अनिर्वचनीयत्वं किं निर्वचनविरहो वा निर्वाच्यविरहो वा
अनिर्वाच्यत्वलक्षणभङ्गः
अनिर्वचनीयत्वं किं निर्वचनविरहो वा निर्वाच्यविरहो वा
वादावली
तथा हि । अनिर्वचनीयत्वं किं निर्वचनविरहो वा निर्वाच्यविरहो वा । नाद्यः । स्वाभ्युपगतव्यवहार-विषयत्वविरोधात् । द्वितीये सत्वविरहो वाऽसत्त्वविरहो वा । नाद्यः । असतोऽनिर्वाच्यतापातात् । नोत्तरः । ब्रह्मणोऽ-निर्वाच्यतापातात् । अथ सदसद्वैलक्षण्यमनिर्वाच्यत्वमिति मतं तदाऽस्माभिर्जगतः सदसद्रूपताऽनभ्युपगमात्सिद्धसाधनता । अथ प्रत्येकमुभयवैलक्षण्यं विवक्षितं तथाऽप्यसद्ब्रह्मवैलक्षण्या-भ्युपगमेन प्रस्तुतदोषानिस्तारः । एतेन सदसत्त्वानधिकरणत्व-मनिर्वचनीयत्वमित्यपास्तम् ।
प्रत्येकं सदसत्त्वाभ्यां विचारपदवीं न यत् ।
गाहते तदनिर्वाच्यमाहुर्वेदान्त(वादिनः)वेदिनः ॥
इति चेन्न । तादृशवस्तुनोऽ(प्र)सिद्धत्वेनाप्रसिद्धविशेषण-त्वात् । असत्त्वविरहे सत्त्वस्य सत्त्वविरहेऽसत्त्वस्य नियतत्वे-नो(निपतितत्वेनो)भयविरहितत्वं व्याहतमेव ।
वादावलीभावदीपिका
लक्षणप्रमाणाभ्यां वस्तुसिद्धेरनिर्वचनीये च तयोरभावात्तदप्रसिद्धमिति भावेन लक्षणं तावद्दूषयितुं प्रतिजानीते ॥ तथा हीति ॥ अनिर्वचनीयमित्यत्र नञ्तत्पुरुषबहुव्रीही आश्रित्य निर्वचनरूपाभिलपनाभावो वा निर्वचन-योग्यार्थशून्यत्वं वेति भावेन विकल्पयति ॥ किमिति ॥ स्वेति ॥ शुक्तिरूप्यं प्रपञ्चोऽनिर्वचनीयमित्यादिव्यवहारविषयत्वस्याभ्युपगमा-न्मूकोऽहमितिवत् स्वक्रियाविरोध इत्यर्थः । अर्थशून्यत्वमित्यत्रापि द्वेधा विकल्पमाह ॥ सत्त्वेति ॥ क्रमेण द्वावपि दूषयति ॥ नाद्य इत्यादिना ॥ उपलक्षणं चैतत् । सदसदुभयात्मकत्वेनाप्युपपत्त्याऽर्थान्तरत्वमिति च बोध्यम् । न चासतो निस्स्वरूपत्वाद् ब्रह्मणश्च निर्धर्मकत्वात्कथं तत्र सत्त्वविरहासत्वविरहौ धर्मौ स्यातामिति वाच्यम् । तयोर्निस्स्वरूपत्व-निर्धर्मकत्वरूपधर्मवत्त्वयोच्यमान धर्मनिषेधवच्च सत्त्वविरहासत्त्वविरह-रूपधर्मयोरप्युपपत्तेः । अन्यथाऽसद्ब्र्रह्मणोः सत्त्वासत्त्वे स्यातामिति भावः ।
ननु सदसद्वैलक्षण्यं तत्त्वं विवक्षितम् । एवञ्चासति सद्वैलक्षण्यस्य ब्रह्मण्यसद्वैलक्षण्यस्य सत्त्वेऽपि नोभयवैलक्षण्यमस्तीति शङ्कते ॥ अथेति ॥ सत्त्वे सति यदसदुभयात्मकं तद्वैलक्षण्यमनिर्वाच्यत्वमित्यर्थ उत सद्विलक्षणत्वे सत्यसद्विलक्षणत्वमिति वैलक्षण्यसमुच्चयो वेति विकल्प्याद्यं दूषयति ॥ तदेति ॥ तर्हीत्यर्थः । सदेकरूपताऽभ्युपगमेनेति भावः । द्वितीयं शङ्कते ॥ अथेति ॥ दूषयति ॥ तथाऽपीति ॥ असद्ब्रह्मभ्यां वैलक्षण्याभ्युप-गमेनेत्यर्थः । ब्रह्मणः सत्त्वादिति भावः ॥ प्रस्तुतेति । सिद्धसाधनत्व-मित्यर्थः । उपलक्षणमेतत् । उभयात्मकत्वेनाप्युपपत्त्याऽर्थान्तरत्वं च बोध्यम् । न च सद्विलक्षणत्वे सत्यसद्विलक्षणत्वे सत्युभयवैलक्षण्यं विवक्षित-मिति वाच्यम् । केवलसत्त्वेनाप्युपपत्तेः । ननु सत्त्वासत्त्वानधिकणत्वं विवक्षितम् । एवञ्च जगतो ब्रह्मवैलक्षण्येऽपि सत्त्वाधिकरणत्वान्नोक्तदोष इत्याशङ्क्याह ॥ एतेनेति ॥ सदसद्वैलक्षण्यदूषणेनेत्यर्थः । तथा हि सत्त्व-विशिष्टासत्त्वानधिकाणत्वं वा प्रत्येकं सत्त्वानाधिकरणत्वे सत्यसत्त्वा-नधिकरणत्वं वा सत्त्वानाधिकरणत्वे सत्यसत्त्वानधिकरणत्वे सति सदसत्त्वान-धिकरणत्वं वा । नाद्यः । सत्त्वैकाधिकरणत्वेन सदसत्त्वानधिकरण-त्वाभ्युपगमेन सिद्धसाधनत्वात् । न द्वितीयः । असत्त्वानधिकरणत्वांश-मादायांशतः सिद्धसाधनात् । किञ्च निर्धर्मकब्रह्मवत्सत्त्वादिराहित्येऽपि सद्रूपत्वोपपत्त्याऽर्थान्तरत्वं च । सत्त्वादिधर्माणामननुगतत्वेन ब्रह्मगतसत्त्वानधिकरणत्वेनासत्त्वानधिकरणत्वेन चोक्तदोषादित्यर्थ इत्यप्याहुः । न तृतीयः । केवलसत्त्वाधिकरणत्वेऽप्युपपत्त्याऽर्थान्तरत्वादिति ।
ननु सत्त्वेनासत्त्वेन च विचारासहत्त्वं तत्त्वम् । एवञ्च नोक्तदोष इत्याशङ्क्यानुक्तोपालम्भताव्युदासाय चित्सुखोक्तवचनमेव पठति ॥ प्रत्येकमिति ॥ सदसत्त्वाभ्यामित्युपलक्षणम् । सदसत्त्वेन चेत्यपि बोध्यम् ॥ अप्रसिद्धत्वेनेति ॥ तत्प्रसिद्धिसाधकानुमानस्य चाग्रे निरासादिति भावः ॥ अप्रसिद्धेति ॥ विमतं मिथ्येत्यत्र सत्त्वेनासत्त्वेन सदसत्त्वेन च विचारासहमिति साध्यनिर्देशः स्यात् । तथा चाप्रसिद्धत्वमित्यर्थः । किञ्च सत्त्वेनासत्त्वेन चेत्यत्र सत्त्वासत्त्वयोः परस्परप्रतिषेधानात्मकयोः पारिभाषिकयो राहित्यविवक्षायां सिद्धसाधनम् । अस्मदभिमतयो राहित्य-विवक्षायां त्वस्माभि र्लाघवादवश्यकत्वाच्च सत्त्वाभाव एवासत्त्वमिति स्वीकारात् । द्वौ नञौ प्रकृतमर्थं सातिशयं गमयत इति न्यायेनैकतरनिषेध-स्यान्यतरविधिरूपत्वान्मे माता वन्ध्येतिवद्व्याघात इत्याह ॥ असत्त्वेति ॥ निपतितत्वेन प्राप्तत्वेनेत्यर्थः । नियतत्वेनेति पाठे आवश्यकत्वेनेत्यर्थः । यद्वा सत्त्वासत्त्वयोः परस्परविरहव्याप्यत्वमित्यभिप्रेत्य व्याघातोक्तिरियं बोध्या । व्याप्तिश्चाग्रे आत्मादौ साधयिष्यत इति भावः । तथा चासत्त्व-विरहस्य सत्त्वव्याप्यत्वेनासत्त्वविरहं व्याप्यमङ्गीकृत्य तद्व्यापकं सत्त्वमङ्गीकृत्य सत्त्वविरहेऽङ्गीकृते व्याघात इत्यर्थः । यद्वाऽसत्त्वविरहमङ्गीकृत्य पुनः सत्त्वविरहेऽङ्गीक्रियमाणे सत्त्वविरहव्यापकस्यासत्त्वस्य चाङ्गीकर्तव्यत्वेन पूर्वाङ्गीकृतस्यासत्त्वविरहस्य परित्यागादङ्गीकृतपरित्यागेन व्याघात इत्यर्थः ।
