । द्वितीयेऽप्याह ॥ जड इति । ज्ञानानामपरोक्षज्ञानानाम् । पक्षद्वये बाधोऽपि बोध्यः । स्वविषयावरण-वस्त्वन्तरस्याभावात् । साध्ये विशेषणवैय्यर्थ्यं चाह ॥ व्यर्थं चेति । तर्हि प्रागभावव्युदासः कथमित्यत आह ॥ स्वेति । तदेवोपपादयति ॥ न हीति । ननु भावः कुतः स्वप्रागभावानिवर्तक इत्याशङ्क्य नाजात एकोऽन्यं हन्ति नाप्यन्याधार इति न्यायेन समानाधिकरणयोरेव निवर्त्यनिवर्तकभावात् । भावाभावयोश्च सहानवस्थानान्न निवर्त्यनिवर्तकभाव इत्याह ॥ भावेति ॥ उक्तं विशेषणवैय्यर्थ्यमुपसंहरति ॥ अत इति । भावस्याभावनिवर्तकत्वा-भावादित्यर्थः ।
वादावलीप्रकाशः
॥ त्वदभिमतेति । भावरूपेत्यर्थः ॥ अन्तःकरणवृत्तीति । मनोवृत्तीत्यर्थः ॥ ज्ञानानामिति । घटादिज्ञानानामित्यर्थः ॥ तथा-विधेति । स्वप्रागभावव्यतिरिक्तेत्यादिविशेषणचतुष्टयोपेतवस्त्वित्यर्थः ॥ अभावेऽपीति । अनेन साध्याभाव उक्त इति द्रष्टव्यम् । ननु तत्रापि घटाद्यज्ञानरूपतथाविधवस्तुपूर्वकत्वमस्त्येवेति साध्यस्यापि सत्त्वान्न व्यभिचार इत्यत उक्तम् ॥ जड इति ॥ जडविषय इत्यर्थः । जडावरकेति यावत् । प्राप्तप्रकाशप्रतिबन्धरूपावरणकृत्याभावेन जडावरकाज्ञानानभ्युपगमादिति भावः । यथोक्तम् । ‘‘अप्रकाशस्वरूपत्वाज्जडेऽज्ञानं न मन्यत’’ इति ॥ हेतोरिति । अप्रकाशितार्थप्रकाशकत्वरूपहेतोरित्यर्थः । ननु स्वप्रागभावमादायार्थान्तरता-परिहाराय तद्विशेषणं सार्थकमिति चेत्तत्राह ॥ स्वनिवर्त्येति ॥ स्वनिवर्त्यत्वं नाम स्वजन्यध्वंसप्रतियोगित्वं तत्प्रमाणज्ञानप्रागभावे नास्ति । कुत इत्यत आह ॥ न हि भाव इति । प्रमाणज्ञान इति यावत् । तथा च प्रमाणज्ञानप्रागभावनिवृत्तेः स्वजन्यत्वं नास्तीति भावः ॥ भावोत्पत्ति-रेवेति ॥ प्रतियोग्यापत्तिरेवेत्यर्थः ॥ प्रागभावनिवर्तिकेति ॥ प्रागभाव-विपत्तिनिवृत्तिरूपेत्यर्थः । तथा हि । प्रतियोग्यापत्तिरेव प्रागभावनाशः । कुत इति चेत् । प्रागभावनाशस्य प्रतियोगिसामग्रीजन्यत्वेन प्रतियोग्यात्म-कत्वादिति भावः । नन्वेकसामग्रीजन्यत्वेन प्रागभावप्रतियोगिप्रागभाव-निवृत्तेरभेदोक्तौ पटतन्तुरूपयोरप्यभेदः स्यात्तन्तुलक्षणैकसमवायिकारण-जन्यत्वादिति चेन्न । एकसामग्रीजन्यत्वाभावात् । पटोत्पत्तौ तन्तुद्वय-संयोगस्यासमवायिकारणत्वेन तन्तुरूपोत्पत्तौ तन्त्ववयवगतरूपस्या-समवायिकारणत्वेन सामग्रीभेदात् । ननु प्रागभावध्वंसस्य प्रतियोगि-सामग्रीजन्यत्वे सोपादानकत्वं स्यादिति चेन्न । इष्टापत्तेः । यत्र ध्वंसः प्रतियोगिभिन्नस्तत्र निरुपादानकत्वं प्रकृते च प्रागभावनिवृत्तिः प्रति-योग्यात्मिकैवेति सोपादानकत्वे दोषाभावात् । यथोक्तम् । प्रतियोग्यापत्तिरेवा-भावविपत्तित्वस्य प्रागभावे दृष्टत्वादिति । किञ्च प्रमाणज्ञानस्य स्वप्रागभाव-निवर्तकत्वे वध्यघातकभावरूपविरोधः प्राप्तः । वध्यधातकभावविरोधश्च मूषकमार्जारवत्सहावस्थानसापेक्षः । तर्ह्यस्तु प्रमाणज्ञानस्यापि स्वप्रागभावेन सहावस्थिततया तन्निवर्तकत्वमिति चेत्तत्राह ॥ भावाभावयोरिति ॥ प्रतियोगितदभावयोरित्यर्थः ॥ विरोधादिति । भावाभावयोर्हि परस्परप्रतिक्षेप-रूपतया साक्षाद्विरोधस्तद्द्वारा जन्ययोस्तज्ज्ञानयोर्वाक्ययोरिति स्थितिः । तयोश्च सहावस्थाने लोके विरोधवार्तैवोच्छिद्येत । सर्वविरोधानां तन्मूलकत्वादिति भावः ।
वादावलीविवरणं
किमत्र चिद्रूपज्ञानं धर्म्युत वृत्तिरूपम् । नाद्यः । एवं सति वृत्तेर्विपक्षत्वेन तत्र व्यभिचारादित्यत आह ॥ जड इति ॥ द्वितीये किमनात्मविषयज्ञानं धर्म्युतात्मविषयम् । नाद्यः । आत्मावरकस्याज्ञानस्या-नङ्गीकारेण तत्साधने बाधापातात् । द्वितीये त्वनात्मज्ञानस्य विपक्षत्वात्तत्र व्यभिचार इत्याह ॥ जड इति । एवञ्च प्रतिज्ञादूषणस्यावसरप्राप्तत्वात्कथं प्रथमं हेतुदोषोक्तिरिति निरस्तम् । ननु विप्रतिपन्नस्यात्मज्ञानस्यानात्मज्ञानस्य च धर्मित्वम् । न च बाधः । घटाद्यवच्छिन्नचैतन्यं प्रत्यक्षाद्यविषयत्वेनोपे-यते । तच्चाज्ञानावृतमिति कथम् इत्याद्यपरितुष्यन्नाह ॥ व्यर्थं चेति ॥ तद्व्यावृत्तेरिति ॥ स्वप्रागभावव्यावृत्तेरित्यर्थः ॥ भावोत्पत्तिरेवेति । अत्र कार्याव्यवहितलक्षण उत्पत्तिशब्दार्थः । ननु भावः स्वप्रागभावनिवर्तको न भवतीत्येतत्कुत इत्यत आह ॥ भावाभावयोरिति ॥ सहावस्थान-विरोधादिति ॥ सहावस्थानाभावादित्यर्थः । सहावस्थानाभावे च कथं भावस्याभावनिवर्तकत्वम् । ‘‘नाजात एकोऽन्यं हन्ति नाप्यन्याधार’’ इति न्यायेन सहानवस्थितयोर्वध्यघातकभावायोगादिति भावः ।
