किञ्च न सदसद्विलक्षणत्वे मानम्
अनिर्वाच्यत्वानुमानभङ्गः
वादावली
किञ्च न सदसद्विलक्षणत्वे मानम् । विवादपदं सदसद्विलक्षणमिति प्रतिज्ञायां पक्षस्याप्रसिद्धविशेषणत्वप्रसङ्गात् ।
वादावलीभावदीपिका
एवमनिर्वाच्यत्वलक्षणं खण्डयित्वा तत्र प्रमाणमपि दूषयितुं प्रतिजानीते ॥ किञ्चेति । नन्वनिर्वाच्यत्वे कथं मानाभावः । विमतं सदसद्विलक्षणं बाध्यत्वाद्व्यतिरेकेण ब्रह्मवत् । सत्त्वासत्त्वे एकवस्तुनिष्ठा-त्यन्ताभावप्रतियोगिनी धर्मत्वाद्रूपरसवदिति वा चित्सुखोक्तानुमानस्य, सच्चेन्न बाध्येतासच्चेन्न प्रतीयेतेत्यर्थापत्तेश्च सत्त्वादित्याशङ्क्याद्यानुमाने दूष्यभागं प्रतिज्ञांशानुवादेन दूषयति ॥ विवादेति । सदसद्विलक्षणं न वेति विवाद-विषयीभूतं शुक्तिरूप्यादीत्यर्थः । अत्र विवादपदत्वस्य पक्षतावच्छेदकत्वे-नोपादाने पूर्वोक्ताशयोऽनुसन्धेयः । सदसद्विलक्षणमित्यत्र किं सत्त्वे सत्यसद्रूपविशिष्टप्रतियोगिकविलक्षणत्वं वाऽभिप्रेतं किं वा सद्वैलक्षण्यासद्वै-लक्षण्यरूपं धर्मद्वयं यद्वा सद्विलक्षणत्वे सत्यसद्विलक्षणत्वरूपं विशिष्टं वेति विकल्प्य नाद्य इत्याह ॥ पक्षस्येति । सदसदुभयात्मकस्य प्रतियोगिनोऽ-प्रसिद्ध्या तद्वैलक्षण्यमप्रसिद्धमिति भावः । उपलक्षणमेतत् । मन्मतेऽसदेक-स्वभावे शुक्तिरूप्यादौ सदसद्रूपविशिष्टप्रतियोगिकवैलक्षण्यस्य सिद्धत्वेन सिद्धसाधनादिति ज्ञेयम् । विशिष्टवैलक्षण्यस्य विशेषणसद्वैलक्षण्येनाप्युपपत्तेः । द्वितीयेऽपि द्वित्वावच्छिन्नवैलक्षण्यद्वयं साध्यमुतोभयसाहित्यमात्रम् । आद्य आह ॥ पक्षस्येति ॥
पूर्वोक्तरीत्या सद्वैलक्षण्यासद्वैलक्षण्ये व्याहत इत्युभयमेकत्रासिद्धमिति भावः । द्वितीये ब्रह्मवैलक्षण्यमादायांशतः सिद्धसाधनात् । न हि सिद्धमसिद्धेन सहोच्यमानमसिद्धं भवतीति बहिरेव बोध्यम् । तृतीयेऽप्याह ॥ पक्षस्येति । विशेषणविशेष्यभावापन्नयोः सद्वैलक्षण्यासद्वैलक्षण्ययोरैकाधिकरण्यरूपसाध्यता-वच्छेदकावच्छिन्नयोरप्रसिद्धेरिति भावः । उपलक्षणमेतत् । विमतं सदसदात्मकं बाध्यत्वाद्व्यतिरेकेण ब्रह्मवदित्याभाससाम्यं च बोध्यम् । नन्वत्र पक्षस्या-प्रसिद्धविशेषणतेति नोपपद्यते साध्यधर्मविशिष्टधर्मिण एव पक्षत्वात् । यदाहुः साध्यधर्मविशिष्टः पक्ष इति । न हि