वादावलीप्रकाशः
निर्वचनशब्दात्तत्सम्बन्धीत्यर्थे छप्रत्यये तस्येयादेशे निर्वचनीयमिति भवति । तदीयं मदीयमित्यादिवत् । निर्वचनसम्बन्धित्वं चात्र तद्विषयत्वं विवक्षितम् । तथा चानिर्वचनीयत्वं नाम निर्वचनविषयत्वाभावः । तत्र किं विशेषणभूतं यन्निर्वचनं वच परिभाषण इति धातोर्नितरामुक्तिस्तद्विरहोऽभिप्रेत उत तद्विषयरूपनिर्वाच्यविरह इति विकल्पयति ॥ निर्वचनविरह इत्यादिना ॥ व्यवहारेति ॥ इदं रूप्यमित्यादिव्यवहारेत्यर्थः । तथा च व्यवहार-स्यैवाभावे व्यवहारविषयत्वाभ्युपगमो विरुद्व इति भावः । तथा च लक्षणस्यासम्भव इति ज्ञातव्यम् । द्वितीये निर्वाच्यत्वं किं विवक्षितं सत्त्व-मसत्त्वं वा यद्विरहोऽनिर्वाच्यत्वमित्याशयेन विकल्प्य दूषयति ॥ द्वितीय इत्यादिना ॥ ब्रह्मण इति ॥ निर्वचनविषयरूपासत्त्वविरहस्य ब्रह्मण्यपि सत्त्वादित्यर्थः । सदसद्वैलक्षण्यमित्यत्र सच्च तदसच्च सदसत्तद्वैलक्षण्यमिति विवक्षितम् । यद्वा सच्चासच्च सदसती द्वन्द्वान्ते श्रूयमाणो वैलक्षण्यशब्दः प्रत्येकमभिसम्बध्यते । तथा च सद्वैलक्षण्यमसद्वैलक्षण्यमित्युभयवैलक्षण्यं विवक्षितमिति विकल्प्याद्ये सदेकस्वभावस्य जगतः सदसद्रूपतानङ्गीकारा-त्तद्वैलक्षण्यसाधने सिद्धसाधनतेत्याह ॥ तदेति । तर्हीत्यर्थः । द्वितीयं शङ्कते ॥ अथेति ॥ प्रस्तुतदोषः सिद्धसाधनता । सद्वैलक्षण्यसाधने सद्ब्रह्म तद्वैलक्षण्याभ्युपगमात्सिद्धसाधनता । असद्वैलक्षण्यसाधनेऽपि तद्वैलक्षण्य-स्याप्यस्माभिरप्यभ्युपगमात्सिद्धसाधनतै वेत्यर्थः ॥ एतेनेति ॥ सच्च तदसच्च सदसत्तत्त्वानधिकरणत्वं विवक्षितं चेत्तर्हि सदेकस्वभावस्य जगतः सदसत्त्वा-नभ्युपगमात्तदनधिकरणत्वसाधने सिद्धसाधनता । सच्चासच्च सदसती । द्वन्द्वान्ते श्रूयमाणस्त्वप्रत्ययः प्रत्येकमभिसम्बध्यते । तथा च सत्वा-नधिकरणत्वमसत्त्वानधिकरणत्वमिति प्रत्येकमुभयानधिकरणत्वसाधने सत्त्वं ब्रह्मत्वं तदनधिकरणत्वस्यासत्त्वानधिकरणत्वस्य च जगतोऽस्माभिरप्यभ्युप-मात्सिद्धसाधनत्वमिति प्रस्तुतदूषणेनेत्यर्थः ।