किञ्च सत्यतथाविधवस्तुपूर्वकत्वे साध्ये सिद्ध-साधनम्
किञ्च सत्यतथाविधवस्तुपूर्वकत्वे साध्ये सिद्ध-साधनम्
वादावली
किञ्च सत्यतथाविधवस्तुपूर्वकत्वे साध्ये सिद्ध-साधनम् । अनिर्वचनीयतथाविधवस्तुपूर्वकत्वे साध्ये साध्य-विकलो दृष्टान्तः । अविशेषिततथाविधवस्तुपूर्वकत्वे साध्येऽ-प्रसिद्धविशेषणता । प्रामाणिकाप्रामाणिकयोः साधारण-धर्मस्याप्यप्रामाणिकत्वात् । अनिर्वचनीयस्य केनापि प्रमाणेनाप्रमितत्वात् । न हि शशविषाणगोविषाणयो-र्विषाणत्वसामान्यमस्ति । ज्ञानप्रतिबन्धकपापस्य सिद्धतया सिद्धसाधनत्वं च । ज्ञाननिवर्त्यत्वात्तस्यापि ।
वादावलीभावदीपिका
किञ्च वस्त्वन्तरपूर्वकत्वमित्यत्र सत्यवस्त्वन्तरपूर्वकत्वं, साध्य-मुतानिर्वचनीयवस्त्वन्तरपूर्वकत्वमाहोस्वित्सत्यानिर्वचनीयसाधारणवस्त्वन्तर पूर्वकत्वमिति त्रेधा विकल्पं हृदि कृत्वा क्रमेण निरस्यति ॥ किञ्चेति ॥ तथाविधेति ॥ उक्तविशेषणविशिष्टेत्यर्थः ॥ सिद्धसाधनमिति । सत्यभाव-रूपाज्ञानस्यास्माभिरङ्गीकारादिति भावः ॥ साध्यविकल इति । तमसोऽ-निर्वचनीयत्वासिद्धेरिति भावः । अप्रसिद्धत्वमेवोपपादयितुं सामान्यन्यायमाह ॥ प्रामाणिकेति ॥ ततः किमित्यत आह ॥ अनिर्वचनीयस्येति । प्रामाणिकाप्रामाणिकयोः सामान्यधर्मो नेत्येतत्प्रसिद्धमित्याह ॥ न हीति ॥ दोषान्तरं चाह ॥ ज्ञानेति ॥ ज्ञानप्रतिबन्धकेति स्वविषयावरणत्व-ख्यापनायोक्तम् । ज्ञानप्रागभावभिन्नत्वं ज्ञानदेशगतत्वं च स्पष्टम् । ज्ञाननिवर्त्यत्वे तु विवादादाह ॥ ज्ञानेति ।
‘‘अग्निचित्कपिला सत्रं राजा भिक्षुर्महोदधिः ।
दृष्टमात्राः पुनन्त्येते तस्मात्पश्येत नित्यशः ॥’’
इति स्मृत्याऽग्निचित्कपिलादिदर्शनस्य दुरितादिनिवर्तकत्वस्य, सेतुं दृष्ट्वा समुद्रस्य ब्रह्महत्यां व्यपोहतीति सेतुदर्शनस्य ब्रह्महत्यादिपापनिवर्तकत्वस्य च प्रसिद्धत्वादिति भावः । ननु सेत्वादिदर्शनस्य सेतुविषयाज्ञाननिवृत्तिद्वारेण स्वजन्यादृष्टद्वारेण वा ब्रह्महत्यादिनिवर्तकत्वं न साक्षात् । प्रकृते च साक्षा-ज्ज्ञाननिवर्त्यत्वं विवक्षितमिति चेन्मैवं वोचः । सेतुदर्शनेन युगपद-ज्ञानब्रह्महत्ययोर्द्वयोरपि निवृत्तिसम्भवात् । ब्रह्महत्यायाः सेत्वज्ञाना-नुपादानत्वेनाज्ञाननिवृत्त्या