०२ विप्रतिपत्तिविचारः

ननु कथं सत्यता जगतोऽङ्गीकाराधिकारि

विप्रतिपत्तिविचारः

ननु कथं सत्यता जगतोऽङ्गीकाराधिकारि

वादावली

ननु कथं सत्यता जगतोऽङ्गीकाराधिकारिणी । विमतं मिथ्या दृश्यत्वाज्जडत्वात् परिच्छिन्नत्वाच्छुक्तिरजत-वदित्यनुमानविरोधादिति । मैवम् । मिथ्यात्वानिरुक्तेः ।

वादावलीभावदीपिका

सत्याशेषजगदित्यत्रोक्तं जगत्सत्यत्वमसहमानो विष्णोर्विश्वकर्तृत्वं मायिकमिति मन्वानो मायावादी प्रत्यवतिष्ठते ॥ नन्विति ॥ कथमित्याक्षेपो न कथमपीत्यर्थः । अङ्गीकाराधिकारिणी अङ्गीकाराधिकारवती । अभ्युपगम-योग्येत्यर्थः । कुत इत्याकाङ्क्षायां श्रुत्यादौ स्पष्टं मिथ्यात्वप्रतिपादनादानन्द-बोधोक्तानुमानविरोधं तावदाह ॥ विमतमिति ॥ परिच्छिन्नत्वादित्यनन्तरं वाशब्दो ध्येयः । तेन नाधिक्यशङ्का कार्या । यद्यपीदमनुमानं स्वग्रन्थे पञ्चावयवात्मकतया प्रयुक्तं तथाऽप्यवयवत्रयेणैवानुमित्युपपत्ताववयवान्तरं व्यर्थमिति ज्ञापयितुं त्र्यवयवात्मकत्वेनोक्तम् । यद्वा भट्टमतानुसारिणा परेणाप्युपनयनिगमनयोरसाधनत्वाङ्गीकारात्पञ्चावयवप्रयोगेऽधिकं निग्रहं सूचयितुं तथोक्तमिति । विमतं सत्यत्वमिथ्यात्वाभ्यां विवादविषयीभूतम् । ब्रह्मासत्प्रातिभासिकान्यद्विश्वमित्यर्थः । अत्र वियदादीति पक्षनिर्देशेऽवच्छेदका-भावादसङ्कुचितेनादिशब्देनात्मशुक्तिरूप्ययोर्ग्रहणापत्त्यांऽशतो बाधसिद्धसाधनते स्याताम् । विश्वमिति पक्षनिर्देशे च विश्वशब्देन वियदाद्यन्यतत्समुदायोक्तौ वियदादिमिथ्यात्वासिद्धेः । वियदादीनामेवोक्ताववच्छेदका भावेन पूर्वोक्तदोष-तादवस्थ्यात् । वियदित्येव पक्षनिर्देशे च घटादौ व्यभिचारात् । तस्य च पक्षतुल्यत्वे निश्चितसाध्याभाववति हेतुसन्देह इव पक्षादन्यत्र निश्चितहेतुमति साध्यसन्देहेऽपि सन्दिग्धानैकान्त्यात् । अतो विमतमिति विमतिः पक्षतावच्छेदकी कृता ।

ननु विमतेरपि ब्रह्मासत्प्रातिभासिकसाधारण्या अपि सम्भवेन विमति-विषयत्वमतिप्रसक्तं न पक्षतावच्छेदकं भवितुमर्हति । किञ्च धर्मिता-वच्छेदकमगृहीत्वा विमतिविषयत्वमेव दुर्ग्रहमिति तद्ग्रहणस्यावश्यकत्वेन प्रथमोपस्थितत्वेन तदेव पक्षतावच्छेदकत्वेन निर्देशार्हं न विमतिविषयत्वमिति चेत् । सत्यम् । ब्रह्मासत्प्रातिभासिकान्यत्वं वा सप्रकारकज्ञानाबाध्यत्वे सत्यसद्विलक्षणत्वे सति ब्रह्मान्यत्वं वाऽवच्छेदकं सम्भवति । विमतिश्च तदवच्छेदेनानतिप्रसक्ता । तथाऽपि तद्विषयत्वमेव लाघवात्पक्षतावच्छेदकं न त्वन्यद्गौरवादिति विमतमित्येवोक्तम् । एवं विमतं सत्यमित्यादि-सिद्धान्तानुमानेष्वपि पक्षनिर्देशाभिप्रायो बोध्यः । दृश्यत्वाद् दृग्विषयत्वा-दित्यर्थः ॥ शुक्तिरजतवदिति ॥ शुक्त्यध्यस्तरजतवदित्यर्थः । पूर्वपक्षं प्रतिक्षिपति ॥ मैवमिति ॥ कुत इत्यतः प्रथमप्राप्तत्वात्प्रतिज्ञांशं तावद्दुदूषयिषुः साध्यस्य दुर्वचत्वादित्याह ॥ मिथ्यात्वेति ॥ निर्दोष-मिथ्यात्वनिर्वचनासम्भवादित्यर्थः । तथा चाप्रसिद्धविशेषणमनुमामिति भावः ।

