न षष्ठः । केयमविद्या नाम
अविद्यालक्षणनिरासः
न षष्ठः । केयमविद्या नाम
वादावली
न षष्ठः । केयमविद्या नाम । अनाद्यनिर्वाच्या वा अनादिभावरूपत्वे सति विज्ञानविलाप्या वा भ्रमोपादानं वा । नाद्यः । अनिर्वाच्यासिद्ध्याऽप्रसिद्धविशेषणत्वात् । आकाशादौ लक्षणस्यातिव्याप्तेश्च । ब्रह्मव्यतिरिक्तस्यानादित्वा-नभ्युपगमान्नैवमिति चेत् । एवं तर्हि लक्षणस्यासम्भवः ।
वादावलीभावदीपिका
अविद्यातत्कार्ययोरन्यतरत्वं मिथ्यात्वमिति कल्पोऽपि नावकल्पत इत्याह ॥ न षष्ठ इति । अविद्यायां लक्षणप्रमाणयोरभावेनाविद्यास्वरूप-मेवालीकायितमिति वक्तृं लक्षणं तावद्दुदूषयिषुः पृच्छति ॥ केयमिति । कीदृग्लक्षणोपेतेत्यर्थः । तत्र परोक्तानि लक्षणान्यनुवदति ॥ अनादीति । अनादित्वे सत्यनिर्वाच्येत्यर्थः । अत्राविद्याकार्ये घटादावतिव्याप्ति-वारणायानादीति । ब्रह्मण्यतिव्याप्तिवारणायानिर्वाच्येति । अत्रानादौ प्रागभावादावति व्याप्तेररुच्या लक्षणान्तरमुट्टङ्कयति ॥ अनादिभावेति । विज्ञानविलाप्या विज्ञाननिवर्त्येत्यर्थः । अत्र सतिसप्तमीमहिम्नाऽनादि-भावरूपत्वविज्ञानविलाप्यत्वयोः सामानाधिकरण्यादनादित्वभावरूपत्वोभय-समानाधिकरणं विज्ञानविलाप्यत्वं वाऽविद्यालक्षणमित्यर्थः । अत्र भ्रमप्रागभावयोरतिव्याप्तिवारणाय सत्यन्तम् । ब्रह्मणि तद्वारणाय विज्ञान-विलाप्येति । अत्रानादि भावत्वे सतीति वक्तव्ये भावरूपत्वे सतीत्युक्ति-र्वस्तुतस्तस्याभावत्वमपि नेति ख्यापनाय । अत्र साक्षाद्विज्ञानविलाप्यत्वं विवक्षितम् । तेन न जीवब्रह्मविभागादावतिव्याप्तिः । तस्याज्ञानद्वारा ज्ञाननिवर्त्यत्वात् । यद्वैतदस्वरसादाह ॥ भ्रमेति । भ्रमं प्रति परिणाम्युपादानमित्यर्थः । तेन विवर्तोपादाने ब्रह्मणि नातिव्याप्तिः । अत्र भ्रमेति मृत्पिण्डादावतिव्याप्तिवारणायेति ॥ अप्रसिद्धेति । पक्षस्येति शेषः । विमतमनाद्यनिर्वाच्यतत्कार्यान्यतरदिति प्रतिज्ञार्थः स्यात्तथा चानिर्वाच्यस्योक्त-रीत्याऽप्रसिद्ध्याऽप्रसिद्धविशेषणत्वं पक्षस्येत्यर्थः ॥ आकाशादाविति ॥ आदिपदेन कालजीवब्रह्मविभागादेः परिग्रहः । आकाशादेर्ब्रह्मभिन्नत्वेना-निर्वाच्यत्वादनादित्वाच्चेत्यर्थः ॥ अनभ्युपगमादिति । मिथ्याभूतस्य तत्त्वतोऽनादित्वायोगादिति भावः ॥ असम्भव इति । अविद्याया अपि ब्रह्मभिन्नत्वेनानादित्वाभावादिति भावः ।
वादावलीप्रकाशः
