०८ अविद्याप्रमाणनिरासः

अविद्यायां चैवंविधायां किं प्रमाणम्

अविद्याप्रमाणनिरासः

अविद्यायां चैवंविधायां किं प्रमाणम्

वादावली

अविद्यायां चैवंविधायां किं प्रमाणम् । देवदत्तप्रमा तत्स्थप्रमाप्रागभावातिरेकिणोऽनादेर्ध्वंसिका प्रमात्वादविगीतप्रमा यथेत्यनुमानं मानमिति चेन्न । घटोऽयमेतद्धटप्रागभावव्यतिरिक्तानादेर्निवर्तको घटत्वाद्धटान्तर-वदित्याभाससमानयोगक्षेमत्वात् । एतेन विगीतो भ्रम एत-ज्जनकाबाध्यातिरिक्तोपादानको विभ्रमत्वात्सम्प्रतिपन्नवदिति च निरस्तम् । अनादित्वप्रमानिवर्त्यत्वयोर्विरोधाच्च । देवदत्तप्रमा देवदत्तगतैतत्प्रमाप्रागभावातिरिक्तानादेर्निवर्तिका न भवति प्रमात्वात्सम्प्रतिपन्नवदिति सत्प्रतिपक्षता च ।

वादावलीभावदीपिका

एवमविद्यालक्षणानि निरस्य प्रमाणमपि व्युदसितुं पृच्छति ॥ अविद्यायामिति । एवंविधायामुक्तलक्षणविशिष्टायाम् । अनेनाविद्याया भवद्भिरङ्गीकारात्तत्र प्रमाणखण्डनादि व्याहतमिति निरस्तम् । पराङ्गीकृताया-मेव तस्यां प्रमाणादिनिराकरणात् । तथा च वक्ष्यति स्वयमेव । किमित्याक्षेपे न किमपीत्यर्थः । चित्सुखोक्तमनुमानमाशङ्कते ॥ देवदत्तेति । तत्स्थो देवदत्तगतो यो देवदत्तप्रमाप्रागभावस्तदतिरिक्तस्येत्यर्थः । अनेनानादि-भावरूपज्ञाननिवर्त्याज्ञानसिद्धिः ॥ अविगीतप्रमेति । मैत्रप्रमा यथेत्यर्थः। दृष्टान्ते मैत्रप्रमायां देवदत्तगतप्रमाप्रागभावातिरिक्तस्यानादेर्मैत्रप्रमाप्रागभावस्य ध्वंसकत्वमादाय साध्यं बोध्यम् । अत्र मैत्रादिप्रमायां तत्तत्प्रागभावध्वंसित्व-मादायांशे सिद्धसाधनतावारणाय देवदत्तेति पक्षविशेषणम् । पक्षविशेषणाभावे पक्षतावच्छेदकहेत्वोरभेदेन व्याप्तिग्रहदशायामेव पक्षतावच्छेदकसामानाधिकरण्येन विवक्षितसाध्यसिद्धेः सिद्धसाधनमेव दोषः । दृष्टान्तासिद्धिश्चेत्यप्याहुः । साध्ये पूर्वज्ञानध्वंसित्वेनार्थान्तरवारणायानादेरिति । प्रमाप्रागभावमादाय तद्व्यावृत्तये प्रमाप्रागभावातिरेकिण इति । साध्याप्रसिद्धिवारणाय तत्स्थेति विशेषणम् । एवमाशङ्कितमनुमानमाभाससाम्येन दूषयति ॥ नेति । अन्यथा तत्राप्यनादिभावरूपत्वे सति घटनिवर्त्यः कश्चन पदार्थः सिध्द्येदिति भावः । प्रथमानुमानदूषणेनैव चित्सुखोक्तमनुमानान्तरं च निरस्तमित्याह ॥ एतेनेति । विगीतो विवादविषयीभूतः । देवदत्तभ्रम इत्यर्थः ॥ एतदिति । एतस्य विगीतभ्रमस्य यज्जनकमबाध्यं तदतिरिक्तमुपादानं यस्य स इत्यर्थः । दृष्टान्ते मैत्रभ्रमे देवदत्तभ्रमजनकाबाध्यातिरिक्तमैत्रीयान्तःकरणोपादानकत्वेन साध्यं बोध्यम् । भ्रमान्तरेंऽशतः सिद्धसाधनतावारणाय विगीत इति पक्षविशेषणम् । साध्ये आत्माद्युपादानकत्वेनार्थान्तरवारणायाबाध्यतिरिक्तेति । परमते साध्याप्रसिद्धिवारणायैतज्जनकेति । एतज्जनकाबाध्यातिरिक्तकारणक इत्येवोक्ते तादृशप्रागभावादिजन्यत्वेनार्थान्तरवारणायोपादानेति । अनेन भ्रमोपादानमज्ञानं सिध्द्यतीति भावः ॥ निरस्तमिति । चैत्रेच्छैतज्जनकाबाध्यातिरिक्तोपादानिका इच्छात्वान्मैत्रेच्छावत् । चैत्रसुखादिकमुक्तसाध्यवत् सुखत्वान्मैत्रसुख-वदित्याभाससाम्येन निरस्तमित्यर्थः । आद्यानुमाने प्रतिज्ञावाक्यगतपदानां परस्परविरोधं चाह ॥ अनादित्वेति । प्रकरणसमत्वं चाह ॥ देवदत्तेति । देवदत्तगतो य एतत्प्रमाप्रागभावस्तदतिरिक्तस्यानादेर्निवर्तिका नेत्यर्थः । दृष्टान्ते मैत्रप्रमादौ स्वप्रागभावनिवृत्तिरूपत्वेन तन्निवर्तकत्वं नेति न साध्यवैकल्यम् । अत एवोत्तरानुमाने तथैव वक्ष्यति । यद्वा देवदत्तगतेति प्रमाप्रागभावयो-रन्यतरस्य विशेषणमुत तत्स्थश्चासौ प्रमाप्रागभावातिरेकी चेति तदतिरेकिणोऽ-नादेर्विशेषणम् । नाद्यः । वृत्तिरूपप्रमाया अन्तःकरणनिष्ठत्वेन देवदत्त-निष्ठत्वाभावात् । अभावस्यापि प्रतियोगिसमानदेशत्वेनान्तःकरणनिष्ठत्वेन देवदत्ताद्यनिष्ठत्वाद्बाधापत्तेः । द्वितीये दोषमाह ॥ देवदत्तेति । देवदत्त-गतस्यैतत्प्रमाप्रागभावातिरिक्तस्यानादेर्निवर्तिका नेत्यर्थः । एवं च दृष्टान्ते मैत्रप्रमादौ स्वप्रागभावनिवर्तकत्वेऽपि देवदत्तगतानादिनिवर्तकत्वं नेति न साध्यवैकल्यम् ॥ सत्प्रतिपक्षतेति । प्रकरणसमतेत्यर्थः । उक्तं हि न्यायकल्पलतायाम् । स्वपरपक्षसिद्धावपि त्रिरूपो हेतुः प्रकरणसम इति ।

