०१ (१२)

प्रमाणपद्धतिः

प्रामाण्यविचारः

(१२) प्रमाणपद्धतिः

नन्वेतेषां प्रमाणानां प्रामाण्यमप्रमाणानामप्रामाण्यं च केनोत्पद्यते केन वा ज्ञायत इति चेत् । उच्यते । तत्र ज्ञानानामुभयं स्वत एवेति साङ्ख्या मन्यन्ते । ज्ञानजनकातिरिक्तजनकानपेक्षत्वमुत्पत्तौ स्वतस्त्वम् । ज्ञानज्ञापकातिरिक्तज्ञापकानपेक्षत्वं ज्ञप्तौ स्वतस्त्वम् । उभयं परत एवेति नैयायिकादयः । ज्ञानजनकातिरिक्तकारणजन्यत्वमुत्पत्तौ परतस्त्वम् । ज्ञानज्ञापकातिरिक्तप्रमाणापेक्षत्वं ज्ञप्तौ परतस्त्वम् । तत्र ज्ञानमिन्द्रियादिजन्यं प्रामाण्यं पुनरिन्द्रियादिगुणजन्यम् । तथाऽप्रामाण्यं तद्दोषजन्यम् । एवं ज्ञानं मानसप्रत्यक्षवेद्यम् । तत्र प्रामाण्यमप्रामाण्यं च संवादविसंवादलिङ्गगम्यमिति । प्रामाण्यं परतोऽप्रामाण्यं स्वत इति बौद्धाः । प्रामाण्यं स्वतोऽप्रामाण्यं परत इति पक्षम् अङ्गीकुर्वाणा अपि भाट्टाः प्रामाण्यविशिष्टं ज्ञानं ज्ञातताविशेषेणानुमीयत इति ज्ञप्तौ स्वतस्त्वम् । अप्रामाण्यं तु विसंवादाद्यनुमानान्तरवेद्यमिति परतस्त्वं मन्यन्ते । स्वप्रकाशज्ञानेनैव प्रामाण्यविशिष्टज्ञानं सिद्ध्यति । अप्रामाण्यं तु नास्त्येवेति प्राभाकराः । इन्द्रियादिमात्रेणैव प्रामाण्यविशिष्टं ज्ञानमुत्पद्यते । गुणास्त्वकिञ्चित्कराः । अप्रामाण्यं दोषसहकृतेन्द्रियादिभिरुत्पद्यते । तथा ज्ञानं तत्प्रामाण्यं च साक्षिणैव ज्ञायते । अप्रमाणज्ञानस्वरूपमात्रं साक्षिवेद्यम् । तदप्रामाण्यं त्वनुमेयमित्याचार्याः ।

जयतीर्थविजय

॥ नन्विति । प्रमितीनां तत्साधनानां चेत्यर्थः । प्रामाण्यं यथार्थत्वं यथार्थज्ञानसाधनत्वं चेत्यर्थः । अप्रमाणानामप्रमितीनां तत्साधनानां चेत्यर्थः । अप्रामाण्यमयथार्थत्वमयथार्थज्ञानसाधनत्वं चेत्यर्थः । स्वमते प्रमाणानां प्रामाण्योत्पादकग्राहके वदन् शिष्याणां मतभेदप्रतिपत्त्यर्थं परमतानुवादव्याजेनैव स्वतस्त्वपरतस्त्वशब्दार्थावाह ॥ तत्रेति । प्रामाण्योत्पादकादौ वक्तव्ये सतीत्यर्थः । उभयं प्रामाण्यमप्रामाण्यं चेत्यर्थः । स्वतस्त्वं प्रामाण्यस्येति शेषः । ज्ञापकातिरिक्तानपेक्षत्वमित्येतदनन्तरमपि प्रामाण्यस्येति शेषः ॥ उभयमिति । ज्ञानप्रामाण्यजननं तज्ज्ञप्तिश्चेत्यर्थः । तत्रोत्पत्तौ परतस्त्वशब्दार्थमाह ॥ ज्ञानजनकेति । ज्ञप्तौ परतस्त्वशब्दार्थमाह ॥ ज्ञानज्ञापकेति । नैयायिकमते प्रामाण्याप्रामाण्ययोरुत्पत्तिज्ञप्त्योः परतस्त्वमुपपादयति ॥ तत्रेत्यादिना ॥ इन्द्रियादिगुणेति । इन्द्रियलिङ्गोपमानशब्दानां यथाक्रमं भूयोऽवयवेन्द्रियसन्निकर्षयथार्थलिङ्गपरामर्शयथार्थसादृश्यज्ञानयथार्थतात्पर्यज्ञानानि गुणाः । तज्जन्यमित्यर्थः । तद्दोषजन्यं तेषामिन्द्रियादीनां यथाक्रमं काचकामलाद्ययथार्थलिङ्गपरामर्शा यथार्थसादृश्यज्ञानतात्पर्यभ्रमा दोषाः । तज्जन्यमित्यर्थः ॥ तत्र प्रामाण्यमप्रामाण्यं चेति । प्रामाण्यं संवादादिलिङ्गगम्यमप्रामाण्यं विसंवादादिलिङ्गगम्यमिति यथायोग्यमन्वयो ज्ञेयः । अङ्गीकुर्वाणा इत्यनेन भाट्टानामस्माकं च प्रामाण्यस्वतस्त्वविषये साम्यमभिप्रैति । तर्हि किं सर्वात्मना साम्यमित्यतोऽपिशब्दसूचितमुपपादनविषये वैषम्यमस्तीत्याह ॥ प्रामाण्यविशिष्टमिति । ज्ञातताविशेषेण प्रामाण्यविशिष्टज्ञानजनितेनेत्यर्थः ॥ विसंवादादिति । ममोत्पन्नं जलज्ञानमप्रमाणम् । विसंवादिप्रवृत्तिजनकत्वादित्याद्यनुमानानन्तरं ज्ञाततालक्षणलिङ्गापेक्षया ॥ अप्रामाण्यं तु नास्त्येवेति । अयार्थज्ञानरूपधर्मिण एवाभावादित्यर्थः । क्व स्वतस्त्वपरतस्त्वे इत्येवकारार्थः । अङ्गीकुर्वाणा अपीत्यनेन प्रामाण्यस्वतस्त्वं स्वसिद्धान्त इत्युक्तप्रायत्वात्साङ्ख्योक्तयोरेव स्वतस्त्वपरतस्त्वशब्दार्थयोः स्वसम्मतत्वाच्चाविशिष्टं स्वमते प्रामाण्यादिस्वतस्त्वाद्युपपादयति ॥ इन्द्रियादिमात्रेणेति । एवकारव्यावर्त्यमाह ॥ गुणा इति । प्रामाण्यग्रहणकाले सन्निहिता अपि संवादिलिङ्गज्ञानादयो गुणाः पटं प्रति रासभतन्तुरूपादिवदकिञ्चित्कराः । प्रामाण्येऽनुपकारिण इत्यर्थः । यादृच्छिकसंवादादिस्थले गुणाभावेऽपि याथार्थ्यदर्शनादिति भावः । ज्ञानगतस्याप्रामाण्यस्योत्पत्तौ परतस्त्वमुपपादयति ॥ अप्रामाण्यमिति । ज्ञानसामान्यसामग्रीभूतात्मनो योगाद्यतिरिक्तदोषजन्यत्वादप्रामाण्यं परत इत्यर्थः । एवं ज्ञानप्रामाण्याप्रामाण्ययोरुत्पत्तौ स्वतस्त्वपरतस्त्वे उपपाद्य तयोर्ज्ञप्तौ स्वतस्त्वपरतस्त्वे उपपादयति ॥ तथेत्यादिना । ज्ञानगतस्याप्रामाण्यस्य ज्ञप्तौ परतस्त्वमुपपादयति ॥ अप्रमाणज्ञानेति ॥ मात्रमिति । इदं च साक्षिणोऽप्रामाण्यज्ञापकविसंवादलक्षणापवादकाननुसन्धानदशायां द्रष्टव्यम् ॥ तदप्रामाण्यं त्विति । अत्र विशेषवाचिना तुशब्देनापवादकदशायामप्रामाण्यं साक्षिवेद्यमिति सूचयति । उक्तं हि सुधायाम् । साक्ष्यपवादकसद्भावेऽप्रामाण्यमपि गृह्णातीति । या तु विष्णुतत्त्वनिर्णयटीकायामनुमेयमेवाप्रामाण्यमित्युक्तिः सा साक्षिणोऽप्रामाण्यग्रहणे शक्तिर्विसंवादायत्तेत्यभिप्रेत्य । अत एव तत्रैव न पुनर्ज्ञानग्राहकमात्रग्राह्यमित्युक्तम् । वादावल्यां चाप्रामाण्यस्यानुमेयतादशायामित्युक्त्वा न चाप्रामाण्यं क्वचिदपि निरपेक्षेण साक्षिणा निश्चितचरमित्युक्तम् । अनुमेयं विसंवादादिलिङ्गेनेति शेषः ।