शङ्कते ॥ प्रत्येकमिति ॥ सत्त्वेन प्रकारेण विचारागोचरत्वे सत्यसत्त्वेन प्रकारेण विचारागोचरत्वमित्यर्थः । विचारपदवीं विचारमार्गं न गाहते न प्राप्नोतीति यावत् । तथा च सत्त्वेन विचारागोचरत्वमसत्त्वेन च विचारागोचरत्वरूपमनिर्वचनीयत्वमेव मिथ्यात्वमभिप्रेतमिति भावः ॥ तादृशवस्तुन इति ॥ सत्त्वेन विचारागोचरस्यासत्त्वेन विचारागोचरस्य वस्तुन इत्यर्थः ॥ नियतत्वेनेति । परस्परविरुद्धयोरन्यतरनिषेधस्यान्यतर-विधिनाऽन्तरीयकत्वादित्यर्थः ॥ उभयविरहितत्वमिति ॥ सत्त्वासत्त्वोभय-विरहितत्वं सदसद्वैलक्षण्यमिति यावत् । प्राप्तमित्यर्थः ।
वादावलीविवरणं
तत्र तावल्लक्षणाभावेनानिर्वचनीयत्वं दूषयितुं विकल्पयति ॥ किं निर्वचनविरह इति ॥ व्यवहाराविषयत्वमित्यर्थः । अत्र निर्वचनीयं निर्वचनविषयः । न निर्वचनीयमनिर्वचनीयं तस्य भावोऽनिर्वचनीयत्वमिति स्थिते आद्यस्य लाभः । न विद्यते निर्वचनं यस्य तत्तथा निर्वाच्यविरहवदिति यावत् । तस्य भाव इति स्थिते द्वितीयस्य लाभ इत्यूचुः । अन्ये तु निरुप-पूर्वत्वाद्वच परिभाषण इत्यतो भावेऽनीयर्प्रत्ययान्तेन निर्वचनीयशब्देनाविद्यमानं निर्वचनीयं यस्येति बहुव्रीहौ त्वप्रत्यये चाद्यपक्षस्य कर्मण्यनीयर्प्रत्ययान्तेन तेन सह बहुव्रीहौ त्वप्रत्यये च द्वितीयस्य च प्रसक्तिरित्याहुः ॥ स्वाभ्युप-गतेति ॥ इदं रूप्यमिति व्यवहारेत्यर्थः ॥ द्वितीय इति ॥ निर्वाच्यपदस्य सत्त्वपरत्वे प्रथमस्यासत्त्वपरत्वे च द्वितीयस्य च प्रसक्तिः ॥ असत इति ॥ तथा च लक्षणस्यातिव्याप्तिः । अनुमाने तु शशशृङ्गादिवदसत्त्वेनाप्युपपत्त्याऽ-र्थान्तरतेति भावः । एवमग्रेऽपि ।
सदसद्वैलक्षण्यं नाम सदसद्रूपं यद्विशिष्टं तद्वैलक्षण्यं वा सद्वैलक्षण्या सद्वैलक्षण्यरूपधर्मद्वयं वा सदसत्त्वानाधिकरणत्वं वेति विकल्प्य नाद्य इत्याह ॥ तदेति ॥ द्वितीयं शङ्कते ॥ अथ प्रत्येकमिति ॥ तृतीयं प्रत्याह ॥ एतेनेति ॥ उक्तरीत्या सिद्धसाधनत्वेनेत्यर्थः । तथा हि । सदसत्त्वा-नाधिकरणत्वं हि सत्त्वे सत्यसत्त्वरूपं यद्विशिष्टं तदनधिकरणत्वं वा सत्त्वानधिकरणत्वासत्त्वानाधिकरणत्वरूपधर्मद्वयं वा सत्त्वानधिकरणत्वे सत्यसत्त्वानधिकरणत्वरूपविशिष्टं वा । नाद्यः । सिद्धसाधनत्वात् । मन्मतेऽपि सदैकस्वभावे जगति तस्य सिद्धत्वात् । न द्वितीयः । असत्त्वानधिकारणत्वांशमादाय सिद्धसाधनत्वात् । न हि सिद्धमसिद्धेन सहोच्यमानमसिद्धं भवति । नान्त्यः । तथाऽपि सिद्धसाधनत्वात् । सत्त्वस्य प्रातिस्विकतया सतोऽपि सदन्तरानधिकरणत्वे सत्यसत्त्वानधिकरणत्वात् । यदि सर्वथा सत्त्वानधिकरणत्वे सत्यसत्त्वानधिकरणत्वं विवक्षितं तदाऽप्रसिद्धविशेषणत्वं स्यात्तस्य क्वापि प्रसिद्ध्यभावात् । अत एवैतेनेत्ये-तद्वक्ष्यमाणरीत्याऽप्रसिद्धविशेषणत्वेनेत्यपि योज्यम् । एवं पञ्चपादिकाभि-प्रेतमनिर्वचनीयत्वं दूषयित्वा चित्सुखोक्तं सत्त्वेनासत्त्वेन सदसत्त्वेन च विचाराविषयत्वरूपमनिर्वचनीयत्वं दूषयितुं शङ्कते ॥ प्रत्येकमिति ॥ सदसत्त्वाभ्यामित्युपलक्षणम् । सदसत्त्वेन चेत्यपि ग्राह्यम् । सत्यति-व्याप्तिनिवृत्त्यै सत्त्वेनेत्युक्तम् । असति तन्निवृत्त्यै असत्त्वनेति । परसिद्धस्य सदसतोर्व्यावृत्त्यै सदसत्त्वेनेति । यद्वा सत्त्वेनाप्युपपत्त्याऽप्यर्थान्तरनिरासाय सत्त्वेनेति । असत्त्वमादाय तन्निवृत्त्यै असत्त्वनेति । सदसत्त्वेनाप्युपपत्त्याऽ-र्थान्तरं व्यावर्तयितुं सदसत्त्वेनेत्युक्तम् ।
नन्वप्रसिद्धविशेषणत्वं न दोषः । यथोक्तम् । आश्रयासिद्धिव्यधि-करणासिद्ध्योर्न दूषणमिति । अतः कथमप्रसिद्धविशेषणत्वाभिधानम् । न च परमतेनैतदिति वाच्यम् । तथाऽपि स्वमतेनैतत्पक्षे दोषाभावादित्याशङ्क्य स्वमतेन व्याघातमाह ॥ असत्त्वविरहे सत्त्वस्येति ॥ यद्यप्यभावाभावो भाव एव तथाऽपि भावव्याप्य इति मतेनेदं बोध्यम् । अत्र सत्त्वासत्त्वयो-र्निषेधप्रतियोगित्वमुच्यते तन्निषेधत्वरूपं न विवक्षितम् । किन्तु निषेधप्रमितिजनकारोपप्रधानत्वरूपमन्यदेव पारिभाषिकम् । तेन सिद्धान्ते प्रामाणिकस्य निषेधप्रतियोगित्वाभावात्कथमेतदिति शङ्कानवकाशः । प्रामाणिकस्य निषेध्यत्वरूपप्रतियोगित्वाभावेऽपि निरुक्तप्रतियोगित्वसम्भवात् । एवञ्चासत्त्वविरह इत्येतदसत्त्वप्रधानकारोपविषयस्याभाव इति व्याख्येयम् । एवं सत्त्वविरहे चेत्याद्यपि व्याख्येयम् । आरोपप्रधाने कथमारोप्यप्रतिषेध-प्रतियोगित्वमिति चेन्न । आरोप्यवत्तस्यापि तत्प्रतिषेधविरोधित्वेनानुभवात् । एवञ्च प्रतियोगिसत्त्वमभावविरोधीत्यादिकमपि सिद्वान्ते समञ्जसं भवतीति ज्ञातव्यम् ।
अन्ये त्वसत्त्वविरह इत्येतदसत्त्वविरहसंसर्गाभाव इति व्याख्येयम् । एवं सत्त्वविरह इत्येतदपि । तथा च प्रामाणिकस्यैव निषेधप्रतियोगित्वमिति न सिद्धान्तहानिः । सत्त्वासत्त्वयोः प्रामाणिकत्वेऽप्यभावाधिकरणे तत्संसर्गा-भावस्याप्रामाणिकत्वात् । अत एव सिद्धान्ते घटो नास्तीत्यत्र घटस्य प्रामाणिकत्वेनात्यन्ताभावप्रतियोगित्वासम्भवाद्धटसंसर्गाभावस्य प्रतियोगित्व-मास्थितम् । न चैवमसत्त्वसंसर्गस्यात्यन्ताभावप्रतियोगित्वेऽसत्त्वस्यापि प्रतियोगिकोटिनिविष्टत्वादत्यन्तासत्त्वं स्यादिति वाच्यम् । दण्डविशिष्ट-देवदत्ताभावे दण्डस्य प्रतियोगितावच्छेदकत्वेन प्रतियोगित्ववदसत्त्वस्य प्रतियोगितावच्छेदकत्वेनाप्रतियोगित्वोपपत्तेः । एवञ्च न कश्चिद्दोष इत्याहुः ।
ननु निषेधसमुच्चयस्य तात्त्विकत्वानभ्युपगमान्न व्याघातः
