०६ मिथ्यात्वनिरासः

सच्चेन्न बाध्येतेत्यत्र किमिदं सद्विक्षितं..

मिथ्यात्वनिरासः

सच्चेन्न बाध्येतेत्यत्र किमिदं सद्विक्षितं..

वादावली

सच्चेन्न बाध्येतेत्यत्र किमिदं सद्विक्षितं किं सत्तायुक्तमथाबाध्यमुत ब्रह्मस्वरूपम् । नाद्यः । सत्तायुक्तस्य प्रपञ्चस्य भवन्मते बाध्यतया यत्सत्तदबाध्यमिति व्याप्त्य-सिद्धेः । न द्वितीयः । यदबाध्यं तदबाध्यमिति साध्याविशिष्ट-त्वात् । न तृतीयः । सिद्धसाधनत्वात् ।

वादावलीभावदीपिका

अत्रार्थापत्तौ व्याप्त्यादि विघटयितुं तन्मूलव्याप्तिग्रहौपयिक-तर्कशरीरप्रविष्टसच्छाब्दार्थं पृच्छति ॥ सच्चेदिति ॥ सत्तेति । सत्ताजाति-युक्तमित्यर्थः ॥ सत्तायुक्तस्येति । आत्मनो निर्धर्मकत्वेन सत्ताया अभावादनात्मन्येव सत्ताङ्गीकारेण तस्य च बाध्यत्वादिति भावः । एतेनार्थ-क्रियाकारि सदिति निरस्तम् । अर्थक्रियाकारिणो बाध्यत्वेन व्याप्त्यसिद्धेः । न च व्यवहारदशायां न बाध्यत इत्युच्यतेऽतो न दोष इति वाच्यम् । व्यवहारदशायामेव जगति यौक्तिकादिबाधस्य दर्शनात् । व्यवहारदशायां प्रत्यक्षेण न बाध्येतेत्युक्तावपि परोक्षाध्यस्तेऽपरोक्षाध्यस्ते नभोनैल्यादौ च बाधाभावेन विपर्यये पर्यवसानायोगेन तत्र सद्वैलक्षण्यासिद्धेः । उपलक्षणमेतत् । बाध्यतेऽतो न सत्त्वमिति विपर्यये पर्यवसानेन सत्ताराहित्यसिद्धावपि ब्रह्मवन्निर्वाच्यत्वाभावोपपत्त्याऽर्थान्तरत्वं च बोध्यम् ।

साध्याविशिष्टत्वादिति ॥ यदबाध्यं तन्न बाध्येत इत्यापाद्यापादक-योरैक्येनापाद्यवदापादकमसिद्धमिति भावः । ननु व्यवहारस्य साध्यत्वान्न दोष इति चेत्तर्हि त्वन्मतेऽसतो बाध्यत्वाभावेन विपर्यये पर्यवसानलब्धबाध्यत्वेनैव सद्व्यावृत्तेरिवासद्व्यावृत्तेरपि सिद्ध्याऽसच्चेन्न प्रतीयेतेत्यस्य व्यर्थत्वात् । एतेनाबाध्यतावच्छेदकावच्छिन्नं सद्विवक्षितमतो न साध्याविशिष्टतेति प्रत्युक्तम् । असच्चेन्न प्रतीयेतेत्यस्य व्यर्थत्वापत्तेः ॥ सिद्धसाधनत्वादिति ॥ शुक्तिरूप्यादि ब्रह्मस्वरूपं चेन्न बाध्येत । बाध्यते च । अतो ब्रह्मस्वरूपं नेति शुक्तिरूप्यादेर्ब्रह्मस्वरूपत्वाभावस्य मन्मतेऽपि सिद्धत्वादिति भावः । सत्खण्डनमुपलक्षणम् । न बाध्येतेत्यादावपि द्रष्टव्यम् । तथा हि । न बाध्ये-तेत्यत्र बाधः किं ज्ञाननिवर्त्यत्वं किं वा त्रैकालिकनिषेधप्रतियोगित्वम् । आद्ये ज्ञाननिवर्त्यत्वस्य शुक्तिरूप्यादावस्माभिरनङ्गीकारेणेष्टापत्तेः । न द्वितीयः । त्रैकालिकनिषेधप्रतियोगित्वस्यैवासत्त्वेन शुक्तिरूप्यादेरसद्वै-लक्षण्यवादिमते विपर्यये पर्यवसानायोगात् । एवमसच्चेदित्यत्रासत्किं सत्ताहीनं बाध्यं वाऽब्रह्मस्वरूपं वा निरुपाख्यं वा । नाद्यः । सत्ताहीनस्याप्यात्मादेः प्रतीत्या व्यभिचारात् । शुक्तिरूप्यादेस्तस्मादसन्न भवतीति विपर्ययापर्यव-सानाच्च । अत एव न द्वितीयतृतीयौ । शुक्तिरूप्यादेर्बाध्यत्वादिना विपर्ययापर्यवसानात् । अब्रह्मस्वरूपस्याप्यसतः प्रतीत्या व्यभिचाराच्च । न चतुर्थः । निरुपाख्यं चेन्न ख्यायेतेति साध्याविशिष्टत्वादिति ।