भावदीपः

एवं निरूपितानि केवलानुप्रमाणानि तदाभासाश्चोक्ताः । तत्र केवलानुप्रमाणानां प्रामाण्यं किमुत्पत्तिज्ञप्त्योरेकप्रकारमुतानेकप्रकारम् । तथा किं प्रामाण्यमिवाभासानामप्रामाण्यमुत्पत्तिज्ञप्त्योरेकप्रकारमुत भिन्नप्रकारमिति भावेन पृच्छति ॥ नन्वेतेषामिति । एषां प्राङि्नरूपितानामित्यर्थः । इन्द्रियादिमात्रेणेत्यादिना स्वमतं विवक्षुः परमतानि तावदनुवदति ॥ तत्रेति । केनेति कृतचोद्यविषये । ज्ञानतत्करणयोर्मध्य इति वाऽर्थः । उभयं प्रामाण्यमप्रामाण्यं च ॥ स्वत एवेति । उत्पद्यते ज्ञायते चेत्यनुषङ्गः । एवमग्रेऽपि । किमिदं स्वतस्त्वमित्यत आह ॥ ज्ञानेति । उभयमित्यत्रापि ज्ञानानामित्यनुवर्तते । परतस्त्वं निर्वक्ति ॥ ज्ञानजनकेति । ज्ञानाकाराज्ज्ञानज्ञापकाच्चातिरिक्तं किमित्यत आह ॥ तत्रेति । उत्पत्तिज्ञप्त्योर्मध्य इत्यर्थः । तथेत्यनन्तरं ज्ञानमिन्द्रियादिजन्यमित्यनुषज्यते ॥ तद्दोषेति । इन्द्रियलिङ्गादिदोषजन्यमित्यर्थः । संवादविसंवादेति यथाक्रममन्वयः । प्रामाण्यविशिष्टं ज्ञानमिति । प्रामाण्यं तदाश्रयज्ञानं चोभयमनुमेयमित्यर्थः ॥ अनुमानान्तरेति । ज्ञानं ज्ञाततालिङ्गेनानुमेयं तदप्रामाण्यं तु विसंवाददुष्टकरणजन्यत्वादिरूपानुमानान्तरवेद्यमित्यर्थः । ज्ञानतदप्रामाण्ययोरनुमेयत्वाविशेषेऽप्यनुमानभेदात्परतस्त्वमिति भावः ॥ स्वप्रकाशज्ञानेनैवेति । व्यवसायरूपघटादिज्ञानं स्वप्रकाशम् । तत्स्वात्मानं स्वनिष्ठप्रामाण्यं च सहैव गृह्णाति । इति ज्ञानग्राहकातिरिक्तानपेक्षत्वात्स्वतस्त्वमिति भावः । तर्हि स्वनिष्ठाप्रामाण्यस्यापि ग्रहणप्रसङ्गात्तस्यापि स्वतस्त्वसिद्धिरित्यत उक्तम् ॥ अप्रामाण्यं तु नास्त्येवेति । एतेन जायमानं सर्वं ज्ञानं प्रमाणं सदेव जायत इत्युत्पत्तावपि स्वतस्त्वमुक्तं भवति । एवमुपन्यस्तपञ्चपक्षाणामनुभवादिविरोधेन स्फुटदूषणत्वाद्वा साङ्ख्यमतस्याप्रामाण्यस्वतस्त्वस्वीकारादपि मायी वदति । साङ्ख्यनयानुव्याख्यानसुधयोर्नैयायिकादिमतस्य ‘‘प्रत्यक्षवच्च प्रामाण्यं स्वत एवागमस्य च । अनवस्थाऽन्यथा हि स्यादप्रामाण्यं तथाऽन्यतः’’ इति जिज्ञासानयानुव्याख्यानसुधयोर्देवतानयभाष्यटीकयोर्न विलक्षणत्वनयभाष्यटीकयोस्तत्वनिर्णयादौ च, तथा बौद्धमतस्य च ‘‘सर्वस्यापि न चाभावो विश्वं सदिति गम्यत इत्यादिना माध्यमिकनयानुव्याख्यानादौ च ‘भाट्टप्राभाकरमतयोश्च’ न ज्ञानदृष्टिमात्रेण प्रामाण्यमवसीयत इति ज्ञानपादीयानुव्याख्यानसुधयोर्विवृतदूषणत्वाद्वाऽत्रानुक्तिः । स्वमतमाह ॥ इन्द्रियादीति । ज्ञानसामग्रीमात्रेणैवेत्यर्थः ॥ दोषसहकृतेति । दुष्टबुद्धीनामेवाप्रामाण्यशङ्केति परतोऽप्रामाण्यमिति तत्त्वनिर्णयोक्तेरिति भावः ॥ तदप्रामाण्यं त्वनुमेयमिति । व्याख्यातमेतद्वाक्यं तर्कताण्डवे । या तु टीकायामप्रामाण्यमनुमेयमित्युक्तिः सा साक्षिणाऽप्रामाण्यग्रहणे विसंवादापेक्षा नियतेत्यभिप्रेत्य । अत एव वादावल्याम् । न चाप्रामाण्यं क्वचिदपि निरपेक्षसाक्षिणा निश्चितचरमिति । उक्तं हि सुधायाम् । साक्ष्यपवादसद्भावेऽप्रामाण्यामपि गृह्णातीति ।

श्रीविजयीन्द्रतीर्थ

ननूक्तप्रमाणानामपि वादिविप्रतिपत्तेः प्रामाण्यकारणस्य विशिष्य निश्चये परस्परं सर्वत्र दोषदर्शने सामान्यतोऽपि तन्निश्चयसम्भवात्तत एव प्रामाण्यग्राहकस्याप्यनवधारणाच्च न प्रामाण्यव्यवस्था सम्भवतीति सांवृत एव प्रमाणप्रमेयभावो न वास्तव इत्याशयेन तटस्थः प्रत्यवतिष्ठते ॥ नन्वेतेषामिति । प्रमाणपदस्य भावकरणव्युत्पन्नतयोभयत्र प्रश्नोऽयम् । गुणस्यानुगतस्यानिर्वचनादननुगतस्य चानुगतकार्याहतत्वादित्याशयः । प्रामाण्याश्रयकारणस्य प्रामाण्यकारणत्वमुपचर्य प्रश्नः । न च प्रामाण्यहेतुदोषाभाव एव तद्धेतुरस्तु तदभावकूटस्य हेतुत्वादननुगमस्य तत्रादोषत्वादिति मीमांसकमतमाशङ्क्याह ॥ अप्रमाणानामिति । अननुगमेन दोषाभावस्य प्रामाण्यहेतुत्वमेव न सम्भवति । न वा तदभावकूटस्य प्रामाण्यहेतुत्वम् । शङ्खे पीतत्वभ्रमहेतुपीतद्रव्ये सति तदभावाभावेऽप्यपीतत्वप्रमोत्पत्तेरित्याशयः । ननु प्रामाण्याप्रामाण्ययोः प्रमाणसिद्धत्वे तत्कारणेनावश्यं केनचिद्भवितव्यमिति किमत्र विशेषजिज्ञासयेत्याशङ्क्याह ॥ केनेति । न स्वतः प्रामाण्यग्रहोऽनभ्यासदशापन्नज्ञाने संशयानुपपत्तेः । नापि परतोऽनवस्थापत्तेरिति प्रमाणसिद्धत्वमेवासिद्धमित्याशयः ॥ तत्रेति । प्रामाण्याप्रामाण्यकारकज्ञापकविचारे कर्तव्य इत्यर्थः । उभयं प्रामाण्याप्रामाण्यं च उत्पद्यते ज्ञायते चेति शेषः । ननु स्वत एवोत्पद्यत इत्ययुक्तम् । पूर्वोत्तरभावविशेषरूपकार्यकारणभावस्य भेदनियतत्वात् । स्वशब्दस्य स्वकीयार्थत्वेऽनिष्टापत्तिरिति पारिभाषिकं स्वत इत्यस्यार्थमाह ॥ ज्ञानजनकातिरिक्तेति । प्रमातदन्यसाधारणधर्मावच्छिन्नकार्यताप्रतियोगिककारणातिरिक्तानपेक्षत्वमित्यर्थः । अन्यथा गुणदोषयोरपि ज्ञानजनकत्वेन परतः पक्षसाधारण्यादिति ध्येयम् । नन्वेवं सर्वत्र प्रमात्वाप्रमात्वप्रसङ्गे तदुभयवैचित्र्यानुपपत्तिः । कारणवैचित्र्याभावात् । तस्माद्यत्कार्यं यत्कार्यविजातीयं तत्कार्यविजातीयकरणजन्यम् । घटविजातीयपटादिवदिति द्वयोरपि परतस्त्वमिति चेन्न । द्वयोरप्यौत्सर्गिकयोः क्वचिदपवादकेनापवादानपवादाभ्यां वैचित्र्योपपत्तौ गुणदोषयोः कारणत्वाकल्पनादिति तात्पर्यम् । ननु तथाऽपि प्रामाण्यस्याज्ञानरूपत्वेन स्वतो ज्ञप्तिरनुपपन्ना । न च शब्दोऽयं स्वाश्रयपरः । ज्ञानस्य स्वसन्निकर्षव्याप्याद्यजन्यत्वेन स्वाविषयतया स्वाधर्मप्रामाण्यग्राहकत्वात् । प्रामाण्यस्य ज्ञानघटितत्वेन धर्म्यग्रहेऽपि शब्दादिवद् ग्रहस्यासम्भवात् । ज्ञानं प्रमेति ज्ञानगतत्वेन प्रामाण्यग्रहस्य व्यवहाराङ्गत्वेन प्रकृते विचारणीयस्यालाभश्च । नापि स्वाश्रयग्राहकपरः । परतस्त्वपक्षाविशेषादित्यत आह ॥ ज्ञानज्ञापकातिरिक्तेति । प्रतिबन्धदोषासमवहिततया वस्त्वाश्रयानुव्यवसायग्राह्यत्वमित्यर्थः । अन्यथा परतः पक्षावरणादिति ध्येयम् ।

