०३ मिथ्यात्वनिरुक्तिनिरासः

तत्किमनिर्वचनीयत्वं वा असत्त्वं वा..

मिथ्यात्वनिरुक्तिनिरासः

तत्किमनिर्वचनीयत्वं वा असत्त्वं वा

वादावली

तत्किमनिर्वचनीयत्वं वा असत्त्वं वा सद्विवि-क्तत्वं वा प्रमाणाविषयत्वं वा अप्रमाणविषयत्वं वा अविद्या-तत्कार्ययोरन्यतरत्वं वा स्वात्यन्ताभावसमानाधिकरणतया प्रतीयमानत्वं वा । नाद्यः । विकल्पासहत्वात् ।

वादावलीभावदीपिका

अनिरुक्तिमेव सिषाधयिषुः साध्यं विकल्पयति ॥ तत्किमित्यादिना ॥ अप्रसिद्धेः पक्षान्तरमाह ॥ असत्त्वं वेति ॥ मानबाधात्कल्पान्तरमाह ॥ सद्विविक्तत्वं वेति ॥ सद्भिन्नत्वमित्यर्थः । सतोऽपि सदन्तरविविक्तत्वेनार्थान्तरत्वादाह ॥ प्रमाणाविषयत्वमिति ॥ व्यवसायद्वाराऽनुव्यवसायरूपप्रमाणविषयत्वस्यैव शुक्तिरूप्यादौ सत्त्वेन साध्यवैकल्यादाह ॥ अप्रमाणेति ॥ ब्रह्मणो भ्रमाधिष्ठानत्वेनाप्रमाण-विषयत्वादाह ॥ अविद्येति ॥ अविद्यातत्कार्यान्यान्यत्वमित्यर्थः । अनादि-जीवब्रह्मविभागादावभावादाह ॥ स्वेति ॥ स्वस्य योऽत्यन्ताभावस्त-त्समानाधिकरणतया तदेकाधिकरणतया प्रतीयमानं तस्य भावस्तत्त्वमित्यर्थः ।

अत्र स्वान्त्यताभावसामानाधिकरण्यं मिथ्यात्वमित्युक्ते सिद्धान्ते शुक्तिरूप्यस्यासत्त्वेन स्वात्यन्ताभावेनैकाधिकरण्यासिध्या साध्यवैकल्यमतः प्रतीयमानत्वमिति । न च संयोगवदव्याप्यवृत्तित्वेनाप्युपपत्त्याऽर्थान्तरत्वमिति वाच्यम् । संयोगतदत्यन्ताभावयोरवच्छेदकभेदेनैव प्रतीत्या सत्यत्वपक्षे तयोः सामानाधिकरण्यायोगादित्यभिप्रयात् । न चाभासस्याप्रसक्त्या नाभासस्य निषेध इत्यद्वैतिभिरङ्गीकारेण नेदं रूप्यमित्यापणस्थस्य रूप्यस्यैव निषेध इति कथं शुक्तिरूप्यस्य स्वात्यन्ताभावसमानाधिकरणत्वमिति वाच्यम् । स्वरूपे-णापणस्थस्य निषेधेऽपि पारमार्थिकत्वाकारेण शुक्तिरूप्यस्यैव निषेधात् । नन्वधिरकणशब्देन तात्त्विकाधिकरणोक्तौ तत्त्वतः स्वाधिकरणे स्वात्यन्ताभावसामानाधिकरण्यस्य विरोधादतात्त्विकाधिकरणोक्तौ सिद्धसाधनात्कथमयं कल्प इति चेत् स्वात्यन्ताभावाधिकरण एव प्रतीय-मानत्वस्य विवक्षितत्वात् । तत्राद्यं निराह ॥ नाद्य इति ॥ तत्र हेतुमाह ॥ विकल्पेति ॥ विकल्पं न सहत इति विकल्पासहस्तत्त्वादित्यर्थः । विकल्पे कृते तत्रैकोऽपि कल्पो नाङ्गीकर्तुं योग्य इत्यर्थः ।