वादावलीप्रकाशः

ख्यातिबाधान्यथाऽनुपपत्तिरेवानिर्वाचनीयार्थे मानमित्याशङ्कते ॥ सच्चेदिति ॥ सत्तायुक्तमिति । सत्ताजातियुक्तमित्यर्थः । यत्सत्सत्ता-जातियुक्तम् । साध्यमापाद्यम् । अविशिष्टत्वाद् आपादकस्येति शेषः । सच्चेदबाध्यं चेन्न बाध्येतेत्यापादने यदबाध्यं तदबाध्यमिति व्याप्तिर्न सम्भवति । आपाद्यापादकयोरेकत्वादित्यर्थः ॥ सिद्धसाधनत्वादिति । सच्चेद्ब्रह्मस्वरूपं चेन्न बाध्येत । बाध्यते चेदम् । तस्माद् ब्रह्मस्वरूपं नेति विपर्ययपर्यवसाने सिद्धसाधनत्वप्रसङ्गादित्यर्थः ।

वादावलीविवरणम्

अर्थापत्तिं शङ्कते ॥ सच्चेदिति । शुक्तिरूप्यादिरेवात्र धर्मी न त्वम्बरादि । अग्रे प्रपञ्चव्यभिचारोक्त्ययोगात् ॥ अर्थापत्तिरिति । बाधप्रतीत्यन्यथाऽनुपपत्तिरित्यर्थः ॥ सत्तायुक्तस्येति ॥ तथा च तर्के व्यभिचारः । अर्थापत्तेस्त्वन्यथैवोपपत्तिः । अम्बरादिवत्सत्त्वेनैवोपपत्तेरिति भावः ॥ साध्याविशिष्टत्वादिति ॥ आक्षेपकस्याप्रमितत्वं ह्यर्थापत्तिदोषः । तथा च साध्यावैशिष्ट्य आक्षेप्यवदाक्षेपकस्यापि सन्दिग्धत्वेनाप्रमितत्व-रूपार्थापत्तिदोषप्रसङ्ग इति भावः ॥ सिद्धसाधनत्वादिति । सन्दिग्धो ह्यर्थोऽर्थापत्तिविषयः । सिद्धसाधनत्वे चाक्षेप्यस्य सिद्धत्वेनार्थापत्तेर-विषयवृत्तित्वमिति भावः।


असच्चेन्न प्रतीयेतेत्यत्रासतोऽसत्त्वेन..

असच्चेन्न प्रतीयेतेत्यत्रासतोऽसत्त्वेन..

वादावली

असच्चेन्न प्रतीयेतेत्यत्रासतोऽसत्त्वेन प्रतीति-र्निषिध्यते सत्त्वेन वा । आद्येऽसद्व्यवहारलोपप्रसङ्गः । द्वितीये भ्रान्तिव्यवहारलोपप्रसङ्गः । प्रकृतादन्यात्मना प्रतीतेरेव भ्रान्तित्वात् । तत्र चान्याकारस्यासतः सत्त्वेन प्रतिभासाङ्गी-कारात् । तस्यानिर्वचनीयत्वं ब्रूम इति चेन्न ।