ननु नैतद्युक्तम् । प्रमात्वाप्रमात्वयोः सामान्यकारणताश्रयतत्तद्-व्यक्तिभेदाधीनत्वात् । व्यक्तिभेदवद्यमजवैजातिवच्चानुगतधर्मस्यापि तथैवोपपत्तेः । स्वरूपसम्बन्धगर्भत्वेन प्रमात्वस्यानुगमासम्भवाच्च । यद्वा दोषतदभावौ सामग्य्रावच्छेदकौ न हेतू । तथा चानुगतकार्यस्याननुगतादनुत्पत्तेरपवादकदोषगुणाभावयोरवच्छेदकत्वेऽन्यत्रापि प्रतिबन्धकाभावहेतुतोच्छेदापत्तेश्च । किञ्च तयोरवच्छेदकत्वहेतुत्वे चासाधारणकारणसिद्धेः परतस्त्वपर्यवसानात् । न चासाधारणभावानपेक्षत्वं तत्त्वं गौरवात् । तथात्वेऽपि वा गुणदोषाभावापेक्षया तदुभयोरेव हेतुत्वमवच्छेदकत्वं वा लाघवादुचितम् । किञ्चाविशेषादर्शनादेर्भावस्य हेतुत्वमेवापतितमेवेत्यस्मिन्मते साङ्ख्या इत्यनेनास्वारस्यं विभाव्य मतान्तरमाह ॥ उभयं परत एवेति । आदिपदार्थो वैशेषिकः । ननूपपत्तिः सर्वस्य परत एव । ज्ञप्तिरपि ज्ञानभिन्नस्य तथैवेति सिद्धसाधनमाशङ्क्य तदुभयं व्याचष्टे ॥ ज्ञानजनकेति । यद्यपि गुणदोषयोरपि ज्ञानहेतुत्वाद्बाधः । न च प्रमात्वाप्रमात्वयोरेव ज्ञानभिन्नानित्योपाधिरूपयोस्तद्द्वयहेतुर्न ज्ञान इति वाच्यम् । विषयाविशेषरूपप्रामाण्याज्ञानभिन्नत्वासम्भवात् । विषयात्मकत्वे तु सुतरां तद्द्वयाजन्यत्वात् । तथाऽपि पूर्वोक्तसाध्याभावोऽर्थः न च तत्रापि तत्प्रागभावस्य साधारण्यात्तदादाय सिद्धसाधनम् । भावत्वेनापि कारणविशेषणात् । प्रमामात्र इत्यनेकवृत्तिधर्मावच्छिन्नकार्यताप्रतियोगिककारणजन्यत्वस्य विवक्षितत्वादिति भावः । न चैवमपि दोषाभावेन सिद्धसाधनम् । गुणेनान्यथासिद्ध्या तद्धेतुत्वाकल्पनात् । न च भूयोऽवयवेन्द्रियसन्निकर्षसत्त्वेऽपि पित्तादिप्रतिबन्धान्न श्वैत्यादिप्रमेति तदभावहेतुतावश्यकीति वाच्यम् । क्वचिदन्वयव्यतिरेकाभ्यां किञ्चिदभावस्य हेतुत्वेऽपि पक्षतावच्छेदकप्रमाणत्वावच्छेदेन साध्यसिद्ध्यभावेन सिद्धसाधनासम्भवात् । अर्थान्तरस्य गौरवेणैव निरासादित्याशयः ॥ ज्ञानज्ञापकेति । दोषासमवहितस्ववृत्तिवर्तमानज्ञानग्राहकयावद्ग्राह्यत्वम् । परमतसिद्धप्रामाण्यग्राहकभिन्नयावदग्राह्यत्वं वेत्यर्थः । यथाश्रुते प्रामाण्यग्राहकलिङ्गादेरपि ज्ञानग्राहकत्वाद्बाधापत्तेरित्यवधेयम् । प्रामाण्यस्य परतस्त्वमुत्पत्तौ व्युत्पादयति ॥ तत्रेति । अप्रामाण्योत्पत्तौ तदाह ॥ अप्रामाण्यमिति । ज्ञप्तौ परतस्त्वमाह ॥ एवमिति । ज्ञप्तौ तयो संवादेति संवादिप्रवृत्तिजनकत्वेत्यर्थः । आदिपदार्थस्तु गन्धादिव्याप्यवृत्तिपृथिवीत्वादिव्यापकप्रकारकज्ञानत्वादि ।

नन्वेवं प्राथमिकप्रामाण्यज्ञानानुपपत्तिः । साध्याप्रसिद्ध्याऽन्वयव्यतिरेकव्याप्त्योरग्रहात् । व्याघातदण्डस्य स्वार्थानुमाने सर्वत्र सम्भवात् । क्वचिन्मनसा प्रामाण्यग्रहे सर्वत्र तथात्वादविशेषात् । न च प्राग्भावीयसंस्कारात्प्रामाण्यस्मृतिः । अपूर्वचैत्रत्वादिप्रकारकज्ञानप्रामाण्यस्य प्रागनुभवेन स्मरणायोगात् । प्रमेयत्वादिसामान्येन तत्स्मरणस्य प्रकृतानुमानानुपयोगात् । अथ प्रामाण्यघटकं घटकत्वप्रकारकत्वं पुरोवृत्तिविशेष्यकत्वं पुरोवर्तिनं घटत्वं जानामीत्यनुव्यवसायगम्यमेव तद्विशेष्ये च घटत्त्ववत्त्वं ग्राह्यमिति विचारः । तथा चेदं ज्ञानं घटकत्वाभाववद्विज्ञानविशेष्यत्वं घटवृत्ति । अघटावृत्तित्वेऽपि वृत्तिमत्त्वादित्यादिना प्रामाण्यानुमितिरिति चेत् । मैवम् । प्रामाण्यवदप्रामाण्यस्यापि दुर्ग्रहत्वेन तदभावानुमानासम्भवात् । मनसा तद्ग्रहे प्रामाण्यग्रहोऽपि तथैवास्तु किमनुमानप्रयासेनेति चेत् । अत्र वदन्ति । न तावत्साध्यप्रसिद्धौ पक्षतद्विशेष्यग्रहे वोपायनियमः । क्वचित् कथञ्चिदुपपत्तेः । तदत्र केचिन्मनसैव प्रमात्वग्रहः । तथा हि । अयं घट इति ज्ञाने तदनुव्यवसाये च सति पुनस्तथैव ज्ञाने स्मृत्युपनीतप्रथमव्यवसाये द्वितीयव्यवसायोपनीतघटत्वविशिष्टत्वस्य मनसा परिच्छेदे न किञ्चिद्बाधकम् । काव्यमूलसंसर्गज्ञानत्वात् । एवं कुत्रचिच्चक्षुरादिनाऽपि प्रमात्वज्ञानं घटत्वेन गृह्यमाणे पूर्वानुव्यवसायोपनीतघटत्वप्रकारकज्ञानविशेष्यकप्रमात्वज्ञानमयं घटोऽत्र च घटत्वप्रकारकमिदं ज्ञानमित्येतावतैव निष्कपटव्यवहारोपपत्तेः । तावद्दूरस्यानपेक्षितत्वात् । अपेक्षितत्वेऽपि मानसज्ञानान्तरसम्भवात् । एवं क्वचित्प्रागभावीयसंस्कारवशात्स्मृतस्य क्वचित्तु दैवादप्रामाण्यस्यैव प्रामाण्यग्रहोक्तप्रकाराभ्यां प्रथमोपस्थितौ तदभावानुपूर्वकोक्तानुमानेन प्रामाण्यस्यानुमितिर्भवतीति न काचिदनुपपत्तिः । ग्रन्थस्तु संवादविसंवादलिङ्गादित्यादिपदलिङ्गयोर्व्यत्यासेन योजनीयमिति ।

अत्रायं प्रयोगः । चाक्षुषघटत्वप्रमात्वं कार्यतावच्छेदकम् । कार्यतावच्छेदकत्वबाधकत्वावच्छिन्नाभावात् । घटवत् । चाक्षुषघटत्वप्रमात्वं कार्यतावच्छेदकम् । मन्मतसिद्धकार्यतावच्छेदकत्वावच्छिन्नभिन्नत्वात् । इत्याद्युत्पत्तौ । ज्ञप्तौ त्वयमनुव्यवसायो न प्रमात्वविशिष्टैतज्ज्ञानविषयको मन्मतसिद्धविषयत्वावच्छिन्नभिन्नत्वात् । अप्रमात्ववदित्यादि । एवं मतान्तरेऽपि ग्राहकत्वाभिमततज्ज्ञानान्तर्भावेन साध्यमूहनीयम् । स्यादेतत् । प्रथमहेतौ बाधकाभावोऽसिद्धः । दण्डविशेषाद्घटविशेषवत्सामान्यकारणताश्रयतत्तद्-व्यक्तिविशेषादेव तत्तत्प्रामाण्यव्यक्त्युपपत्तेः । तत्तद्घटत्वादिवच्चाक्षुषप्रमात्वादेरपि कार्यतावच्छेदकत्वे मानाभावात् । अथ कार्यगतं वैचित्र्यं न कारणप्रयोज्यम् । आकस्मिकत्वेवैचित्र्यानुपपत्तेर् घटत्वपटत्ववैचित्र्यवत् । नाप्यननुगततत्तद्-व्यक्तिप्रयोज्यानुगतकार्यस्याननुगतादनुपपत्तेः । तत्तद्घटत्वादिकं त्वननुगतमननुगततत्तत्प्रागभावप्रयोज्यमेव । संस्थानादिविशेषस्त्वनुगतो यदि केषुचिद्घटेषु तदा कुलालादिविशेषप्रयोज्य एव साधकसत्त्वाद्बाधकासद्भावानिश्चयादिति चेन्न । नीलघटत्वादिवत्सामग्रयन्तरोपपाद्यत्वेन कार्यतावच्छेदकानुपपत्तेः । कार्यवृत्तेरनुगतधर्मस्य सर्वस्यैव कार्यतावच्छेदकनियमो गृहविशेषवृत्तिघटत्वादेरतत्त्वात् । तथा हि । घटत्वविशेष्यकत्वे घटगोचरपटभ्रमे सामग्री या च घटभ्रमे घटत्वप्रकारकत्वे सामग्री ताभ्यामेव परस्परसमवहिताभ्यां नीलघटत्ववत्प्रमात्वोपपत्तेः । न तस्य कार्यतावच्छेदकत्वम् । यत्त्ववच्छेदकप्रविष्टभागयोर्यत्र पृथक् कार्यतावच्छेदकत्वं तत्रैवेदम् । विशिष्टोपाधेः कार्यतावच्छेदकत्वे बाधकम् । न चात्र घटत्वे कारणमस्तीति नायं दोष इति । तत्तुच्छम् । कार्यतावच्छेदकस्यान्यथासिद्धिमात्रेणैवावच्छेदकान्तराकल्पनात् । अथ न तदुभयमात्रं प्रमात्वम् । घटपटयोः पटघटभ्रमेऽतिव्याप्तेः । किन्तु तादृशविशेषावच्छेदेन तत्प्रकारकत्वम् । तच्च सामग्रीद्वयप्रयोज्यम् । उक्तभ्रमेऽपि प्रसङ्गादिति तदवच्छेदेन सामग्रयन्तरमावश्यकमिति चेत् । अत्र ब्रूमः । तद्-व्यक्तिधर्मिकघटत्वप्रकारकत्वावच्छेदेन तद्धर्मिकघटत्वासंसर्गाग्रहस्य तत्र तदग्रहप्रतिबन्धकदोषविशेषाभावादेश्चातिप्रसङ्गार्थमवश्यं कारणत्वे किं घटधर्मिकघटत्वप्रकारकत्वावच्छेदेन कारणान्तरकल्पनयाऽऽवश्यकविशेषकारणेन गुणानामन्यथासिद्धः । न च प्रमामात्रहेतुत्वादयमेव गुणो दोषाभावरूपत्वात् । अन्यथा तत्प्रागभावस्यासाधारणकारणत्वात्स एव गुण इति विवाद एवानुपपन्नः । तस्माद्बाधकाभावोऽसिद्धः । द्वितीयहेतुश्चात एव प्रयोजक इति नोत्पत्तौ प्रमात्वस्य परतस्त्वम् । नापि ज्ञप्तौ व्यवसायप्रत्यासत्त्यन्तरत्वेऽतथात्वे वा तदुपनीतो विषयो मानसानुव्यवसाये भासत इति सर्वसिद्धम् । एवं च कविकाव्यमूलमानसप्रत्यक्ष इवोपनीतविशेष्यविशेषणयोर्मनसा वैशिष्ट्यग्रहे किञ्चिद्बाधकं पश्यामः । तथा चानुव्यवसाये विशेष्यत्वेन भासमाने पूरोवर्तिनि प्रकारतया भासमानघटत्वादिवैशिष्ट्यग्रहे किमवशिष्यते ॥ प्रामाण्ये ज्ञातव्य इति । स्वत एव प्रामाण्यधीरित्युक्तहेतोरप्रयोजकता । चैवमपि प्रकारत्वविशेष्यत्वयोः पूर्वाज्ञातत्वेन तद्घटितप्रमात्वस्यानुव्यवसाये प्रकारत्वासम्भवः । फलबलेन प्रतियोगित्वाभावत्वयोरिवाज्ञातयोरपि प्रकारत्वात् । वस्तुतोऽयं घटोऽत्र घटत्वप्रकारकत्वमित्येतावतैव निष्कापट्यव्यवहारादप्रकारत्वेऽपि न क्षतिः । नन्वेवमनभ्यासदशापन्नज्ञाने प्रमा नैवेति सन्देहानुपपत्तिः । अनुव्यवसायेन प्रमात्वनिश्चयात् । तदभावे धर्मिज्ञानाभावेन ज्ञानविशेष्यकसन्देहासम्भवादिति चेत् । किमेतावता सामग्रीसत्त्वेऽपि न प्रमात्वज्ञानमिति वक्तुमध्यवसितोऽसि । ननु त्वमपि किं विरोधिविशेषदर्शने सत्त्वेऽपि सन्देहोऽस्तीति वक्तुमुद्यतोऽसीति सुवचम् । सन्देहाज्ञाने भासमानेऽपि तत्र स्थले सामग्री विद्यमानाऽपि प्रमात्वज्ञानमभिप्रैषि । अनुभवसिद्धापलापमेव वा । उभयथाऽप्यविचारकतेति चेत् । मैवम् । किन्त्वनुव्यवसायं विनैव कोटिद्वयस्मृत्या सन्देहे धर्मिज्ञानसंशयहेतुत्वे मानाभावात् । विशिष्टज्ञानसामान्यसामग्रयैवोपपत्तेः । न चातीतादिविशेष्यकसंशये धर्मिज्ञानहेतुत्वाद्यविशेषयोरिति न्यायेन सामान्यत एव तद्धेतुत्वमिति वाच्यम् । तत्र सन्निकर्षत्वेनैव तदपेक्षणाल्लौकिकसन्निकर्षत्वेन तदपेक्षणात् । तत्र सन्निकर्षत्वस्यानुगतस्याभावान्न तथा कारणता । तथा सत्यसिद्धसन्निकर्षकल्पनानुपपत्तेः ।