वादावलीप्रकाशः

॥ अविद्यायां चेति । चशब्दः प्रकृतत्वानुसन्धानार्थः । तदेव दर्शयति ॥ एवंविधायामिति । उक्तलक्षणलक्षितायामित्यर्थः । यद्वा वस्तु-सिद्धेर्लक्षणप्रमाणाधीनत्वेन लक्षणासम्भवेन तदसिद्धिमुक्त्वा प्रमाणाभावेनापि तदसिद्धिं वक्तृं पृच्छति ॥ एवंविधायामविद्यायां प्रमाणं च किमिति । इत्येवं चशब्दो भिन्नक्रमेण योज्यः । यद्वा किमित्याक्षेपः । तथा च न केवलं किमपि लक्षणं नास्तीति किन्नाम प्रमाणं च किमस्ति न किम-पीत्यर्थः । एतदसहमानस्तत्त्वप्रदीपोक्तमनुमानप्रमाणमाशङ्कते ॥ देवदत्त-प्रमेति । देवदत्तगतप्रमेत्यर्थः ॥ तत्स्थेति । देवदत्तगतेत्यर्थः । अतिरेकिणोऽतिरिक्तस्य । मात्वात्प्रमात्वात् । अविगीतप्रमा यज्ञदत्तप्रमा । अत्र पक्षे प्रागभावातिरिक्तानाद्यज्ञानमादाय साध्यसिद्धिर्दृष्टान्ते तु देवदत्तीयप्रमाप्रागभावातिरिक्तयज्ञदत्तीयप्रमाप्रागभावमादायेति द्रष्टव्यम् । दृष्टान्त इव पक्षेऽपि साध्यपर्यवसानेनार्थान्तरशङ्का तु बाधादेव तु न युक्ता । अत्र प्रमामात्रपक्षीकारे यज्ञदत्तप्रमाया अपि प्राप्त्या तस्यां च देवदत्तगतप्रमा-प्रागभावातिरिक्तानादिभूतयज्ञदत्तप्रमाप्रागभावनिवर्तकत्वस्य सिद्धत्वात्सिद्ध-साधनता स्यादतो देवदत्तप्रमेत्युक्तम् । साध्ये तत्स्थेति देवदत्तगतेति विशेषणत्यागेऽप्रसिद्धिः स्यात् । दृष्टान्तभूतयज्ञदत्तप्रमायामभावातिरिक्तानादि-निवर्तकत्वस्य प्रतिवादिनोऽसम्मतत्वात् । अतो देवदत्तगतेत्युक्तम् । देवदत्तगतानादेर्ध्वंसिकेत्येवोक्तौ देवदत्तप्रमाया देवदत्तगतानादिभूतस्वप्रागभाव-निवर्तकत्वेन सिद्धसाधनता स्यादतः प्रमाप्रागभावातिरिक्तेत्युक्तम् । अनादि-पदत्यागे देवदत्तप्रमाया देवदत्तगतप्रमाप्रागभावातिरिक्तपूर्वप्रमाया निवर्तकत्वेन तादृशप्रमाप्रागभावातिरिक्तमिथ्याज्ञाननिवर्तकत्वेन वा सिद्धसाधनता तद्वारणायानादीत्युक्तम् । पूर्वप्रमामिथ्याज्ञानयोरनादित्वाभावान्नोक्तदोषः ॥ घटोऽयमिति । दृष्टान्तभूते घटान्तरे एतद्घटप्रागभावातिरिक्तस्वप्रागभाव-निवर्तकत्वेन साध्यपर्यवसानम् । एवमेव पक्षे साध्यपर्यवसानेनार्थान्तरता तु बाधादेव न शङ्क्या । तथा चैतद्घटनिवर्त्यो घटप्रागभावातिरिक्तोऽप्यनादिभूतः पदार्थः कश्चित्सिध्द्येदिति भावः ।

