०१ मङ्गलमाचरणम्

नमोऽगणितकल्याणगुणपूर्णाय विष्णवे

श्रीमज्जयतीर्थमुनिविरचिता

मङ्गलमाचरणम्

नमोऽगणितकल्याणगुणपूर्णाय विष्णवे

वादावली

नमोऽगणितकल्याणगुणपूर्णाय विष्णवे ।

सत्याशेषजगज्जन्मपूर्वकर्त्रे मुरद्विषे ॥ १ ॥

**श्रीराघवेन्द्रयतिकृता **

वादावलीभावदीपिका

अमन्दानन्दसन्दोहदेहायेन्दीवरत्विषे ।

इन्दिरास्याब्जपीयूषजुषे कंसद्विषे नमः ॥ १ ॥

प्रणम्य श्रीमदानन्दतीर्थादिगुरुशेखरान् ।

वादावलीं यथाबुद्धि व्याख्यास्यामि सतां मुदे ॥ २ ॥

अथाऽतो ब्रह्मजिज्ञासेति भगवता सूत्रकृता जिज्ञासाहेतुभूतस्य गुण-पूर्णत्वस्य सम्भावकतया जन्माद्यस्य यत इति द्वितीयसूत्रेण जगज्जन्मादिकर्तृत्वं लक्षणमभिहितम् । तच्च जगत्सत्यतामन्तरेण वास्तवं न भवति । सा च न परोदीरितजगन्मिथ्यात्वप्रमाणानामाभासताव्युत्पादनेन विनोपपद्यत इति तदर्थमिदं प्रकरणमारभमाणो भगवाञ्जयतीर्थाचार्य-वर्योऽविगीतशिष्टाचारपरम्पराप्राप्तं प्रारीप्सितपरिसमाप्त्यादिप्रयोजनकं सूत्रद्वयोक्तगुणविशिष्टभगवन्नतिरूपं मङ्गलमादावाचरति ॥ नम इति ॥ मुरद्विषे विष्णवे नम इत्यन्वयः । नमः स्वस्ति स्वाहेत्यादिना चतुर्थी । अगणितैः केनाप्यसङ्ख्यातैः कल्याणगुणैर्ज्ञानानन्दबलैश्वर्यादिभिः पूर्णायेत्यनेन विष्णुवाचकब्रह्मशब्दार्थः कथितः । पूर्णपदेन च प्रत्येकं गुणानां निरवधिकत्वमाह । सत्त्वादीनां श्रुत्यादौ गुणत्वेन प्रसिद्धेर्दुःखद्वेषादीनां मतान्तरे गुणत्वेन परिगणनाच्च तव्द्युदासाय कल्याणेति विशेषणम् । सत्यस्य परमार्थसतोऽशेषजगतो जन्मैव पूर्वं येषां स्थित्यादिनां तेषां कर्त्र इत्यर्थः । ननु जगतो मिथ्यात्वात्कथं तस्य जन्मादीत्यत उक्तम् ॥ सत्येति ॥ तच्च साधयिष्यत इति भावः । एतेनास्य ग्रन्थस्य सूत्रद्वयोक्तार्थसमर्थनार्थत्वेन तदेकदेशत्वात्तद्विषयादिनैव प्रेक्षावत्प्रवृत्त्यङ्गं विषयादिमत्त्वं सिद्धमिति सूचितं भवति । ननु जगज्जन्मपूर्वकर्त्र इत्यत्र कथं जन्मपूर्वाणां कर्तेति षष्ठीसमासः । कर्तृशब्दस्य तृजन्तत्वे तृजकाभ्यां कर्तरीति षष्ठीसमासनिषेधात् । तृन्नन्तत्वे च, न लोकाव्ययनिष्ठाखलर्थतृनामिति षष्ठ्या एव निषेधादिति चेत् । इत्थम् । तृजन्तत्वे याजकादित्वेन वा शेषषष्ठीत्वेन वा षष्ठीसमासः । तृन्नन्तत्वे च श्रितादिषु गमिगम्यादीनामुपसङ्ख्यानमित्युक्तेर्द्वितीयातत्पुरुषो बोध्यः ।

