प्रमाणपद्धतिः
(१३) प्रमाणपद्धतिः
करणानां तु ज्ञानजनकत्वशक्तिरेव स्वकारणासादिता प्रामाण्यजनकत्वशक्तिः । अप्रामाण्यजनने त्वन्या शक्तिर्दोषवशादाविर्भवति । ज्ञप्तिस्तु परत एव । इन्द्रियादिस्वरूपस्य यथायथं स्वप्रमाणवेद्यत्वात् । यथार्थज्ञानसाधनत्वस्यानुमानवेद्यत्वादिति । तदेवंभूतैः प्रमाणैः पदार्थानां नित्यानित्यत्वादिकं निश्चित्य विषयेषु विरक्तस्य शमदमादिसम्पत्तिमतो वासुदेवैक शरणस्य तद्विषयाणि श्रवणमनननिदिध्यासनान्यादरनैरन्तर्याभ्यां बहुकालमनुष्ठितवतो भगवत् साक्षात्कारे सत्यत्युद्रिक्तया भक्त्या भगवत्प्रसादादशेषानिष्टनिवृत्तिविशिष्टानन्दादिस्वरूपाविर्भावलक्षणा मुक्तिर्भवतीति ॥
जयतीर्थमुनीन्द्रेण बालबोधाय निर्मिता ।
प्रमाणपद्धतिर्भूयात्प्रीत्यै माधवमध्वयोः ॥ १ ॥
॥ इति श्रीमज्जयतीर्थपूज्यचरणविरचितप्रमाणपद्धतावागमपरिच्छेदः सम्पूर्णः ॥ ३ ॥
जयतीर्थविजय
करणप्रामाण्यस्योत्पत्तौ स्वतस्त्वमुपपादयति ॥ करणानामिति ॥ ज्ञानजनकत्वशक्तिरेवेति । तथा च ज्ञानजनकत्वशक्तिप्रामाण्यजनकत्वशक्त्योरेकत्वमेव करणप्रामाण्यस्योत्पत्तौ स्वतस्त्वमिति भावः । करणगताप्रामाण्यस्योत्पत्तौ परतस्त्वमुपपादयति ॥ अप्रामाण्येति । आविर्भवति चक्षुरादाविति शेषः । ज्ञानजनकत्वशक्त्यप्रामाण्यजनकत्वशक्त्योर्भेद एव करणगताप्रामाण्यस्योत्पत्तौ परतस्त्वमिति भावः । करणप्रामाण्यस्य ज्ञप्तौ परतस्त्वमुपपादयति ॥ ज्ञप्तिस्त्विति । करणप्रामाण्यस्येति शेषः । तदेवोपपादयति ॥ इन्द्रियादीति ॥ स्वप्रमाणेति । यथायथं साक्षिणाऽनुमानेन च स्वप्रमाणेन वेद्यत्वादिति भावः ॥ अनुमानवेद्यत्वादिति । इन्द्रियादिग्राहकानुमानाद्यतिरिक्तानुमानवेद्यत्वादित्यर्थः । इदं च प्रामाण्यस्य ज्ञप्तौ परतस्त्वकथनं करणस्य करणग्राहकमात्रग्राह्यत्वरूपं स्वतस्त्वं नेत्याभिप्रेत्य । अत एव सुधायां करणानां तु ज्ञप्तौ स्वतस्त्वं नास्त्येवेत्यादिनाऽत्रोक्तं पक्षमुक्त्वाथवा ज्ञानजनकत्वं येन गृह्यते तत एव यथार्थज्ञानजनकत्वस्य तदीयस्य ग्राह्यत्वं स्वतस्त्वमिति पक्षान्तरमुक्तम् । उत्पत्तौ स्वतस्त्वं तु करणगताया यथार्थज्ञानजननशक्तेः करणगता या सहजा ज्ञानजननशक्तिस्तद्वत्सहजत्वं वा तदभिन्नत्वं वा । एतदेवोक्तमधस्तात्करणानां तु ज्ञानजनकत्वशक्तिरेवेत्यादिना । इत्थं निरूपितानां प्रमाणानां ज्ञानस्य फलमाह ॥ तदेवं भूतैरिति । एवं भूतैराभासविविक्तैरित्यर्थः । अत्र षष्ठ्यन्तैरधिकारिस्वरूपमुक्तम् । श्रवणं शब्दजन्यं ज्ञानम् । मननमुपपत्तिजं ज्ञानम् । निदिध्यासनं निरन्तरचिन्ता । तदुक्तं व्यासतीर्थैः ।