॥ अनादीति । प्रपञ्चे शुक्तिरजते चातिव्याप्तिवारणाया-नादीत्युक्तम् । ब्रह्मण्यतिव्याप्तिवारणायानिर्वाच्येत्युक्तमिति द्रष्टव्यम् ॥ अनादीति । ब्रह्मण्यतिव्याप्तिवारणाय विलाप्येत्युक्तम् ।
जीव ईशो विशुद्धा चिद्भेदस्तस्यास्तयोर्द्वयोः ।
अविद्या तच्चितोर्योगः षडस्माकमनादयः ॥
इति वचनात् । अनादिभूतचैतन्याविद्यासम्बन्धे सम्बन्धिन्यामविद्यायां निवृत्तायां स्वत एव निवृत्तमानेऽतिव्याप्तिवारणाय विज्ञानपदम् । तस्य च न विज्ञानविलाप्यत्वं साक्षात्किन्तु ज्ञानजन्याज्ञाननिवृत्तिविलाप्यत्वमेव । इह च साक्षादेव विज्ञानविलाप्यत्वं विवक्षितमिति नातिव्याप्तिः । भावरूपत्वे सति विलाप्यत्वं प्रपञ्चे शुक्तिरूप्ये उत्तरज्ञाननिवर्त्ये पूर्वज्ञाने चाति-व्याप्तमतोऽनादीति । अनादित्वे सति विज्ञानविलाप्यत्वं ज्ञानप्रागभावेऽति-व्याप्तमतो भावरूपत्वे सतीत्युक्तमित्यवधेयम् ॥ भ्रमेति । उपादानत्वं मृत्पिण्डादावतिव्याप्तमतो भ्रमपदम् । भ्रम एवातिव्याप्तिवारणायोपादानपदम् । आकाशादावनिर्वाच्यत्वसद्भावेऽप्यनादित्वरूपविशेषणाभावान्नातिव्याप्तिरित्याशङ्कते ॥ ब्रह्मव्यतिरिक्तस्येति ॥ असम्भव इति । अविद्याया अपि ब्रह्म-व्यतिरिक्तत्वेनानादित्वगर्भलक्षणाभावादसम्भव इत्यर्थः ।
वादावलीविवरणम्
अविद्यातत्कार्ययोरन्यतरत्वं मिथ्यात्वमिति पक्षं निरोकरोति ॥ न षष्ठ इति । लक्षणाभावेनाविद्यां दूषयितुं पृच्छति ॥ केयमिति ॥ अनादीति । घटादिकमात्मानं च व्यावर्तयितुं क्रमेण विशेषणे । ननु प्रागभावेऽतिव्याप्तिरित्यरुच्याऽऽह ॥ अनादिभावेति । घटादिकं प्रागभावं ब्रह्मस्वरूपं च व्युदसितुं क्रमाद्विशेषणानि । अनादिभावत्वे सतीति वक्तव्ये भावरूपत्वोक्तिरविद्याया वस्तुतो भावत्वमपि नेति प्रकटनाय । चैतन्याविद्या-सम्बन्धं वारयितुं विज्ञानेति । तस्य च न ज्ञाननिवर्त्यत्वम् । ज्ञानजन्याज्ञान-निवर्त्यत्वाङ्गीकारेण साक्षाज्ज्ञाननिवर्त्यत्वाभावादिति मन्तव्यम् । नन्वत्रा-सम्भवः । अविद्यायाः परमते भावाभावविलक्षणत्वेन भावत्वाभावात् । न च भावपदमभावविलक्षणत्वपरम् । भावविलक्षणेऽज्ञानेऽभाववैलक्षण्य-स्याप्ययोगात् । भावविलक्षणस्याभावत्वनियमादित्यपरितोषादाह ॥ भ्रमेति । मृत्पिण्डादिवारणायोक्तं भ्रमेति ॥ अप्रसिद्धविशेषणत्वादिति । तथा च लक्षणस्यासम्भवः । एतद्गर्भसाध्यकानुमाने चाप्रसिद्धविशेषणत्वमिति भावः ॥ अनभ्युपगमादिति ॥ अध्यस्तस्य वस्तुनोऽनादित्वायोगादिति भावः ॥ असम्भव इति । अविद्याया अपि ब्रह्मव्यतिरिक्तत्वेनानादित्वायोगादिति भावः ।