॥ आभासेत्यादि । पूर्वोक्तानुमानस्येति शेषः । अप्राप्तदूषणप्राप्तिर्योगः प्राप्तदूषणपरिहारलक्षणं क्षेमः । तथा च पूर्वोक्तानुमानस्याभासानुमानेन समानौ योगक्षेमौ यस्य तत्तथोक्तं तत्त्वादित्यर्थः । तत्त्वप्रदीपोक्तानुमानान्तरमप्या-भासानुमानसमानयोगक्षेमत्वेनैव निरस्तमित्याह ॥ एतेनेति ॥ विगीतो भ्रम इति । विमतः प्रपञ्चभ्रम इत्यर्थः ॥ एतज्जनकेति । पक्षीभूत-जगद्भ्रमजनकं यदबाध्यं तदतिरिक्तोपादानक इत्यर्थः । बाध्योपादानक इति फलितार्थः । एतज्जनकाबाध्यातिरिक्तत्वं नामैतज्जनकाबाध्यभिन्नत्वमिदं च विशिष्टस्यैतज्जनकाबाध्यस्याभावरूपम् । इदं च दृष्टान्तभूतः सम्प्रतिपन्नो यो रूप्यभ्रमस्तदुपादाने शुक्त्यज्ञानेऽबाध्यत्वरूपविशेष्यस्य सत्त्वेऽप्येतज्जनकत्व-रूपविशेषणाभावेन, पक्षीभूतभ्रमजनके त्वज्ञाने एतज्जनकत्वरूपविशेषणस्य सत्त्वेऽप्यबाध्यत्वरूपविशेष्याभावेन विशिष्टाभावोऽनुगतः । पक्षेऽपि दृष्टान्त इव न विशेषणाभावमादाय विशिष्टाभावसिद्धिः । पक्षीभूतभ्रमस्य यदुपादानं तस्य पक्षभूतभ्रमजनकतया तत्रैतज्जनकातिरिक्तत्वस्य बाधितत्वात् । पक्षीभूत भ्रमेऽबाध्यातिरिक्तं बाध्यं यदज्ञानं तदुपादानकत्वमादाय साध्यसिद्धिः । दृष्टान्तभूतभ्रमे तु पक्षीभूतभ्रमजनकातिरिक्तशुक्त्यज्ञानोपादनकत्वामादायेति विवेकः । बाध्योपादानक इत्येवोक्ते दृष्टान्तेऽप्रसिद्धिः स्यात् । रूप्योपादाने शुक्त्यज्ञाने बाध्यत्वस्य प्रतिवाद्यसम्मतत्वादतो नञ्द्वयगर्भं साध्यं कृतम् । तच्च विशेषणाभावेनोक्तरीत्या दृष्टान्तेऽस्तीति न दोष इत्यवधेयम् ।

इदमप्याभाससमानयोगक्षेमत्वेन निरस्तम् । तथा हि । अयं घट एतज्जनकाबाध्यभिन्नोपादानको घटत्वाद्घटान्तरवत् । घटान्तरोपादानेऽ-बाध्यत्वरूपविशेष्यस्य सत्त्वेऽप्येतज्जनकत्वरूपविशेषणस्याभावेन पक्षीभूतघटोपादाने एतज्जनकत्वरूपविशेषणस्य सत्त्वेऽप्यबाध्यत्व-रूपविशेष्याभावेन विशिष्टाभावस्य पक्षदृष्टान्तयोः सद्भावादिति भावः । यद्वैतेनेति वक्ष्यमाणसत्प्रति पक्षत्वपरामर्शः । तत्प्रकारश्च विगीतो भ्रम एतज्जनकाबाध्यातिरिक्तोपादानको विभ्रमत्वात्सम्मतवदिति न्यायामृतोक्तरीत्या द्रष्टव्यः । तत्र दृष्टान्तीकृतभ्रमोपादानभूते शुक्त्यज्ञाने ज्ञाननिवर्त्यत्वाख्य-बाध्यत्वरूपविशेष्यसद्भावेऽप्येतज्जनकत्वरूपविशेषणाभावेन पक्षीभूतप्रपञ्च-भ्रमजनके चाज्ञाने एतज्जनकत्वरूपविशेषणसद्भावेऽपि बाध्यत्वरूप-विशेष्यस्यास्मद्रीत्याऽभावेन विशिष्टा भावोऽनुगत इति द्रष्टव्यम् । देवदत्त-प्रमापक्षकानुमानस्याभाससाम्यमुक्त्वा बाधं चाह ॥ अनादित्वेति । योऽनादिभावः स न निवर्तत इत्यस्ति व्याप्तिः । अन्यथा ब्रह्मणोऽपि निवर्त्यत्वापत्तेः । तथा चाज्ञानस्याप्यनादिभावत्वेनानिवर्त्यत्वे सिद्धे देवदत्तगतप्रमाया अनादिभूताज्ञाननिवर्तकत्वे साध्ये बाध इत्यर्थः । पूर्वानुमाने देवदत्तगतप्रमाया देवदत्तगतप्रमाप्रागभावातिरिक्ताज्ञान निवर्तकत्वं पर्यवसितम् । तदभावसाधनेन सत्प्रतिपक्षत्वं चाह ॥ देवदत्तप्रमेति ॥ एतत्प्रमेति । घटादिप्रमेत्यर्थः । अनादेरज्ञानस्येत्यर्थः । अन्यथा सम्प्रतिपन्नाया यज्ञदत्त-प्रमाया देवदत्तगतघटप्रमाप्रागभावातिरिक्तानादिभूतस्वगतघटप्रमाप्रागभाव-निवर्तकत्वेन साध्यवैकल्यं स्यादिति द्रष्टव्यम् ।