श्रवणं शब्दजं ज्ञानमुपपत्त्यनुचिन्तनम् ।
मतिर्निरन्तरा चिन्ता निदिध्यासनमुच्यत ॥ इति ।
मुक्तिस्वरूपे विवादात्तत्स्वरूपनिरूपणार्थमुक्तम् ॥ अशेषेति । इत्यशेषमतिमङ्गलम् ॥
इति श्रीमद्दक्षिणमधुरश्रीनिवासभट्टोपाध्यायानां शिष्यस्य जनार्दननामिनः कृतौ प्रमाणपद्धतिटिप्पणे जयतीर्थविजयनामि्न आगमपरिच्छेदः सम्पूर्णः ॥ ३ ॥
भावदीपः
॥ स्वकारणेति । इन्द्रियादिकारणानां कारणेन या ज्ञानजनना शक्तिरुत्पन्ना सैव तेषां कारणेनासादिता सम्पादिता प्रामाण्यशक्तिरित्यर्थः । अत्र विशेषः करणगताया यथार्थज्ञानजननशक्तेः करणगता करणहेत्वासादिता सहजा या ज्ञानजननशक्तिस्तद्वत्सहजत्वं वा तदभिन्नत्वं वेति तर्कताण्डवोक्तिदिशा ध्येयः । एवं भ्रमस्थले दोषेण प्रामाण्यजननशक्तिप्रतिबन्धेऽपि न ज्ञानानुत्पत्तिशङ्का । तच्छक्तेरप्रतिबन्धात् । अभेदपक्षे तु प्रामाण्यांश एव प्रतिबन्धो न ज्ञानांश इति फलबलात् कल्प्यमिति शक्तिभेदपक्षे द्वयोः सहजत्वान्न परतस्त्वापत्तिः । अत एवाह ॥ अप्रामाण्यजनने त्वित्यादि । तत्र ज्ञानजननाप्रामाण्यजननशक्त्योर्भेदेऽप्यन्यस्याहितत्वेन सहजत्वाभावात्परतस्त्वमित्यर्थः ॥ यथायथमिति । बाह्येन्द्रियस्वरूपं रूपज्ञानादिलिङ्गगम्यम् । मनस्तु साक्षिगम्यम् । लिङ्गशब्दस्वरूपं तु चक्षुः श्रोत्रादिप्रत्यक्षगम्यम् । इन्द्रियलिङ्गशब्दरूपत्रयस्यापि यथार्थज्ञानसाधनत्वरूपं प्रामाण्यं तु संवादिज्ञानजनकत्वादिलिङ्गेनानुमेयमिति स्वरूपग्राहकातिरिक्तग्राह्यतया परतस्त्वं तत्प्रामाण्यस्येत्यर्थः । तर्कताण्डवे या तु पद्धतौ ज्ञप्तिस्तु परत एवेत्युक्तिः सा करणस्वरूपग्राहकमात्रग्राह्यत्वं नेत्यभिप्रेत्य ज्ञानजनकत्वं येन गृह्यते तत एव यथार्थज्ञानजनकत्वस्य ग्राह्यत्वं स्वतस्त्वमिति सुधोक्त्या विवक्षाभेदेन स्वतस्त्वमपि करणानां ज्ञप्तौ ध्येयमित्युक्तम् । निरूपितप्रमाणस्वरूपस्योपयोगं वदन्परमपुमर्थेन संयोगमाह ॥ तदेवमिति । तत्तस्मादर्थाव्यभिचारित्वादेवंभूतैः सम्यक् परीक्षितैः प्रत्यक्षादिप्रमाणैर्नित्यानित्यत्वसारासारपरमपुरुषार्थत्वतादृशत्वादिकं निश्चित्यानित्यासारादिरूपविषयेषु विरक्तस्य निवृत्तमनस्कस्य । शमदमादीत्यादिपदेन शान्तो दान्त उपरतस्तितिक्षुः समाहित इति श्रुत्युक्तग्रहः । श्रवणं गुरूपदेशजन्यं वाक्यार्थज्ञानम् । मननं तु गुरूपदेशादवगतार्थे युक्त्यनुसन्धानम् । निदिध्यासनं नाम श्रवणमननाभ्यामुत्पन्नतत्त्वनिश्चयजन्यसंस्कारपरिणामरूपं भगवद्विग्रहस्य मनसा निरन्तरावलोकनम् ॥ आदरनैरन्तर्याभ्यामिति । आदरः स्नेहविशेषः । नैरन्तर्यमविच्छिन्नता । ताभ्याम् ॥ आनन्दादीति । ज्ञानबलप्रकाशादिरादिपदार्थः । कृतं प्रकरणमवान्तरप्रयोजनं सूचयन् भगवति गुरौ चार्पयति ॥ जयतीर्थेति ।