न द्वितीयः । अनादित्वस्यासम्भवित्वात्
न द्वितीयः । अनादित्वस्यासम्भवित्वात्
वादावली
न द्वितीयः । अनादित्वस्यासम्भवित्वात् । अनादिभावरूपस्य विज्ञानविलापनाऽसम्भवाच्च ब्रह्मवत् । भावाभावविलक्षणाविद्याया अभावविलक्षणतामात्रेण भावत्वोप-चारादात्मवदनादिभावत्वेनानिवर्त्यत्वानुमानानुपपत्तिरिति चेन्न । अभावविलक्षणतामात्रेणाप्यनादेरनिवर्त्यत्वानुमानसम्भवात् । न चात्मत्वादिरुपाधिः । अत्यन्तासति व्यभिचारात् ।
वादावलीभावदीपिका
॥ असम्भवित्वादिति । उक्तरीत्या वा विमतं नानादि भावत्वे सति विज्ञानविलाप्यत्वाच्छुक्तिरूप्यवदित्यनुमानेन वाऽनादित्वाभावेन विशेषणाभावेन विशिष्टस्यासम्भवित्वादित्यर्थः । उपलक्षणमेतत् । जीवब्रह्म-विभागादावतिव्याप्तिश्च बोध्या । न च साक्षादिति विशेषणाददोष इति वाच्यम् । तथा सत्यनादिपदवैय्यर्थ्यात् । अज्ञानातिरिक्तस्य सर्वस्याप्यज्ञान-द्वारेण ज्ञाननिवर्त्यत्वात् । तावत एवोक्तौ चाभावारोपोपादानाज्ञाने भावत्वा-भावेन चरमसाक्षात्कारानन्तरभाविनि जीवन्मुक्त्युनुवृत्तेऽज्ञाने च ज्ञान-निवर्त्यत्वाभावेनाव्याप्तेः । जीवन्मुक्त्यनुवृत्ताज्ञानस्य ज्ञाननिवर्त्यत्वे स्वकार्यैः प्रारब्धकर्मभिः सह पूर्वेणैव साक्षात्कारेण निवृत्तिः स्यान्न तूत्तरेणेति सद्यः शरीरपातापत्त्या जीवन्मुक्तिवार्ता लुप्येतेत्यलम् । किञ्च यद्यनात्मनोऽप्य-ज्ञानस्यानादित्वं मन्यसे तर्हि तादृशस्य तस्य ब्रह्मविज्ञानविलाप्यत्वा-भावादसम्भव एवेति भावेनाह ॥ अनादीति । नन्वज्ञानस्य भावाभाव-विलक्षणत्वादनादिभावरूपत्वमसिद्धं येन विज्ञानविलाप्यत्वासिद्ध्या लक्षणमसम्भवि स्यादित्याशङ्कते ॥ भावेति । अनाद्यभावविलक्षणत्वेनापि हेतुना व्यभिचाराभावेन ज्ञानानिवर्त्यत्वानुमानमक्षतमेवेति भावेन परिहरति ॥ अभावेति । अनाद्यभावविलक्षणत्वेन हेतुनेत्यर्थः ॥ न चेति । आदिपदेनाभावत्वं ग्राह्यम् । आत्मत्वस्यात्मन्यभावत्वस्याभावेऽनिवर्त्यत्व-रूपसाध्यव्यापकत्वस्य सत्त्वात्साधनवति पक्षेऽभावेन साधनाव्यापकत्वाच्चेति भावः ॥ व्यभिचारादिति । असति ज्ञानानिवर्त्यत्वे सत्यप्यात्मत्वा-भावत्वयोरभावेन साध्याव्यापकत्वादित्यर्थः । यदत्रोक्तं विवरणे । अनिवर्त्यत्वे नानादित्वं प्रयोजकं किन्तु विरोध्यसन्निपातः । प्रकृते चास्ति विरोधिसन्निपात इति । तदचारु । अनादिभावत्वेनैव विरोध्यसन्निपातस्याप्यनुमानात् । विस्तरस्तु सुधायां बोध्यः ।