**ननु निषेधसमुच्चयस्य तात्त्विकत्वानभ्युपगमान्न व्याघातः **
वादावली
ननु निषेधसमुच्चयस्य तात्त्विकत्वानभ्युपगमान्न व्याघातः । तत्तत्प्रतियोगिदुर्निरूपतामात्रप्रकटनाय तत्त-द्विलक्षणताभिलापादिति चेन्न । तथा सति तस्यानिर्वचनीयता-पातात् । यथा खलु सत्त्वासत्त्वे भवन्मते दुर्निरूपत्वान्न जगतो विद्येते तथाऽनिर्वचनीयताया अपि दुर्निरूपत्वेन तदभावो ध्रुवः स्यात् । असत्त्वविरहे सत्त्वमित्यादिव्याप्त्य-सिद्धेर्न व्याहतिरिति चेन्न । आत्मादौ व्याप्तिसम्भवात् ।
वादावलीभावदीपिका
ननु सत्त्वनिषेधासत्त्वनिषेधयोस्तात्त्विकत्वे स्यादयं दोषो न त्वतात्त्विकत्वे । न हि ह्रदादावारोपितं वह्निमङ्गीकृत्य वन्ह््यभावेऽङ्गीकृते व्याघातोऽस्तीति भावेन शङ्कते ॥ नन्विति ॥ निषेधेति ॥ सत्त्वविरहासत्त्वविरहरूपनिषेधद्वयस्येत्यर्थः ॥ तात्त्विकत्वानभ्युपगमा-दिति । न हि केनापि रूपेण दुर्निरूपस्य प्रपञ्चस्य सदसद्विलक्षणत्वादिकं किमपि रूपं वास्तवमस्तीति भावः । नन्वेवं प्रपञ्चे सत्त्वविरहासत्त्व-विरहसाधनं किमर्थमित्यत आह ॥ तत्तदिति ॥ तत्तत्प्रतियोगिनोः सत्त्वविरहासत्त्वविरहप्रतियोगिनोः । सत्त्वासत्त्वयोरित्यर्थः ॥ मात्रेति ॥ न तु सत्त्वविरहासत्त्वविरहयोस्तात्त्विकत्वायेत्यर्थः ॥ तत्तदिति ॥ सदसद्विलक्षणत्वस्येत्यर्थः । निषेधति ॥ नेति । कुत इत्यत आह ॥ तथा सतीति । सदसद्वैलक्षण्यस्यातात्त्विकत्वे सति । तस्य सदसद्वै-लक्षण्यस्य । प्रपञ्चवदेव केनापि रूपेण निर्वचनायोग्यता स्यात् । न ह्यतात्त्विकस्य किञ्चिदपि रूपं वास्तवमस्तीति त्वयैवोक्तेरित्यर्थः ।
प्रपञ्चगतसदसद्वैलक्षण्यस्याप्यनिर्वचनीयत्वे को दोष इत्यत आह ॥ यथेति । खल्विति दृष्टान्तस्य सुप्रसिद्धतामाह ॥ अनिर्वचनीयताया इति । जगत इत्यनुकर्षः ॥ तदभाव इति । सदसद्वैलक्षण्याभाव इत्यर्थः । ध्रुव इत्यनेनेदं सूचयति सदसद्वैलक्षण्यरूपानिर्वाच्यत्वस्यानिर्वाच्यत्वे उक्तरीत्या जगतः सदसद्वैलक्षण्याभावेन सत्त्वासत्त्वे एव ध्रुवे स्याताम् । अभावाभावे भावनियमात् । एवञ्चादावेव जगतः सदसदात्मकत्वमङ्गीकार्यम् । किञ्च यथा प्रपञ्चे सदसद्वैलक्षण्ये अङ्गीकृत्यातात्त्विकत्वेन विरोधपरिहारस्तथा सत्त्वासत्त्वे एवाङ्गीकृत्यातात्त्विकत्वेन विरोधपरिहारः कार्यः । एवञ्च चतुर्थः प्रकारोऽपि नाङ्गीकर्तव्य इति लाघवं च स्यात् । किञ्च सत्त्वविरहासत्त्वविरहयो-र्द्वयोरप्यतात्त्विकत्वमुच्यत उतान्यतरस्यातात्त्विकत्वम् । नाद्यः । सत्त्वासत्त्वयोस्तात्त्विकत्वस्य ध्रुवत्वेन तयोर्दुर्निरूपत्वस्याप्ययोगात् । उभयतात्त्विकत्ववदु भयविरहातात्त्विकत्वस्यापि विरोधाच्च । न द्वितीयः । तत्प्रतियोगिनोः सत्त्वासत्त्वयोरन्यतरतात्त्विकस्य ध्रुवत्वापत्तेः । अतात्त्विकात्यन्ताभावप्रतियोगिनस्तात्त्विकत्वनियमादिति ।