प्रमाणपद्धतेर्भावदीपो योऽयं विनिर्मितः ।
राघवेन्द्रेण तेन स्यात्प्रीतो विष्णुस्सदा मम ॥ १ ॥
कल्याणगुणपूर्णाय दोषदूराय विष्णवे ।
नमः श्रीप्राणनाथाय भक्ताभीष्टप्रदायिने ॥ २ ॥
इति श्रीप्रमाणपद्धतिभावदीपे सुधीन्द्रगुरुपादशिष्यराघवेन्द्रयतिकृते शब्दप्रकरणम् ।
श्रीविजयीन्द्रतीर्थ
करणप्रामाण्यस्योत्पत्तौ स्वतस्त्वमाह ॥ करणानां त्विति । करणप्रामाण्यं हि प्रमाकरणत्वरूपम् । तच्च योग्यतावच्छेदकशक्यात्मकम् । सा च शक्तिर्न ज्ञानजननशक्तितो भिन्ना । गौरवान्मानाभावाच्च । सैव कार्यबले सिद्धौ नागन्तुकहेतुसापेक्षा । किन्तु भावसामग्रीजन्यैवेत्येतदेव तस्याः स्वतस्त्वं नाम । तदाहुः । नित्यनियतैव सा शक्तिरनित्ये भावहेतुजेति । न च भावकार्यत्वेन समवायिजन्यत्वान्नास्या आश्रयेण सहोत्पादसम्भव इति वाच्यम् । स्वसमवायिमात्रस्य सर्वत्राप्यभावात् । समवायित्वेन तत्र हेतुत्वे मानाभावात् । अव्यवहितोत्तरक्षणे भावानामशक्तत्वेन रूपादिकार्यजनकतापत्तेश्च । शक्त्यनुकूलशक्तेरपि समानाधिकरणायाः स्वीकार्यत्वेन व्यवस्थापत्तेश्च । न चैवेयं प्राणाणिकी प्रथमशक्तेरेवमेवादौ कार्येऽनुभवादप्रसङ्गेन परस्परविरोधात् । नन्वेकत्वं शक्तौ ज्ञानत्वस्य कार्यतावच्छेदकत्वान्न तस्यामपि प्रमात्वमपि तथेति वाच्यम् । दोषाभावान्मनस्त्वस्य जन्यज्ञाने साक्षिसाक्षात्कारे चोभयत्र हेतुतावच्छेदकत्वात् । एतेन ज्ञानशक्तिव्यापिका शक्तिरन्यैव प्रमात्वप्रयोजिकेत्यपास्तम् । नन्वेवं चक्षुरादिप्रमात्वशक्तेरपि भावहेतुजज्ञानशक्तिरूपैवेति साऽपि स्वत एव स्यादित्यत आह ॥ प्रामाण्यजनने त्विति । अयमाशयः । न तावज्ज्ञानशक्तिरेव प्रमाशक्तिः । एकशक्तिप्रयोजकत्वे प्रमाप्रमयोः सर्वत्र सङ्करापत्तेश्च । न चैवं प्रमाशक्तिरेवान्याऽस्तु । ज्ञानशक्तेरेव