वादावलीविवरणम्

अविद्याप्रमाणमपि दूषयितुं प्रतिजानीते ॥ अविद्यायां चेति । एवंविधायामुक्तलक्षणविशिष्टायाम् । अनेनाविद्याया भवद्भिरङ्गीकारात्तत्र प्रमाणखण्डनादि व्याहतमिति निरस्तम् । किंशब्द आक्षेपे । न किमपीत्यर्थः। प्रत्यक्षस्य सर्वप्रमाणज्येष्ठत्वेऽप्यवश्यमेषाऽविद्येति पञ्चपादिकाया-मविद्यासद्भावेऽनुमानमेवादावुक्तम् । अवश्यमिति पदादनुमानं सूचितम् । एषेेति प्रत्यक्षमिति तत्त्वसन्दीपनोक्तेः । अतोऽनुमानमेवादौ शङ्कते ॥ देवदत्तेति । देवदत्तगतप्रमेत्यर्थः । अन्यथा देवदत्तविषयकयज्ञदत्तगतप्रमामादाय सिद्धसाधनत्वात् । रूपादिज्ञाने सिद्धार्थतानिवृत्त्यै ज्ञानमित्यनुक्त्वा प्रमेत्याह । धर्म्यंशप्रमाणप्रवृत्तेरिदमित्याकाराया अज्ञानानिवर्तिकाया अपेक्षितत्वाय विमतेत्यपि पूरणीयम् । साध्ये तु यज्ञदत्तप्रमायामभावातिरिक्तानादि-निवर्तकत्वासम्मत्याऽप्रसिद्धिनिवृत्त्यै तत्स्थेति । देवदत्तविशिष्टेत्यर्थः । यज्ञदत्तप्रमाप्रागभावमादाय सिद्धसाधनताव्यावृत्त्यै प्रमाप्रागभावातिरेकिण इति । पूर्वज्ञानं मिथ्याज्ञानं वाऽऽदाय तन्निवृत्त्यै अनादेरिति । अत्र केचित् । साध्ये तत्स्थेति प्रमाप्रागभावविशेषणम् । न प्रमायाः । तस्या अन्तःकरण-समवेतत्वेन देवदत्तगतत्वाभावात् । देवदत्तसम्बन्धित्वमात्रविवक्षायां तु यज्ञदत्त- निष्ठदेवदत्तविषयकप्रमाप्रागभावातिरिक्तदेवदत्तीयघटप्रमाप्रागभावनिवर्तकत्वेन सिद्धसाधनादित्याहुः । तन्न । पक्षे देवदत्तगतेत्यस्य प्रमाविशेषणोक्त्ययोगात् । अतस्तार्किकरीत्यैवेदमुभयत्र प्रमाविशेषणमुपात्तमिति न कोऽपि दोष इति । अत्र पक्षे प्रागभावातिरिक्तानाद्यज्ञानमादाय साध्यसिद्धिः । दृष्टान्ते तु देवदत्तीयप्रमाप्रागभावभिन्नयज्ञदत्तीयप्रमाप्रागभावमादायेति बोध्यम् ॥ मात्वादिति । प्रमात्वादित्यर्थः ॥ अविगीतप्रमा यथेति । यज्ञदत्तप्रमाव-दित्यर्थः ॥ इत्याद्याभासेति । चैत्रेच्छा स्वप्रागभावातिरिक्ताभावनिवर्तिका इच्छात्वान्मैत्रेच्छावदित्यादेरादिपदाद्ग्रहणम् । तत्त्वप्रदीप्रोक्तानुमानान्तर-मप्यतिदेशेन दूषयति ॥ एतेनेति । घटोऽयमेतज्जनकाबाध्यातिरिक्तोपादानकः घटत्वाद्घटान्तरवदित्याद्याभाससाम्येनेत्यर्थः ।