ननु यदुक्तमसत्त्वविरहे सत्त्वस्य सत्त्वविरहेऽसत्त्वस्य नियतत्वेनोभय-विरहितत्वं व्याहतमेवेति तदयुक्तम् । व्याप्त्यसिद्धेः । न तावत्प्रपञ्चे व्याप्तिग्रहः । तस्य पक्षत्वात् । नापि शुक्तिरूप्ये । तस्य त्वन्मतेऽसत्त्वात् । मन्मते चोभयविलक्षणत्वात् । नाप्यसति । तत्र सत्त्वाभावात् । नाप्यात्मनि । तत्र सत्त्वस्यात्मत्वप्रयुक्तत्वेनासत्त्वविरहाप्रयुक्तत्वादित्यभिप्रायं हृदि निधाय शङ्कते ॥ असत्त्वेति । इत्यादीत्यादिशब्देन सत्त्वविरहेऽसत्त्वमित्यस्य ग्रहणम् । यद्यपीदं चोद्यं व्याहतमेवेतिवाक्यानन्तरमेव कार्यम् । व्याहत्युप-पादकहेत्व सिद्ध्यर्थत्वात् । न तु निषेधेत्यादिचोद्यमुदीर्य तेनैतच्चोद्यसमाधाना-नन्तरं कर्तव्यम् । तथाऽपि व्याप्तौ वक्तव्यस्य बहुत्वेन व्यवधानेनात्र चोद्यं कृतमिति न दोषः । यद्वोक्तव्याहतिं सदसद्वैलक्षण्यरूपानिर्वाच्यत्वस्याभावे सदसदात्मकत्वमेव ध्रुवं स्यादित्युक्तदोषमप्युद्धर्तुमत्र कृतमिति बोध्यम् । निषेधति ॥ नेति । हेतुमाह ॥ आत्मादाविति । आदिशब्देनास-त्परिग्रहः । असत्त्वविरहे सत्त्वमित्यस्यात्मनि सत्त्वविरहेऽसत्त्वमित्यस्यासति व्याप्तिग्रहसम्भवादित्यर्थः ।
वादावलीप्रकाशः
॥ तात्त्विकत्वेति ॥ सत्त्वासत्त्वनिषेधसमुच्चयद्वयस्य तात्त्विकत्वाङ्गीकारे ह्यसत्त्वविरहे सत्त्वस्येत्याद्युक्तरीत्या व्याहतिः स्यान्न चैवमिति भावः । व्याघाताभावमेवोपपादयति ॥ तत्तदिति । सद्वैलक्षण्य-प्रतियोगिभूतं सत्त्वमसद्वैलक्षण्यप्रतियोगिभूतं चासत्त्वं दुर्निरूपमित्यत्रैव तदुभयवैलक्षण्योक्तेस्तात्पर्यं न तु तस्यानिर्वचनीयलक्षणत्व इत्यर्थः । तथा च जगतः सत्त्वासत्त्वे दुर्निरूपे इत्येवोच्यमानत्वान्न व्याघात इति भावः ॥ तथा सतीति ॥ सत्त्वासत्त्वयोर्दुर्निरूपत्वाज्जगति ते न स्त इत्यभिप्राये सतीत्यर्थः । तस्य जगतः । तदुपपादयति ॥ यथा खलु सत्त्वासत्त्वे भवन्मत इति । तदभावोऽनिर्वचनीयत्वाभावो ध्रुवो नियतः स्यात् । जगत इति शेषः । इत्यादीत्यादिपदेन सत्त्वविरहे चासत्त्वमित्यस्य ग्रहणम् ॥ व्याप्त्यसिद्धेरिति । उभयत्र दृष्टान्ताभावादिति भावः । तथा च नियतत्वेनेति प्रागुक्तमसदिति भावः । आत्मादावित्यादिपदेन शशविषाणाद्यसद्ग्रहणम् । तथा चासत्त्वविरहे सत्त्वमित्यत्रात्मा दृष्टान्तः सत्त्वविरहे चासत्त्वमित्यत्र शशविषाणादिकं दृष्टान्त इति भावः ।