वादावलीप्रकाशः

सत्याशेषजगदित्युक्तं जगत्सत्यत्वमसहमानो मायावादी प्रत्यवतिष्ठते ॥ नन्विति ॥ अङ्गीकारस्याधिकारो योग्यता यस्याः सा तथोक्ताऽङ्गीकर्तुं योग्येत्यर्थः । कुतः सत्यता जगतो नाङ्गीकर्तुं योग्येत्यतोऽ-नुमानविरोधादित्याह ॥ विमतमिति ॥ सर्वं मिथ्येत्युक्ते ब्रह्मणि प्रमाणबाधः शुक्तिरजतादौ सिद्धार्थता च स्यात् । अतो विमतमित्युक्तम् । विमतेरनेकविधत्वेऽपि साध्यविशेषोपादानात्तद्विशेषसिद्धिः । तथा च सत्यत्वमिथ्यात्वाभ्यां विप्रतिपत्तिविषयो वियदादीत्युक्तं भवति । ननु तर्हि वियदादिकं मिथ्येत्येव कस्मात्पक्षनिर्देशो न कृत इति चेत् । उच्यते । आदिपदग्राह्यतावच्छेदकानुक्तावसङ्कुचितेनादिपदेन ब्रह्मादेरपि ग्रहणापत्त्योक्त दोषानिस्तारात् । किञ्चाप्रसिद्धविशेष्यत्वाप्रसिद्धविशेषणत्वसिद्धार्थत्वप्रमाण-बाधानां प्रतिज्ञादोषाणामुद्धारोऽप्येतेन कृतः स्यादित्येतदर्थं विमतग्रहणम् । यदि विशेष्यभूतं वियदाद्यप्रसिद्धं स्यात्तदा किमाश्रया विमतिः स्यात् । यदि च विशेषणभूतं मिथ्यात्वमप्रसिद्धं भवेत्तदा किमुल्लेखिनी विमतिर्भवेत् । यदि वा मिथ्यात्वं वियदादौ सिद्धं बाधितं वा स्यात्तदाऽन्यतरकोटिनिश्चयान्न विमतिः स्यात् । अस्ति चेयं तस्मान्नाप्रसिद्धविशेष्यत्वादीति । आदिपदेनायं पट एतत्तन्तुनिष्ठान्ताभावप्रतियोगी अंशित्वात्पटान्तरवदित्यनुमानं ग्राह्यम् ।

वादावलीविवरणं

सत्याशेषेत्यत्रोक्तं सत्यत्वमसहमानः प्रत्यवतिष्ठते ॥ नन्विति ॥ अङ्गीकाराधिकारिणीति ॥ अङ्गीकारयोग्येत्यर्थः । कुत इत्याशङ्क्यानन्दबोधोक्तमिथ्यात्वानुमानमाह ॥ विमतमिति ॥ अत्र ब्रह्मप्रमान्याबाध्यत्वे सत्यसद्विलक्षणत्वे सति ब्रह्मान्यद् विमतिपदेन विवक्षितम् । तस्य विमतिपदेन ग्रहणं चाश्रयासिद्ध्यादिपरिहारस्तु यदि पक्षीकृतं विश्वमसिद्धं स्यात्तदा किमाश्रया विमतिः स्यादित्यादिरूपेण बोध्यः । परिच्छिन्नत्वादित्यनन्तरं वाशब्दो बोध्यः । तेन नाधिक्यशङ्का । भट्टमतानु-सारिणा च परेण त्र्यवयवप्रयोगः कृत इति न न्यूनताऽपीति बोध्यम् । आदिपदादयं पट इति तत्त्वप्रदीपोक्तानुमानं ग्राह्यम् ॥ मिथ्यात्वा-निरुक्तेरिति ॥ निर्दोषमिथ्यात्वनिर्वचनायोगादित्यर्थः ।