वादावलीभावदीपिका

एवं न बाध्येतेत्यत्रासच्चेदित्यत्र च बाधासतोरुक्तन्यायेन विकल्पदूषणे स्वयमेवोहितुं शक्ये इत्युपेक्ष्य न प्रतीयेत इत्यत्र प्रतीतिं दूषयितुं पृच्छति ॥ असदिति । सत्त्वासत्त्वौदासीन्येन ज्ञानासम्भवादिति भावः । उक्तं हि न हि विधिनिषेधाववधूय प्रत्ययो नामास्तीति । असदिति व्यवहारस्य व्यवहर्तव्यज्ञानसाध्यत्वेनासतोऽज्ञाने शशशृृङ्गमसदित्यसत्पद-प्रयोगरूपव्यवहारो न स्यात् । शुक्तिरूप्यमसद्विलक्षणमित्यसतः प्रतीति-र्नास्तीत्यादिव्यवहारश्च न स्यादित्यर्थः । सत्त्वेन प्रतीतिर्निषिध्यत इत्यत्र तादृशप्रमा निषिध्यते भ्रान्तिर्वा । आद्ये इष्टापत्तिं मन्वानो द्वितीये दोषमाह ॥ भ्रान्तीति । असतः सत्त्वेन प्रतीत्यभावे शुक्तिरूप्यादिज्ञानं भ्रान्तिरिति व्यवहारो न स्यात् । यद्वाऽसतः सत्त्वेन भानाभावे शुक्तिरूप्यादिज्ञानस्य भ्रान्तित्वायोगेन तत्कार्यविसंवादिप्रवृत्त्यादिव्यवहारो न स्यादित्यर्थः । यद्वाऽसतः सत्त्वप्रकारकज्ञानस्यैव भ्रमत्वेनासच्चेत्सत्त्वेन न भ्राम्येत भ्राम्यते च तथा । अतोऽसन्नेति व्यवहारस्य विरुद्धत्वेन तथाव्यवहारलोपः स्यादित्यर्थः । असतः सत्त्वेन ज्ञानाभावे कुतो भ्रान्तिव्यवहारलोप इत्यत आह ॥ प्रकृतादिति । प्रकृताद्वस्तुनः स्वाभाविकरूपाद्रूपान्तरात्मत्वेन ज्ञानस्य भ्रान्तित्वात् । वस्तुयाथात्म्यज्ञानस्य च प्रमात्वादित्यर्थः । असतः सत्त्वप्रतीतिः सतोऽसत्वप्रतीतिरित्यन्यथाप्रतीतेरेव भ्रान्तित्वादिति तत्त्वनिर्णयोक्तेरिति भावः । अस्तु प्रकृतादन्यात्मना प्रतीतिर्भ्रान्तिः । असतः सत्त्वेन भाने किमायातमिति चेन्न । भ्रान्तौ प्रतीयमानं शुक्तौ रूप्यात्मकत्वं सद् उतासद् यद्वा सदसद्विलक्षणम् । नाद्यः । तज्ज्ञानस्य भ्रान्तित्वायोगात् । यथावद्वस्त्ववगाहिनोऽपि भ्रान्तित्वे बहुविप्लवापातात् । विसंवादायोगाच्च । द्वितीयेऽसदपि रूप्यात्मकत्वमसत्त्वेन भात्युत सत्त्वेन । आद्ये भ्रान्तित्वानु-पपत्तिः । प्रवृत्यनुपपत्तिश्च । द्वितीयेऽसतः सत्त्वेन प्रतीतिरङ्गीकृतैवेत्याह ॥ तत्र चेति । भ्रान्तौ चेत्यर्थः । अन्याकारस्य रूप्यात्मकस्येत्यर्थः । तृतीयं पक्षमाशङ्कते ॥ तस्येति । शुक्तौ रूप्यात्मकस्येत्यर्थः । सदसद्विलक्षणत्वमनिर्वचनीयत्वम् । न च भ्रान्तित्वानुपपत्तिः । अनिर्वचनीय-विषयकत्वादेव तदुपपत्तेः । प्रातिभासिकविषयत्वादेव विसंवादोपपत्तेश्च । एवञ्च नासतः सत्त्वेन भानमिति भावः । निषेधति ॥ नेति ।

वादावलीप्रकाशः

॥ असव्द्यवहारेति । व्यवहारस्य व्यवहर्तव्यज्ञानसाध्यत्वेनासतः प्रतीत्यभावेऽसदिति व्यवहार एव लुप्येतेत्यर्थः ॥ भ्रान्तिव्यवहारेति । भ्रान्तिरियमिति व्यवहारेत्यर्थः । तदुपपादयति ॥ प्रकृतादिति । इदन्त्वेन पुरतः प्रतीयमानाद्वास्तवाच्छुक्त्याकारादित्यर्थः । अन्यात्मना रजतात्मना । यथोक्तम् । असतः सत्त्वप्रतीतिः सतोऽसत्त्वेन प्रतीतिरित्यन्यथाप्रतीतेरेव भ्रान्तित्वादिति । ततोऽपि किमित्यत आह ॥ तत्र चेति । भ्रान्ता-वित्यर्थः । अन्यथाकारस्य रजताकारस्य । तथा चासतः सत्त्वेन प्रतीत्यभावेऽसतो रजताकारस्यापि सत्त्वेन प्रतिभासाभावापत्त्या भ्रान्ति-व्यवहारोच्छेदप्रसङ्गः स्यादिति भावः । ननु प्रतीयमानस्य रजताकारस्यासत्त्वं नोच्यते येन तस्य सत्यत्वेन प्रतीत्यङ्गीकारः स्यान्न चैवं किन्त्वित्यत आह ॥ तस्येति । अनिर्वचनीयत्वं प्रातिभासिकत्वम् ।

वादावलीविवरणम्

॥ असद्व्यवहारेति । इदमसदित्याद्यबाधितासद्व्यवहारेत्यर्थः । तादृशव्यवहारस्य सत्त्वप्रकारकासद्विशेष्यकप्रमासाध्यत्वादिति भावः ॥ भ्रान्तिव्यवहारेति । भ्रान्तिरूपव्यवहारेत्यर्थः । कुत इत्यत आह ॥ प्रकृतादिति । तस्यानिर्वचनीयत्वमिति । अन्याकारस्य प्रातिभासिकत्व-मित्यर्थः ।