कल्पनीये लाघवेन प्रमाप्रयोज्यस्यैव कल्पनात् । नन्वन्याऽपि सा भावहेतुजैवास्त्विति स्वमतमनिवार्यमिति चेन्न । तस्या ज्ञानशक्त्यनपेक्षाया अप्रमाप्रयोजकत्वे तत्र ज्ञानत्वानापत्तेः । तदपेक्षणे तु तस्याः प्रमाशक्तित्वेन प्रमाभ्रमसंस्कारापत्तेः । तथा च दोषेण पूर्वशक्तिं निरुध्य विनाश्रयाच्च प्रमाशक्तिरेकैवान्योत्पद्यत इत्येवं वाच्यम् । साहजिकज्ञानशक्तिरप्रमाशक्तिं विना स्यादिति सुस्थमेव तत् । ननु चक्षुरादिकरणानां प्रमारूपफलानुमेयत्वापत्तेः । न च प्रमा प्रमाकारणत्वेनैवानुमानाद्यावत्स्वाश्रयग्राहकग्राह्यत्वं स्वतस्त्वं तत्रापि स्यादित्याशङ्क्याह ॥ ज्ञप्तिरस्त्विति । अत्र हेतुर्यथार्यमिति । ज्ञानक्रियामात्रेण कारणमात्रस्य प्रमां विनाऽप्यनुमातुं शक्यत्वादित्यर्थः ॥ अनुमानेति । अनुमानविशेषेत्यर्थः ॥
विजयीन्द्रयतिः कश्चित्कृतवान्भाववर्णनम् ।
प्रमाणपद्धतेः प्रीत्यै जयश्रीपूर्णमध्वयोः ॥ १ ॥
इति श्रीमज्जयतीर्थपूज्यचरणविरचितायाः प्रमाणपद्धतेष्टीकायां विजयीन्द्रयतिविरचितायां तृतीयप्रकरणव्याख्या समाप्ता ॥
श्रीवेदेशभिक्षु
इदानीं करणगतयाथार्थ्यं ज्ञानजनकत्वशक्तिरूपप्रामाण्यस्योत्पत्तौ स्वतस्त्वमुपपादयति । करणानां त्विति । तु शब्देनात्रत्यस्वतस्त्वविशेषं सूचयति । ज्ञानजनकशक्त्यभिन्नत्वं वा तज्जनकमात्रजन्यत्वं चोक्तरूपकरणप्रामाण्ये स्वतस्त्वमिति । करणगतायथार्थजनकत्वशक्तिरूपाप्रामाण्यस्य तु ज्ञानजनकत्वशक्तिभिन्नत्वं वा तज्जनकातिरिक्तजन्यत्वं वा परतस्त्वं विवक्षितमित्यभिप्रेत्योपपादयति ॥ अप्रामाण्येति । आविर्भवति जायते । करणप्रामाण्यस्य ज्ञप्तिप्रकारमाह ॥ ज्ञप्तिरिति । अत्र परत एवेत्युक्तिः स्वाश्रयीभूतकरणग्राहकमात्रग्राह्यत्वरूपस्वतस्त्वं नेत्यभिप्रेत्य । वस्तुतस्त्वप्राप्तिज्ञानजनकमात्रग्राह्यत्वरूपं स्वतस्त्वमेव विवक्षितम् । अत एव सुधायां करणानां ज्ञप्तौ स्वतस्त्वं नास्त्येवेत्यादिनेममेव पक्षमुक्त्वा अथवा ज्ञानजनकत्वं येन गृह्यते तत एव यथार्थज्ञानजनकत्वस्य तदीयस्य ग्राह्यत्वं स्वतस्त्वमिति पक्षान्तरमुक्तम् ॥ यथायथमिति । इन्द्रियस्वरूपस्यानुमानेन लिङ्गस्वरूपस्य प्रत्यक्षादिनाऽऽगमस्वरूपस्य श्रोत्रेण वेद्यत्वादित्यर्थः ॥ अनुमानेनेति । तदन्वयव्यतिरेकानुविधायीत्युक्तस्वरूपेत्यर्थः । प्रेक्षावत्प्रवृत्त्यै स्वग्रन्थस्याधिकार्यादिकं दर्शयन्मोक्षसम्बन्धमाह ॥ तदिति । एवम्भूतैराभासविविक्तैः । अत्र षष्ठ्यन्तैरधिकारिस्वरूपमुक्तम् । भगवत् प्रसादादित्यनेन भगवानेव विषय इति सूचितम् । मुक्तिस्वरूपे वादिविवादात्तत्स्वरूपनिर्धारणायाह ॥ अशेषेति । अविशिष्टेन प्रकरणस्य मुक्तिं प्रति परम्परया साधनमेवोपपादनम् । अत्र सर्वत्रागमादिप्रमाणमन्यत्रोदाहृतं द्रष्टव्यमित्यशेषमतिमङ्गलम् ॥
तर्कताण्डवसन्न्यायसुधादौ यः प्रपञ्चितः ।