**श्रीनिवासतीर्थविरचितः **

वादावलीप्रकाशः

श्रीरामं हनुमत्सेव्यं श्रीकृष्णं भीमसेवितम् ।

श्रीव्यासं मध्वसंसेव्यं समस्ताभीष्टदं भजे ॥ १ ॥

श्रीमदानन्दतीर्थार्यचरणावाश्रयेऽनिशम् ।

रुद्रादिसर्वविबुधैः संसेव्याविष्टदौ सताम् ॥ २ ॥

अक्षोभ्यतीर्थकरजान् व्यासरामपदार्चकान् ।

वन्दे ग्रन्थार्थविज्ञप्त्यै जयराजमुनीनहम् ॥ ३ ॥

यैरहं शुकवत्सम्यक् शिक्षितोऽस्मि कृपालुभिः ।

तान्वन्दे यादवाचार्यान्वेदेशमुनिसेवकान् ॥ ४ ॥

अथैतत्कृपया श्रीनिवासाख्यायुतसूरिणा ।

प्रकाश्यते मया वादावली सम्यग्यथामति ॥ ५ ॥

अथ परमकारुणिको जयतीर्थश्रीमच्चरणः श्रीमदाचार्यैस्तत्र तत्र विक्षिप्य वर्णितं मायावादिनां दूषणं मन्दानुजिघृक्षयैकत्र सङ्कलय्य दर्शयितुं वादावल्याख्यं प्रकरणमारभमाणः स्वचिकीर्षितस्य ग्रन्थस्य निर्विघ्न-परिसमाप्त्यर्थमुत्तरग्रन्थोपक्षेपकविशेषणविशिष्टतया श्रीविष्णुनमनरूपमङ्गलं कृत्वा शिष्यशिक्षायै ग्रन्थादावुपनिबध्नाति ॥ नम इति ॥ अशेषेति ॥ रमाब्रह्मा-दीत्यर्थः । पूर्वशब्देन स्थितिलयनियमनज्ञानाज्ञानबन्धमोक्षाणां ग्रहणम् । जगज्जन्म पूर्वं प्रभृतिर्यस्य स्थित्यादेस्तत्तथोक्तं तस्य कर्त्र इत्यर्थः। रमाब्रह्माद्यशेषजगत्कर्तृत्वोक्त्या तस्य तत्स्रष्टृत्वं तत्प्रकारश्च ‘सिसृक्षुत्वविशेषं तत् साक्षाद्भगवदिच्छया । प्राप्तैव सृष्टेत्युदिते’त्यादिवियत्पादीयानु व्याख्यानोक्तरीत्या द्रष्टव्यः । प्रतिवादिनिराकरणसामर्थ्यावाप्त्यर्थं मुरद्विष इत्युक्तम् । तं यथा यथोपासते तदेव भवतीति श्रुतेरिति ज्ञातव्यम् ।