ब्रह्महत्यादिनिवृत्तिरित्यस्यासम्भवदुक्तिकत्वाच्च । यदप्यदृष्टद्वारेणेति तदपि न साधनीयम् । सेतुदर्शनानन्तरमेव ब्रह्महत्यादि-निवृत्तिसम्भवे तस्यादृष्टद्वारत्वकल्पने मानाभावात् । अन्यथा दृष्टमात्राः पुनन्तीति सेतुं दृष्ट्वेति श्रुतदर्शनत्यागेन तज्जन्यादृष्टस्य निवर्तकत्वकल्पने तरति शोकमात्मविदिति तदा विद्वान्नामरूपाद्विमुक्त इति श्रुतस्यापि ज्ञानस्य त्यागेन तज्जन्यादृष्टस्यैवाज्ञाननिवर्तकत्वं स्यात् । नन्वथाऽपि न ज्ञानत्वेन सेतुदर्शनादेर्ब्रह्महत्यादिनिवर्तकत्वम् । किन्तु विहितक्रियात्वेन । प्रकृते च ज्ञानत्वेन तन्निवर्त्यत्वं विवक्षितमिति चेन्न । ब्रह्मज्ञानस्यापि विहित-क्रियात्वेनैवाज्ञाननिवर्तकत्वं न तु ज्ञानत्वेनेति सुवचत्वादित्यास्तां विस्तारः ।
वादावलीप्रकाशः
॥ तथाविधेति ॥ स्वप्रागभावव्यतिरिक्तेत्यादिविशेषणोपेतेत्यर्थः ॥ सिद्धसाधनमिति । त्वदभिलषितमिथ्यात्वसिद्ध्याऽस्माकं सिद्धसाधन-मित्यर्थः ॥ साध्यविकल इति । दीपप्रभानिवर्त्यान्धकारस्यानिर्वचनीयताया अस्माकमसिद्धत्वादिति भावः ॥ अविशेषितेति । सत्यत्वमिथ्यात्वाभ्या-मविशेषितेत्यर्थः । अस्तु प्रामाणिकाप्रामाणिकयोः साधारणधर्मः को दोष इति चेन्न । अदृष्टकल्पनाप्रसङ्गादित्यभिप्रेत्याह ॥ न हीति । सिद्धसाधनत्वं चाह ॥ ज्ञानप्रतिबन्धकपापस्येति । प्रमाणज्ञानोत्पत्तिप्रतिबन्धकस्य दुरदृष्टस्येत्यर्थः ॥ सिद्धतयेति ॥ अनुमानात्प्रागित्यर्थः । सिद्धसाधनत्व-मर्थान्तरता चेत्यर्थः । ननु तद्व्यावृत्त्यर्थमेव स्वनिवर्त्यपदस्य दत्तत्वात्कथं तेन सिद्धसाधनतेत्यत आह ॥ ज्ञाननिवर्त्यत्वात्तस्यापीति । ननु प्रमाण-ज्ञानोत्पत्तिप्रतिबन्धकपापस्य कथं प्रमाणज्ञाननिवर्त्यत्वम् । प्रतिबन्धक-निवृत्त्यनन्तरमेव तदुत्पादेन तन्निवृत्त्यनुपपत्तेरिति चेत् । उच्यते । अन्यत्र सर्वत्र प्रतिबन्धकनाशानन्तरं कार्योत्पादेऽपि प्रकृते सहकारिसामर्थ्येन जातस्य ज्ञानस्यैव प्रतिबन्धकनिवर्तकत्वं वक्तव्यम् । न चैतददृष्टचरमिति वाच्यम् । यथा भूमावुप्तस्य विक्षिप्तस्य बीजस्य मृगपक्ष्यादिबाधशङ्कया मृन्मेदुरादिनाऽपि-धानेऽप्यूष्मादि सहकारिसामर्थ्येनाङ्कुरादिना परिणतस्योर्ध्वगमनेन तदपगमहेतुत्वं