साध्यधर्मविशिष्टस्य साध्यधर्मो विशेषणम् । आत्माश्रयप्रसङ्गादिति चेदाहुः । पक्षपदेन तदेकदेशो धर्मी लक्ष्यते । यद्वाऽप्रसिद्धं विशेषणं यस्मिन् पक्ष इति बहुव्रीहिमाश्रित्य मुख्यार्थ एव यद्धर्मेणास्य पक्षता तद्धर्मांशोऽप्रसिद्ध इति । ननु कथमप्रसिद्धविशेषणत्वं दोषः । न च सन्दिग्धसाध्यवान् पक्ष इति तल्लक्षणात् साध्यस्यैवाप्रसिद्धत्वे तत्कोटिकसन्देहासम्भवान्न पक्षतेति पक्षताविघटकत्वेन तस्य दोषत्वमिति वाच्यम् । सिषाधयिषाविरहसहकृतसाधकमानाभावस्यैव पक्षत्वेन सन्देहान-पेक्षत्वात् । सन्देहापेक्षत्वे वा, शब्दोऽभिधेयः प्रमेयत्वादित्यादावभिधेयत्वं शब्दनिष्ठात्यन्ताभावप्रतियोगि न वेतिवत् सत्त्वासत्त्वे शुक्तिरूप्यनिष्ठात्यन्ता-भावप्रतियोगिनी न वेति सन्देहसम्भवात् । नापि साध्यस्यासिद्धत्वा-त्तन्निरूपितव्याप्तिग्रहासम्भवाद्व्याप्तिविघटकत्वेन दोषतेति । व्यतिरेकिणि व्यतिरेकयोरेव व्याप्त्या साध्यसाधनयोर्व्याप्तेरग्रहादिति चेन्मैवमवादीः । व्यतिरेकज्ञानार्थमपि साध्यज्ञानस्यापेक्षितत्वात् । अभावज्ञाने प्रतियोगि-ज्ञानस्यापेक्षितत्वात्साध्यस्य च प्रतियोगित्वात् ।
ननु यत्र केवलव्यतिरोकिणि भाव एव साध्यस्तत्र तदभावज्ञानार्थं साध्यज्ञानापेक्षा । यत्र त्वभावः साध्यस्तत्र साध्याभावस्य भावरूपतया प्रतियोगिज्ञानं विनाऽपि तज्ज्ञानसम्भवात् । अत एव पृथिवी इतरभिन्नेत्यत्र त्रयोदशान्योन्याभावानामैकाधिकरण्येनाप्रसिद्धावपि तदभावस्येतरत्वस्य भावतया साध्याप्रसिद्धावपि व्यतिरेकव्याप्तिग्रहः सुशक इत्युक्तम् । अत्र वैलक्षण्यस्याभावरूपस्य साध्यत्वान्न दोष इति चेन्मैवं वोचः । साध्याभाव-व्यापकाभावप्रतियोगित्वमेव व्यतिरेकिणि गमकतौपयिकं रूपम् । तच्च न स्वरूपसत् । तथात्वे व्यतिरेक्याभासोच्छेदापत्तेः । किन्तु ज्ञातमेव । तज्ज्ञानमपि न वस्तुगत्या साध्याभावव्यापकाभावप्रतियोगिज्ञानत्वेन । तथात्वे यत्र पटादौ घटाभावत्वमारोप्य तव्द्यापकतया लोष्ठत्वाभावादि ग्रहीतं तत्र लोष्ठत्वादिना घटाननुमानापातात् । किन्तु साध्याभावत्वेन ज्ञायमान-व्यापकाभावप्रतियोगित्वज्ञानत्वेन । एवञ्च साध्याप्रसिद्धौ व्यापकतौपयिक-रूपज्ञानमेव दुर्लभमिति । किञ्च व्यतिरेकसहचारेणान्वयव्याप्तिर्गृह्यत इति मते