मैत्रभ्रमे सिद्धसाधनतावारणाय ॥ विगीत इति । चैत्रीय इत्यर्थः ॥ एतज्जनकेति । एतज्जनकं यदबाध्यं तदतिरिक्तोपादानक इत्यर्थः । परमते साध्याप्रसिद्ध्याऽप्रसिद्धिनिवृत्त्यै एतज्जनकेति । चैत्रभ्रमजनकेत्यर्थः । आत्माद्युपादानकत्वेनार्थान्तरवारणाय बाध्यातिरिक्तेति । प्रागभावादिजन्य-त्वेनार्थान्तरताव्यावृत्त्यै कारणपदं त्यक्त्वोपादानपदप्रयोगः कृतः । अत्र पक्षीकृते चैत्रभ्रमे एतज्जनकातिरिक्तोपादानकत्वस्य बाधादबाध्यातिरिक्तोपादान-कत्वमादाय साध्यसिद्धिः । दृष्टान्तीकृते मैत्रभ्रमे त्वबाध्यातिरिक्तोपादानकत्व-स्याधुनाऽप्यप्रसिद्ध्यैतज्जनकातिरिक्तोपादानकत्वमादायेति मन्तव्यम् ॥ सम्प्रतिपन्नवदिति । मैत्रभ्रमवदित्यर्थः ॥ अनादित्वेति । अभावातिरिक्ता-नादित्वेत्यर्थः ॥ देवदत्तगतेति । देवदत्तगतप्रमायाः स्वप्रागभावरूपानादि-निवर्तकत्वेन बाधादाह ॥ प्रमाप्रागभावातिरिक्तेति । यज्ञदत्तगतप्रमाप्राग-भावातिरिक्तस्वप्रागभावरूपानादिनिवर्तकत्वेन बाध इत्यत उक्तमेतदिति प्रमा-विशेषणम् । देवदत्तगतेति तदर्थः । देवदत्तप्रमाप्रागभावातिरिक्त-स्वप्रागभावनिवर्तकत्वेन दृष्टान्ते साध्यवैकल्यमित्यत उक्तं देवदत्तगतेति । इदं चानादेर्विशेषणम् । अन्यथोक्तसाध्यवैकल्यापरिहारात् । अत्र दृष्टान्ते देवदत्तगतप्रमाप्रागभावानिवर्तकत्वाभावमादाय साध्यसिद्धिः । पक्षे प्रागभावातिरिक्ताज्ञाननिवर्तकत्वाभावमादायेति बोध्यम् ॥ सत्प्रतिपक्षता चेति । प्रकरणसममेवेत्यर्थः । एवकारेणास्य दोषस्यापरिहार्यत्वमाह ।