दृष्टम् । यथा वा पलालपर्णजातैः पिहितस्यापीक्ष्वङ्कुरस्य सहकारिसामर्थ्ये-नाभिवृद्धस्य तदपगमहेतुत्वं दृष्टम् । यथोक्तं नैषधे । पलालपर्णजातैः पिहितः स्वयं हि प्रकाशमासादयतीक्षुडिम्भ इति । यथा वाऽज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तव इत्युक्त्वा ज्ञानेन तु तदज्ञानं येषां नाशितमात्मन इत्य-ज्ञानावृतस्यैव ज्ञानस्य ज्ञाननिवर्तकत्वमुक्तम् । तद्वदिहापीति भाव इत्याहुः ।
वादावलीविवरणम्
॥ सिद्धसाधनमिति । मयाऽपि जीवस्वरूपावरकसत्यभावरूपा ज्ञानस्वीकारादिति भावः । अप्रसिद्धविशेषणतामेवाह ॥ प्रामाणिकेति ॥ ज्ञानप्रतिबन्धकेति । चरमसाक्षात्कारोत्पत्तिप्रतिबन्धकादृष्टस्येत्यर्थः । ननु चरमसाक्षात्कारप्रतिबन्धकापाये सति न तदुत्पत्तिरिति प्रथमं तन्निवृत्तिः । तेन स्वनिवर्त्यपदेनैव चरमसाक्षात्कारप्रतिबन्धकादृष्टव्यावृत्तेः कथं सिद्धसाधन-मित्यत आह ॥ ज्ञानेति । अन्यथा तस्य मिथ्यात्वासिद्धेः । ज्ञाननिवर्त्य-त्वस्य मिथ्यात्वप्रयोजकत्वादिति भावः । उक्तं च । चरमसाक्षात्कारोत्पत्ति-प्रतिबन्धकादृष्टस्य तदनिवर्त्यत्वे मिथ्यात्वासिद्ध्या स्वनिवर्त्यपदेन तद्व्यावर्त्यसिद्धेरिति । न च चरमसाक्षात्कारप्रतिबन्धकादृष्टे सति न तदुत्पत्तिरिति प्रथमं तन्निवृत्तिः । कारणात्मना स्थितस्य तस्य ज्ञान-निवर्त्यत्वाच्च मिथ्यात्वमपीति वाच्यम् । तावताऽपि ज्ञाननिवर्त्यत्वाद्व्याहतेः । अन्ये तु ज्ञानप्रतिबन्धकापायस्येत्यस्य प्रतीत एवार्थ इत्यङ्गीकृत्य ज्ञाननिवर्त्यत्वादित्यस्य
अग्निचित्कपिला सत्रं राजा भिक्षुर्महोदधिः ।
दृष्टमात्राः पुनन्त्येते तस्मात्पश्येत नित्यशः ॥
इति स्मृत्याऽग्निचित्कपिलादिदर्शनस्य दुरितादिनिवर्तकतया, ‘‘सेतुं दृष्ट्वा समुद्रस्य ब्रह्महत्यां व्यपोहती’’ति सेतुदर्शनस्य ब्रह्महत्यादिपापनिवर्तकतया प्रसिद्धत्वादिति भाव इत्याहुः । इतरे तु ननु पापस्य स्वप्रतिबद्धज्ञान-व्यक्तिविशेषनिवर्त्यत्वाभावात्कथं सिद्धसाधनमित्यत आह ॥ ज्ञाननिवर्त्यत्वात्तस्यापीति । पक्षीभूतस्य प्रमाणज्ञानमात्रस्य प्रतिबन्धकपापनिवर्तकतावच्छेदकाक्रान्तत्वेन निवृत्तियोग्यत्वात्प्रतिबन्धकपापस्य ज्ञाननिवर्त्यत्वमुपपन्नमिति भाव इत्याहुः ।