नाप्यभावज्ञानत्वादधिकरणसन्देहेऽपेक्षितमिति वाच्यम् । तद्धेतुत्वेऽपि मानाभावात् । भावेऽपि वा लौकिकप्रत्यक्ष एव तथा । अन्यथाऽभाववदिति सामान्यज्ञाने व्यभिचारात् । नापि सन्देहे धर्मिनियमार्थं तज्ज्ञानापेक्षा । अवश्यतद्धीसामग्य्रैवोपपत्तेः । नापि तत्कोटिसहचरितानेकधर्मवद्धर्मिज्ञानतत्कोट्युत्कटसन्देहे हेतुत्वात्सामान्यत एव तस्य हेतुत्वमिति वाच्यम् । उत्कटत्वं हि न जातिः । अव्याप्यवृत्तित्वात् । चाक्षुषादिना सङ्करापत्तेश्च । किन्तु तादृशधर्मविशिष्टतत्कोटिविषयत्वम् । तच्च तादृशधर्मभानसामग्य्रैवान्यथोपपन्नं न सामग्य्रन्तरकल्पनम् । नन्वेवमपि सन्देहोऽनुपपन्नः । प्राथमिकानुव्यवसायपूर्वं तन्निश्चयाभावेऽपि ज्ञानग्राहकसामग्रीरूपप्रामाण्यग्राहकसामग्य्रा एव प्रतिबन्धकत्वात् । यज्ज्ञानं यत्र प्रतिबन्धकं तत्सामग्य्रपि तत्र प्रतिबन्धिकेति नियमात् । अन्यथा पुरुषत्वव्याप्यदर्शनलक्षणे तत्सन्देहापत्तिरिति चेन्न । दोषेण प्रतिबन्धाद्घटत्वादिसन्देहवदुपपत्तेः । एतेनाधर्मधीहेतुत्वे सत्यामपि सामग्य्रां दोषेण कदाचिद् घटत्वादिग्रहप्रतिबन्धात्तत्सन्देहवदत्रापि दोषेण प्रतिबन्धात्तदग्रहे ज्ञानधर्मिमात्रज्ञानात्सन्देहोत्पत्तिर्व्याख्याता । न हि कदाचिद् घटसन्देहदर्शनाद्य्वक्तिभानसामग्री न जातिग्राहिका । नन्वत्र सामग्य्रेव नास्तीत्येव लाघवात्कल्प्यम् । न तु कल्पयित्वा दोषस्य प्रतिबन्धकत्वं गौरवात् । तथा हि । सुरभिचन्दनमित्यादौ ज्ञानोपनीतस्य स्वातन्त्र्येण वैशिष्ट्यं गृह्यते । न तु घटत्वेन जानामीत्यादौ । तेन यत्रोपनायकं ज्ञानं फलीभूतं तत्र न स्वातन्त्र्येण स्ववैशिष्ट्यं ग्राहयेत् । अत्र तु तथेति कल्प्यत इति कुतोऽनुव्यवसायेन प्रामाण्यशङ्केति । अत्र ब्रूमः । किमेतावता व्यवसायग्रहे सामग्री प्रतिबन्धिकाऽभिमता । अथवा गृह्यमाणज्ञानेनोपनायकताऽभिमता । नाद्यः । काव्यमूलभूतोपनयस्थले गन्धवति पृथिवीत्वोपनयनानन्तरमित्याद्युक्तप्रामाण्यग्रहस्थले चोपनायकज्ञानाभावेन व्यभिचारात् । नान्त्यः । लाघवात्स्वविषयकसविकल्पकत्वेनोपनायकताकल्पनात् । अग्रे संशयोपपादकदोषस्यैव कल्पनौचित्यात् । अन्यथा वह्नेरपि दशाविशेषविशिष्टत्वादिना कारणत्वे प्रतिबन्धकमात्रोच्छेदापत्तेः । जातेर्व्यक्तिग्राहकग्राह्यतानुपपत्तेश्च । तस्मान्न ज्ञप्तावपि प्रमाणस्य परतस्त्वमिति । अस्वरसं नैयायिका इत्यनेनोद्भाव्य मतान्तरमाह ॥ प्रामाण्यं स्वत इति । अयमाशयः । उक्तरीत्योभयोर्न स्वतस्त्वमिति विशेषसामग्य्रोपपत्तौ नोभयत्रापि तत्कल्पनं गौरवात् । तथा चापरमौत्सर्गिकज्ञानस्य सामग्रीप्रयोज्यमेवोपपादकं विनेति स्थिते किं तथेति विचारे लाघवात्प्रमात्वमेव तथाऽन्वयत्वप्रमात्वं गौरवात् । न च विशेषसामग्य्रवयवे लाघवात्प्रमात्वे कल्प्यतामिति वैपरीत्यापत्तिरिति वाच्यम् । ज्ञानसामान्यसामग्य्रनिर्वाह्य एव विशेषसामग्य्राः कल्पनीयत्वेनौत्सर्गिककल्पनस्यैव प्राथमिकत्वात् । तत्रैव लाघवानुसरणाद्यपवादकं विना ज्ञानसामग्री प्रमामेव जनयति । दोषेण त्वपवादकेन प्रमाशक्तिनिरोधदोषसाहित्येनाप्रमाम् । अत एव प्रमात्वस्य सामान्यसामग्रीप्रयोज्यत्वेन प्रमाऽपि स्यात् । अन्यथा ज्ञानमपि न स्यादित्यदूषणम् । प्रमाभ्रमशक्त्योर्भेदात् । अप्रमास्थले प्रमाशक्तिनिरोधादिति । न चैवं दोषस्य प्रमाशक्तिनिरोधमात्रप्रयोजकत्वान्नाप्रमासामग्रीनिवेश इति कथमप्रमापर इति वाच्यम् । किमेतावता प्रामाण्ये विशेषसामग्य्रेव माऽस्त्वित्यभिमतं प्रमाशक्त्यभाव एव वा तथेति । नाद्यः । प्रमायामपि तदापत्तेः । न द्वितीयः । दोषाधीनशक्त्यभावापेक्षया दोषस्यैव लाघवात् । प्रथमोपस्थापितत्वाच्च । भावस्याकारणत्वाच्च । न च परोक्तरीत्याऽसंसर्गग्रहादिघटितसामग्यै्रव प्रमात्ववदप्रमात्वस्याप्यन्यथोपपत्तेः । घटे सर्वसामग्रीसत्त्वेऽपि घटत्वप्रमानुत्पत्तेर्दोषावश्यकत्वात् । न चैवमघटे प्रमानुत्पत्त्या गुणोऽप्यावश्यकः । तत्र प्रमाशक्तिनिरोधादिति नाप्रमात्वप्रतिबन्ध्यवाकाश इत्याकल्पनीयं सुहृदयैः । नन्वेतावदाचार्यमतसाधारणमित्यलं विशेषोपन्यासेनेत्याशङ्क्य ज्ञप्तिस्वतस्त्वे वैलक्षण्यात्पृथगुपन्यास इत्याशयेनाह ॥ अङ्गीकुर्वाणा अपीति ॥ ज्ञातताविशेषेणेति । यावज्ज्ञानग्राहकग्राह्यत्वमेव ज्ञप्तिस्वतस्त्वम् । न तु ज्ञानानुव्यवसायगम्यत्वम् । ज्ञानातीन्द्रियत्वादिति भावः । यद्यपि ज्ञातताविशेषः प्रमितत्वमवान्तरवैचित्र्यं प्रमात्वनिश्चयपूर्वं दुर्ज्ञानमिति । कथं स प्रामाण्यानुमापकः । अन्यथा प्रमितत्वेनाप्रमात्वस्यापि स्वतो वेदनापत्तेः । तथाऽपि विशेषो घटत्वप्रकारकत्वादिः । तथा चाहं घटत्वप्रकारकज्ञानवान् । तत्प्रकारकज्ञाततावत्त्वादित्येवं ज्ञानानुमितौ व्यवसायोपनीतघटविशेष्यकमपि भासते । ज्ञाततात्वस्य तद्विषयविषयकत्वनियमात् । न च प्रत्यक्ष एव तथा । मन्मते प्रत्यक्षाभावेन श्यामाभिषिक्तानुमितावेव विद्यमानसमानाधिकरणज्ञानत्वेन तन्नियमकल्पनात् । पुरोवर्तिनं घटत्वेन जानामीति ज्ञानज्ञानस्य फलस्य सर्वसिद्धत्वेन तदुपात्तस्य सर्वैरेवमेव वाच्यत्वात् । अत एवाप्रमाऽपि प्रमेत्येव गृह्यते । तथाऽयं पटत्वप्रकारकधीविशेष्यः । तादृशज्ञातताश्रयत्वादित्येवं व्यापकतावच्छेदकत्वादिनैव विशेष्यत्वप्रकारकभानसम्भवान्नानुमितावुपनीतभानकल्पनं युक्तम् । सम्बन्धितावच्छेदकवत्तयैवेत्यादिनियमस्यापि प्रत्यक्षपरत्वात् । अन्यथा ज्ञानादिपदजन्यज्ञानाज्ञाने व्यभिचारादिति न तद्बलेनापि धर्मधर्मिवैशिष्ट्यज्ञानम् । घटत्वप्रकारकज्ञाततावत्त्वाद्वेत्यनुमितावप्यनुभवसिद्धतदाकारतारक्षार्थमनुमितौ लाघवोपनीतस्यैव व्यवसायोपनीतस्यापि विषयता कल्प्या । अप्रामाण्ये तु नेयं सामग्री व्यवसायानुपनेयत्वादित्याशयेनाह ॥ अप्रामाण्यं त्विति । ननु ज्ञानमतीन्द्रियं जानामीति ज्ञाने लिङ्गपरामर्शस्य कदाऽप्यनपेक्षणात् । अन्यथा घटादावपि तथापत्तेः । तथाऽपि ज्ञातताख्यं पदान्तरमस्ति । यल्लिङ्गं ज्ञानव्यवसायज्ञातताविशिष्टव्यवहारवत्स्वरूपसम्बन्धेनैवोपपत्तेः । अनागतादिविषये तस्यावश्यकत्वाच्च । न च तथाऽपि घटत्वप्रकारकोच्छेदादिकमेव हेतुः स्यात् । परतस्त्वादिसाधारण्यात् । अत एव घटोऽयं घटत्वप्रकारकज्ञानविशेष्यः । तादृशज्ञातताश्रयत्वादित्यादि स्वत एवानुमानमपास्तम् । न्यायमतसाधारण्यात् । न च तन्मते विशेषणधियो हेतुत्वात् । न यावज्ज्ञानग्राहकग्राह्यत्वं स्वतस्त्वं विवादानन्तरत्वाद्युक्तेर्मतान्तरमाह ॥ स्वप्रकाशेति । अयमाशयः । ज्ञानवत्त्वेनैतज्ज्ञानावश्यकत्वे लाघवादग्राह्यज्ञानात्मकमेव तदा क्रियते । ज्ञानान्तरगम्यत्वेऽनवस्थापत्तेरिति सर्वज्ञानमिदमहं जानामीत्याकारम् । साध्याप्रसिद्ध्या प्रथमानुमित्यर्थप्राक्तनसंस्कारानुसरणापत्तेश्च । तत्र च प्रामाण्यघटकयावदंशभावान्न प्रामाण्यग्रहाप्यर्थमन्यापेक्षा । उत्पत्तिस्वतस्त्वं तु पूर्ववदेवेति नोक्तम् ॥ अप्रामाण्यं त्विति । न चैवमप्रामाण्यं दोषादिति सिद्धान्तविरोधः । विसंवादिव्यवहारस्य तदर्थत्वादिति भावः । ननु लौकिकज्ञानं स्वप्रकाशं स्वविषयताप्रयोजकस्वसन्निकर्षाद्यजन्यत्वात् । अन्यथाऽतिप्रसङ्गात् । न च वेद्यत्वेऽनवस्था । अविरललग्नज्ञानज्ञानधारानभ्युपगमात् । कदाचित्केनचित्स्वमतान्तर्भाव्यापि सर्वग्रहणसम्भवादित्यत्र प्राभाकरा इत्यनुशयमुद्भाव्य पारमार्थिकं स्वमतमाह ॥ इन्द्रियमात्रेणेति । अत्र सर्वाऽपि भेदवासना भेदमतव्युत्पादनावसरे उक्ता । ज्ञप्तौ तु विशेषमाह ॥ तथा ज्ञानमिति ॥ साक्षिणैवेति । इदमात्राकूतम् । लौकिके ज्ञानं न स्वप्रकाशं नाप्यनुमेयमित्युक्तम् । नापि मानसव्यवसायगम्यम् । अनवस्थापत्तेः । न च सामान्यप्रत्यासत्त्या शब्दादिना वा कदाचित्सत्त्वे गोचरज्ञानसम्भवान्नैवमिति वाच्यम् । सामान्यप्रकारकज्ञानस्य वैशिष्ट्याज्ञानेऽपि स्वतन्त्रप्रमात्वे ृङ्गत्वादिसामान्ये ज्ञानस्य शशृङ्गादिप्रमाणत्वापत्तेः । विशेषप्रमाणावतारावश्यकत्वात् । तस्मान्नित्येन साक्षिणैव सर्वज्ञानग्रहणमिति वाच्यम् । स च साक्षी ग्राह्यज्ञानोपनीतविषयावच्छिन्नं तदगोचरयति । अन्यथाऽतिप्रसङ्गादिति तदुपनीतत्वाविशेषाद्विशेष्यविशेषण इव तदुभयवैशेष्यमपि गोचरयतीति मीमांसकमत इव स्वतः सर्वत्र प्रमात्वधीः । अप्रामाण्यघटकस्तु विषयो न व्यवसायोपनीत इति साक्षिवेद्य इति मतान्तरापेक्षत्वात्परतो वेद्यमुच्यते । नन्वनित्यं ज्ञानविषयताकारणं नियम्येति भवति । तत्र व्यवसायोपनयानुपनयाभ्यां विशेषः । नित्यज्ञानविषयता तु न तथा । किन्तु स्वाभाविकीति विषयसत्तामात्रमपेक्षत इत्यप्रमायामप्रमात्वमपि गृह्णीयादिति चेन्मैवम् । ज्ञानसामग्रीत्वाभिमतस्य नित्यज्ञानसम्बन्धरूपत्वात् । अन्यथा सर्वदा सर्वव्यवहारप्रसङ्गात् । ननु साक्षिशब्देन किमात्मसमवेतं ज्ञानमुच्यते । उतात्मैव । नाद्यः । अस्मदादीनां तादृशज्ञाने मानाभावात् । व्यवहारस्य लौकिकज्ञानाधीनत्वात् । नान्त्यः । आत्मनो ज्ञानरूपतायां मानाभावात् । जानाम्यहं न तु ज्ञानमेवाहमिति सर्वेषामबाधितानुभवात् । न च ज्ञानव्यवहारस्योक्तदोषैः प्रकारान्तरेणासम्भवात्तदर्थं स्वप्रकाशज्ञानात्मकत्वमात्मन इति वाच्यम् । तथा सति ग्राह्यज्ञानानामेवान्यथाऽनुपपत्तिसमाधाने स्वप्रकाशताकल्पनौचित्याद् इति । उच्यते । आत्मनः कदाऽपि संशयविपर्ययागोचरत्वात्स्वत्प्रकाशज्ञानरूपत्वं वाच्यम् । अनित्यज्ञानान्तरवेद्यत्वे तदभावे संशयाद्यापत्तेः । न च सुखादिन्यायस्तत्रापि साक्षिसिद्धमेव । संशयविरोधित्वात् । घटादिव्यवहारस्तु न साक्षिमात्रादिति तत्र संशयः । न च सुखादिवद्वेद्यत्वे न संशयादिविषयत्वम् । जीवात्मनो नित्यत्वाज्ज्ञानाधारत्वाच्च तदनुपपत्तेः । किञ्च श्रुतिरप्यत्र मानम् । यद्द्वैतं न पश्यति पश्यन्नेव तं पश्यति । न हि द्रष्टृदृष्टेर्विपरिलोपो विद्यत इति श्रुत्या विशेषविज्ञानाभावेऽपि नित्यस्वरूपविज्ञानावगतेः । विज्ञानमानन्दं ब्रह्मेति । अयं पुरुषः स्वयंज्योतिरिति च श्रुतिरित्यत आह ॥ अप्रमाणज्ञानस्येति । मात्रपदेन प्रामाण्यव्यवच्छेदः । यद्यपीदं परमात्मविषयं तथाऽप्यात्मनः सामान्यतस्तत्त्वे किं मानमित्यत्रैतच्छतिवाक्यमुदाहृतमिति । आत्ममात्रस्य तत्त्वे भाष्यादौ श्रुतिरवगन्तव्या । न चात्मनो ज्ञानसाधनत्वेन गौणम् । तत्र ज्योतिष्टं ज्योतिः साधनत्वस्य सर्वदा सत्त्वेनात्रेति विशेषणवैय्यर्थ्यात् । गौणत्वव्यावर्तकस्वयंशब्दविरोधाच्च । नापि परमार्थपरेयं श्रुतिः । अत्रेत्यनेन परामृष्टावस्थायास्तत्रासम्भवात् । अयमिति प्रत्यक्षनिर्देशानुपपत्तेश्च । घटं जानामीत्यादिप्रत्ययस्तु साक्षिरूपान्तःकरणविषयकः । नित्यं साक्षिसत्वेऽपि कदाचिद्घटाद्यव्यवहारेण तस्यावश्यकत्वात् । नन्वेवं साक्षी एवानुव्यवसायरूपस्य प्रामाण्यग्राहकत्वे तस्य भ्रमत्वासम्भवादप्रमायां प्रमात्वग्रहानुपपत्तिः । अत एव तत्र मनोवृत्त्यन्तरस्यैव ग्राहकत्वं न तु साक्षिण इत्यभ्युपगमात् । न चैवं प्रमायामपि तदेवास्तु किमर्धजरतीयन्यायेनेति वाच्यम् । उक्तन्यायेन साक्षिण आवश्यकत्वात् । ज्ञाने प्रामाण्ये वा ज्ञानधाराभ्युपगमेऽनवस्थापत्तेरित्याशयः । नन्वेवं प्रमात्ववदप्रमात्वमपि साक्षिवेद्यमेवास्त्वित्यत आह ॥ तदप्रामाण्यं त्विति । अत्र च वासना प्रागुक्ता । अत एव तत्र कदाचित्सन्देहेऽपि साक्षिवेद्यत्वे तु सुखादाविव स न स्यादिति भावः । नन्वेवं साक्षिवेद्यतया प्रमात्वे सन्देहो न स्यादिति चेन्न । दोषाभावरूपग्राहकसामग्य्राः साक्षिसम्बन्धत्वाभिधानेन सर्वसामञ्जस्यात् । यद्यप्यन्तरर्थे ज्ञानसुखादौ न साक्षिणः प्रत्यासत्त्यन्तरापेक्षा । तथाऽपि बहिरर्थघटितत्वात्प्रामाण्ये तथात्वेऽपि न काऽप्यनुपपत्तिरिति ।