वादावलीविवरणं
ननु स्वप्ने ग्रीष्मवसन्तयोर्विरुद्धयोरप्यविरोधदर्शनेन तात्त्विकयोरेव विरोधः । तथा च सत्त्वासत्त्वनिषेधयोरतात्त्विकत्वान्न व्याघात इति शङ्कते ॥ नन्विति । इदं चोद्यमुभयविरहित्वं व्याघातमेवेति प्रतिज्ञाश्रयत्वात्प्रथमं प्रकृतम् । तेनाग्रिमचोद्यव्याहत्युपपादकं हेत्वसिद्ध्यर्थत्वात्प्राक्कार्यमिति शङ्कानवकाशः । व्याघाताभावे हेत्वन्तरमाह ॥ तत्तदिति । न त्वसत्त्वादि-विधानायेति मात्रशब्दार्थः । जगति सत्त्वादि दुर्निरूपम् । ततस्तन्नास्तीति प्रतिषेधायैव सदसद्वैलक्षण्यस्योक्तिर्न त्वसत्त्वादिविधानायातो न व्याहति-रित्यर्थः । न च समुच्चयार्थकचशब्दाद्यभावः । तदभावेऽप्यसत्त्वविरह इत्यादिग्रन्थस्य दोषान्तरपरत्ववदस्यापि हेत्त्वन्तरपरत्वोपपत्तेः । एवमेतद्वाक्यव्याख्याने सदादिप्रकारदुर्निरूपतामात्रं प्रतिज्ञायते न पुनरसदादिप्रकारो विधीयते कुतो न व्याहतिरिति भक्तिपादसुधासंवादो बोध्यः । यद्वा नन्वेवं सति प्रपञ्चे सत्त्वविराहासत्त्वविरहसाधनं किमर्थमित्यत आह ॥ तत्तदिति । तत्तत्प्रतियोगिनोः सत्त्वविरहासत्त्वविरहप्रतियोगिनोः सत्त्वासत्त्वयोरित्यर्थः । न तु सत्त्वविराहासत्त्वविरहयोस्तात्त्विकत्वायेति मात्रशब्दार्थः ॥ तत्तद्विलक्षणतेति । सदसद्विलक्षणतेत्यर्थः । तथा सत्यतात्त्विकत्वे सति । तस्य सदसद्वैलक्षण्यस्यानिर्वचनीयतापातान् निर्वचनायोग्यतापाताद् दुर्निरूपत्वापातादिति यावत् । यदि निषेधसमुच्चयोऽतात्त्विकस्तर्ह्यतात्त्विकप्रपञ्च वदनिर्वाच्यत्वं दुर्निरूपं स्यात् । निषेधसमुच्चयस्यैवानिर्वाच्यत्वरूपत्वादिति फक्किकार्थः । नन्वस्तु प्रपञ्चगतं सदसद्वैलक्षण्यरूपानिर्वाच्यत्वं दुर्निरूपं ततः किमित्यत आह ॥ यथेति । दृष्टान्तस्य सुप्रसिद्धतां वक्तृं खल्वित्युक्तम् ॥ तदभाव इति । जगत इत्यनुकर्षः ।
नन्वसत्त्वविरहे सत्त्वमित्यादिव्याप्तिग्रहो न तावत्प्रपञ्चे । तस्य पक्षत्वात् । नापि शुक्तिरूप्ये तस्य त्वन्मतेऽसत्त्वात् । मन्मते चोभयविलक्षणत्वात् । नापि तुच्छे । तत्र सत्त्वाभावात् । नाप्यात्मनि । तत्र सत्त्वस्यात्मत्व-प्रयुक्तत्वेनासत्त्वविराहाप्रयुक्तत्वादिति गूढाभिसन्धिः शङ्कते ॥ असत्त्वविरह इति । अज्ञाताशय इवोत्तरमाह ॥ आत्मादाविति । आदिपदात्तुच्छ-परिग्रहः । असत्त्वविरहे सत्त्वमिति व्याप्तिग्रहस्यात्मनि, सत्त्वविरहेऽसत्त्वमिति व्याप्तिग्रहस्य तुच्छे सम्भवादित्यर्थः ।