भावो जयमुनेरत्र स एवाल्पतयेरितः ॥ १ ॥
यो वासवीनयनकञ्जविकासभानुरानन्दतीर्थहृदयाम्बुजसन्निविष्टः ।
कृष्णः स तुष्टिमुपयातु सदिष्टहेतुदृष्टिर्मदीयकरणात्स्वव्रतादमुष्मात् ॥ २ ॥
इति श्रीवेदेशतीर्थविरचितः श्रीमज्जयतीर्थकृतप्रमाणपद्धतेर्भावविवरणे तृतीयपरिच्छेदः समाप्तः ॥
अभिनवामृतम्
॥ करणानां त्विति । उपलक्षणमेतत् । अप्रमाणानां शक्त्यादिवचसां तमोयोग्येन्द्रियाणां विरुद्धहेत्वाभासानां वा ज्ञानजननशक्तिरेवाप्रामाण्यजननशक्तिः । प्रामाण्यजनने तु सहकारिवशादन्या शक्तिराविर्भवतीत्यपि ग्राह्यम् । एतेन कदाऽपि प्रमाजननशक्त्यभावाद्विरुद्धादिहेत्वाभासानां प्रामाण्यजनकशक्तेः स्वाभाविकत्वाङ्गीकारे न युक्त इति परास्तम् । ननु प्रमाणलक्षणविभागादिनिरूपणमयुक्तम् । प्रयोजनाभावात् । न च मोक्षः प्रयोजनं तस्य भगवज्ज्ञानैकसाध्यत्वाभावादित्यत आह ॥ तदेवंभूतैः प्रमाणैरिति । तत्त्वं द्विविधं प्रमाणं प्रमेयं चेति । प्रमाणरूपतत्त्वनिर्णयायेदं प्रकरणमारब्धम् । प्रमेयात्मकतत्त्वनिर्णयस्तु तत्त्वसङ्ख्यानादौ भविष्यति । तथा च द्विविधतत्त्वनिर्णयानन्तरमेवंभूतैः प्रमाणैर्नित्यत्वानित्यत्वादिकं निश्चित्य विरक्तस्य श्रवणादिद्वारा भगवदपरोक्षे जाते मोक्षो भवतीति युक्तं प्रमाणस्वरूपनिरूपणमिति भावः । एतेन प्रमाणमज्ञातानां ज्ञानसाधनत्वासम्भवात्तत्सिद्ध एव तत्त्वस्य ज्ञातव्यत्वाद्वा । नाद्यः । अनुमानागमयोर्ज्ञातकरणत्वेन तत्स्वरूपनिरूपणस्य कथञ्चिदावश्यकत्वेऽपि प्रत्यक्षनिरूपणवैय्यर्थ्यप्रसङ्गात् । ईशलक्ष्म्यादिज्ञानस्वरूपनिरूपणायोगाच्च । न द्वितीयः । भावाभावतदितरतत्त्वनिरूपणस्य कर्तव्यतापातादिति निरस्तम् । ग्रन्थान्तरे तन्निरूपणं करिष्यामीति भावेनाह ॥ प्रमाणस्वरूपमात्रनिरूपणादिति ॥
रामचन्द्रः प्रसन्नो मे यदि केनापि कर्मणा ।
सतां तुष्टिकरं नित्यं भूयादभिनवामृतम् ॥ १ ॥
इति श्रीमत्सत्यनिधितीर्थश्रीमच्चरणाराधकेन श्रीसत्यनाथयतिना विरचिते प्रमाणपद्धतिव्याख्यानाभिनवामृते तृतीयपरिच्छेदः समाप्तः ॥
आदर्शः
अस्य ग्रन्थस्य बालबोधार्थं प्रवृत्तत्वेन वस्तुस्थितिरेवोक्तेति मन्तव्यम् । प्रमाणनिरूपण परग्रन्थस्य विषयाद्यनुबन्धचतुष्टयशून्यत्वान्नारम्भणीयत्वमिति शङ्कापनोदायाह ॥ तदेवम्भूतैरिति । तथा चास्य प्रकरणत्वेन शास्त्रैकदेशत्वेन शास्त्रीय विषयादिकमेवास्य विषयादिकमिति भावः । शास्त्रैकदेशसम्बद्धं शास्त्रकार्यान्तरे स्थितम् । आहुः प्रकरणं नामेति तल्लक्षणोक्तेः । एवं च भगवानेव विषयो मोक्ष एव फलमिति भावः । समापितप्रकरणो भगवांष्टीकाकारः स्वकृत्या भगवत्प्रीतिं प्रार्थयते ॥ जयतीर्थेति । माधवो लक्ष्मीपतिः । मायाया धव इति व्युत्पत्तिरिति । तेन सकलवाङ्मनसदेवतायाः श्रीलक्ष्या अपि प्रीतिराशासिता भवति । ‘मध्वित्यानन्द उद्दिष्टो वेति तीर्थमुदाहृतम्’ इत्युक्तेः । मधु सुखकरं शास्त्रं यस्येति बहुव्रीहिणा महानन्दसम्पादकशास्त्रकर्तेत्यर्थः । तेन गुरुत्वं परमेष्टत्वं च सूचितं भवतीत्यशेषमतिमङ्गलम् ॥
शास्त्रमालोड्य तत्सारः शक्त्या निश्चित्य युक्तितः ।
भीमाम्बागर्भसम्भूतनृसिंहेन प्रकाशितः ॥ १ ॥
कमलाबाहुपाशाभ्यां बद्धः श्रीहयशीर्षवान् ।
अनेन कर्मणा भूयात्प्रीतो मे मध्ववल्लभः ॥ २ ॥
इति श्रीमट्टीकाकृत्पादविरचितप्रमाणपद्धतिभावप्रकाशकः श्रीमद्य्वाघ्रपुरीवासिवासुदेवाचार्यशिष्यश्रीश्रीनिवासाचार्यशिष्यनरसिंहविरचित आदर्शनामा ग्रन्थः समाप्तिमगमत् ॥
श्रीविट्टलभट्ट
इतिशब्दः प्रमाणलक्षणादिनिरूपणपरिसमाप्तौ वर्तते । ननु प्रमाणादिकथनेनेदमेव प्रमाणं नान्यदित्याद्यवधारणात्मा निश्चयो भवति । न च प्रमाणादिस्वरूपनिर्णयः स्वतः पुरुषार्थो भवत्यतस्तत्प्रयोजनत्वज्ञापनाय स्वतः पुरुषार्थभूतमुक्त्युपयोगितामाह ॥ तदेवंभूतैः प्रमाणैरिति । तस्मात् परोक्तप्रमाणलक्षणप्रमाणविभागादेरयुक्तत्वादेवंभूतैरस्मदुक्तलक्षणविभागाद्यनुसारेणसम्यङि्नश्चितश्रुतिस्मृत्यादिभिः पदार्थानां नित्यत्वानित्यत्वादिकं निश्चित्य केषाञ्चित्पदार्थानां नित्यत्वमुत्पत्तिविनाशराहित्यादिकमित्यनुवदति । विनाशित्वमादिपदोक्तमुत्पत्तिरहितत्वे सति विनाशित्वे सत्युत्पत्तिराहित्यमसारत्वादिसम्यग्ज्ञात्वा स्रक्चन्दनवनितादिषु विषयेषु रागरहितस्य शमदमादिसम्पत्तिमतो बुद्धेर्भगवन्निष्ठता शमः शान्तिर्वा । दम इन्द्रियनिग्रहः । द्वन्द्वसहिष्णुत्वादिरादिशब्दार्थः । तद्रूपायाः सम्पत्तिः । तद्वतः वासुदेवैकशरणस्य । वा गतिगन्धयोरिति धातोः । स्वभक्तसंरक्षणार्थं स्वाभक्तनिग्रहार्थं च गमनशीलत्वाद्वा । षूञ् प्राणिप्रसव इति धातोः । ‘जगत्प्रसवितृत्वात्’ वा चासौ सुश्चेति वासुः । दिवु क्रीडाविजिगीषास्तुतिमोदमदस्वप्नकान्तिष्वितिधातोः । देवदेवः । वासुश्चासौ देवश्चेति वासुदेवः । वस निवास इति धातोः । वासुः । दिवु क्रीडेति धातोः । दीप्यमानत्वाद्देवः । वासुश्चासौ देवश्चेति वासुदेवः । वस आच्छादन इति धातोः । दुर्जनान्प्रति स्वस्वरूपाच्छादकत्वाद्वासुः । दिवु क्रीडेत्यादेः