श्रीवेदेशभिक्षु

नन्वेषां सप्रमाणानां प्रामाण्यस्याप्रमाणानामप्रामाण्यस्य चोत्पत्तिज्ञप्त्योर्निरूपयितुमशक्यत्वेन निश्चये एवं भूतैरित्यादिना वक्ष्यमाणप्रमाणाभिन्नतया निश्चितप्रामाण्यकप्रमाणसाध्यो नित्यानित्यत्वादिनिश्चयोऽनुपपन्न इति तटस्थः शङ्कते ॥ नन्विति । केनोत्पद्यत इति । न केनापीत्यर्थः । एवमग्रेऽपि । न तावत्प्रामाण्याप्रामाण्ये ज्ञानगते तत्कारणमात्रजन्ये । तर्हि सर्वत्रापि ज्ञाने तदुभयापत्तेः । नाप्यतिरिक्तकारणजन्ये । तदनिरूपणात् । प्रमामात्रे अनुगतस्यैकस्य गुणस्याप्रमामात्रेऽनुगतस्यैकस्य दोषस्य चाभावाच्चेति भावः ॥ केन वेति । न ज्ञानग्रहणमात्रेण । तदुभयसंशयानुपपत्तेः । नापि तद्ग्राहकातिरिक्तेनानवस्थानादिति भावः । अत्र समाधानं वक्तुं तावदन्यसमाधानानि तेषां हेयताज्ञापनायानुवदति ॥ तत्रेत्यादिना ॥ स्वत एवेति । उत्पत्तौ ज्ञप्तौ चेत्यर्थः । उत्पत्तौ स्वतस्त्वं निर्वक्ति ॥ ज्ञानजनकेति । प्रमातदितरसाधारणधर्मावच्छिन्नकार्यतानिरूपितकारणताश्रयातिरिक्तानपेक्षत्वमित्यर्थः । अन्यथा गुणदोषयोरपि ज्ञानजनकत्वेन परतस्त्वपक्षसाधारण्यापत्तेरिति ध्येयम् । ज्ञप्तौ तन्निर्वक्ति ॥ ज्ञानज्ञापकेति । अत्र ज्ञानज्ञापकपदेन ग्राह्यप्रामाण्याश्रयविषयकाप्रतिबद्धानुव्यवसायो विवक्षितः । तदतिरिक्तं प्रामाण्यानुमित्यादिरूपं प्रतिबद्धानुव्यवसायरूपं च तदनपेक्षत्वं तदग्राह्यमिति नञ्द्वयेनोक्तानुव्यवसायत्वं लक्ष्यते । तथा चाप्रतिबद्धयावत्स्वाश्रयग्राहकानुव्यवसायग्राह्येव पर्यवस्यति । नञ्द्वयगर्भतयोक्तिस्तूपपादनाय । यथाश्रुते प्रामाण्यानुमितेरपि ज्ञानग्राहकत्वेन तदतिरिक्तानपेक्षत्वस्य न्यायमतसाधारण्येन सिद्धसाधनतापत्तेरिति ध्येयम् । अत्र ग्राह्यप्रामाण्यस्याप्रामाण्यशङ्कादिना प्रतिबद्धानुव्यवसायग्राह्यत्वाभावेन बाधवारणायाप्रतिबद्धेति विशेषणम् । न्यायमतेऽप्यनुव्यवसायविशेषग्राह्यत्वं प्रामाण्यस्याप्यस्तीति सिद्धसाधनतावारणाय यावदित्यनुव्यवसायविशेषणम् । ग्राह्यप्रामाण्ये यावदित्यनुव्यवसायग्राह्यत्वस्य बाधितत्वात् । स्वाश्रयग्राहकेति स्वाश्रयग्राहकज्ञानमात्रविवक्षायां ज्ञानं गुणो घटज्ञानमित्यादिशब्दजन्यस्वाश्रयविषयकज्ञानग्राह्यत्वाभावेन पुनर्बाध एव ततोऽनुव्यवसाय इति । अनुव्यवसायशब्देन च प्रत्यक्षमेव विवक्षितमतो न कोऽपि दोष इति । अत्रेदमस्वरसबीजम् । प्रामाण्याप्रामाण्ययोर्ज्ञानकारणमात्रजन्यत्वे एकत्रैव ज्ञाने तयोरुत्पत्त्या तद्विषये वैरूप्यं स्यात् । न च यदा ज्ञानकारणं गुणोपेतं तदा तत्र प्रामाण्यमेवोत्पद्यते । अप्रामाण्यजननशक्तेर्गुणेन प्रतिबन्धात् । एवं यदा दोषोपेतं तदाऽप्रामाण्यमेव दोषेण प्रामाण्यजननशक्तिप्रतिबन्धादिति वाच्यम् । ज्ञाने उभयाकारयोरिव करणेऽपि तदुभयाकारजनन शक्त्योर्विरुद्धत्वेन युगपदङ्गीकर्तुमुचितत्वात् । वेदेऽप्रामाण्यजननशक्तिप्रतिबन्धकगुणनिरूपणाच्च । एवं तयोर्ज्ञानग्राहकमात्रग्राह्यत्वे एकत्रैव ज्ञाने उभयग्रहापत्त्या न कुत्रापि निःशङ्कव्यवहारादिकं स्यात् । तदुभयसंशयश्च क्वापि न स्यादित्यादिकं द्रष्टव्यम् । नैयायिकादय इत्यादिपदेन वैशेषिकाणां ग्रहणम् । उत्पत्तौ परतस्त्वं निर्वक्ति ॥ ज्ञानेति । प्रमाप्रमासाधारणधर्मावच्छिन्नकार्यतानिरूपितकारणताश्रयातिरिक्तकारणजन्यत्वमित्यर्थः । अतः स्वतस्त्वनयेऽपि प्रत्यक्षरूपज्ञानप्रामाण्यस्याप्यनुमितिरूपज्ञानजनकलिङ्गज्ञानातिरिक्तचक्षुर्जन्यत्वेन सिद्धसाधनतेति शङ्कानवकाशः । ज्ञप्तौ तन्निर्वक्ति ॥ ज्ञानेति । उक्तानुव्यवसायातिरिक्तप्रमाणेनैव ग्राह्यत्वमित्यर्थः । अन्यथा प्रामाण्यस्य ज्ञानग्राहकानुव्यवसायातिरिक्तप्रामाण्यानुमित्यादिग्राह्यत्वं स्वतस्त्वनयेऽपीति सिद्धसाधनता स्यादिति द्रष्टव्यम् । उत्पत्तौ परतस्त्वमुपपादयति ॥ तत्रेति । ज्ञप्तौ तदुपपादयति ॥ एवमिति । अत्र प्रामाण्यस्योत्पत्तिज्ञप्त्योः परतस्त्वं युक्तम् । प्रामाण्यस्य चोत्पत्तौ परतस्त्वं तावन्न युक्तम् । अनित्यप्रमामात्रेऽनुगतगुणाभावात् । न च प्रत्यक्षप्रमायां भूयोऽवयवेन्द्रियसन्निकर्षस्यानुमितिप्रमायां सल्लिङ्गपरामर्शस्य शब्दप्रमायामाप्तोक्तत्वस्य गुणत्वं सम्भवतीति वाच्यम् । पीतः शङ्ख इति भ्रमस्थले भूयोऽवयवेन्द्रियसन्निकर्षेऽपि श्वैत्यप्रमानुदयात् । दोषस्य प्रतिबन्धकत्वे चावश्यकत्वाद्दोषाभावसहकृतेन्द्रियादेव प्रमाऽस्तु । गन्धप्रागभावावच्छिन्ने घटे गन्धवान्पृथिवीत्वादित्यत्र सल्लिङ्गपरामर्शसत्त्वेऽप्यनुमितिप्रमाभावेन न तस्यापि गुणत्वम् । बाधस्य तत्र प्रतिबन्धकत्वे च दोषाभावसहकृतानुमितिसामान्यसामग्रीत एवानुमितिप्रमाऽस्तु । किमसाधारणगुणेन । बाधाभावस्य च विषयसत्त्वा पर्यवसन्नस्य प्रमामात्रसाधारण्येनानुमितिप्रमामात्रे गुणत्वासम्भवात् । संवादिशुकबालादिवाक्यजप्रमायामाप्तोक्तत्वगुणाभावेनाप्रमात्वापातात् । ईश्वरसिद्धेश्च प्रमाया गुणजन्यसिद्ध्युत्तरकालीनत्वेन नेश्वररूपात्तमादाय तत्रोक्तदोषपरिहारः । प्रकारन्तरेणेश्वरसिद्धावपि तज्ज्ञानादेराप्त्यन्तर्गतस्य जन्यमात्र साधारण्येन शब्दः प्रमायामसाधारण्ये मानाभावाच्च । शाब्दप्रमायां योग्यतैव गुण इति चेत् । अर्थरूपयोग्यताया प्रमामात्रसाधारण्यादसाधारण्येन योग्यतानिर्वचनेऽपि मदिष्टवेदापौरुषेयत्वाविरोधित्वेन त्वदिष्टेश्वरसिद्ध्यननुगुणत्वेन चैवंविधगुणजन्यत्वस्य साधनेऽर्थान्तरत्वापातात् । तस्मात्प्रामाण्यस्य नोत्पत्तौ परतस्त्वम् । नापि ज्ञप्तौ । संवादादिरूपहेत्वभावेऽपि सुखादिज्ञानप्रामाण्यग्रहणात् । बाह्यार्थज्ञानप्रामाण्यग्रहणेऽपि संवादादेरप्रामाण्यशङ्कानिरासोपक्षीणत्वेन न हेतुत्वम् । संवादादिनाऽप्रामाण्यशङ्कापगमेऽप्रामाण्येऽनुव्यवसायग्राह्यत्वस्यानुभवसिद्धत्वात् । अन्यथाऽनवस्थानात् । प्रतिबद्धानुव्यवसायेन प्रामाण्यग्रहणेन संशयोपपत्तेरप्रतिबद्धतद्ग्राह्यत्वस्यैव स्वतस्त्वशब्दार्थत्वेनोक्तत्वादित्यादिबाधकमाविष्करोति । नैयायिका इत्यनेन बौद्धपक्षेऽप्यप्रामाण्यस्य स्वतस्त्वे सर्वत्राविश्वासेन निःशङ्कव्यवहारविलोपः प्रामाण्यपरतस्त्वे चानवस्थेति दूषणं स्फुटमेवेति नोक्तम् ॥ अङ्गीकुर्वाणा अपीति । अनेनायमेव स्वपक्षस्तदाऽयमुपपादनमेव न सम्मतमिति सूचयति ॥ ज्ञातताविशेषणेनेति । प्रमाहिततज्ज्ञानमेवेत्यर्थः । अत्रापि ज्ञानातिरिक्तं ज्ञातताया अप्रामाणिकत्वं प्रामाण्यसिद्धौ प्रमाहिततज्ज्ञानतासिद्धिस्तत्सिद्धौ चासिद्धिरित्यन्योन्याश्रयत्वं चेत्यादि बाधकं च द्रष्टव्यम् । प्राभाकरमते तु वृत्तिज्ञानस्य जडत्वेन स्वप्रकाशत्वानुपपत्तिः । अप्रामाण्यस्य बाधबोध्यस्यापलापायोगश्चेत्यरुचिर्द्रष्टव्या । पूर्वं सूचिते स्वमते तावत्प्रामाण्यस्योत्पत्तौ स्वतस्त्वमुपपादयति ॥ इन्द्रियादीति । अकिञ्चित्करा उक्तरीत्या व्यभिचारादिति भावः । अप्रामाण्यस्योत्पत्तौ परतस्त्वं स्वयमुपपादयति ॥ अप्रामाण्यादिति । अव्यभिचारादिति भावः । प्रामाण्यस्य ज्ञप्तौ स्वतस्त्वं स्वयमुपपादयति ॥