साध्यप्रसिद्धेरावश्यकत्वादनुमितिरूपविशिष्टज्ञानार्थमपि विशेषणस्य साध्यस्य प्रसिद्धेरवश्यं वक्तव्यत्वाच्चेत्यभावसाध्यकव्यतिरेकिण्यप्रसिद्धविशेषणत्वं दूषणमेवेति सुस्थं दोषत्वम् । इदं दूषणं परमतरीत्यैव । यदाहुः । परसिद्धै-र्दूषणमिति । न तु स्वमतानुसारेण । स्वमते तस्यादोषत्वात् । तदुक्त-माचार्यैः । आश्रयसाध्यव्यधिकरणासिद्धयो न दूषणम् । अतिप्रसङ्गाभावा-दिति । तस्यादोषत्वं चासङ्कीर्णोदाहरणाभावादिना प्रकारान्तरेण शास्त्रे तत्र तत्र समर्थितं बोध्यम् । स्वमतानुसारेण च व्याहत्यादिकं दूषणं बोध्यम् । अत एव तत्त्वोद्योतटीकायां ग्रन्थकारैरित्थमेव विभावितमिति ।
वादावलीप्रकाशः
सदसद्विलक्षणे तादृशवस्तुसद्भावे विवादपदमित्यनुमाने बाध्यत्वादिति हेतुर्द्रष्टव्यः ।
वादावलीविवरणम्
अनिर्वाच्यत्वलक्षणं दूषयित्वा तत्प्रमाणमपि दूषयितुं प्रतिजानीते ॥ किञ्चेति । नन्विदं नीलमितिवदिदं सदसद्विलक्षणमित्यप्रतिभासात्प्रत्यक्षस्य नियताविषयत्वेनोपमानस्येदं सदसद्विलक्षणमित्यश्रवणादागमस्य चाभावेऽपि विमतं सदसद्विलक्षणं बाध्यत्वाव्द्यतिरेकेण ब्रह्मवदित्यनुमानं मानं भविष्यतीत्यत आह ॥ विवादेति । सदसद्विलक्षणमित्यत्र किं सदसद्रूप-विशिष्टत्व विलक्षणत्वमभिमतं सद्वैलक्षण्यासद्वैलक्षण्यरूपधर्मद्वयं वा सद्विलक्षणत्वे सत्यसद्विलक्षणत्वरूपं विशिष्टं वेति विकल्प्य नाद्य इत्याह ॥ पक्षस्येति । सदसद्रूपस्य प्रतियोगिनोऽप्रसिद्ध्या तद्वैलक्षण्यस्याप्यप्रसिद्धेरिति भावः । द्वितीयेऽप्याह ॥ पक्षस्येति । उक्तरीत्या सद्वैलक्षण्यासद्वैलक्षण्यायो-र्व्याहतत्वेन तयोरेकत्राप्रसिद्धेरिति भावः । उपलक्षणमेतत् । ब्रह्मवैलक्षण्य-मादायांशे तत्सिद्धसाधनं च । न हि सिद्धमसिद्धेन सहोच्यमानमसिद्धं भवतीति ज्ञातव्यम् । तृतीयेऽप्याह ॥ पक्षस्येति । विशिष्टस्य क्वाप्य-प्रसिद्ध्यभावादिति भावः । ननु साध्यधर्मविशिष्टः पक्षः । न हि तद्विशिष्टस्य तदेव विशेषणं सम्भवति । आत्माश्रयप्रसङ्गात् । तत्कथं पक्षस्याप्रसिद्ध-विशेषणत्वादीत्युक्तमिति चेदत्राहुः । पक्षपदेन तदेकदेशो धर्मी लक्ष्यते । यद्वाऽप्रसिद्धं विशेषणं यस्मिन्निति सप्तम्यर्थे बहुव्रीहिसमासमाश्रित्य मुख्यार्थ एव पक्षशब्दः । अतो न कश्चिद्दोषः ।