वादावलीप्रकाशः
॥ असम्भवित्वादिति । अविद्यायाः प्रातिभासिकत्वेन दोषजन्यधीमात्रशरीरत्वादिति भावः ॥ अनादीति । तथा चाज्ञानं न ज्ञानविलाप्यमनादिभावरूपत्वाद्ब्रह्मवदित्यनुमानं द्रष्टव्यम् । अत्र प्रपञ्चे व्यभिचारपरिहारायानादीति विशेषणम् । ज्ञानप्रागभावे व्यभिचारपरिहाराय भावरूपत्वादित्युक्तम् । शङ्कते ॥ भावाभावेति । भावात्वोपचारे बीज-मभावविलक्षणतामात्रेणेति । भावभूते घटादावभावविलक्षणतासद्भावादित्यर्थः । न ह्युपचारोऽनुमानप्रवृत्त्यङ्गम् । तथा सति चित्रलिखितसिंहे माणवके चोपचारेण सिंहाग्निशब्दसद्भावेन गजहननदहनाद्यर्थक्रियानुमानप्रसङ्गादित्यर्थः । आत्मवद्ब्रह्मवत् ॥ अभावेति । यद्भावत्वोपचारं बीजतयाऽङ्गीकृतं तन्मात्रेणापीत्यर्थः । तथा चाज्ञानं न ज्ञाननिवर्त्यमनादित्वे सत्यभाव-विलक्षणत्वाद्ब्रह्मवदित्येवानुमानं स्यादित्यर्थः । ज्ञाननिवर्त्यत्वाभावानुमाने उपाधिमाशङ्कते ॥ न चेति । आत्मत्वादिरित्यादिपदेन ब्रह्मत्वसङ्ग्रहः ॥ अत्यन्तासतीति । तत्र ज्ञाननिवर्त्यत्वाभावे सत्यप्यात्मत्वादेरभावेन साध्याव्यापकत्वादित्यर्थः ।
वादावलीविवरणम्
॥ असम्भवित्वादिति । ब्रह्मव्यतिरिक्तस्य त्वयाऽनादि-त्वानुभ्यपगमादिति भावः । ननु मया ब्रह्मातिरिक्तस्यान्यस्यानादित्वा-नङ्गीकारेऽप्यज्ञानस्यानादित्वमङ्गीक्रियत एव । तथा हि अध्यस्तस्य रूप्यादेरध्यस्तत्वमेव किञ्चिदुपादानं वक्तव्यम् । सत्योपादानत्वे कार्यस्य कारणस्वभावतयाऽध्यस्तस्यापि सत्यत्वापातात् । तस्याध्यस्तोपादानस्य सादित्वे तादृशोपादानान्तरकल्पनयाऽनवस्थानादनाद्येव तदुपादानमिति कल्प्यम् । तादृशं चाज्ञानमेव । अन्यस्यादर्शनात् । एवञ्च नासम्भव इत्यनु-शयादाह ॥ अनादिभावरूपस्येति । अज्ञानं न ज्ञानविलाप्यमनादि-भावत्वाद्ब्रह्मवदिति विवक्षितानुमाने हेत्वसिद्धिं शङ्कते ॥ भावाभावेति ॥ भावत्वोपचारादिति । तथा चानादिभावत्वहेतोः पक्षधर्मतासिद्धिरिति भावः ॥ आत्मत्वादिरिति । आदिपदेन भावत्वादिपरिग्रहः ॥ व्यभिचारा-दिति । अत्यन्तासति ज्ञानानिवर्त्यत्वरूपसाध्यसत्त्वेऽप्यात्मत्वभावत्व-रूपोपाध्यभावेन व्यभिचारादित्यर्थः ।