तथेति । निरुक्तानुव्यवसाय एवास्मन्मते साक्षिरूप इति भावः ॥ साक्षिणैवेति । साक्षी ज्ञायत एवेत्यर्थः । तेनानुमित्यादिनाऽपि प्रामाण्यग्रहणेन यथाश्रुतमयुक्तमिति शङ्कानवकाशः । अप्रामाण्यस्य ज्ञप्तौ परतस्त्वमुपपादयति ॥ अप्रामाण्येति । अनुमेयमिति तु सम्भवादिनेति शेषः । इदं क्वाचिक्त्वाभिप्रायेण । वस्तुतस्तु विसंवादिसापेक्षसाक्षिविषयत्वमप्रामाण्यस्य । न चैवं स्वतस्त्वापत्तिः । साक्षिणाऽप्रामाण्यग्रहणनियमेन विसंवादापेक्षणात्तस्य परतस्त्वोपपत्तेः । न तु सर्वत्रानुमेयमेवाप्रामाण्यम् । भ्रमत्वमभ्रमत्वं च यदैवानुभवोपगममित्याचार्योक्तेः । विसंवादिसापेक्षसाक्षिवेद्यत्वस्य टीकाकारैरेवात्र कथितत्वाच्च ॥ आचार्या इति । प्रामाण्यं च स्वत एव परतोऽप्रामाण्यमित्यादितदुक्तिरिति भावः ।

अभिनवामृतं

नन्वेतेषां प्रमाणमिति ज्ञानानां याथार्थ्यलक्षणं प्रामाण्यं केनोत्पद्यते केन वा ज्ञायते । अप्रमाणानां ज्ञानानामयथार्थत्वं केनोत्पद्यते केन वा ज्ञायत इत्यर्थः ॥ उच्यत इति । हेयताज्ञापनाय परमतमनूद्योपादानताज्ञापनायाचार्यमतानुवादेन समाधानमुच्यत इत्यर्थः । एतेनोच्यत इति प्रतिज्ञाय तन्मतानुवादो न युक्त इति परास्तम् ॥ तत्र ज्ञानानामिति । भ्रान्तवाक्यादिजन्यज्ञानाप्रमाणस्य स्वतस्त्वसम्भवेऽपि न वेदादिजन्यविभ्रमाप्रमाणस्य स्वतस्त्वं सम्भवति । वेदानामप्रामाण्यप्रसङ्गात् । ततश्च साङ्ख्यमतमयुक्तमिति भावः ॥ उभयं परत एवेति । इन्द्रियादीनामप्रामाण्यजननशक्तेरिव प्रामाण्यजननशक्तेरपि स्वाभाविकत्वाभावप्रसङ्गात् । इन्द्रियादिकं प्रमाणमेव नाप्रमाणमिति न स्यादिति तन्मतमयुक्तमिति भावः ॥ अप्रामाण्यं स्वत इति बौद्धा इति । तथा सति प्रत्यक्षानुमानयोरप्रामाण्यस्यैवोचितत्वेन प्रामाण्याङ्गीकारायोगात् तन्मतमयुक्तमिति भावः । ज्ञातताविशेषेणानुमेयमिति ज्ञानव्यतिरिक्तायां ज्ञाततायां प्रमाणाभावेन तन्मतमयुक्तमिति भावः । अप्रामाण्यं तु नास्त्येवेति । अप्रामाण्यस्य स्वानुभवसिद्धत्वात्तन्मतमप्रामाणिकमेवेति भावः ॥ इन्द्रियादिमात्रेणैवेति ॥ ज्ञानमिति । ज्ञानं गृह्णन्साक्षी प्रमाणमेव निर्धारयतीति भावः । नन्विदं सुधाविरुद्धम् । तथा हि । अत्रैषा प्रक्रिया सर्वमपि ज्ञानं साक्षी गृह्णाति । यदाऽस्य बाधो भविष्यति तदैतदप्रमाणं न चेत्प्रमाणमेवेति तत्प्रामाण्यमपि गृह्णाति । सति प्रयोजने प्रामाण्यादिजिज्ञासायां परीक्षामनुसृत्य प्रामाण्यं व्यवस्थापयति । अलाभे तु परीक्षाया विशेषावधारणात्तदुदास्त इति परीक्षारूपज्ञानस्य संशयात्मकत्वाभिधानादिति चेन्मैवम् । सुधार्थापरिज्ञानात् । तथा हि । इयमत्र सुधावाक्ययोजना । सर्वमपि ज्ञानमिति प्रमाणमप्रमाणं चोभयविधं ज्ञानं साक्षी गृह्णाति । इयांस्तु विशेषः । यद्यस्य गृह्यमाणस्य ज्ञानस्य फलान्तरे बाधो भविष्यति तदा तज्ज्ञानमप्रमाणमिति हेतोर्ज्ञानमित्येव गृह्णाति । न तु प्रमाणमिति विषयाभावात् । न हि चक्षुर्घटग्रहणसमर्थमित्येतावता गटाभाववति घटं गृह्णाति । येन साक्षी बाधकज्ञाने प्रामाण्यं गृह्णीयात् । न चेद्गृह्यमाणस्य बाधो भविता तर्हि प्रमाणमेकं ज्ञानमिति तत्प्रामाण्यं गृह्णातीत्यर्थः । अवश्यं चैतदेवं विज्ञेयम् । अस्य वाक्यस्य साक्ष्याकारप्रदर्शनत्वेन चेत्प्रमाणमेवेति गृह्णातीत्येतावता पूर्णत्वेन प्रामाण्यमपीति पदयोर्वैयर्थ्यापातात् । भाविबाधकशून्यं प्रमाणं सर्वविज्ञानं खटिति नियमेन प्रामाण्यतया गृह्णाति । किन्तु क्वचिद्विशेषोऽप्यस्तीत्याह ॥ सति प्रयोजन इति । प्रमाणभूतज्ञानग्रहणसमये दोषवशात्प्रामाण्यग्रहणशक्तौ प्रतिबद्धायां ज्ञानमात्रं गृहीत्वा सति प्रयोजने परीक्षामनुसृत्य प्रामाण्यं व्यवस्थापयति । न चेदुदास्त इत्यर्थ इति । तदुक्तं तत्त्वनिर्णयटीकायाम् । साक्ष्येव ज्ञानं तत्प्रामाण्यं च विषयीकर्तुं क्षमः । किन्तु कारणान्तरोपनिपातजेन मानसापराधेन प्रतिबद्धो ज्ञानमात्रं गृहीत्वा प्रामाण्यग्रहणस्य नेष्टे । यथा स्वयमेव गतिसमर्थो गजः