वादावलीप्रकाशः

॥ तत्किमित्यादि ॥ अत्रोत्तरोत्तरविकल्पकरणे पूर्वपूर्वविकल्पेषु वक्ष्यमाणदूषणान्येवास्वरसबीजानीति ज्ञातव्यम् ॥ अविद्येति ॥ अविद्यात्वं मिथ्यात्वमित्युक्तेऽविद्याया एव मिथ्यात्वप्राप्त्या प्रपञ्चे तदभावादव्याप्तिः स्यादतस्तत्कार्यग्रहणम् । तत्कार्यत्वं मिथ्यात्वमित्युक्ते प्रपञ्चेऽविद्याकार्यत्व-सद्भावेऽप्यविद्यायां तदभावादव्याप्तिः स्यादतोऽविद्याग्रहणम् । अननुगम-परिहारायान्यतरग्रहणमिति द्रष्टव्यम् ॥ स्वात्यन्ताभावेति ॥ स्वात्यन्ता-भावसमानाधिकरणत्वमित्येवोक्ते व्याघातः स्यात् । प्रतियोगितदत्यन्ताभावयो-रेकाधिकरणत्वायोगादतः प्रतीयमानत्वमित्युक्तम् । तथा च प्रतियोग्यधि-करणतया भ्रान्तिसिद्धस्य वस्तुनोऽत्यन्ताभावाधिकरणत्वोपपत्तेर्न व्याघातः । तथा च प्रतीयमानाधिकरणनिष्ठात्यन्ताभावप्रतियोगित्वमिति यावत् । प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वे तात्पर्यम् । घटस्य तन्त्वादिरूपे पटोपाधावत्यन्ताभावः सर्वसम्मत एव । यस्मिन्मृदाद्युपाधौ स्वयं प्रतीयते तत्रापि तदत्यन्ताभावसाधने मिथ्यात्वमेव सिध्यतीति भावः ॥ विकल्पेति ॥ विकल्पस्य सहं न भवतीति विकल्पासहस्तस्य भावस्तत्त्वं तस्मादित्यर्थः ।

वादावलीविवरणम्

॥ सद्विविक्तत्वमिति ॥ सद्रूपत्वाभाव इत्यर्थः । तेन सतोऽपि सदन्तरविविक्तत्वात्तादृशमिथ्यात्वसाधने सिद्धसाधनमिति चोद्यानवकाशः । ननु सत्ताजात्यैव सद्रूपत्वस्योपपाद्यत्वाद्ब्रह्मणि च निर्धर्मकतया सत्ताभावेन सद्रूपत्वाभावादतिव्याप्तिरिति चेत् । मैवम् । सत्तारहितस्यापि ब्रह्मणः सामान्यात्सद्रूपत्वेनोक्तदोषाभावात् ॥ स्वेति ॥ स्वात्यन्ताभावसमानाधि-करणत्वमित्युक्ते व्याघातः स्यात् । प्रतियोगितदत्यन्ताभावयोरेकाधि-करणत्वायोगात् । अतस्तथा प्रतीयमानत्वमित्युक्तम् । एवञ्च न व्याघातः । प्रतियोग्यधिकरणतया भ्रान्तिसिद्धस्य वस्तुनोऽभावाधिकरणत्वोपपत्तेः । एवञ्च स्वाधिकरणतया प्रतीयमाननिष्ठात्यन्ताभावप्रतियोगित्वं मिथ्यात्वमिति पर्यवसन्नम् । नन्वधिकरणतया प्रमितत्वोक्तौ स्वाधिकरणत्वेन प्रमितेः स्वात्यन्ताभावयोगेनासम्भवः । अधिकरणत्वेन प्रतीतत्वमात्रोक्तौ च सिद्धसाधनम् । अन्यथाख्यातिपक्षे सत्यस्यापि रजतत्वादेः स्वाधिकरणत्वेन प्रतीतशुक्त्यादिनिष्ठात्यन्ताभावप्रतियोगित्वादिति चेन्न । स्वात्यन्ताभावाधि-करणस्यैव प्रतीयमानत्वस्य विवक्षितत्वात् । अन्यथाख्यातिपक्षे च रजतत्वादेः स्वात्यन्ताभावानधिकरणे रजतेऽपि प्रतीयमानत्वान्नोक्तदोषः ॥ विकल्पासहत्वादिति ॥ विकल्पं न सहत इति । विकल्पासहत्वादित्यर्थः । विकल्पे कृते सत्येकोऽपि विकल्पो न युक्तिपथमनुसरतीति परमार्थः ।