**श्री उमर्जी तिरुमलाचार्यसुतकृष्णविरचितं **

वादावलीविवरणं

वेदव्यासं गुणावासं श्रीनिवासं भजेऽनिशम् ।

वासवीसुतमीशानं वासवादिसुरस्तुतम् ॥ १ ॥

श्रीमध्वं जयतीर्थराजमनिशं श्रीरामपादाम्बुजा

सक्तान्तःकरणान्रघूत्तमयतीन्वेदेशतीर्थानपि ।

विद्याधीशमुनींश्च नौमि यदुपत्याचार्यवर्यानपि

श्रीमन्न्यायसुधाशयप्रकटनात्सम्प्राप्तकीर्तीन् भुवि ॥ २ ॥

जयतीर्थगवीगुम्फे प्रत्यहं योऽन्वजागरीत् ।

सेवे तं तिरुमलाचार्यं निर्मलाचारभास्करम् ॥ ३ ॥

श्रीभगवता बादरायणेनोक्तस्य जगज्जन्मादिकर्तृत्वरूपपरब्रह्मलक्षणस्य सिद्धये जगत्सत्यतां समर्थयितुं परोक्तप्रपञ्चमिथ्यात्वसाधकप्रमाणानामाभासता-व्यत्पादनायेदं प्रकरणमारभमाणो जयतीर्थश्रीमच्चरणः प्रारीप्सिताविघ्न-परिसमाप्त्यादिप्रयोजनकं शिष्टाचारपरम्पराप्राप्तमीश्वरप्रणामरूपं मङ्गलं शिष्यशिक्षायै निबध्नाति ॥ नम इति ॥ विष्णवे नम इत्यन्वयः । नमः स्वस्तीत्यादिना चतुर्थी । त्रिविधा हि देवता वन्द्या भवति । विशिष्टेष्टाधिकृता चेति । तत्र नम्यत्वप्रयोजकवैशिष्ट्यप्रदर्शनायागणितेति विशेषणम् । अगणिता निःशेषाः कल्याणा विनाशादिरहिता गुणा आनन्दादयस्तैः पूर्णायेत्यर्थः । यद्वा गुणशब्दो दुःखादिष्वपीत्यतस्तव्द्युदासाय कल्याणेत्युक्तम् । अधिकृतत्वं दर्शयति ॥ सत्याशेषेति ॥ ननु यथा स्वाप्नसर्पस्य मिथ्यात्वात्तन्निरूपितं प्रसर्पणमपि मिथ्या तथा जगतो मिथ्यात्वात्तत्कर्तृत्वमपि मिथ्येत्याशङ्का-निरासायोक्तं सत्येति । तच्च समर्थयिष्यते । यद्यपि सत्यत्वमेवात्र समर्थ्यत इति नेश्वरस्य प्रतिपाद्यत्वरूपमधिकृतत्वं तथाऽपि तात्पर्यवृत्त्या जगज्जन्मादिकर्तृत्वमेवेश्वरस्य प्रतिपाद्यं, सत्यत्वं तु तदुपयोगितया । अत एव ‘तस्मात्सत्यभेदचेतनाचेतनात्मनो विश्वस्य हरिः कर्तेति निराबाधमवस्थितमि’तीश्वरस्य जगज्जन्मादिकर्तृत्वोपसंहारं करिष्यत्याचार्यः । इष्टत्वप्रदर्शनायोक्तम् ॥ मुरद्विष इति ॥ अनेनानिष्टनिवर्तनक्षमत्वमस्य सूचितम् । इष्टसम्पादनक्षमत्वं चागणितेत्यनेनैवानन्दादिपूर्णत्वोक्त्या सूचितम् । एवञ्चानिष्टनिवर्तकत्वादिष्टसम्पादकत्वाच्च भगवानिष्ट इति सिध्यति । तस्मात्सत्स्वपि हरादिष्वस्यैव नम्यत्वे को हेतुरिति शङ्काऽनवकाशः । अत्र जगज्जन्मपूर्वकर्त्र इत्यत्र षष्ठीतत्पुरुषो न त्वन्यः । तद्विधायकाभावात् । कृद्योगे षष्ठ्या एव प्राप्तौ तत्समासस्यैव युक्तत्वाच्च ।

ननु कर्तृशब्दस्तृजन्तस्तृन्नन्तो वा । आद्ये षष्ठीतत्पुरुषसमासानुपपत्तिः । वृत्तिकारमते कर्तरि चेति सूत्रेण कर्त्रर्थकक्तप्रत्यययोगे तृज्योगे च षष्ठीसमासनिषेधात् । मतान्तरेऽपि तृजकाभ्यां कर्तरीति तन्निषेधात् । अन्तेऽपि तदनुपपत्तिरेव । न लोकाव्ययेति तृन्योगे षष्ठ्या एव निषेधादिति चेत् । अत्र ब्रूमः । कर्तृशब्दस्तृजन्त एव । न चोक्तदोषः । जनिकर्तुरिति निर्देशाज्ज्ञापकात्तन्निषेधस्यानित्यत्वात् । यदाह दुर्घटवृत्तिकारः । जनिकर्तुरिति निर्देशादनित्योऽयं निषेधः । तेन भूभर्तुरित्याद्युपपन्नमिति । निषेधस्य नित्यत्वेऽपि न दोषः । शेषषष्ठ्याः समासाङ्गीकारात् । अत एव त्रिभुवनविधातुरित्यस्य शेषषष्ठ्याः समास इति कैय्यटः । कर्तृशब्दस्तृन्नन्तो वाऽस्तु । न च तत्पक्षोक्तदोषः । प्रमेयदीपिकायां जिज्ञासुरपि योगस्येत्यत्र उप्रत्यययोगेऽपि न लोकेति निषेधो नास्ति । नञा निर्दिष्टस्यानित्यत्वात् । अत एव कात्यायनो द्विषः शतुर्वा वचनमित्याद्यवोचदिति स्फुटम् । न लोकेति निषेधस्यानित्यत्वोक्तेः । यद्वा न लोकेति कारकषष्ठ्या एव निषेधो न तु शेषषष्ठ्याः । अन्यथा द्विजस्य कुर्वन्नरकस्य जिष्णुरित्यादौ षष्ठी न स्यात् । तथा च तृन्योगे कारकषष्ट्या अप्राप्तावपि शेषषष्ठीप्राप्तिसम्भवात् षष्ठीसमासो युक्त इत्यलम् ।