गोक्षुरकादिना प्रतिबद्धो न चलितुं क्षमते । तत्र युक्त्यनुसन्धानरूपपरीक्षावसरः । सा च बुद्धिदोषमात्रं निरस्यति । तस्मिन्निरस्ते साक्षी स्वमहिम्नैव प्रामाण्यं गोचरयति । यद्गोक्षुरकाद्यपसरणे स्वयमेव गजो गच्छतीति ॥ तदनुमेयमिति । उपलक्षणमेतत् । बाधादिसहकार्यवशात्साक्षिणाऽपि गृह्यत इति ग्राह्यम् ।

आदर्शः

॥ ज्ञानज्ञापकातिरिक्तेति । ज्ञानविषयकज्ञानजनकातिरिक्तानपेक्षज्ञानविषयत्वमित्यर्थः । यद्यप्यप्रामाण्यस्याप्येतादृशस्वतस्त्वमस्ति । अप्रामाण्यज्ञानस्य नियमेन ज्ञानविषयकत्वेनाप्रामाण्यज्ञानजनकस्य ज्ञानज्ञापकातिरिक्तत्वाभावात् । न चाप्रामाण्यादिपदादप्रामाण्योपस्थितिर्ज्ञानाविषयिणी सम्भवतीति ज्ञानज्ञापकातिरिक्तजन्यज्ञानविषयत्वरूपं स्वतस्त्वं न सम्भवतीति न वाच्यम् । तर्हि प्रामाण्यपदात्प्रामाण्योपस्थितेरपि तादृश्या जनात्प्रामाण्यस्यापि तदनुपपत्तिः । यदि च प्रामाण्यपदार्थघटकतया ज्ञानभानमस्तीत्युच्यते तर्ह्यप्रामाण्येऽपि तथा तथाऽपि ज्ञानज्ञापकातिरिक्तानपेक्षसिद्धिकत्वमित्यर्थः । प्रामाण्यपदादिना प्रामाण्यसिद्धिः प्राथमिकज्ञानेनैव तत्सिद्धेः । तथा च ज्ञानविषयकं यत्प्राथमिकं ज्ञानं तद्विषयत्वं स्वतस्त्वपदार्थो ज्ञानविषयकं प्राथमिकं ज्ञानम् । परमतेऽनुव्यवसायो मानसः । भाट्टमते ज्ञाततालिङ्गकानुमितिः । अस्मन्मते साक्षी तद्विषयत्वमादाय पर्यवसितो भवति । साक्षिणो नित्यत्वेऽपि विशेषबलाज्ज्ञानात्मना व्यक्तिः । तत्र स्वस्यैव प्रयोजनकत्व मित्यादिकं वर्तत एव । जन्यत्वं जनकत्वं तत्साधारणमेव निवेश्यमिति न दोषः । अप्रामाण्यस्य दोषजन्यत्वादिलिङ्गेनैव सिद्ध्या नोक्तस्वतस्त्वम् । स्वतस्त्वं साक्षिविषयमित्युक्तौ परमतेऽप्रसिद्धिः । साक्षिणोऽङ्गीकारात् । प्रत्यक्षविषयत्वमित्युक्तौ भाट्टमतेऽप्रसिद्धिः । तन्मते ज्ञानस्यातीन्द्रियत्वात् । अतः प्राथमिकज्ञानत्वेन निवेशः । प्राथमिकत्वं च स्वविषयविषयकस्वसमानाधिकरणस्वाव्यवहितोत्तरज्ञानध्वंसाधिकरणकालानुत्पत्तिकत्वम् । तथा च प्रामाण्यस्य स्वतस्त्वं नाम स्वाश्रयविषयकस्वाश्रयसमानाधिकरणस्वाश्रयोत्तरज्ञानध्वंसाधिकरणकालाजन्यस्वाश्रयसमानाधिकरणतदुत्तरतद्विषयकज्ञानविषयत्वमिति । भाट्टमते ज्ञानानुत्पत्त्यर्थं व्याप्तिज्ञानस्यावश्यकत्वात्तदुत्तरकालाजन्यत्वं ज्ञानज्ञानरूपानुमितेर्न सम्भवतीति विशेषणकोटौ ज्ञाने स्वाश्रयविषयकत्वनिवेशः । यद्यपि ज्ञाततासामान्यं ज्ञानजन्यमिति व्याप्तिज्ञानस्य सामान्यरूपेण व्याप्तिविषयकत्वमप्यस्ति । तथाऽपि स्वाश्रयनिष्ठतद्-व्यक्तिप्रकारकत्वमित्यर्थकत्वान्न दोषः । केनापि योगेन तवोत्तरत्रैतद्विषयकज्ञानविशेषो भवतीत्युपदेशे कृते सति तेन तज्ज्ञानस्य पूर्वमेव सत्त्वात्तत्प्रामाण्ये बाधवारणाय स्वोत्तरत्वनिवेशः । तज् ज्ञानस्य तत्प्रामाण्याश्रयज्ञानोत्तरत्वाभावेन तद्ध्वंसाधिकरणकालजन्यज्ञानविषयत्वेऽपि बाधाभावात् ।

केचित्तु । स्वाश्रयविषयकमित्यस्य स्वाश्रयनिष्ठतद्-व्यक्तित्वनिष्ठानवच्छिन्नविषयताकत्वमिति वा तद्-व्यक्तिं जानामीति व्यवहारजनकमिति वाऽर्थः । एवं चोपदेशादिजन्यज्ञानस्यातादृशान्न दोष इति नोत्तरत्वं पृथङि्नवेशनीयमित्याहुः । विशेष्यीभूतज्ञाने सामानाधिकरण्यनिवेशान्नेश्वरादिज्ञानमादाय सिद्धसाधनता । तज्ज्ञाने प्रामाण्यभानरूपेष्टसिद्धये स्वाश्रयविषयकत्वनिवेशः । पूर्वोक्तपूर्वजातज्ञानमादाय प्रामाण्यविशेषे सिद्धसाधनतावारणायोत्तरत्वनिवेशः । अवच्छेदकावच्छेदेनानुमितेरुद्धेश्यत्वेऽपि तत् प्रामाण्ये उक्तस्वतस्त्वरूपेष्टसिद्धये उत्तरत्वनिवेश इति सर्वं सार्थकम् ।

वस्तुतस्तु भट्टमतसाधारणस्वतस्त्वनिरुक्तेरनावश्यकत्वाज्ज्ञानविषयकप्रत्यक्षविषयत्वमेव स्वतस्त्वं वाच्यम् । दोषशङ्कया यत्र प्रामाण्यं साक्षी न गृह्णाति तत्र कथमिति चेत् । तत्रापि सामान्यतः प्रामाण्यभानाङ्गीकारात् । न च प्रामाण्ये संशयाद्यनुपपत्तिः । यादृशज्ञानग्रहणवेलायां यत्र दोषशङ्का तत्र साक्षीयं प्रमेति न विषयीकरोति । किन्तु दोषाजन्यज्ञानसामान्यं प्रमेति सामान्यतः प्रामाण्यं गृह्णाति । इदं च ज्ञानं दोषजन्यत्वज्ञानसहकृतमेवाप्रामाण्यसन्देहादीनां निवर्तकम् । प्रवृत्त्याद्यङ्गं च न केवलमिति तज्ज्ञाने दोषाजन्यत्वज्ञानाभावात्संशयादिः प्रवृत्तिप्रतिबन्धकोऽपि भवति । यदा परीक्षाया दोषाजन्यत्वनिश्चयस्तदा तत्सहितं साक्षिरूपं सामान्यतः प्रामाण्यावगाहिज्ञानं संशयादिकं निवर्तयतीति प्रवृत्तिमप्युत्पादयति । इदमेव सम्मुग्धप्रामाण्यग्रहणमित्युच्यते । अनेनैवाभिप्रायेण तत्त्वनिर्णयादौ दोषशङ्कारूपप्रतिबन्धकाभावे स्वमहिम्नैव साक्षी प्रामाण्यं गृह्णातीत्युक्तम् । यदा दोषजन्यत्वज्ञानं नास्ति तदा कार्याक्षमत्वादगृहीतप्रायमेव । यदा तु तज्ज्ञानं तदा कार्यक्षमत्वाद्गृह्णातीत्युच्यते । तज्ज्ञानं प्रामाण्यमित्यादिव्यवहारोऽपि भवति । न च सर्वत्रैवमेव सम्मुग्धप्रामाण्यमेव गृह्यतामिति शङ्क्यम् । दोषास्फूर्तिदशायां दोषजन्यत्वावच्छेदेन प्रामाण्यग्रहणासम्भवात् । तज्ज्ञानव्यक्तावेव प्रामाण्यं गृह्णाति । यत्र तत्स्फूर्तिस्तत्र प्रामाण्यग्रहणस्वभावत्वात्साक्षी सम्मुग्धं प्रामाण्यं गृह्णाति । यत्र दोषनिश्चयस्तत्र सहकारिसामर्थ्यादप्रामाण्यग्रहणानुकूला शक्तिरुत्पद्यते । भर्जनेन वेत्रबीजेषु कदलीकाण्डजनानुकूलशक्तिवत् । तथा चेदमप्रमाणमिति गृह्णाति । इत्थं चाज्ञायमानप्रामाण्यं नास्त्येव । किन्त्वप्रामाण्यादिसंशयनिवृत्तिप्रवृत्यादिस्वरूपयोग्यप्रत्यक्षविषयत्वं वर्तत एवेति न कोऽपि दोषः । स्वतस्त्वसाधनेऽनुमितिप्रामाण्यस्य स्वतस्त्वाङ्गीकारात्सिद्धसाधनतेति न शङ्क्यम् । तदतिरिक्तप्रामाण्यानां पक्षीकरणात् । प्रामाण्यस्योत्पत्तौ ज्ञप्तौ च स्वतस्त्वमेवाप्रामाण्यस्य परतस्त्वमेवेत्यत्र साधकान्यत्रोक्तानि बाधकानि चोद्धृतानि ।