क्रीडाशीलत्वाद्देवः । वासुश्चासौ देवश्चेति वासुदेवः । बलरूपत्वाद्वः । बवयोरभेदात् । असुरूपत्वात्सकलप्राणिनां प्राणरूपत्वादसुः । दा दान इति धातोर्भक्ताभीष्टप्रदातृत्वाद्देः । वृतु वर्तन इति धातोः सर्वप्रवर्तकत्वाद्वः । वश्चासावसुश्चासौ देश्चासौ वश्चेति वासुदेवः । ‘वानात्सुतेर्देवनाद्वासुदेवो वा वासाद्युतेश्छादनात्क्रीडया च । बलादसुत्वाद्दातृतो वर्तनाच्च तं वासुदेवं प्रवदन्ति सन्त’ इति वचनात् । तथा चैतादृशगुणयुक्तत्वेन वासुदेवनामा मुक्तिप्रदो भगवानेकशरणं मुख्याश्रयो मुख्यरक्षितो वा यस्य तस्य तद्विषयाणि वासुदेवविषयकाणि श्रवणमनननिदिध्यासनानि । आचार्या उपदेशपूर्वकवाक्यार्थज्ञानं श्रवणमुपक्रमादिन्यायैर्वेदार्थानुचिन्तनं मननम् । स्वयोग्यध्यानं निदिध्यासनम् । भाव्यनुष्ठितवचन इत्यन्वयः । श्रवणाद्यनुष्ठाने इतिकर्तव्यतामाह ॥ आदरनैरन्तर्याभ्यामिति । माहात्म्यज्ञानपूर्वको बहुमान आदरः । नैरन्तर्यमवधानं ताभ्यां भगवत्साक्षात्कारे स्वबिम्बभूत भगवदपरोक्षज्ञाने जाते उद्रिक्तयाऽऽविर्भूतयोत्कृष्टया वा तद्भक्त्या तस्मिन्भगवति माहात्म्यज्ञानपूर्वकत्वादिविशेषणविशिष्टः स्नेहो भक्तिस्तया जाताद्भगवत्प्रसादाद्भगवत उत्तमाग्रहात् । अशेषानिष्टनिवृत्तिविशिष्टः स्नेहो भक्तिस्तया जाताद्भगवत् प्रसादाद्भगवत उत्तमानुग्रहात् । अशेषानिष्टनिवृत्तिविशिष्टा अशेषाणि निःशेषाण्यनिष्टानि दुःखकारणान्य विद्याकामकर्मादीनि तेषां विवृत्तियुक्तानन्दादिस्वरूपाविर्भावलक्षणानन्दसुखं ज्ञानं यथेष्टशक्त्यादिरादिशब्दार्थः । आनन्दादि यत्स्वस्य रूपं स्वभावस्तस्याभिव्यक्तिरूपा मुक्तिर्भवतीत्यर्थः । आनन्दाख्याऽभि व्यक्तिः स्वरूपज्ञाने प्रतिभासः । जीवयोग्यतानुसारेणाशेषार्थविषयीकरणं शक्तेरप्रतिबलत्वमित्यनुसन्धेयम् । इति शब्दः प्रकरणसमाप्तौ वर्तते । नन्वस्तूक्तरीत्येदं प्रकरणं सफलम् । तथाऽपि परोपदेशात्मकस्यास्य प्रकरणस्य परार्थत्वेन स्वार्थत्वाभावात्स्वस्येदं प्रकरणं व्यर्थमिति शङ्कावारणाय स्वकृतेनानेन प्रकरणेन स्वस्य भगवत्स्वरूप प्रयोजनं प्रार्थयते ॥ जयतीर्थमुनीन्द्रेणेति । बालबोधाय बालानामल्पमतीनां बोधाय प्रमाणादिस्वरूपनिर्णयायेत्यर्थ इति ॥ छ ॥
प्रमाणपद्धतेर्व्याख्या बालबोधाय निर्मिता ।
विट्ठलेन तया भूयात्प्रीतिर्माधवमध्वयोः ॥ १ ॥
॥ इति श्रीनिवासबालनृसिंहभट्टसूनुना विठ्ठलभट्टेन रचितायां
प्रमाणपद्धतिटीकायामागमविवरणं समाप्तम् ॥
॥ ग्रन्थश्चायं सम्पूर्णः ॥